ऋग्वेदः सूक्तं ८.८२
← सूक्तं ८.८१ | ऋग्वेदः - मण्डल ८ सूक्तं ८.८२ कुसीदी काण्वः । |
सूक्तं ८.८३ → |
दे. इन्द्रः । गायत्री। |
आ प्र द्रव परावतोऽर्वावतश्च वृत्रहन् ।
मध्वः प्रति प्रभर्मणि ॥१॥
तीव्राः सोमास आ गहि सुतासो मादयिष्णवः ।
पिबा दधृग्यथोचिषे ॥२॥
इषा मन्दस्वादु तेऽरं वराय मन्यवे ।
भुवत्त इन्द्र शं हृदे ॥३॥
आ त्वशत्रवा गहि न्युक्थानि च हूयसे ।
उपमे रोचने दिवः ॥४॥
तुभ्यायमद्रिभिः सुतो गोभिः श्रीतो मदाय कम् ।
प्र सोम इन्द्र हूयते ॥५॥
इन्द्र श्रुधि सु मे हवमस्मे सुतस्य गोमतः ।
वि पीतिं तृप्तिमश्नुहि ॥६॥
य इन्द्र चमसेष्वा सोमश्चमूषु ते सुतः ।
पिबेदस्य त्वमीशिषे ॥७॥
यो अप्सु चन्द्रमा इव सोमश्चमूषु ददृशे ।
पिबेदस्य त्वमीशिषे ॥८॥
यं ते श्येनः पदाभरत्तिरो रजांस्यस्पृतम् ।
पिबेदस्य त्वमीशिषे ॥९॥
सायणभाष्यम्
॥ श्रीगणेशाय नमः ॥
यस्य निःश्वसितं वेदा यो वेदेभ्योऽखिलं जगत् ।
निर्ममे तमहं वन्दे विद्यातीर्थमहेश्वरम् ॥
‘आ प्र द्रव' इति नवर्चं द्वितीयं सूक्तम् । तथा चानुक्रम्यते- ‘ आ प्र द्रव ' इति । ‘ऋषिश्चान्यस्मात् ' इति परिभाषया काण्वः कुसीद्यृषिः । प्राग्वत्सप्रीयपरिभाषया गायत्री छन्दः । अनादेशपरिभाषयेन्द्रो देवता । महाव्रते निष्केवल्ये सूक्तविनियोग उक्तः । द्वितीये रात्रिपर्याये मैत्रावरुणशस्त्रे ‘आ प्र द्रव ' इति तृचोऽनुरूपः । सूत्रितं च- ‘ आ प्र द्रव परावतो नह्यन्यं बळाकरमित्यष्टौ ' ( आश्व. श्रौ. ६. ४ ) इति ।
आ प्र द्र॑व परा॒वतो॑ऽर्वा॒वत॑श्च वृत्रहन् ।
मध्व॒ः प्रति॒ प्रभ॑र्मणि ॥१
आ । प्र । द्र॒व॒ । प॒रा॒ऽवतः॑ । अ॒र्वा॒ऽवतः॑ । च॒ । वृ॒त्र॒ऽह॒न् ।
मध्वः॑ । प्रति॑ । प्रऽभ॑र्मणि ॥१
आ । प्र । द्रव । पराऽवतः । अर्वाऽवतः । च । वृत्रऽहन् ।
मध्वः । प्रति । प्रऽभर्मणि ॥१
हे “वृत्रहन् अपामावरकस्य वृत्रासुरस्य हन्तर्हे इन्द्र “प्रभर्मणि । प्रकृष्टानि भर्माणि भरणानि पशुग्रहादिसंपादनानि यस्मिन् स प्रभर्मा यज्ञः । यद्वा । प्रकृष्टाः कर्मणि कुशला भर्माणो देवानां हविष्प्रदानेन पोषका ऋत्विजो यस्मिन्निति स तथोक्तः । एतादृशे यज्ञे "मध्वः मदकरान् सोमान् “प्रति "परावतः विप्रकृष्टात् दूरस्थाद्देशादपि “अर्वावतश्च समीपस्थाद्देशादपि आभिमुख्येन “प्र “द्रव त्वं त्वरयागच्छ । मध्व इति ‘वा छन्दसि' इति पूर्वसवर्णदीर्घाभावः ।।
