नारदपुराणम्- उत्तरार्धः/अध्यायः ५०
वसुरुवाच ।।
अतः परं प्रवक्ष्यामि यात्राकालं तु मोहिनि ।।
देवाद्यैस्तु कृता या तु यथायोग्यफलाप्तिदा ।। ५०-१ ।।
चैत्रमासे तु दिविजैर्यात्रेयं विहिता पुरा ।।
तत्रस्थैः कामकुंडे तु स्नानपूजनतत्परैः ।। ५०-२ ।।
ज्येष्ठमासे तु वै सिद्धैः कृता यात्रा शुभानने ।।
रुद्रावासस्य कुंडे तु स्नानपूजापरायणैः ।। ५०-३ ।।
आषाढे चापि गंधर्वैर्यात्रेयं विहिता शुभैः ।।
प्रियादेव्यास्तु कुंडे वै स्नानपूजनकारकैः ।। ५०-४ ।।
विद्याधरैस्तु यात्रेयं श्रावणे मासि मोहिनि ।।
लक्ष्मीकुंडस्थितैश्चीर्णा स्नानार्चनपरायणैः ।। ५०-५ ।।
मार्कंडेयह्रदस्थैस्तु स्नानपूजनतत्परैः ।।
कृता यक्षैस्तु यात्रेयमिषमासे वरानने ।। ५०-६ ।।
पन्नगैश्चैव यात्रेयं मार्गमासे तु मोहिनि ।।
कोटितीर्थस्थितैश्चीर्णा स्नानपूजाविधायकैः ।। ५०-७ ।।
कपालमोचनस्थैस्तु गुह्यकैः शुभलोचने ।।
पौषे मासि कृता यात्रा स्नानध्यानार्चनान्वितैः ।। ५०-८ ।।
कालेश्वराख्यकुंडस्थैः फाल्गुने मासि शोभने ।।
पिशाचैस्तु कृता यात्रा स्नानपूजादितत्परैः ।। ५०-९ ।।
फाल्गुने तु शुभे मासे सिते या तु चतुर्दशी ।।
तेन सा प्रोच्यते देवि पिशाची नाम विश्रुता ।। ५०-१० ।।
अथ ते संप्रवक्ष्यामि यात्राकृत्यं शुभानने ।।
कृतेन येन मनुजो यात्राफलमवाप्नुयात् ।। ५०-११ ।।
उदकुंभास्तु दातव्या मिष्टान्नेन समन्विताः ।।
फलपुष्पसमोपेता वस्त्रैः संछादिताः शुभाः ।। ५०-१२ ।।
चैत्रस्य शुक्लपक्षे तु तृतीया या महाफला ।।
तत्र गौरी तु द्रष्टव्या भक्तिभावेन मानवैः ।। ५०-१३ ।।
स्नानं कृत्वा तु गंतव्यं गोप्रेक्षे तु वरानने ।।
स्वर्द्वारि कालिकादेवी अर्चितव्या प्रयत्नतः ।। ५०-१४ ।।
अन्या चापि परा प्रोक्ता संवर्ता ललिता शुभा ।।
द्रष्टव्या चैव सा भक्त्या सर्वकामफलप्रदा ।। ५०-१५ ।।
ततस्तु भोजयेद्विप्राञ्छिवभक्ताञ्छुचिव्रतान् ।।
वासोभिर्द्दक्षिणाभिश्च पुष्कालभिर्यथार्हतः ।। ५०-१६ ।।
पंचगौरीः समुद्दिश्य रसान् गंधान्द्विजेऽर्पयेत् ।।
उत्तमं श्रेय आप्रोति सौभाग्येन समन्वितः ।। ५०-१७ ।।
विनायकान्प्रवक्ष्यामि क्षेत्रावासे तु विघ्नदान् ।।
यान्संपूज्य नरो देवि निर्विघ्नेन फलं लभेत् ।। ५०-१८ ।।
ढुण्ढिं तु प्रथमं दृष्ट्वा तथा किलविनायकम् ।।
देव्या विनायकं चैव गोप्रेक्षं हस्तिहस्तिनम् ।। ५०-१९ ।।
विनायकं तकथैवान्यं सिंदूर्यं नाम विश्रुतन् ।।
चतुर्थ्यां देवि द्रंष्टव्या एवं चैव विनायकाः ।। ५०-२० ।।
लड्डुकाश्च प्रदातव्या एतानुद्दिश्य वाडवे ।।
एतेन चैव कृत्येन सिद्धिमाञ्जायते नरः ।। ५०-२१ ।।
अतः परं प्रवक्ष्यामि चंडिकाः क्षेत्ररक्षिकाः ।।
दक्षिणे रक्षते दुर्गा नैर्ऋते चांतरेश्वरी ।। ५०-२२ ।।
अंगारेशी पश्चिमे तु वायव्ये भद्रकालिका ।।
उत्तरे भीमचंडा च महामत्ता तथैशके ।। ५०-२३ ।।
