ऋग्वेदः सूक्तं ८.२०
← सूक्तं ८.१९ | ऋग्वेदः - मण्डल ८ सूक्तं ८.२० सोभरिः काण्वः। |
सूक्तं ८.२१ → |
दे. मरुतः । प्रगाथः ( ), १४ सतोविराट् |
आ गन्ता मा रिषण्यत प्रस्थावानो माप स्थाता समन्यवः ।
स्थिरा चिन्नमयिष्णवः ॥१॥
वीळुपविभिर्मरुत ऋभुक्षण आ रुद्रासः सुदीतिभिः ।
इषा नो अद्या गता पुरुस्पृहो यज्ञमा सोभरीयवः ॥२॥
विद्मा हि रुद्रियाणां शुष्ममुग्रं मरुतां शिमीवताम् ।
विष्णोरेषस्य मीळ्हुषाम् ॥३॥
वि द्वीपानि पापतन्तिष्ठद्दुच्छुनोभे युजन्त रोदसी ।
प्र धन्वान्यैरत शुभ्रखादयो यदेजथ स्वभानवः ॥४॥
अच्युता चिद्वो अज्मन्ना नानदति पर्वतासो वनस्पतिः ।
भूमिर्यामेषु रेजते ॥५॥
अमाय वो मरुतो यातवे द्यौर्जिहीत उत्तरा बृहत् ।
यत्रा नरो देदिशते तनूष्वा त्वक्षांसि बाह्वोजसः ॥६॥
स्वधामनु श्रियं नरो महि त्वेषा अमवन्तो वृषप्सवः ।
वहन्ते अह्रुतप्सवः ॥७॥
गोभिर्वाणो अज्यते सोभरीणां रथे कोशे हिरण्यये ।
गोबन्धवः सुजातास इषे भुजे महान्तो न स्परसे नु ॥८॥
प्रति वो वृषदञ्जयो वृष्णे शर्धाय मारुताय भरध्वम् ।
हव्या वृषप्रयाव्णे ॥९॥
वृषणश्वेन मरुतो वृषप्सुना रथेन वृषनाभिना ।
आ श्येनासो न पक्षिणो वृथा नरो हव्या नो वीतये गत ॥१०॥
समानमञ्ज्येषां वि भ्राजन्ते रुक्मासो अधि बाहुषु ।
दविद्युतत्यृष्टयः ॥११॥
त उग्रासो वृषण उग्रबाहवो नकिष्टनूषु येतिरे ।
स्थिरा धन्वान्यायुधा रथेषु वोऽनीकेष्वधि श्रियः ॥१२॥
येषामर्णो न सप्रथो नाम त्वेषं शश्वतामेकमिद्भुजे ।
वयो न पित्र्यं सहः ॥१३॥
तान्वन्दस्व मरुतस्ताँ उप स्तुहि तेषां हि धुनीनाम् ।
अराणां न चरमस्तदेषां दाना मह्ना तदेषाम् ॥१४॥
सुभगः स व ऊतिष्वास पूर्वासु मरुतो व्युष्टिषु ।
यो वा नूनमुतासति ॥१५॥
यस्य वा यूयं प्रति वाजिनो नर आ हव्या वीतये गथ ।
अभि ष द्युम्नैरुत वाजसातिभिः सुम्ना वो धूतयो नशत् ॥१६॥
यथा रुद्रस्य सूनवो दिवो वशन्त्यसुरस्य वेधसः ।
युवानस्तथेदसत् ॥१७॥
ये चार्हन्ति मरुतः सुदानवः स्मन्मीळ्हुषश्चरन्ति ये ।
अतश्चिदा न उप वस्यसा हृदा युवान आ ववृध्वम् ॥१८॥
यून ऊ षु नविष्ठया वृष्णः पावकाँ अभि सोभरे गिरा ।
गाय गा इव चर्कृषत् ॥१९॥
साहा ये सन्ति मुष्टिहेव हव्यो विश्वासु पृत्सु होतृषु ।
वृष्णश्चन्द्रान्न सुश्रवस्तमान्गिरा वन्दस्व मरुतो अह ॥२०॥
गावश्चिद्घा समन्यवः सजात्येन मरुतः सबन्धवः ।
रिहते ककुभो मिथः ॥२१॥
मर्तश्चिद्वो नृतवो रुक्मवक्षस उप भ्रातृत्वमायति ।
अधि नो गात मरुतः सदा हि व आपित्वमस्ति निध्रुवि ॥२२॥
मरुतो मारुतस्य न आ भेषजस्य वहता सुदानवः ।
यूयं सखायः सप्तयः ॥२३॥
याभिः सिन्धुमवथ याभिस्तूर्वथ याभिर्दशस्यथा क्रिविम् ।
मयो नो भूतोतिभिर्मयोभुवः शिवाभिरसचद्विषः ॥२४॥
यत्सिन्धौ यदसिक्न्यां यत्समुद्रेषु मरुतः सुबर्हिषः ।
यत्पर्वतेषु भेषजम् ॥२५॥
