ऋग्वेदः सूक्तं ८.८५
← सूक्तं ८.८४ | ऋग्वेदः - मण्डल ८ सूक्तं ८.८५ कृष्ण आङ्गिरसः। |
सूक्तं ८.८६ → |
दे. अश्विनौ । गायत्री। |
आ मे हवं नासत्याश्विना गच्छतं युवम् ।
मध्वः सोमस्य पीतये ॥१॥
इमं मे स्तोममश्विनेमं मे शृणुतं हवम् ।
मध्वः सोमस्य पीतये ॥२॥
अयं वां कृष्णो अश्विना हवते वाजिनीवसू ।
मध्वः सोमस्य पीतये ॥३॥
शृणुतं जरितुर्हवं कृष्णस्य स्तुवतो नरा ।
मध्वः सोमस्य पीतये ॥४॥
छर्दिर्यन्तमदाभ्यं विप्राय स्तुवते नरा ।
मध्वः सोमस्य पीतये ॥५॥
गच्छतं दाशुषो गृहमित्था स्तुवतो अश्विना ।
मध्वः सोमस्य पीतये ॥६॥
युञ्जाथां रासभं रथे वीड्वङ्गे वृषण्वसू ।
मध्वः सोमस्य पीतये ॥७॥
त्रिवन्धुरेण त्रिवृता रथेना यातमश्विना ।
मध्वः सोमस्य पीतये ॥८॥
नू मे गिरो नासत्याश्विना प्रावतं युवम् ।
मध्वः सोमस्य पीतये ॥९॥
सायणभाष्यम्
‘आ मे हवम्' इति नवर्चं पञ्चमं सूक्तम् । कृष्णो नामाङ्गिरस ऋषिः । गायत्री छन्दः । एतदादीनि त्रीणि सूक्तान्यश्विदेवत्यानि । तथा चानुक्रान्तम्- ' आ मे कृष्ण आश्विनं हि ' इति । प्रातरनुवाक आश्विने क्रतौ गायत्रे छन्दस्याश्विनशस्त्रे चेदं सूक्तम् । सूत्रितं च--' उदीराथामा में हवम्' ( आश्व. श्रौ. ४. १५) इति ॥
आ मे॒ हवं॑ नास॒त्याश्वि॑ना॒ गच्छ॑तं यु॒वं ।
मध्वः॒ सोम॑स्य पी॒तये॑ ॥१
आ । मे॒ । हव॑म् । ना॒स॒त्या॒ । अश्वि॑ना । गच्छ॑तम् । यु॒वम् ।
मध्वः॑ । सोम॑स्य । पी॒तये॑ ॥१
आ । मे । हवम् । नासत्या । अश्विना । गच्छतम् । युवम् ।
मध्वः । सोमस्य । पीतये ॥१
हे “नासत्या । असत्यमनयोर्नास्तीति नासत्यौ । तादृशौ हे “अश्विना अश्विनौ “युवं युवां “मे मदीयं हवम् आह्वानं श्रुत्वा । यद्वा । हवम् । हूयतेऽत्रेति हवो यज्ञः । केवलस्याधिकरणेऽप् छान्दसः । मदीयं यज्ञं प्रति “मध्वः मदकरस्य “सोमस्य “पीतये पानाय तदर्थम् “आ “गच्छतम् ॥
इ॒मं मे॒ स्तोम॑मश्विने॒मं मे॑ शृणुतं॒ हवं॑ ।
मध्वः॒ सोम॑स्य पी॒तये॑ ॥२
इ॒मम् । मे॒ । स्तोम॑म् । अ॒श्वि॒ना॒ । इ॒मम् । मे॒ । शृ॒णु॒त॒म् । हव॑म् ।
मध्वः॑ । सोम॑स्य । पी॒तये॑ ॥२
इमम् । मे । स्तोमम् । अश्विना । इमम् । मे । शृणुतम् । हवम् ।
मध्वः । सोमस्य । पीतये ॥२
हे “अश्विना अश्विनौ “मे मदीयम् “इमं “स्तोमं स्तोत्रं किंच “मे मदीयम् “इमम् इदमागमनविषयं “हवम् आह्वानं च “शृणुतम् ॥ ।
