ऋग्वेदः सूक्तं ८.९८
← सूक्तं ८.९७ | ऋग्वेदः - मण्डल ८ सूक्तं ८.९८ नृमेध आङ्गिरसः । |
सूक्तं ८.९९ → |
दे. इन्द्रः । उष्णिक्, ७, १०-११ ककुप्, ९, १२ पुरउष्णिक् । |
इन्द्राय साम गायत विप्राय बृहते बृहत् ।
धर्मकृते विपश्चिते पनस्यवे ॥१॥
त्वमिन्द्राभिभूरसि त्वं सूर्यमरोचयः ।
विश्वकर्मा विश्वदेवो महाँ असि ॥२॥
विभ्राजञ्ज्योतिषा स्वरगच्छो रोचनं दिवः ।
देवास्त इन्द्र सख्याय येमिरे ॥३॥
एन्द्र नो गधि प्रियः सत्राजिदगोह्यः ।
गिरिर्न विश्वतस्पृथुः पतिर्दिवः ॥४॥
अभि हि सत्य सोमपा उभे बभूथ रोदसी ।
इन्द्रासि सुन्वतो वृधः पतिर्दिवः ॥५॥
त्वं हि शश्वतीनामिन्द्र दर्ता पुरामसि ।
हन्ता दस्योर्मनोर्वृधः पतिर्दिवः ॥६॥
अधा हीन्द्र गिर्वण उप त्वा कामान्महः ससृज्महे ।
उदेव यन्त उदभिः ॥७॥
वार्ण त्वा यव्याभिर्वर्धन्ति शूर ब्रह्माणि ।
वावृध्वांसं चिदद्रिवो दिवेदिवे ॥८॥
युञ्जन्ति हरी इषिरस्य गाथयोरौ रथ उरुयुगे ।
इन्द्रवाहा वचोयुजा ॥९॥
त्वं न इन्द्रा भरँ ओजो नृम्णं शतक्रतो विचर्षणे ।
आ वीरं पृतनाषहम् ॥१०॥
त्वं हि नः पिता वसो त्वं माता शतक्रतो बभूविथ ।
अधा ते सुम्नमीमहे ॥११॥
त्वां शुष्मिन्पुरुहूत वाजयन्तमुप ब्रुवे शतक्रतो ।
स नो रास्व सुवीर्यम् ॥१२॥
सायणभाष्यम्
॥ श्रीगणेशाय नमः ॥
यस्य निःश्वसितं वेदा यो वेदेभ्योऽखिलं जगत् ।
निर्ममे तमहं वन्दे विद्यातीर्थमहेश्वरम् ॥
अथ षष्ठस्य सप्तमोऽध्याय आरभ्यते । तत्र ' इन्द्राय ' इति द्वादशर्चं पञ्चमं सूक्तमाङ्गिरसस्य नृमेधाख्यस्यार्षमैन्द्रम् । सप्तमी दशम्येकादश्यौ च तिस्रः ककुभो मध्यमपादस्य द्वादशाक्षरत्वात् । ‘ मध्यमश्चेत्ककुप् ' ( अनु. ५. ३ ) इति हि तल्लक्षणम् । नवमीद्वादश्यौ पुरउष्णिहौ। प्रथमपादस्य द्वादशाक्षरत्वात्। ' आद्यश्चेत् पुरउष्णिक् ' ( अनु० ५. २ ) इति हि तल्लक्षणम् । शिष्टा उष्णिहः । तथा चानुक्रम्यते - ‘इन्द्राय द्वादश नृमेध औष्णिहं सप्तम्युपान्त्ये च ककुभोऽन्त्यानवम्यौ पुरउष्णिहौ ' इति । महाव्रते औष्णिहतृचाशीताविदं सूक्तम् । तथैव पञ्चमारण्यके सूत्रितम् - ‘इन्द्राय साम गायत सखाय आ शिषामहि' (ऐ. आ. ५. २.