← सूक्तं ८.९३ ऋग्वेदः - मण्डल ८
सूक्तं ८.९४
बिन्दुः पूतदक्षो वा अङ्गिरसः।
सूक्तं ८.९५ →
दे. मरुतः। गायत्री।


गौर्धयति मरुतां श्रवस्युर्माता मघोनाम् ।
युक्ता वह्नी रथानाम् ॥१॥
यस्या देवा उपस्थे व्रता विश्वे धारयन्ते ।
सूर्यामासा दृशे कम् ॥२॥
तत्सु नो विश्वे अर्य आ सदा गृणन्ति कारवः ।
मरुतः सोमपीतये ॥३॥
अस्ति सोमो अयं सुतः पिबन्त्यस्य मरुतः ।
उत स्वराजो अश्विना ॥४॥
पिबन्ति मित्रो अर्यमा तना पूतस्य वरुणः ।
त्रिषधस्थस्य जावतः ॥५॥
उतो न्वस्य जोषमाँ इन्द्रः सुतस्य गोमतः ।
प्रातर्होतेव मत्सति ॥६॥
कदत्विषन्त सूरयस्तिर आप इव स्रिधः ।
अर्षन्ति पूतदक्षसः ॥७॥
कद्वो अद्य महानां देवानामवो वृणे ।
त्मना च दस्मवर्चसाम् ॥८॥
आ ये विश्वा पार्थिवानि पप्रथन्रोचना दिवः ।
मरुतः सोमपीतये ॥९॥
त्यान्नु पूतदक्षसो दिवो वो मरुतो हुवे ।
अस्य सोमस्य पीतये ॥१०॥
त्यान्नु ये वि रोदसी तस्तभुर्मरुतो हुवे ।
अस्य सोमस्य पीतये ॥११॥
त्यं नु मारुतं गणं गिरिष्ठां वृषणं हुवे ।
अस्य सोमस्य पीतये ॥१२॥


सायणभाष्यम्

दशमेऽनुवाके दश सूक्तानि । तत्र ‘गौर्धयति' इति द्वादशर्चमाद्यं सूक्तमाङ्गिरसस्य बिन्दुनाम्नः पूतदक्षनाम्नो वार्षं गायत्रं मरुद्देवताकम् । तथा चानुक्रम्यते- ‘ गौर्धयति द्वादश बिन्दुः पूतदक्षो वा मारुतम्' इति । सूक्तविनियोगो लैङ्गिकः । प्रातःसवने सोमातिरिक्त एकं शस्त्रमुपजायते । तत्राद्यस्तृचोऽनुरूपः । सूत्रितं च - ‘अस्ति सोमो अयं सुतो गौर्धयति मरुतामिति स्तोत्रियानुरूपौ' (आश्व. श्रौ. ६. ७) इति ॥


गौर्ध॑यति म॒रुतां॑ श्रव॒स्युर्मा॒ता म॒घोना॑म् ।

यु॒क्ता वह्नी॒ रथा॑नाम् ॥१

गौः । ध॒य॒ति॒ । म॒रुता॑म् । श्र॒व॒स्युः । मा॒ता । म॒घोना॑म् ।

यु॒क्ता । वह्निः॑ । रथा॑नाम् ॥१

गौः । धयति । मरुताम् । श्रवस्युः । माता । मघोनाम् ।

युक्ता । वह्निः । रथानाम् ॥१

"मघोनां धनवतां "मरुतां "माता निर्मात्री "गौः पृश्निरूपा । ‘पृश्नियै वै पयसो मरुतो जाताः' इति श्रुतेः। यद्वा । गौर्माध्यमिकी वाक् । तत्रैव मध्यमस्थाने मरुतामपि वर्तनात्तेषां तत्पुत्रत्वमुपचर्यते। “धयति सोमं पिबति पाययति वा स्वपुत्रान् मरुतः । किमिच्छन्ती। “श्रवस्युः अन्नं कामयमाना । कीदृशी। "रथानां मारुतानां "वह्निः पृषतीभिर्वडवाभिर्वोढ्री संयोजयित्री सा "युक्ता सर्वत्र समन्तात् पूज्या भवति ॥