विश्वं पश्यन्तो बिभृथा तनूष्वा तेना नो अधि वोचत ।
क्षमा रपो मरुत आतुरस्य न इष्कर्ता विह्रुतं पुनः ॥२६॥
सायणभाष्यम्
‘आ गन्त' इति षड्विंशत्यृचमष्टमं सूक्तं काण्वस्य सोभरेरार्षं मारुतम् । प्रथमाद्ययुजः ककुभो द्वितीयादियुजः सतोबृहत्यः । अनुक्रम्यते हि - ‘ आ गन्त षड्विंशतिर्मारुम्' इति । गतो विनियोगः ॥
आ ग॑न्ता॒ मा रि॑षण्यत॒ प्रस्था॑वानो॒ माप॑ स्थाता समन्यवः ।
स्थि॒रा चि॑न्नमयिष्णवः ॥१
आ । ग॒न्त॒ । मा । रि॒ष॒ण्य॒त॒ । प्रऽस्था॑वानः । मा । अप॑ । स्था॒त॒ । स॒ऽम॒न्य॒वः॒ ।
स्थि॒रा । चि॒त् । न॒म॒यि॒ष्ण॒वः॒ ॥१
आ । गन्त । मा । रिषण्यत । प्रऽस्थावानः । मा । अप । स्थात । सऽमन्यवः ।
स्थिरा । चित् । नमयिष्णवः ॥१
हे “प्रस्थावानः प्रस्थातारः प्रगन्तारो मरुतः “आ “गन्त अस्मानागच्छत । “मा “रिषण्यत अनागमनेनास्मान् मा हिंस्त । हे “समन्यवः समानतेजस्काः समानक्रोधा वा “स्थिरा “चित् स्थिराणि दृढान्यपि पर्वतादीनि हे "नमयिष्णवः नमनशीलाः कम्पयितारः “माप “स्थात अस्मत्तोऽपेत्यान्यत्र मा तिष्ठत । अस्मास्वेव तिष्ठतेत्यर्थः ॥
वी॒ळु॒प॒विभि॑र्मरुत ऋभुक्षण॒ आ रु॑द्रासः सुदी॒तिभि॑ः ।
इ॒षा नो॑ अ॒द्या ग॑ता पुरुस्पृहो य॒ज्ञमा सो॑भरी॒यव॑ः ॥२
वी॒ळु॒प॒विऽभिः॑ । म॒रु॒तः॒ । ऋ॒भु॒क्ष॒णः॒ । आ । रु॒द्रा॒सः॒ । सु॒दी॒तिऽभिः॑ ।
इ॒षा । नः॒ । अ॒द्य । आ । ग॒त॒ । पु॒रु॒ऽस्पृ॒हः॒ । य॒ज्ञम् । आ । सो॒भ॒री॒ऽयवः॑ ॥२
वीळुपविऽभिः । मरुतः । ऋभुक्षणः । आ । रुद्रासः । सुदीतिऽभिः ।
इषा । नः । अद्य । आ । गत । पुरुऽस्पृहः । यज्ञम् । आ । सोभरीऽयवः ॥२
हे “ऋभुक्षणः महान्त उरुभासमाननिवासा वा हे “रुद्रासः रुद्रा रुद्रपुत्राः ईदृशा हे "मरुतः “सुदीतिभिः शोभनदीप्तिकैः “वीळुपविभिः । रथनेमयः पवयः । वीळु दृढाः पवयो येषु तादृशै रथैः “आ “गत आगच्छत । एतदेव विवृणोति । हे “पुरुस्पृहः बहुभिः स्पृहणीया ईप्सितव्याः "सोभरीयवः सोभरिमृषिं मां कामयमानाः “नः अस्माकं “यज्ञं प्रति “अद्य इदानीम् “इषा अन्नेन सहागच्छत । आ पूरणः ॥
वि॒द्मा हि रु॒द्रिया॑णां॒ शुष्म॑मु॒ग्रं म॒रुतां॒ शिमी॑वताम् ।
विष्णो॑रे॒षस्य॑ मी॒ळ्हुषा॑म् ॥३
वि॒द्म । हि । रु॒द्रिया॑णाम् । शुष्म॑म् । उ॒ग्रम् । म॒रुता॑म् । शिमी॑ऽवताम् ।
विष्णोः॑ । ए॒षस्य॑ । मी॒ळ्हुषा॑म् ॥३
विद्म । हि । रुद्रियाणाम् । शुष्मम् । उग्रम् । मरुताम् । शिमीऽवताम् ।
विष्णोः । एषस्य । मीळ्हुषाम् ॥३
“रुद्रियाणां रुद्रपुत्राणां “शिमीवतां कर्मवतां “विष्णोः व्याप्तस्य “एषस्य एषणीयस्य वृष्ट्युदकस्य “मीळ्हुषां सेक्तॄणां “मरुताम् "उग्रम् उद्गूर्णं “शुष्मं बलं “विद्म "हि जानीमः खलु ॥
वि द्वी॒पानि॒ पाप॑त॒न्तिष्ठ॑द्दु॒च्छुनो॒भे यु॑जन्त॒ रोद॑सी ।
प्र धन्वा॑न्यैरत शुभ्रखादयो॒ यदेज॑थ स्वभानवः ॥४
वि । द्वी॒पानि॑ । पाप॑तन् । तिष्ठ॑त् । दु॒च्छुना॑ । उ॒भे इति॑ । यु॒ज॒न्त॒ । रोद॑सी॒ इति॑ ।