५ ) इति । आभिप्लविकेषूक्थ्येषु तृतीयसवने ब्राह्मणाच्छंसिनः ‘ इन्द्राय साम गायत' इति वैकल्पिकः स्तोत्रियस्तृचः । सूत्रितं च- ‘ इन्द्राय सोम गायत सखाय आ शिषामहि' (आश्व. श्रौ. ७. ८) इति । पूर्वोक्तस्यैव ब्राह्मणाच्छंसिन आभिप्लविकेषूक्थ्येषु ‘एन्द्र नो गधि' इति वैकल्पिकः स्तोत्रियः । सूत्रितं च - ‘ एन्द्र नो गध्येदु मध्वो मदिंतरम्' (आश्व. श्रौ. ७. ८) इति । उक्थ्ये तृतीयसवनेऽच्छावाकस्य अधा हीन्द्र' इति स्तोत्रियस्तृचः । सूत्रितं च -- ‘अधा हीन्द्र गिर्वण इयं त इन्द्र गिर्वणः ' ( आश्व. श्रौ. ६. १ ) इति । पूर्वोक्त एव शस्त्रे ‘ त्वं न इन्द्रा भर ' इति तृचो वैकल्पिकः स्तोत्रियः । सूत्रितं च - ‘ त्वं न इन्द्रा भर वयमु त्वामपूर्व्य यो न इदमिदं पुरा' (आश्व. श्रौ. ७. ८) इति ।
इन्द्रा॑य॒ साम॑ गायत॒ विप्रा॑य बृह॒ते बृ॒हत् ।
ध॒र्म॒कृते॑ विप॒श्चिते॑ पन॒स्यवे॑ ॥१
इन्द्रा॑य । साम॑ । गा॒य॒त॒ । विप्रा॑य । बृ॒ह॒ते । बृ॒हत् ।
ध॒र्म॒ऽकृते॑ । वि॒पः॒ऽचिते॑ । प॒न॒स्यवे॑ ॥१
इन्द्राय । साम । गायत । विप्राय । बृहते । बृहत् ।
धर्मऽकृते । विपःऽचिते । पनस्यवे ॥१
हे उद्गातारः विप्राय मेधाविने "बृहते महते “धर्मकृते कर्मणः कर्त्रे “विपश्चिते विदुषे “पनस्यवे स्तुतिमिच्छते इन्द्राय "बृहत् बृहन्नामकं “साम “गायत पठत ॥
त्वमि॑न्द्राभि॒भूर॑सि॒ त्वं सूर्य॑मरोचयः ।
वि॒श्वक॑र्मा वि॒श्वदे॑वो म॒हाँ अ॑सि ॥२
त्वम् । इ॒न्द्र॒ । अ॒भि॒ऽभूः । अ॒सि॒ । त्वम् । सूर्य॑म् । अ॒रो॒च॒यः॒ ।
वि॒श्वऽक॑र्मा । वि॒श्वऽदे॑वः । म॒हान् । अ॒सि॒ ॥२
त्वम् । इन्द्र । अभिऽभूः । असि । त्वम् । सूर्यम् । अरोचयः ।
विश्वऽकर्मा । विश्वऽदेवः । महान् । असि ॥२
हे “इन्द्र “त्वम् “अभिभूः शत्रूणामभिभविता “असि भवसि । किंच “त्वं “सूर्यम् आदित्यम् “अरोचयः तेजोभिरदीपयः । किंच “विश्वकर्मा विश्वस्य कर्ता “असि “विश्वदेवः सर्वदेवश्चासि । तथा च यजुर्ब्राह्मणम्- अग्निं वा अन्वन्या देवता इन्द्रमन्वन्याः ' (तै. ब्रा. ३. ७. १. ८) इति । अतो “महान् सर्वाधिकोऽसि ॥
वि॒भ्राज॒ञ्ज्योति॑षा॒ स्व१॒॑रग॑च्छो रोच॒नं दि॒वः ।
दे॒वास्त॑ इन्द्र स॒ख्याय॑ येमिरे ॥३
वि॒ऽभ्राज॑न् । ज्योति॑षा । स्वः॑ । अग॑च्छः । रो॒च॒नम् । दि॒वः ।