यस्या॑ दे॒वा उ॒पस्थे॑ व्र॒ता विश्वे॑ धा॒रय॑न्ते ।

सूर्या॒मासा॑ दृ॒शे कम् ॥२

यस्याः॑ । दे॒वाः । उ॒पऽस्थे॑ । व्र॒ता । विश्वे॑ । धा॒रय॑न्ते ।

सूर्या॒मासा॑ । दृ॒शे । कम् ॥२

यस्याः । देवाः । उपऽस्थे । व्रता । विश्वे । धारयन्ते ।

सूर्यामासा । दृशे । कम् ॥२

गौः सर्वदेवमयीत्याह । "यस्याः मरुतां मातुर्गोः "उपस्थे वर्तमानाः "विश्वे सर्वे “देवाः “व्रता व्रतानि स्वस्वकर्माणि “धारयन्ते बिभ्रति । इयमेवास्माकं स्वपयोमिश्रितस्य सोमस्य दात्रीति सर्वे तत्समीपे तिष्ठन्तीत्यर्थः। किंच "सूर्यामासा । माति स्वकलाभिस्तिथीनिति माश्चन्द्रमाः ।। ‘ देवताद्वन्द्वे च ' इत्युभयपदप्रकृतिस्वरत्वम् । सूर्याचन्द्रमसौ “दृशे दर्शनाय सर्वलोकप्रकाशनाय च यस्या गोः समीपे "कं सुखेन वर्तमानौ भवतः । सेयं गौः सोमं धयतीति पूर्वेण समन्वयः ॥


तत्सु नो॒ विश्वे॑ अ॒र्य आ सदा॑ गृणन्ति का॒रव॑ः ।

म॒रुत॒ः सोम॑पीतये ॥३

तत् । सु । नः॒ । विश्वे॑ । अ॒र्यः । आ । सदा॑ । गृ॒ण॒न्ति॒ । का॒रवः॑ ।

म॒रुतः॑ । सोम॑ऽपीतये ॥३

तत् । सु । नः । विश्वे । अर्यः । आ । सदा । गृणन्ति । कारवः ।

मरुतः । सोमऽपीतये ॥३

"अर्यः स्तोत्रकरणार्थमितस्ततो गन्तारः "नः अस्मदीयाः विश्वे सर्वे "कारवः स्तोतारः “तत् मरुतां बलं "सदा सर्वदा "आ "गृणन्ति । आभिमुख्येन स्तुतिभिः स्तुवन्ति । किमर्थम् । "सोमपीतये अस्माभिर्दीयमानं सोमं पातुम् । "मरुतः एतन्नामका देवा अस्माभिराह्वातव्याः खलु । ततः पुरस्तात्तद्बलं स्तुवन्तीत्यर्थः।।


पूर्वाभिहित एव शस्त्रे 'अस्ति सोमः' इति स्तोत्रियस्तृचः । सूत्रं तु पूर्वेण सहोदाहृतम् ॥

अस्ति॒ सोमो॑ अ॒यं सु॒तः पिब॑न्त्यस्य म॒रुत॑ः ।

उ॒त स्व॒राजो॑ अ॒श्विना॑ ॥४

अस्ति॑ । सोमः॑ । अ॒यम् । सु॒तः । पिब॑न्ति । अ॒स्य॒ । म॒रुतः॑ ।

उ॒त । स्व॒ऽराजः॑ । अ॒श्विना॑ ॥४

अस्ति । सोमः । अयम् । सुतः । पिबन्ति । अस्य । मरुतः ।

उत । स्वऽराजः । अश्विना ॥४

“अयं पुरोवर्ती “सोमः “सुतः मरुदर्थमस्माभिरभिषुतः “अस्ति विद्यते । तस्मात् “अस्य । अन्वादेशे । एनं सुतं सोमं “स्वराजः स्वयं दीप्यमानाः । स्वतेजसा नान्यदीयेनेत्यर्थः । तादृशाः “मरुतः “पिबन्ति । "उत अपि च “अश्विना अश्विनौ च सोमं पिबतः ॥