प्र । धन्वा॑नि । ऐ॒र॒त॒ । शु॒भ्र॒ऽखा॒द॒यः॒ । यत् । एज॑थ । स्व॒ऽभा॒न॒वः॒ ॥४
वि । द्वीपानि । पापतन् । तिष्ठत् । दुच्छुना । उभे इति । युजन्त । रोदसी इति ।
प्र । धन्वानि । ऐरत । शुभ्रऽखादयः । यत् । एजथ । स्वऽभानवः ॥४
"द्वीपानि द्वयोः पार्श्वयोरापो येषु तान्युदमध्यस्थलानि । “द्व्यन्तरुपसर्गेभ्योऽप ईत्' (पा. सू. ६. ३. ९७ ) इतीत्वम् । 'ऋक्पूः इत्यादिनाकारः समासान्तः । तानि च "वि "पापतन् अत्यर्थं मरुद्वेगेन विपतन्ति । “तिष्ठत् स्थावरं चान्यद्वृक्षजातं “दुच्छुना दुःखेन युज्यते । "उभे “रोदसी द्यावापृथिव्यावपि “युजन्त । ते मरुतः स्वागमनजनितेन कम्पनेन योजयन्ति । परोऽर्धर्चः परोक्षकृतः । “धन्वानि गमनशीलान्युदकानि च “प्र “ऐरत प्रगच्छन्ति । हे “शुभ्रखादयः शोभनायुधाः शोभनहविष्का वा हे "स्वभानवः स्वायत्तदीप्तयः यूयं “यत् यदा “एजथ कम्पयथ । तदैतत्पूर्वोक्तं सर्वं निष्पद्यत इत्यर्थः ॥
अच्यु॑ता चिद्वो॒ अज्म॒न्ना नान॑दति॒ पर्व॑तासो॒ वन॒स्पति॑ः ।
भूमि॒र्यामे॑षु रेजते ॥५
अच्यु॑ता । चि॒त् । वः॒ । अज्म॑न् । आ । नान॑दति । पर्व॑तासः । वन॒स्पतिः॑ ।
भूमिः॑ । यामे॑षु । रे॒ज॒ते॒ ॥५
अच्युता । चित् । वः । अज्मन् । आ । नानदति । पर्वतासः । वनस्पतिः ।
भूमिः । यामेषु । रेजते ॥५
हे मरुतः “वः युष्माकम् “अज्मन् अज्मनि गमने सति “अच्युता “चित् च्यावयितुमशक्या अपि “पर्वतासः पर्वता मेघा गिरयो वा “वनस्पतिः । जातावेकवचनम् । वनस्पतयो वृक्षाश्च “आ “नानदति अभितो भृशं शब्दायन्ते । अपि च “यामेषु युष्मदीयेषु गमनेषु निमित्तेषु “भूमिः पृथिवी च “रेजते कम्पते ॥ ॥ ३६ ॥
अमा॑य वो मरुतो॒ यात॑वे॒ द्यौर्जिही॑त॒ उत्त॑रा बृ॒हत् ।
यत्रा॒ नरो॒ देदि॑शते त॒नूष्वा त्वक्षां॑सि बा॒ह्वो॑जसः ॥६
अमा॑य । वः॒ । म॒रु॒तः॒ । यात॑वे । द्यौः । जिही॑ते । उत्ऽत॑रा । बृ॒हत् ।
यत्र॑ । नरः॑ । देदि॑शते । त॒नूषु॑ । आ । त्वक्षां॑सि । ब॒हुऽओ॑जसः ॥६
अमाय । वः । मरुतः । यातवे । द्यौः । जिहीते । उत्ऽतरा । बृहत् ।
यत्र । नरः । देदिशते । तनूषु । आ । त्वक्षांसि । बहुऽओजसः ॥६
हे “मरुतः “वः युष्माकम् "अमाय बलाय "यातवे यातुं “द्यौः द्युलोकः “बृहत् अन्तरिक्षं विसृज्य “उत्तरा उद्गततरा “जिहीते गच्छति । युष्मदागमनाद्भीता सती युष्मदीयमान्तरिक्षं स्थानं परित्यज्योर्ध्वं पलायत इत्यर्थः । “यत्र यस्मिन्नन्तरिक्षे “बाह्वोजसः बाह्वोरोजो बलं येषां तादृशाः “नरः नेतारो मरुतः “त्वक्षांसि दीप्तान्याभरणानि “तनूषु आत्मीयेषु शरीरेषु “आ “देदिशते आदिष्टानि धृतानि कुर्वन्ति । यद्वा । तनूषु विस्तृतासु मेघस्थास्वप्सु त्वक्षांसि तनूकृतानि तीक्ष्णीकृतान्यायुधानि मेघोद्भेदनाय आ देदिशते पुनःपुनरादिशन्ति । तद्बृहदन्तरिक्षं जिहीत इत्यन्वयः ।।