दे॒वाः । ते॒ । इ॒न्द्र॒ । स॒ख्याय॑ । ये॒मि॒रे॒ ॥३
विऽभ्राजन् । ज्योतिषा । स्वः । अगच्छः । रोचनम् । दिवः ।
देवाः । ते । इन्द्र । सख्याय । येमिरे ॥३
हे “इन्द्र त्वं “ज्योतिषा तेजसा “दिवः आदित्यस्य “रोचनं प्रकाशकमधिकरणत्वेन “स्वः स्वर्गं “विभ्राजन् प्रकाशयन् “अगच्छः प्राप्नोः । किंच “देवाः सर्वे “ते तव “सख्याय मित्रत्वाय “येमिरे स्वं स्वमात्मानं नियमितवन्तः । अस्माकमिन्द्रः सखा यथा स्यादिति सर्वे देवाः प्रयत्नमकार्षुरित्यर्थः ॥
एन्द्र॑ नो गधि प्रि॒यः स॑त्रा॒जिदगो॑ह्यः ।
गि॒रिर्न वि॒श्वत॑स्पृ॒थुः पति॑र्दि॒वः ॥४
आ । इ॒न्द्र॒ । नः॒ । ग॒धि॒ । प्रि॒यः । स॒त्रा॒ऽजित् । अगो॑ह्यः ।
गि॒रिः । न । वि॒श्वतः॑ । पृ॒थुः । पतिः॑ । दि॒वः ॥४
आ । इन्द्र । नः । गधि । प्रियः । सत्राऽजित् । अगोह्यः ।
गिरिः । न । विश्वतः । पृथुः । पतिः । दिवः ॥४
हे इन्द्र “प्रियः प्रियतमः “सत्राजित् महतां जेता “अगोह्यः केनापि गूहितुमशक्यः “गिरिर्न पर्वत इव “विश्वतः सर्वतः “पृथुः पृथुतमः “दिवः स्वर्गस्य “पतिः ईश्वरस्त्वं “नः अस्मान् “आ “गधि आगच्छ ।
अ॒भि हि स॑त्य सोमपा उ॒भे ब॒भूथ॒ रोद॑सी ।
इन्द्रासि॑ सुन्व॒तो वृ॒धः पति॑र्दि॒वः ॥५
अ॒भि । हि । स॒त्य॒ । सो॒म॒ऽपाः॒ । उ॒भे इति॑ । ब॒भूथ॑ । रोद॑सी॒ इति॑ ।
इन्द्र॑ । असि॑ । सु॒न्व॒तः । वृ॒धः । पतिः॑ । दि॒वः ॥५
अभि । हि । सत्य । सोमऽपाः । उभे इति । बभूथ । रोदसी इति ।
इन्द्र । असि । सुन्वतः । वृधः । पतिः । दिवः ॥५
हे “सत्य “सोमपाः सोमस्य पातः “इन्द्र यस्त्वम् “उभे “रोदसी द्यावापृथिव्यौ “अभि “बभूथ सामर्थ्येनाभिभवसि स त्वं “सुन्वतः सोमाभिषवं कुर्वतो यजमानस्य “वृधः वर्धकः “असि । “दिवः स्वर्गस्यापि “पतिः ईश्वरः असि ।।
त्वं हि शश्व॑तीना॒मिन्द्र॑ द॒र्ता पु॒रामसि॑ ।
ह॒न्ता दस्यो॒र्मनो॑र्वृ॒धः पति॑र्दि॒वः ॥६
त्वम् । हि । शश्व॑तीनाम् । इन्द्र॑ । द॒र्ता । पु॒राम् । असि॑ ।
ह॒न्ता । दस्योः॑ । मनोः॑ । वृ॒धः । पतिः॑ । दि॒वः ॥६
त्वम् । हि । शश्वतीनाम् । इन्द्र । दर्ता । पुराम् । असि ।
हन्ता । दस्योः । मनोः । वृधः । पतिः । दिवः ॥६