अ॒यं वां॒ कृष्णो॑ अश्विना॒ हव॑ते वाजिनीवसू ।
मध्वः॒ सोम॑स्य पी॒तये॑ ॥३
अ॒यम् । वा॒म् । कृष्णः॑ । अ॒श्वि॒ना॒ । हव॑ते । वा॒जि॒नी॒व॒सू॒ इति॑ वाजिनीऽवसू ।
मध्वः॑ । सोम॑स्य । पी॒तये॑ ॥३
अयम् । वाम् । कृष्णः । अश्विना । हवते । वाजिनीवसू इति वाजिनीऽवसू ।
मध्वः । सोमस्य । पीतये ॥३
हे “वाजिनीवसू अन्नयुक्तधनौ । अत्रेनिरनुवादार्थः । यद्वा । वाजो वजनं क्रिया। तद्वती वाजिनी । तद्युक्तधनवन्तौ हे “अश्विना अश्विनौ “अयं “कृष्णः नाम मन्त्रद्रष्टा ऋषिः “वां युवां “हवते स्तुतिभिराह्वयति । किमर्थम् । “मध्वः “सोमस्य “पीतये इति ॥
शृ॒णु॒तं ज॑रि॒तुर्हवं॒ कृष्ण॑स्य स्तुव॒तो न॑रा ।
मध्वः॒ सोम॑स्य पी॒तये॑ ॥४
शृ॒णु॒तम् । ज॒रि॒तुः । हव॑म् । कृष्ण॑स्य । स्तु॒व॒तः । न॒रा॒ ।
मध्वः॑ । सोम॑स्य । पी॒तये॑ ॥४
शृणुतम् । जरितुः । हवम् । कृष्णस्य । स्तुवतः । नरा ।
मध्वः । सोमस्य । पीतये ॥४
हे "नरा नरौ सर्वस्य नेतारावश्विनौ “जरितुः । तच्छीलार्थे तृन् । व्यत्ययेनान्तोदात्तत्वम् । जरितुः स्तवनशीलस्य संप्रति “स्तुवतः स्तोत्रं कुर्वतः “कृष्णस्य एतन्नामकस्यर्षेः संबन्धि “हवं युष्मद्विषयमाह्वानं “शृणुतम् । यद्वा । जरितुरन्यदेवानां स्तोतुः स्तुवत इदानीं युवयोः स्तोत्रकारिणस्तस्य हवं शृणुतम् । शिष्टं गतम् ॥
छ॒र्दिर्यं॑त॒मदा॑भ्यं॒ विप्रा॑य स्तुव॒ते न॑रा ।
मध्वः॒ सोम॑स्य पी॒तये॑ ॥५
छ॒र्दिः । य॒न्त॒म् । अदा॑भ्यम् । विप्रा॑य । स्तु॒व॒ते । न॒रा॒ ।
मध्वः॑ । सोम॑स्य । पी॒तये॑ ॥५
छर्दिः । यन्तम् । अदाभ्यम् । विप्राय । स्तुवते । नरा ।
मध्वः । सोमस्य । पीतये ॥५
हे “नरा नेतारावश्विनौ “विप्राय मेधाविने अत एव “स्तुवते स्तोत्रं कुर्वते कृष्णायर्षये “अदाभ्यम् । ‘दभेश्च' इति ण्यत्प्रत्ययः । परैरहिंस्यं “छर्दिः गृहं “यन्तं प्रयच्छतम् । किमर्थम् । सोमपानाय । स्तोत्रे गृहे दीयमाने सति तदा स सोमं युवाभ्यां प्रयच्छति ॥ ॥ ७ ॥
गच्छ॑तं दा॒शुषो॑ गृ॒हमि॒त्था स्तु॑व॒तो अ॑श्विना ।
मध्वः॒ सोम॑स्य पी॒तये॑ ॥६
गच्छ॑तम् । दा॒शुषः॑ । गृ॒हम् । इ॒त्था । स्तु॒व॒तः । अ॒श्वि॒ना॒ ।
मध्वः॑ । सोम॑स्य । पी॒तये॑ ॥६