स्व॒धामनु॒ श्रियं॒ नरो॒ महि॑ त्वे॒षा अम॑वन्तो॒ वृष॑प्सवः ।
वह॑न्ते॒ अह्रु॑तप्सवः ॥७
स्व॒धाम् । अनु॑ । श्रिय॑म् । नरः॑ । महि॑ । त्वे॒षाः । अम॑ऽवन्तः । वृष॑ऽप्सवः ।
वह॑न्ते । अह्रु॑तऽप्सवः ॥७
स्वधाम् । अनु । श्रियम् । नरः । महि । त्वेषाः । अमऽवन्तः । वृषऽप्सवः ।
वहन्ते । अह्रुतऽप्सवः ॥७
“नरः नेतारो मरुतः “स्वधामनु । स्वधेत्यन्ननाम । हविर्लक्षणमन्नमनुलक्ष्य “श्रियं शोभां “महि महत्प्रौढं “वहन्ते धारयन्ति । कीदृशाः । “त्वेषाः दीप्ताः “अमवन्तः बलवन्तः “वृषप्सवः वर्षणरूपाः "अह्रुतप्सवः अकुटिलरूपाश्च ॥
गोभि॑र्वा॒णो अ॑ज्यते॒ सोभ॑रीणां॒ रथे॒ कोशे॑ हिर॒ण्यये॑ ।
गोब॑न्धवः सुजा॒तास॑ इ॒षे भु॒जे म॒हान्तो॑ न॒ः स्पर॑से॒ नु ॥८
गोभिः॑ । वा॒णः । अ॒ज्य॒ते॒ । सोभ॑रीणाम् । रथे॑ । कोशे॑ । हि॒र॒ण्यये॑ ।
गोऽब॑न्धवः । सु॒ऽजा॒तासः॑ । इ॒षे । भु॒जे । म॒हान्तः॑ । नः॒ । स्पर॑से । नु ॥८
गोभिः । वाणः । अज्यते । सोभरीणाम् । रथे । कोशे । हिरण्यये ।
गोऽबन्धवः । सुऽजातासः । इषे । भुजे । महान्तः । नः । स्परसे । नु ॥८
“सोभरीणाम् ऋषीणां “गोभिः शब्दैः स्तुतिलक्षणैः “वाणः मरुद्वीणा “अज्यते व्यज्यते प्रकटीक्रियते। कुत्र। “हिरण्यये “रथे “कोशे कोशवद्वेष्टिते मध्यदेशे। यद्वा । गोभिर्गन्तृभिर्गोमातृकैर्वा मरुद्भिर्वाणोऽज्यते व्यज्यते । सोभरीणां ज्ञानायेदृशे रथे वाद्यत इत्यर्थः । अपि च "गोबन्धवः गोमातृकाः “सुजातासः शोभनजन्मानः “महान्तः महानुभावास्ते मरुतः “नः अस्माकम् “इषे अन्नाय “भुजे भोगाय “स्परसे प्रीत्यै च बलनाय वा “नु क्षिप्रं भवन्विति शेषः ॥
प्रति॑ वो वृषदञ्जयो॒ वृष्णे॒ शर्धा॑य॒ मारु॑ताय भरध्वम् ।
ह॒व्या वृष॑प्रयाव्णे ॥९
प्रति॑ । वः॒ । वृ॒ष॒त्ऽअ॒ञ्ज॒यः॒ । वृष्णे॑ । शर्धा॑य । मारु॑ताय । भ॒र॒ध्व॒म् ।
ह॒व्या । वृष॑ऽप्रयाव्ने ॥९
प्रति । वः । वृषत्ऽअञ्जयः । वृष्णे । शर्धाय । मारुताय । भरध्वम् ।
हव्या । वृषऽप्रयाव्ने ॥९
हे वृषदञ्जयः वृषता वर्षकेण सोमेनाञ्जन्तः सिञ्चन्तोऽध्वर्यवः “वः यूयं “वृष्णे वर्षित्रे “मारुताय मरुत्संघरूपाय “शर्धाय बलाय हव्यानि हवींषि “प्रति “भरध्वम् । आहवनीयं प्रति हरत । शर्धं विशेष्यते । “वृषप्रयाव्णे । वृषाणः सेक्तारः प्रयावानः प्रकृष्टं गन्तारो मरुतो यस्मिन् तत्तथोक्तम् । तस्मै ॥
वृ॒ष॒ण॒श्वेन॑ मरुतो॒ वृष॑प्सुना॒ रथे॑न॒ वृष॑नाभिना ।
आ श्ये॒नासो॒ न प॒क्षिणो॒ वृथा॑ नरो ह॒व्या नो॑ वी॒तये॑ गत ॥१०
वृ॒ष॒ण॒श्वेन॑ । म॒रु॒तः॒ । वृष॑ऽप्सुना । रथे॑न । वृष॑ऽनाभिना ।
आ । श्ये॒नासः॑ । न । प॒क्षिणः॑ । वृथा॑ । न॒रः॒ । ह॒व्या । नः॒ । वी॒तये॑ । ग॒त॒ ॥१०
वृषणश्वेन । मरुतः । वृषऽप्सुना । रथेन । वृषऽनाभिना ।
आ । श्येनासः । न । पक्षिणः । वृथा । नरः । हव्या । नः । वीतये । गत ॥१०