पिब॑न्ति मि॒त्रो अ॑र्य॒मा तना॑ पू॒तस्य॒ वरु॑णः ।

त्रि॒ष॒ध॒स्थस्य॒ जाव॑तः ॥५

पिब॑न्ति । मि॒त्रः । अ॒र्य॒मा । तना॑ । पू॒तस्य॑ । वरु॑णः ।

त्रि॒ऽस॒ध॒स्थस्य॑ । जाऽव॑तः ॥५

पिबन्ति । मित्रः । अर्यमा । तना । पूतस्य । वरुणः ।

त्रिऽसधस्थस्य । जाऽवतः ॥५

न केवलं मरुत एव सोमपातारः किंत्वेतेऽपीत्याह । “मित्रः सर्वेषां स्वस्वकर्मणि प्रवर्तकत्वात् सखिभूतः “अर्यमा च “वरुणः दुःखादीनां शत्रूणां वा वरिता निवारकः । एतन्नामकास्त्रयो देवाः “तना। ततमूर्णास्तुकेनेति तनं दशापवित्रम् । ‘सुपां सुलुक् ' इति तृतीयाया आलादेशः । तनाद्युदात्तः । तना “पूतस्य शोधितं “त्रिसधस्थस्य । सह तिष्ठन्यत्रेति सधस्थं स्थानम् । द्रोणकलशाधवनीयपूतभृदात्मनि त्रीणि स्थानानि यस्य तं तथोक्तं तादृशं “जावतः स्तुत्यजनवन्तमिमं सोमं “पिबन्ति । द्वितीयार्थे षष्ठ्यः ॥


उ॒तो न्व॑स्य॒ जोष॒माँ इन्द्र॑ः सु॒तस्य॒ गोम॑तः ।

प्रा॒तर्होते॑व मत्सति ॥६

उ॒तो इति॑ । नु । अ॒स्य॒ । जोष॑म् । आ । इन्द्रः॑ । सु॒तस्य॑ । गोऽम॑तः ।

प्रा॒तः । होता॑ऽइव । म॒त्स॒ति॒ ॥६

उतो इति । नु । अस्य । जोषम् । आ । इन्द्रः । सुतस्य । गोऽमतः ।

प्रातः । होताऽइव । मत्सति ॥६

“उतो अपि च “इन्द्रः “सुतस्य अस्माभिरभिषुतस्य “गोमतः गव्यैर्मिश्रणवतः “अस्य । अन्वादेशः । पूर्ववद्दशापवित्रेण पूतस्य सोमस्य “जोषं पानरूपां सेवां “प्रातः प्रातःसवने "नु क्षिप्रम् “आ “मत्सति । मदि स्तुत्यादिषु । आभिमुख्येन स्तौति । यद्वा । सोमसेवां कामयते । तत्र दृष्टान्तः । "होतेव । यथा होता प्रातःसवने देवानभिष्टौति देवान् स्तोतुं वाभिवाञ्छति ॥ ॥ २८ ॥


कद॑त्विषन्त सू॒रय॑स्ति॒र आप॑ इव॒ स्रिध॑ः ।

अर्ष॑न्ति पू॒तद॑क्षसः ॥७

कत् । अ॒त्वि॒ष॒न्त॒ । सू॒रयः॑ । ति॒रः । आपः॑ऽइव । स्रिधः॑ ।

अर्ष॑न्ति । पू॒तऽद॑क्षसः ॥७

कत् । अत्विषन्त । सूरयः । तिरः । आपःऽइव । स्रिधः ।

अर्षन्ति । पूतऽदक्षसः ॥७

ऋषिर्मरुतो बहुवारं स्तुत्वेदानीमात्मानं वितर्कयति । “सूरयः प्राज्ञाः “आपइव उदकानीव “तिरः यथोदकानि तिर्यग्गच्छन्ति तद्वत्तिरश्चीनगतयः सन्तः “कत् कदा “अत्विषन्त । त्विष दीप्तौ । अन्तरिक्षे कदा दीप्यन्ते । किंच “स्रिग्धः शत्रूणां शोषका हन्तारस्त इमे मरुतः “पूतदक्षसः शुद्धबलाः सन्तः कदा वा “अर्षन्ति । अस्मदीयं यज्ञं प्रत्यागच्छन्ति ॥