ती॒व्राः सोमा॑स॒ आ ग॑हि सु॒तासो॑ मादयि॒ष्णव॑ः ।
पिबा॑ द॒धृग्यथो॑चि॒षे ॥२
ती॒व्राः । सोमा॑सः । आ । ग॒हि॒ । सु॒तासः॑ । मा॒द॒यि॒ष्णवः॑ ।
पिब॑ । द॒धृक् । यथा॑ । ओ॒चि॒षे ॥२
तीव्राः । सोमासः । आ । गहि । सुतासः । मादयिष्णवः ।
पिब । दधृक् । यथा । ओचिषे ॥२
हे इन्द्र “तीव्राः तीव्रमदाः । क्षिप्रं मदकारिण इत्यर्थः । “मादयिष्णवः मादनशीला मादनकारिणो वेमे “सोमासः सोमाः “सुतासः त्वदर्थमभिषुताः । तस्मात् “आ “गहि अस्मदीयं यज्ञं प्रत्यागच्छ । आगत्य च तान् “पिब । सोमपाने कारणमाह । त्वं “यथा “दधृक् धृष्टस्तत्प्रीतौ प्रगल्भः संस्तान् “ऊचिषे समवैषि सेवसे । ततस्तान यथाकामं पिबेत्यर्थः । दृधृगिति ‘ञिधृषा प्रागल्भ्ये' इत्यस्मात् ‘ ऋत्विग्दधृक् ' इत्यादिना क्विन्प्रत्ययान्तो निपात्यते । ऊचिषे ।' उच समवाये । छान्दसे लिटि रूपम् ॥
इ॒षा म॑न्द॒स्वादु॒ तेऽरं॒ वरा॑य म॒न्यवे॑ ।
भुव॑त्त इन्द्र॒ शं हृ॒दे ॥३
इ॒षा । म॒न्द॒स्व॒ । आत् । ऊं॒ इति॑ । ते॒ । अर॑म् । वरा॑य । म॒न्यवे॑ ।
भुव॑त् । ते॒ । इ॒न्द्र॒ । शम् । हृ॒दे ॥३
इषा । मन्दस्व । आत् । ऊं इति । ते । अरम् । वराय । मन्यवे ।
भुवत् । ते । इन्द्र । शम् । हृदे ॥३
हे "इन्द्र “इषा सोमलक्षणेनान्नेन “मन्दस्व मोदस्व हृष्टो भव । “उ इत्यवधारणे । “आत् अनन्तरमेव “ते तव “वराय शत्रुनिवारकाय “मन्यवे क्रोधाय स सोमः "अरम् अलं पर्याप्तो भवतु । क्रोधशमने समर्थो भवतु । यदा सोमं पिबति तदा मन्युं त्यजतीत्यर्थः । किंच “ते तव “हृदे हृदये स सोमः “शं शंकरः सुखकरः “भुवत् भवतु ॥
तृतीये पर्याये ‘आ त्वशत्रो' इत्यनुरूपस्तृचः । सूत्रितं च- ‘ आ त्वेता नि दीदता स्वशत्रवा गहि' ( आश्व. श्रौ. ६. ४ ) इति ॥
आ त्व॑शत्र॒वा ग॑हि॒ न्यु१॒॑क्थानि॑ च हूयसे ।
उ॒प॒मे रो॑च॒ने दि॒वः ॥४
आ । तु । अ॒श॒त्रो॒ इति॑ । आ । ग॒हि॒ । नि । उ॒क्थानि॑ । च॒ । हू॒य॒से॒ ।
उ॒प॒ऽमे । रो॒च॒ने । दि॒वः ॥४
आ । तु । अशत्रो इति । आ । गहि । नि । उक्थानि । च । हूयसे ।
उपऽमे । रोचने । दिवः ॥४