हे “नरः नेतारः “मरुतः “वृषणश्वेन वृषभिः सेचनसमर्थैरश्वैरुपेतेन “वृषप्सुना वर्षकरूपयुक्तेन “वृषनाभिना । नाभिश्चक्रच्छिद्रम् । वर्षकनाभियुक्तेन “रथेन “नः अस्माकं हव्यानि हवींषि "आ “गत आगच्छत । “वृथा अनायासेनैव “वीतये भक्षणार्थम् । तत्र दृष्टान्तः । “श्येनासो “न “पक्षिणः श्येनाः शंसनीयगतयः पक्षिणो यथा शीघ्रमागच्छन्ति तद्वदनायासेन शीघ्रमागच्छतेत्यर्थः ॥ ॥३७॥
स॒मा॒नम॒ञ्ज्ये॑षां॒ वि भ्रा॑जन्ते रु॒क्मासो॒ अधि॑ बा॒हुषु॑ ।
दवि॑द्युतत्यृ॒ष्टय॑ः ॥११
स॒मा॒नम् । अ॒ञ्जि । ए॒षा॒म् । वि । भ्रा॒ज॒न्ते॒ । रु॒क्मासः॑ । अधि॑ । बा॒हुषु॑ ।
दवि॑द्युतति । ऋ॒ष्टयः॑ ॥११
समानम् । अञ्जि । एषाम् । वि । भ्राजन्ते । रुक्मासः । अधि । बाहुषु ।
दविद्युतति । ऋष्टयः ॥११
“एषां मरुताम् “अञ्जि रूपाभिव्यञ्जकमाभरणं “समानम् एकविधमेव । एतदेवाह । “रुक्मासः रुक्मा दीप्यमानाः सुवर्णमया हाराः “वि “भ्राजन्ते । वक्षःस्थलेषु विशेषेण दीप्यन्ते । तथा “बाहुषु “अधि अंसेषु “ऋष्टयः शक्त्यादीन्यायुधानि "दविद्युतति अत्यर्थं द्योतन्ते ॥
त उ॒ग्रासो॒ वृष॑ण उ॒ग्रबा॑हवो॒ नकि॑ष्ट॒नूषु॑ येतिरे ।
स्थि॒रा धन्वा॒न्यायु॑धा॒ रथे॑षु॒ वोऽनी॑के॒ष्वधि॒ श्रिय॑ः ॥१२
ते । उ॒ग्रासः॑ । वृष॑णः । उ॒ग्रऽबा॑हवः । नकिः॑ । त॒नूषु॑ । ये॒ति॒रे॒ ।
स्थि॒रा । धन्वा॑नि । आयु॑धा । रथे॑षु । वः॒ । अनी॑केषु । अधि॑ । श्रियः॑ ॥१२
ते । उग्रासः । वृषणः । उग्रऽबाहवः । नकिः । तनूषु । येतिरे ।
स्थिरा । धन्वानि । आयुधा । रथेषु । वः । अनीकेषु । अधि । श्रियः ॥१२
“उग्रासः उद्गूर्णाः सर्वकार्येषूद्यताः “वृषणः वर्षितारः “उग्रबाहवः उद्गूर्णबाहुकाः “ते मरुतः “तनूषु आत्मीयेषु शरीरेषु “नकिः “येतिरे रक्षणाय न प्रयतन्ते । न हि कश्चित्तेषां शरीराणि बाधितुं शक्नोति येन यत्नः क्रियेत । परोऽर्धर्चः प्रत्यक्षकृतः । हे मरुतः “वः युष्माकं “रथेषु “धन्वानि धनूंष्यायुधानि आयोधनानि बाणादीनि च “स्थिरा स्थिराणि दृढतराणि सन्ति । अत एव कारणात् “अनीकेष्वधि सेनामुखेषु “श्रियः जयसंपदः युष्माकं भवन्ति ।।
येषा॒मर्णो॒ न स॒प्रथो॒ नाम॑ त्वे॒षं शश्व॑ता॒मेक॒मिद्भु॒जे ।
वयो॒ न पित्र्यं॒ सह॑ः ॥१३
येषा॑म् । अर्णः॑ । न । स॒ऽप्रथः॑ । नाम॑ । त्वे॒षम् । शश्व॑ताम् । एक॑म् । इत् । भु॒जे ।
वयः॑ । न । पित्र्य॑म् । सहः॑ ॥१३
येषाम् । अर्णः । न । सऽप्रथः । नाम । त्वेषम् । शश्वताम् । एकम् । इत् । भुजे ।
वयः । न । पित्र्यम् । सहः ॥१३
“अर्णो “न उदकमिव “सप्रथः सर्वतः पृथु विस्तीर्णं “त्वेषं दीप्तं “शश्वतां बहूनां “येषां मरुतामीदृशं “नाम मरुत इति नामधेयम् “एकमित् एकमेवासहायमेव सत् "भुजे स्तोतॄणां भोगाय भवति । तत्र दृष्टान्तः । “सहः प्रसहनशीलं "पित्र्यं पितुरागतं “वयो “न अन्नमिव । यथा तद्विस्रम्भेण भोगाय भवति तथेत्यर्थः । तानित्युत्तरत्रैकवाक्यता ॥