ऊर्द्ध्वकेशीसमायुक्ताशांकरी पूर्वतः स्मृता ।।
अधः केशी तथाग्नेय्यां चित्रघंटा च मध्यतः ।। ५०-२४ ।।
एतास्तु चंडिकादेवीर्यो वै पश्यति मानवः ।।
तस्य तुष्टाश्च ताः सर्वाः क्षेत्रं रक्षति तत्पराः ।। ५०-२५ ।।
विघ्नं कुर्वंति सततं पापिनां देवि सर्वदा ।।
तस्माद्देव्यः सदा पूज्या रक्षार्थे सविनायकाः ।। ५०-२६ ।।
यदीच्छेत्परमां सिद्धिं संततिं विभवं सुखम् ।।
ततो भक्त्या गंधपुष्पनैवेद्यादीन्समर्प्पयेत् ।। ५०-२७ ।।
अन्यच्च ते प्रवक्ष्यामि तस्मिन्स्थाने सुलोचने ।।
तिस्रो नद्यस्तु तत्रस्था वहंति च शुभोदकाः ।। ५०-२८ ।।
तासां दर्शनमात्रेण ब्रह्महत्या निवर्तिते ।।
एका तु तत्र त्रिस्रोता तथा मंदाकिनी परा ।। ५०-२९ ।।
मत्स्योदरी तृतीया च एतास्तिस्रतु पुण्यदाः ।।
मंदाकिनी तत्र पुण्या मध्यमेश्वरसंस्थिता ।। ५०-३० ।।
संस्थिता त्रिस्रोतिका च अविमुक्तेति पुण्यदा ।।
मत्स्योदरी तु ॐकारे पुण्यदा सर्वदैव हि ।। ५०-३१ ।।
तस्मिन्स्थाने यदा गंगा आगमिष्यति मोहिनी ।।
तदा पुण्यतमः कालो देवानामपि दुर्लभः ।। ५०-३२ ।।
वरणासिक्तसलिले जाह्नवीजलविप्लुते ।।
तत्र नादेश्वरे पुण्ये स्नातः किमनुशोचति ।। ५०-३३ ।।
मत्स्योदरीसमायुक्ता यदा गंगा बभूव ह ।।
तस्मिन्काले शिवः स्नानात्कपालं मुक्तवाञ्छुभे ।। ५०-३४ ।।
कपालमोचनं नाम तत्रैव सुमहत्सरः ।।
पावनं सर्वसत्त्वानां पुण्यदं परिकीर्तितम् ।। ५०-३५ ।।
मत्स्योदरीजले गंगा ॐकारेश्वरसन्निधौ ।।
तदा तस्मिञ्जले स्नात्वा दृष्ट्वा चोंकारमीश्वरम् ।। ५०-३६ ।।
शोकं जरां मृत्युबंधं ततो न स्पृशते नरः ।।
तस्मिन्स्रातः शिवः साक्षादोंकारेश्वरसंज्ञितः ।। ५०-३७ ।।
एतद्रहस्यमाख्यातं तव स्नेहाद्वरानने ।।
अकारं चाप्युकरं च मकारं च प्रकीर्तितम् ।। ५०-३८ ।।
अकारस्तत्र विज्ञेयो विष्णुलोकगतिप्रदः ।।
तस्य दक्षिणपार्श्वे तु उकारः परिकीर्तितः ।। ५०-३९ ।।
तत्र सिद्धिं परां प्राप्तो देवाचार्यो बृहस्पतिः ।।
ॐकारं तत्र विज्ञेयं ब्रह्मणः पदमव्ययम् ।। ५०-४० ।।
तयोस्तथोत्तरे भागे मकारं विष्णुसंज्ञितम् ।।
तस्मिँल्लिंगे तु संसिद्धः कपिलर्षिर्महामुनिः ।। ५०-४१ ।।
वाराणसीमभ्युपेत्य पंचायतनमुत्तमम् ।।
आराध्यमानो देवशं भीष्मस्तत्र स्थितोऽभवत् ।। ५०-४२ ।।
तस्मिन्स्थाने तु सुभगे स्वयमाविरभूच्छिवः ।।
गोप्रेक्षक इति ख्यातः संस्तुतः सर्वदैवतैः ।। ५०-४३ ।।
गोप्रेक्षेश्वरमागत्य दृष्ट्वाभ्यर्च्य च मानवः ।।
न दुर्गतिमवाप्नोति कल्मषैश्च विमुच्यते ।। ५०-४४ ।।
वनस्था दह्यमानास्तु सुरभ्यो दाववह्निना ।।
म्रमंत्योऽस्मिन्ह्रदेऽभ्येत्य शांतास्तोयं पपुस्तदा ।। ५०-४५ ।।
कपिला ह्रद इत्येवं ततः प्रभृति कथ्यते ।।
तत्रापि स शिवः साक्षाद्वषध्वज इति स्मृतः ।। ५०-४६ ।।
सान्निध्यं कृतवान्देवो दृश्यमानः सदा स्थितः ।।