हे “अशत्रो सपत्नरहित । अस्य बहुविधबलत्वाद्रणाभिमुखं गन्तारः शत्रवो न सन्तीत्यर्थः । तादृशेन्द्र “तु क्षिप्रम् “आ “गहि आयाहि अस्मद्यज्ञं प्रत्यागच्छ । यतः "दिवः स्वतेजसा दीप्यमानात् द्युलोकात् । तत्रस्थैर्देवैरित्यर्थः । “रोचने अग्निभिर्दीप्यमाने लोके च “उपमे समीपे । स्तोतारः स्तोत्रशस्त्रात्मकं शब्दं कुर्वन्त्यत्रेत्युपमो यज्ञः । तस्मिन्नस्मदीये यज्ञे “च “उक्थानि त्रिवृत्पञ्चदशादिलक्षणानि स्तोत्राणि प्रति “नि "हूयसे त्वं स्तोतव्यतया नितरामाहूयसे । यस्मादेवं तस्मादागच्छेति समन्वयः ॥
तुभ्या॒यमद्रि॑भिः सु॒तो गोभि॑ः श्री॒तो मदा॑य॒ कम् ।
प्र सोम॑ इन्द्र हूयते ॥५
तुभ्य॑ । अ॒यम् । अद्रि॑ऽभिः । सु॒तः । गोभिः॑ । श्री॒तः । मदा॑य । कम् ।
प्र । सोमः॑ । इ॒न्द्र॒ । हू॒य॒ते॒ ॥५
तुभ्य । अयम् । अद्रिऽभिः । सुतः । गोभिः । श्रीतः । मदाय । कम् ।
प्र । सोमः । इन्द्र । हूयते ॥५
हे “इन्द्र “अद्रिभिः अभिषवसाधनैर्ग्रावभिः “अयं “सोमः तुभ्यं त्वदर्थं "सुतः अभिषुतः । ततो दशापवित्रेण पूत्वा “गोभिः गोविकारैः क्षीरादिभिः “श्रीतः सोऽस्माभिः परावत एव संस्कृतः सोमस्तव "मदाय मदार्थं "कं सुखेन “प्र “हूयते अग्नौ स्वाहा क्रियते । तस्मादागत्य सोमं पिब ॥ ॥१॥
इन्द्र॑ श्रु॒धि सु मे॒ हव॑म॒स्मे सु॒तस्य॒ गोम॑तः ।
वि पी॒तिं तृ॒प्तिम॑श्नुहि ॥६
इन्द्र॑ । श्रु॒धि । सु । मे॒ । हव॑म् । अ॒स्मे इति॑ । सु॒तस्य॑ । गोऽम॑तः ।
वि । पी॒तिम् । तृ॒प्तिम् । अ॒श्नु॒हि॒ ॥६
इन्द्र । श्रुधि । सु । मे । हवम् । अस्मे इति । सुतस्य । गोऽमतः ।
वि । पीतिम् । तृप्तिम् । अश्नुहि ॥६
हे “इन्द्र “मे मदीयं “हवं त्वद्विषयमाह्वानं “सु सुष्ठु “श्रुधि शृणु । तथा “अस्मे अस्माभिः “सुतस्य अभिषुतस्य “गोमतः गव्यक्षीरवतः । क्षीरेण मिश्रितस्येत्यर्थः । तादृशस्य सोमस्य “पीतिं पानं “वि “अश्नुहि विविधं प्राप्नुहि । तत्पानेन विविधां “तृप्तिं च गच्छ । 'अशू व्याप्तौ' । व्यत्ययेन परस्मैपदम् ॥
तृतीये पर्याय एवाच्छावाकशस्त्रे ‘य इन्द्र चमसेषु' इति तृचः । सूत्रितं च--- य इन्द्र चमसेष्वा सोमः प्र वः सताम् ' ( आश्व. श्रौ. ६. ४) इति ॥
य इ॑न्द्र चम॒सेष्वा सोम॑श्च॒मूषु॑ ते सु॒तः ।
पिबेद॑स्य॒ त्वमी॑शिषे ॥७
यः । इ॒न्द्र॒ । च॒म॒सेषु॑ । आ । सोमः॑ । च॒मूषु॑ । ते॒ । सु॒तः ।
पिब॑ । इत् । अ॒स्य॒ । त्वम् । ई॒शि॒षे॒ ॥७