तान्व॑न्दस्व म॒रुत॒स्ताँ उप॑ स्तुहि॒ तेषां॒ हि धुनी॑नाम् ।
अ॒राणां॒ न च॑र॒मस्तदे॑षां दा॒ना म॒ह्ना तदे॑षाम् ॥१४
तान् । व॒न्द॒स्व॒ । म॒रुतः॑ । तान् । उप॑ । स्तु॒हि॒ । तेषा॑म् । हि । धुनी॑नाम् ।
अ॒राणा॑म् । न । च॒र॒मः । तत् । ए॒षा॒म् । दा॒ना । म॒ह्ना । तत् । ए॒षा॒म् ॥१४
तान् । वन्दस्व । मरुतः । तान् । उप । स्तुहि । तेषाम् । हि । धुनीनाम् ।
अराणाम् । न । चरमः । तत् । एषाम् । दाना । मह्ना । तत् । एषाम् ॥१४
हे अन्तरात्मन् “तान् पूर्वोक्तगुणान् “मरुतः “वन्दस्व प्रणम । “तान् एवोपेत्य “स्तुहि । “हि यस्मात् “धुनीनां कम्पयितॄणां “तेषां मरुतां वयं शेषभूताः स्मः । “अराणाम् अर्याणां स्वामिनां यथा “चरमः हीनः सेवकः शेषभूतस्तद्वत् । “तत् तस्मात् “एषां मरुतां “दाना दानानि “मह्ना महत्त्वेन युक्तान्यस्माकं भवन्ति । “तदेषाम् इति द्विरुक्तिरादरार्था पदपूरणार्था वा ॥
सु॒भग॒ः स व॑ ऊ॒तिष्वास॒ पूर्वा॑सु मरुतो॒ व्यु॑ष्टिषु ।
यो वा॑ नू॒नमु॒तास॑ति ॥१५
सु॒ऽभगः॑ । सः । वः॒ । ऊ॒तिषु॑ । आस॑ । पूर्वा॑सु । म॒रु॒तः॒ । विऽउ॑ष्टिषु ।
यः । वा॒ । नू॒नम् । उ॒त । अस॑ति ॥१५
सुऽभगः । सः । वः । ऊतिषु । आस । पूर्वासु । मरुतः । विऽउष्टिषु ।
यः । वा । नूनम् । उत । असति ॥१५
हे “मरुतः “वः युष्माकम् “ऊतिषु रक्षासु सतीषु “सः स्तोता “सुभगः “आस शोभनधनो भवति । अस्तेश्छान्दसो भूभावाभावः । यद्वा । सुभग आस दीप्यते । “अस गतिदीप्त्यादानेषु' । कदेति चेत् उच्यते । “पूर्वासु “व्युष्टिषु पूर्वेष्वतीतेषु विवासितेषु दिवसेषु । यद्वा । पूर्वास्वागामिनीषु व्युष्टिषूषःसु । उषःकालोपलक्षितेषु दिवसेषु । "उत अपि च “यः मनुष्यः स्तोता यष्टा वा “नूनम् अवश्यम् “असति युष्माकं भवति । अस्तेः छान्दसः शपो लुगभावः । स सुभग इत्यन्वयः ॥ ॥३८॥
यस्य॑ वा यू॒यं प्रति॑ वा॒जिनो॑ नर॒ आ ह॒व्या वी॒तये॑ ग॒थ ।
अ॒भि ष द्यु॒म्नैरु॒त वाज॑सातिभिः सु॒म्ना वो॑ धूतयो नशत् ॥१६
यस्य॑ । वा॒ । यू॒यम् । प्रति॑ । वा॒जिनः॑ । न॒रः॒ । आ । ह॒व्या । वी॒तये॑ । ग॒थ ।
अ॒भि । सः । द्यु॒म्नैः । उ॒त । वाज॑सातिऽभिः । सु॒म्ना । वः॒ । धू॒त॒यः॒ । न॒श॒त् ॥१६
यस्य । वा । यूयम् । प्रति । वाजिनः । नरः । आ । हव्या । वीतये । गथ ।
अभि । सः । द्युम्नैः । उत । वाजसातिऽभिः । सुम्ना । वः । धूतयः । नशत् ॥१६
हे “नरः नेतारो मरुतः “यूयं “यस्य “वा यस्य च “वाजिनः हविष्मतो यजमानस्य “हव्या हव्यानि हवींषि “प्रति “वीतये भक्षणाय “आ “गथ आगच्छथ “सः यजमानः हे “धूतयः कम्पयितारो मरुतः “द्युम्नैः द्योतमानैरन्नैर्यशोभिर्वा “उत अपि च “वाजसातिभिः वाजानां संभजनैश्च “वः युष्माकं संबन्धीनि “सुम्ना सुम्नानि सुखानि "अभि "नशत् अभितो व्याप्नोति ॥
यथा॑ रु॒द्रस्य॑ सू॒नवो॑ दि॒वो वश॒न्त्यसु॑रस्य वे॒धस॑ः ।
युवा॑न॒स्तथेद॑सत् ॥१७