गच्छतम् । दाशुषः । गृहम् । इत्था । स्तुवतः । अश्विना ।
मध्वः । सोमस्य । पीतये ॥६
हे "अश्विना अश्विनौ "इत्था इत्थमनेन प्रकारेण “स्तुवतः युवयोः स्तोत्रं कुर्वतः “दाशुषः हवींषि दत्तवतो यजमानस्य “गृहं प्रति गच्छतं युवामागच्छतम् । किमर्थम् । “मध्वः “सोमस्य “पीतये इति ॥
युं॒जाथां॒ रास॑भं॒ रथे॑ वी॒ड्वं॑गे वृषण्वसू ।
मध्वः॒ सोम॑स्य पी॒तये॑ ॥७
यु॒ञ्जाथा॑म् । रास॑भम् । रथे॑ । वी॒ळुऽअ॑ङ्गे । वृ॒ष॒ण्व॒सू॒ इति॑ वृषण्ऽवसू ।
मध्वः॑ । सोम॑स्य । पी॒तये॑ ॥७
युञ्जाथाम् । रासभम् । रथे । वीळुऽअङ्गे । वृषण्वसू इति वृषण्ऽवसू ।
मध्वः । सोमस्य । पीतये ॥७
हे “वृषण्वसू वर्षणशीलधनवन्तावश्विनौ युवां “वीड्वङ्गे। वीळुर्दृढः । दृढाङ्गोपेते स्वरथे “रासभं शब्दायमानमेतन्नामकमश्वं युञ्जाथां संयोजयतम् । किमर्थम् । “मध्वः “सोमस्य “पीतये इति । रासभावश्विनोः' इति रासभावेवाश्विनो रथस्य वाहनौ ॥
त्रि॒वं॒धु॒रेण॑ त्रि॒वृता॒ रथे॒ना या॑तमश्विना ।
मध्वः॒ सोम॑स्य पी॒तये॑ ॥८
त्रि॒ऽव॒न्धु॒रेण॑ । त्रि॒ऽवृता॑ । रथे॑न । आ । या॒त॒म् । अ॒श्वि॒ना॒ ।
मध्वः॑ । सोम॑स्य । पी॒तये॑ ॥८
त्रिऽवन्धुरेण । त्रिऽवृता । रथेन । आ । यातम् । अश्विना ।
मध्वः । सोमस्य । पीतये ॥८
हे “अश्विना अश्विनौ “त्रिवन्धुरेण त्रिफलकासंघटितेन “त्रिवृता त्रिकोणेन । यद्वा । त्रिवृता। त्रीणि कवचादिभिरावरणानि यस्य स तथोक्तः । तेन “रथेन अस्मद्यज्ञं प्रति “आ “यातं युवामागच्छतं च । शिष्टं गतम् ॥
नू मे॒ गिरो॑ नास॒त्याश्वि॑ना॒ प्राव॑तं यु॒वं ।
मध्वः॒ सोम॑स्य पी॒तये॑ ॥९
नु । मे॒ । गिरः॑ । ना॒स॒त्या॒ । अश्वि॑ना । प्र । अ॒व॒त॒म् । यु॒वम् ।
मध्वः॑ । सोम॑स्य । पी॒तये॑ ॥९
नु । मे । गिरः । नासत्या । अश्विना । प्र । अवतम् । युवम् ।
मध्वः । सोमस्य । पीतये ॥९
हे “नासत्या असत्यरहितौ हे “अश्विना अश्विनौ “मे मदीयाः “गिरः स्तुतिलक्षणा वाचः प्रति “युवं युवां “नु क्षिप्रं “प्रावतं प्रकर्षेणागच्छतम् । यद्वा । मे गिरः प्रावतं आत्मीयतया प्ररक्षतम् । किमर्थम् । “मध्वः मदकरस्य “सोमस्य “पीतये पानाय तदर्थम् । सर्वे देवाः स्तुतिभिराहूताः सन्तो यज्ञं प्रत्यागच्छन्तीति गच्छतं रक्षतं चेति युक्तं भवति ॥ ॥ ८ ॥
मण्डल ८ | ||||||
---|---|---|---|---|---|---|