कद्वो॑ अ॒द्य म॒हानां॑ दे॒वाना॒मवो॑ वृणे ।

त्मना॑ च द॒स्मव॑र्चसाम् ॥८

कत् । वः॒ । अ॒द्य । म॒हाना॑म् । दे॒वाना॑म् । अवः॑ । वृ॒णे॒ ।

त्मना॑ । च॒ । द॒स्मऽव॑र्चसाम् ॥८

कत् । वः । अद्य । महानाम् । देवानाम् । अवः । वृणे ।

त्मना । च । दस्मऽवर्चसाम् ॥८

हे मरुतः “महानां मंहनीयानां महतां वा “त्मना “च आत्मनैवालंकरणैर्विनापि “दस्मवर्चसां दर्शनीयतेजस्कानामत एव "देवानां द्योतमानानां “वः युष्माकम् “अवः पालनं “कत् कदाहं “वृणे संभजे । वृङ् संभक्तौ' । क्रैयादिकः ॥


आ ये विश्वा॒ पार्थि॑वानि प॒प्रथ॑न्रोच॒ना दि॒वः ।

म॒रुत॒ः सोम॑पीतये ॥९

आ । ये । विश्वा॑ । पार्थि॑वानि । प॒प्रथ॑न् । रो॒च॒ना । दि॒वः ।

म॒रुतः॑ । सोम॑ऽपीतये ॥९

आ । ये । विश्वा । पार्थिवानि । पप्रथन् । रोचना । दिवः ।

मरुतः । सोमऽपीतये ॥९

“ये मरुतः “विश्वा विश्वानि “पार्थिवानि पृथिव्यां भवानि भूतजातानि “दिवः द्युलोकस्य “रोचना रोचमानानि ज्योतींषि च “आ “पप्रथन् सर्वत्र विस्तारितान्यकार्षुः । ‘प्रथ प्रख्याने'। ण्यन्तस्य चङि अत्स्मृदॄत्वरप्रथम्रदस्तॄस्पशाम् ' ( पा. सू. ७. ४. ९५ ) इत्यभ्यासस्यादादेशः । ‘ चङन्यन्यतरस्याम् ' इति स्वरेण मध्योदात्तः । तादृशान् "मरुतः देवान् "सोमपीतये सोमपानायाहमाह्वयामि ॥


त्यान्नु पू॒तद॑क्षसो दि॒वो वो॑ मरुतो हुवे ।

अ॒स्य सोम॑स्य पी॒तये॑ ॥१०

त्यान् । नु । पू॒तऽद॑क्षसः । दि॒वः । वः॒ । म॒रु॒तः॒ । हु॒वे॒ ।

अ॒स्य । सोम॑स्य । पी॒तये॑ ॥१०

त्यान् । नु । पूतऽदक्षसः । दिवः । वः । मरुतः । हुवे ।

अस्य । सोमस्य । पीतये ॥१०

हे “मरुतः मितराविण एतन्नामका देवाः "पूतदक्षसः परिशुद्धबलान् “दिवः स्वतेजसा दीप्यमानान् । यद्वा । दिवो द्युलोकस्थितान् । "त्यान् तान् प्रसिद्धान् "वः युष्मान् "नु क्षिप्रं "हुवे आह्वयामि । किमर्थम् । "अस्य अस्मदीयस्य "सोमस्य "पीतये पानाय ॥


त्यान्नु ये वि रोद॑सी तस्त॒भुर्म॒रुतो॑ हुवे ।

अ॒स्य सोम॑स्य पी॒तये॑ ॥११

त्यान् । नु । ये । वि । रोद॑सी॒ इति॑ । त॒स्त॒भुः । म॒रुतः॑ । हु॒वे॒ ।

अ॒स्य । सोम॑स्य । पी॒तये॑ ॥११

त्यान् । नु । ये । वि । रोदसी इति । तस्तभुः । मरुतः । हुवे ।

अस्य । सोमस्य । पीतये ॥११

"ये "मरुतः "रोदसी द्यावापृथिव्यौ "वि "तस्तभुः स्वबलेनैवात्यर्थं स्तब्धे चक्रुः । ते रोदसी स्वाधीने अकार्षुरित्यर्थः। “त्यान् तान् सर्वतः प्रसिद्धान् "नु क्षिप्रमहं "हुवे आह्वयामि । किमर्थम् । "अस्य इत्यादि ।