यथा॑ । रु॒द्रस्य॑ । सू॒नवः॑ । दि॒वः । वश॑न्ति । असु॑रस्य । वे॒धसः॑ ।
युवा॑नः । तथा॑ । इत् । अ॒स॒त् ॥१७
यथा । रुद्रस्य । सूनवः । दिवः । वशन्ति । असुरस्य । वेधसः ।
युवानः । तथा । इत् । असत् ॥१७
"रुद्रस्य दुःखद्रावयितुरीश्वरस्य “सूनवः पुत्राः "असुरस्य उदकानां क्षेप्तुर्मेघस्य “वेधसः विधातारः । यद्वा । असवः प्राणाः । तान् राति ददातीत्यसुरं वृष्टिजलम् । तस्य कर्तारः । “युवानः नित्यतरुणा ईदृशा मरुतः “दिवः अन्तरिक्षादागत्य “यथा येन प्रकारेण “वशन्ति अस्मान् कामयन्ते “तथेत् तेनैव प्रकारेण “असत् इदं स्तोत्रं भवतु । वष्टेः छान्दसः शपो लुगभावः ॥
ये चार्ह॑न्ति म॒रुत॑ः सु॒दान॑व॒ः स्मन्मी॒ळ्हुष॒श्चर॑न्ति॒ ये ।
अत॑श्चि॒दा न॒ उप॒ वस्य॑सा हृ॒दा युवा॑न॒ आ व॑वृध्वम् ॥१८
ये । च॒ । अर्ह॑न्ति । म॒रुतः॑ । सु॒ऽदान॑वः । स्मत् । मी॒ळ्हुषः॑ । चर॑न्ति । ये ।
अतः॑ । चि॒त् । आ । नः॒ । उप॑ । वस्य॑सा । हृ॒दा । युवा॑नः । आ । व॒वृ॒ध्व॒म् ॥१८
ये । च । अर्हन्ति । मरुतः । सुऽदानवः । स्मत् । मीळ्हुषः । चरन्ति । ये ।
अतः । चित् । आ । नः । उप । वस्यसा । हृदा । युवानः । आ । ववृध्वम् ॥१८
“सुदानवः शोभनदानाः "ये “च यजमानाः “मरुतः देवान् “अर्हन्ति पूजयन्ति । “ये च “मीळ्हुषः सेक्तॄन् मरुतः “स्मत् प्रशस्तं “चरन्ति हविर्भिः प्रचरन्ति यजन्ति । यत एवम् “अतः अपि कारणात् तानुभयविधान् “नः अस्मान् "आ अभिलक्ष्य “वस्यसा वसीयसा वसुमत्तमेन "हृदा हृदयेन हे "युवानः मरुतः “उप “आ “ववृध्वम् उपेत्याभिसंभजत ॥
यून॑ ऊ॒ षु नवि॑ष्ठया॒ वृष्ण॑ः पाव॒काँ अ॒भि सो॑भरे गि॒रा ।
गाय॒ गा इ॑व॒ चर्कृ॑षत् ॥१९
यूनः॑ । ऊं॒ इति॑ । सु । नवि॑ष्ठया । वृष्णः॑ । पा॒व॒कान् । अ॒भि । सो॒भ॒रे॒ । गि॒रा ।
गाय॑ । गाःऽइ॑व । चर्कृ॑षत् ॥१९
यूनः । ऊं इति । सु । नविष्ठया । वृष्णः । पावकान् । अभि । सोभरे । गिरा ।
गाय । गाःऽइव । चर्कृषत् ॥१९
हे "सोभरे “यूनः नित्यतरुणान् “वृष्णः वर्षितॄन् "पावकान् तान् मरुतः “नविष्ठया अतिशयेनाभिनवया “गिरा वाचा स्तुतिरूपया "सु शोभनम् “अभि “गाय अभिष्टुहि । “चर्कृषत् पुनःपुनः कृषन् कृषीवलः “गाइव । स यथा यूनः शक्ताननडुहः स्तौति तद्वत् ॥
सा॒हा ये सन्ति॑ मुष्टि॒हेव॒ हव्यो॒ विश्वा॑सु पृ॒त्सु होतृ॑षु ।
वृष्ण॑श्च॒न्द्रान्न सु॒श्रव॑स्तमान्गि॒रा वन्द॑स्व म॒रुतो॒ अह॑ ॥२०
स॒हाः । ये । सन्ति॑ । मु॒ष्टि॒हाऽइ॑व । हव्यः॑ । विश्वा॑सु । पृ॒त्ऽसु । होतृ॑षु ।
वृष्णः॑ । च॒न्द्रान् । न । सु॒श्रवः॑ऽतमान् । गि॒रा । वन्द॑स्व । म॒रुतः॑ । अह॑ ॥२०
सहाः । ये । सन्ति । मुष्टिहाऽइव । हव्यः । विश्वासु । पृत्ऽसु । होतृषु ।
वृष्णः । चन्द्रान् । न । सुश्रवःऽतमान् । गिरा । वन्दस्व । मरुतः । अह ॥२०