हे “इन्द्र “त्वं “शश्वतीनां बह्वीनां “पुरां शत्रुनगरीणां “दर्ता “असि दारयिता भवसि । किंच “दस्योः उपक्षपयितुरसुरस्य “हन्ता असि घातको भवसि । “मनोः मनुष्यस्य यागादिकं कुर्वतः “वृधः वर्धकश्चासि । “दिवः स्वर्गस्यापि “पतिः ईश्वरोऽसि ॥ ॥ १ ॥
अधा॒ ही॑न्द्र गिर्वण॒ उप॑ त्वा॒ कामा॑न्म॒हः स॑सृ॒ज्महे॑ ।
उ॒देव॒ यन्त॑ उ॒दभि॑ः ॥७
अध॑ । हि । इ॒न्द्र॒ । गि॒र्व॒णः॒ । उप॑ । त्वा॒ । कामा॑न् । म॒हः । स॒सृ॒ज्महे॑ ।
उ॒दाऽइ॑व । यन्तः॑ । उ॒दऽभिः॑ ॥७
अध । हि । इन्द्र । गिर्वणः । उप । त्वा । कामान् । महः । ससृज्महे ।
उदाऽइव । यन्तः । उदऽभिः ॥७
हे “गिर्वणः गीर्भिर्वननीय “इन्द्र “अधा “हि संप्रति हि “त्वा त्वां “महः महतः “कामान् कमनीयान् स्तोमान् “उप ससृज्महे उपसृजामः । प्रापयाम इत्यर्थः। तत्र दृष्टान्तमाह। “उदेव यथोदकेन “यन्तः गच्छन्तः “उदभिः अञ्जलिना उत्क्षिप्य उदकैः समीपस्थान् पुरुषान् क्रीडार्थं संसृजन्ति तद्वदित्यर्थः ॥
वार्ण त्वा॑ य॒व्याभि॒र्वर्ध॑न्ति शूर॒ ब्रह्मा॑णि ।
वा॒वृ॒ध्वांसं॑ चिदद्रिवो दि॒वेदि॑वे ॥८
वाः । न । त्वा॒ । य॒व्याभिः॑ । वर्ध॑न्ति । शू॒र॒ । ब्रह्मा॑णि ।
व॒वृ॒ध्वांस॑म् । चि॒त् । अ॒द्रि॒ऽवः॒ । दि॒वेऽदि॑वे ॥८
वाः । न । त्वा । यव्याभिः । वर्धन्ति । शूर । ब्रह्माणि ।
ववृध्वांसम् । चित् । अद्रिऽवः । दिवेऽदिवे ॥८
हे “अद्रिवः वज्रिन् “शूर इन्द्र “वार्ण यथोदकमुदकस्थानं “यव्याभिः नदीभिः । ‘ अवनयो यव्याः' इति नदीनामसु पाठात् । “वर्धन्ति वर्धयन्ति तथा “ब्रह्माणि स्तोत्रैः “ववृध्वाँसं “चित् यथा निरुदकं देशं नदीभिस्तथा न किंतु प्रवृद्धमेव त्वां “दिवेदिवे अन्वहं वर्धन्ति । स्तोतारो वर्धयन्ति ।
यु॒ञ्जन्ति॒ हरी॑ इषि॒रस्य॒ गाथ॑यो॒रौ रथ॑ उ॒रुयु॑गे ।
इ॒न्द्र॒वाहा॑ वचो॒युजा॑ ॥९
यु॒ञ्जन्ति॑ । हरी॒ इति॑ । इ॒षि॒रस्य॑ । गाथ॑या । उ॒रौ । रथे॑ । उ॒रुऽयु॑गे ।
इ॒न्द्र॒ऽवाहा॑ । व॒चः॒ऽयुजा॑ ॥९
युञ्जन्ति । हरी इति । इषिरस्य । गाथया । उरौ । रथे । उरुऽयुगे ।
इन्द्रऽवाहा । वचःऽयुजा ॥९
“इषिरस्य गमनशीलस्येन्द्रस्य “उरुयुगे महायुगे “उरौ महति “रथे “इन्द्रवाहा इन्द्रस्य वाहनभूतौ “वचोयुजा वचनमात्रेणैव युज्यमानौ “हरी अश्वौ “गाथया स्तोत्रेण स्तोतारः “युञ्जन्ति योजयन्ति ॥