त्यं नु मारु॑तं ग॒णं गि॑रि॒ष्ठां वृष॑णं हुवे ।

अ॒स्य सोम॑स्य पी॒तये॑ ॥१२

त्यम् । नु । मारु॑तम् । ग॒णम् । गि॒रि॒ऽस्थाम् । वृष॑णम् । हु॒वे॒ ।

अ॒स्य । सोम॑स्य । पी॒तये॑ ॥१२

त्यम् । नु । मारुतम् । गणम् । गिरिऽस्थाम् । वृषणम् । हुवे ।

अस्य । सोमस्य । पीतये ॥१२

“त्यं तं सर्वत्र विश्रुतं "गिरिष्ठां गिरिषु मेघेषु पर्वतेषु वा तिष्ठन्तं "वृषणम् उदकानां कामानां वा वर्षितारं "मारुतं मरुत्संबन्धिनं "गणं संघं "हुवे बिन्दुरहमाह्वयामि । किं प्रयोजनम् । "अस्य अस्मदीयस्य "सोमस्य "पीतये पानाय ॥ ॥ २९ ॥

मण्डल ८

सूक्तं ८.१

सूक्तं ८.२

सूक्तं ८.३

सूक्तं ८.४

सूक्तं ८.५

सूक्तं ८.६

सूक्तं ८.७

सूक्तं ८.८

सूक्तं ८.९

सूक्तं ८.१०

सूक्तं ८.११

सूक्तं ८.१२

सूक्तं ८.१३

सूक्तं ८.१४

सूक्तं ८.१५

सूक्तं ८.१६

सूक्तं ८.१७

सूक्तं ८.१८

सूक्तं ८.१९

सूक्तं ८.२०

सूक्तं ८.२१

सूक्तं ८.२२

सूक्तं ८.२३

सूक्तं ८.२४

सूक्तं ८.२५

सूक्तं ८.२६

सूक्तं ८.२७

सूक्तं ८.२८

सूक्तं ८.२९

सूक्तं ८.३०

सूक्तं ८.३१

सूक्तं ८.३२

सूक्तं ८.३३

सूक्तं ८.३४

सूक्तं ८.३५

सूक्तं ८.३६

सूक्तं ८.३७

सूक्तं ८.३८

सूक्तं ८.३९

सूक्तं ८.४०

सूक्तं ८.४१

सूक्तं ८.४२

सूक्तं ८.४३

सूक्तं ८.४४

सूक्तं ८.४५

सूक्तं ८.४६

सूक्तं ८.४७

सूक्तं ८.४८

सूक्तं ८.४९

सूक्तं ८.५०

सूक्तं ८.५१

सूक्तं ८.५२

सूक्तं ८.५३

सूक्तं ८.५४

सूक्तं ८.५५

सूक्तं ८.५६

सूक्तं ८.५७

सूक्तं ८.५८

सूक्तं ८.५९

सूक्तं ८.६०

सूक्तं ८.६१

सूक्तं ८.६२

सूक्तं ८.६३

सूक्तं ८.६४

सूक्तं ८.६५

सूक्तं ८.६६

सूक्तं ८.६७

सूक्तं ८.६८

सूक्तं ८.६९

सूक्तं ८.७०

सूक्तं ८.७१

सूक्तं ८.७२

सूक्तं ८.७३

सूक्तं ८.७४

सूक्तं ८.७५

सूक्तं ८.७६

सूक्तं ८.७७

सूक्तं ८.७८

सूक्तं ८.७९

सूक्तं ८.८०

सूक्तं ८.८१

सूक्तं ८.८२

सूक्तं ८.८३

सूक्तं ८.८४

सूक्तं ८.८५

सूक्तं ८.८६

सूक्तं ८.८७

सूक्तं ८.८८

सूक्तं ८.८९

सूक्तं ८.९०

सूक्तं ८.९१

सूक्तं ८.९२

सूक्तं ८.९३

सूक्तं ८.९४

सूक्तं ८.९५

सूक्तं ८.९६

सूक्तं ८.९७

सूक्तं ८.९८

सूक्तं ८.९९

सूक्तं ८.१००

सूक्तं ८.१०१

सूक्तं ८.१०२

सूक्तं ८.१०३

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_८.९४&oldid=193306" इत्यस्माद् प्रतिप्राप्तम्