कपिलाह्रदतीर्थेऽस्मिन्स्नात्वा संयतमानसः ।। ५०-४७ ।।
वृषध्वजं शिवं दृष्ट्वा सर्वयज्ञफलं लभेत् ।।
स्वर्लोकतां मृतस्तत्र पूजयित्वा शिवो भवेत् ।। ५०-४८ ।।
लभते देहभेदेन गणत्वं चातिदुर्लभम् ।।
अस्मिन्नेव प्रदेशे तु गावो वै ब्रह्मणा स्वयम् ।। ५०-४९ ।।
शांत्यर्थं सर्वलोकानां सर्वान्पावयितुं ध्रुवम् ।।
भद्रदोहं सरस्तत्र पुण्यं पापहरं शुभम् ।। ५०-५० ।।
तस्मिन्स्थाने नरः स्नातः साक्षाद्वागीश्वरो भवेत् ।।
शिवस्तत्र समानीय स्थापितः परमेष्ठिना ।। ५०-५१ ।।
ब्रह्मणश्चापि संगृह्य विष्णुना स्थापितः पुनः ।।
हिरण्यगर्भ इत्येवं नाम्ना तत्र स्थितः शिवः ।। ५०-५२ ।।
पुनश्चापि ततो ब्रह्मा स्वर्लोकेश्वरसंज्ञकम् ।।
स्थापयामास वै लिंगं स्वर्लीलं कारणे क्वचित् ।। ५०-५३ ।।
दृष्ट्वा वै तं तु देवेशं शिवलोके महीयते ।।
प्राणानिह पुनस्त्यक्त्वा न पुनर्जायते क्वचित् ।। ५०-५४ ।।
अनंता सा गतिस्तस्य योगिनामेव या स्मृता ।।
अस्मिन्नेव महीदेशे दैत्यो दैवतकंटकः ।। ५०-५५ ।।
व्याघ्ररूपं समास्थाय निहतो दर्पितो बली ।।
व्याघ्रेश्वर इति ख्यातो नित्यं तत्र समास्थितः ।। ५०-५६ ।।
न पुनर्दुर्गतिं याति दृष्ट्वैनममरेश्वरम् ।।
हिमवत्स्थापितं लिंगं शैलेश्वरमिति स्थितम् ।। ५०-५७ ।।
दृष्ट्वैतन्मनुजो भद्रे न दुर्गतिमवाप्नुयात् ।।
उत्पलो विदलश्चैव यौ दैत्यौ ब्रह्मणो वरात् ।। ५०-५८ ।।
स्त्रीलौल्याद्दर्पितौ दृष्ट्वा पार्वत्या निहतावुभौ ।।
सांरंगं कंतुकेनात्र तस्येदं चिह्नमास्थितम् ।। ५०-५९ ।।
दृष्ट्वैतन्मनुजो लिंगं ज्येष्ठस्थानं समाश्रितम् ।।
न शोचति पुनर्भद्रे सिद्धो जन्मनि जन्मनि ।। ५०-६० ।।
समंतात्तस्य देवैस्तु लिंगानि स्थापितानि च ।।
दृष्ट्वा च तानि वै मर्त्यो देहभेदे गणो भवेत् ।। ५०-६१ ।।
नदी वारायणसी चेयं पुण्या पापप्रणाशिनी ।।
क्षेत्रमेतदलंकृत्य जाह्नव्या सह संगता ।। ५०-६२ ।।
स्थापितं संगमे चास्मिन्ब्रह्मणा लिंगमुत्तमम् ।।
संगमेश्वरमित्येव ख्यातं जगति दृश्यताम् ।। ५०-६३ ।।
संगमे देवनद्योश्च यः स्नात्वा मनुजः शुभे ।।
अर्चयेत्संगमेशानं तस्य जन्मभयं कुतः ।। ५०-६४ ।।
स्थापितं लिंगमेतच्च शुक्रेण भृगुसूनुना ।।
नाम्ना शुक्रेश्वरं भद्रे सर्वसिद्धामरार्चितम् ।। ५०-६५ ।।
दृष्ट्वैतन्मानवः सद्यो मुक्तः स्यात्सर्वकिल्बिषैः ।।
मृतश्च न पुनर्जन्म संसारे लभते नरः ।। ५०-६६ ।।
जंबुकोऽत्र हतो दैत्यो महादेवेन मोहिनि ।।
तलिंगं तु नरो दृष्ट्वा सर्वान्कामानवाप्नुयात् ।। ५०-६७ ।।
देवैः शक्रपुरोगैश्च एतानि स्थापितानि हि ।।
जानीहि पुण्यलिंगानि सर्वकामप्रदानि च ।। ५०-६८ ।।
एवमेतानि सर्वाणि शिवलिंगानि मोहिनि ।।
कथितानि मया तुभ्यं क्षेत्रेऽस्मिन्नविमुक्तके ।। ५०-६९ ।।
इति श्रीबृहन्नारदीयपुराणोत्तरभागे मोहिनीवसुसंवादे काशीमाहात्म्यं नाम पञ्चाशत्तमोऽध्यायः ।। ५० ।।