यः । इन्द्र । चमसेषु । आ । सोमः । चमूषु । ते । सुतः ।
पिब । इत् । अस्य । त्वम् । ईशिषे ॥७
हे “इन्द्र “ते त्वदर्थं “सुतः अभिषुतः “यः “सोमः “चमसेषु एतन्नामकेषु पात्रेषु तथा “चमूषु । चमन्ति यजन्त्यत्रेति चम्वो ग्रहाः । तेषु च “आ सर्वतः अस्ति “अस्य तमेतं सोमं “पिबेत् । इदवधारणे । पिबैव । कथमस्य सोमपानयोग्यता तत्राह । हे इन्द्र “त्वमीशिषे तस्य त्वमेवेश्वरो भवसि खलु । यत एवं ततः पिबेति समन्वयः । 'ईश ऐश्वर्ये '। लटि ‘ईशः से (पा. सू. ७. २. ७७ ) इतीडागमः ॥
यो अ॒प्सु च॒न्द्रमा॑ इव॒ सोम॑श्च॒मूषु॒ ददृ॑शे ।
पिबेद॑स्य॒ त्वमी॑शिषे ॥८
यः । अ॒प्ऽसु । च॒न्द्रमाः॑ऽइव । सोमः॑ । च॒मूषु॑ । ददृ॑शे ।
पिब॑ । इत् । अ॒स्य॒ । त्वम् । ई॒शि॒षे॒ ॥८
यः । अप्ऽसु । चन्द्रमाःऽइव । सोमः । चमूषु । ददृशे ।
पिब । इत् । अस्य । त्वम् । ईशिषे ॥८
हे इन्द्र "यः गृहीतः “सोमः “चमूषु ग्रहेषु “ददृशे अन्तर्दृश्यते । तत्र दृष्टान्तः । “चन्द्रमाइव यथा चन्द्रमाः “अप्सु अन्तरिक्षे निर्मलतया दृश्यते तद्वत् । यद्वा । अप्सूदकेषु चन्द्रमाः प्रतिबिम्बतया नानाविधो दृश्यते तथाष्टग्रहेष्वनेकरूपः सन् दृश्यते तमेतं सोमं पिबैव यतस्त्वमेवेशिषे खलु ॥
यं ते॑ श्ये॒नः प॒दाभ॑रत्ति॒रो रजां॒स्यस्पृ॑तम् ।
पिबेद॑स्य॒ त्वमी॑शिषे ॥९
यम् । ते॒ । श्ये॒नः । प॒दा । आ । अभ॑रत् । ति॒रः । रजां॑सि । अस्पृ॑तम् ।
पिब॑ । इत् । अ॒स्य॒ । त्वम् । ई॒शि॒षे॒ ॥९
यम् । ते । श्येनः । पदा । आ । अभरत् । तिरः । रजांसि । अस्पृतम् ।
पिब । इत् । अस्य । त्वम् । ईशिषे ॥९
हे इन्द्र “श्येनः शंसनीयः पक्षी । पक्षिरूपधारिणी गायत्रीत्यर्थः । स पक्षी “रजांसि अन्तरिक्षादिलोकस्थितान् सोमपालान् गन्धर्वान् “तिरः तिरः कुर्वन् “अस्पृतं शत्रुभिरस्पृष्टं सन्तं “यं सोमं “ते त्वदर्थं "पदा पद्भ्याम् “आभरत् । पदेति सवनद्वयाभिप्रायम् । सवनद्वय आहृतं सोमं त्वं पिब । गायत्री पक्षिरूपं धारयित्वा पद्यां सोममाहरदित्यत्रार्थे यजुर्ब्राह्मणं--' पद्यां अ द्वे सवने समगृह्णान्मुखेनैकं तस्माद्द्वे सवने शुक्रवती प्रातःसवनं च माध्यंदिनं च ' (तै. सं. ६. १. ६. ४ ) इति । तं पिबैव । त्वमेव तस्येश्वरो भवसि ॥ ॥ २ ॥
मण्डल ८ | ||||||
---|---|---|---|---|---|---|