त्वं न॑ इ॒न्द्रा भ॑रँ॒ ओजो॑ नृ॒म्णं श॑तक्रतो विचर्षणे ।
आ वी॒रं पृ॑तना॒षह॑म् ॥१०
त्वम् । नः॒ । इ॒न्द्र॒ । आ । भ॒र॒ । ओजः॑ । नृ॒म्णम् । श॒त॒क्र॒तो॒ इति॑ शतऽक्रतो । वि॒ऽच॒र्ष॒णे॒ ।
आ । वी॒रम् । पृ॒त॒ना॒ऽसह॑म् ॥१०
त्वम् । नः । इन्द्र । आ । भर । ओजः । नृम्णम् । शतक्रतो इति शतऽक्रतो । विऽचर्षणे ।
आ । वीरम् । पृतनाऽसहम् ॥१०
हे "शतक्रतो बहुकर्मन् “विचर्षणे विद्रष्टः “इन्द्र “त्वं “नः अस्मभ्यम् “ओजः बलं “नृम्णं धनम् । ‘गयो नृम्णम्' इति धननामसु पाठात् । “आ “भर आहर । “वीरं वीर्योपितं “पृतनाषहं सेनासहं सेनामभिभवितारं त्वाम् “आ याचामह इति शेषः ॥
त्वं हि न॑ः पि॒ता व॑सो॒ त्वं मा॒ता श॑तक्रतो ब॒भूवि॑थ ।
अधा॑ ते सु॒म्नमी॑महे ॥११
त्वम् । हि । नः॒ । पि॒ता । व॒सो॒ इति॑ । त्वम् । मा॒ता । श॒त॒क्र॒तो॒ इति॑ शतऽक्रतो । ब॒भूवि॑थ ।
अध॑ । ते॒ । सु॒म्नम् । ई॒म॒हे॒ ॥११
त्वम् । हि । नः । पिता । वसो इति । त्वम् । माता । शतक्रतो इति शतऽक्रतो । बभूविथ ।
अध । ते । सुम्नम् । ईमहे ॥११
हे “वसो वासयितः “शतक्रतो बहुकर्मन्निन्द्र “त्वं “नः अस्माकं “पिता पितृवत्पालकः “बभूविथ भव। “त्वं “माता मातृवद्धारकश्च बभूविथ। "अध अथ च वयं “ते तव स्वभूतं "सुम्नं सुखम् “ईमहे याचामहे ।।
त्वां शु॑ष्मिन्पुरुहूत वाज॒यन्त॒मुप॑ ब्रुवे शतक्रतो ।
स नो॑ रास्व सु॒वीर्य॑म् ॥१२
त्वाम् । शु॒ष्मि॒न् । पु॒रु॒ऽहू॒त॒ । वा॒ज॒ऽयन्त॑म् । उप॑ । ब्रु॒वे॒ । श॒त॒क्र॒तो॒ इति॑ शतऽक्रतो ।
सः । नः॒ । रा॒स्व॒ । सु॒ऽवीर्य॑म् ॥१२
त्वाम् । शुष्मिन् । पुरुऽहूत । वाजऽयन्तम् । उप । ब्रुवे । शतक्रतो इति शतऽक्रतो ।
सः । नः । रास्व । सुऽवीर्यम् ॥१२
हे “शुष्मिन् बलवन् “पुरुहूत बहुभिर्यजमानैराहूत “शतक्रतो बहुकर्मन्निन्द्र “वाजयन्तं बलमिच्छन्तं “त्वाम् “उप “ब्रुवे उपस्तौमि। "सः त्वं “नः अस्मभ्यं “सुवीर्यं धनं “रास्व देहि ॥ ॥२।।
टिप्पणी
८.९८.१ इन्द्राय साम गायत इति
८.९८.४ एन्द्र नो गधि इति
८.९८.७ अधा हीन्द्र गिर्वण इति
८.९८.१० त्वं न इन्द्रा इति
मण्डल ८ | ||||||
---|---|---|---|---|---|---|