“विश्वासु सर्वासु “पृत्सु पृतनासु युद्धेषु “होतृषु आह्वानशीलेषु “योद्धृषु च "ये मरुतः “सहाः “सन्ति अभिभवितारो भवन्ति "हव्यः ह्वातव्यः “मुष्टिहेव । मुष्टिभिरेव हन्तीति मुष्टिहा मल्लः । स इव । नेति संप्रत्यर्थे । “न संप्रति “वृष्णः वर्षितॄन् “चन्द्रान् आह्लादकान् “सुश्रवस्तमान् अतिशयेन शोभनयशस्कांस्तान् "मरुतः “अह मरुत एव “गिरा वाचा "वन्दस्व स्तुहि ॥ ॥ ३९ ॥
गाव॑श्चिद्घा समन्यवः सजा॒त्ये॑न मरुत॒ः सब॑न्धवः ।
रि॒ह॒ते क॒कुभो॑ मि॒थः ॥२१
गावः॑ । चि॒त् । घ॒ । स॒ऽम॒न्य॒वः॒ । स॒ऽजा॒त्ये॑न । म॒रु॒तः॒ । सऽब॑न्धवः ।
रि॒ह॒ते । क॒कुभः॑ । मि॒थः ॥२१
गावः । चित् । घ । सऽमन्यवः । सऽजात्येन । मरुतः । सऽबन्धवः ।
रिहते । ककुभः । मिथः ॥२१
हे “समन्यवः समानतेजस्काः समानक्रोधा वा हे "मरुतः "गावश्चित् गावश्च युष्मन्मातृभूताः “सजात्येन समानजातित्वेन “सबन्धवः समानबन्धुकाः सत्यः “ककुभः दिशः प्राच्यादिदिग्भागान् प्राप्य “मिथः परस्परं “रिहते लिहन्ति । “घ इति पूरकः ॥
मर्त॑श्चिद्वो नृतवो रुक्मवक्षस॒ उप॑ भ्रातृ॒त्वमाय॑ति ।
अधि॑ नो गात मरुत॒ः सदा॒ हि व॑ आपि॒त्वमस्ति॒ निध्रु॑वि ॥२२
मर्तः॑ । चि॒त् । वः॒ । नृ॒त॒वः॒ । रु॒क्म॒ऽव॒क्ष॒सः॒ । उप॑ । भ्रा॒तृ॒ऽत्वम् । आ । अ॒य॒ति॒ ।
अधि॑ । नः॒ । गा॒त॒ । म॒रु॒तः॒ । सदा॑ । हि । वः॒ । आ॒पि॒ऽत्वम् । अस्ति॑ । निऽध्रु॑वि ॥२२
मर्तः । चित् । वः । नृतवः । रुक्मऽवक्षसः । उप । भ्रातृऽत्वम् । आ । अयति ।
अधि । नः । गात । मरुतः । सदा । हि । वः । आपिऽत्वम् । अस्ति । निऽध्रुवि ॥२२
हे “नृतवः नृत्यन्तो हे “रुक्मवक्षसः । रोचमानमाभरणं रुक्मं वक्षसि येषां ते तथोक्ताः । ईदृशा हे “मरुतः “मर्तश्चित् मनुष्योऽपि स्तोता “वः युष्माकं “भ्रातृत्वं सखित्वम् “आ आभिमुख्येन “उप “अयति उपगच्छति । अतः “नः अस्मान् मनुष्यान् स्तोतॄन् “अधि “गात अधिब्रूत अस्मत्पक्षपातवचना भवत । “हि यस्मात् “वः युष्माकम् “आपित्वं बन्धुत्वं “निध्रुवि नितरां धारयितव्ये स्तोत्रे यज्ञे वा “सदा सर्वदा “अस्ति विद्यते तस्मादित्यर्थः ॥
मरु॑तो॒ मारु॑तस्य न॒ आ भे॑ष॒जस्य॑ वहता सुदानवः ।
यू॒यं स॑खायः सप्तयः ॥२३
मरु॑तः । मारु॑तस्य । नः॒ । आ । भे॒ष॒जस्य॑ । व॒ह॒त॒ । सु॒ऽदा॒न॒वः॒ ।
यू॒यम् । स॒खा॒यः॒ । स॒प्त॒यः॒ ॥२३
मरुतः । मारुतस्य । नः । आ । भेषजस्य । वहत । सुऽदानवः ।
यूयम् । सखायः । सप्तयः ॥२३
हे “सुदानवः शोभनदाना हे “सखायः समानख्याना हे "सप्तयः सर्पणशीलाः “मरुतः “नः अस्माकं “मारुतस्य “भेषजस्य मरुत्संबन्धि भेषजमौषधं “यूयम् "आ “वहत आनयत ॥
याभि॒ः सिन्धु॒मव॑थ॒ याभि॒स्तूर्व॑थ॒ याभि॑र्दश॒स्यथा॒ क्रिवि॑म् ।
मयो॑ नो भूतो॒तिभि॑र्मयोभुवः शि॒वाभि॑रसचद्विषः ॥२४
याभिः॑ । सिन्धु॑म् । अव॑थ । याभिः॑ । तूर्व॑थ । याभिः॑ । द॒श॒स्यथ॑ । क्रिवि॑म् ।
मयः॑ । नः॒ । भू॒त॒ । ऊ॒तिऽभिः॑ । म॒यः॒ऽभु॒वः॒ । शि॒वाभिः॑ । अ॒स॒च॒ऽद्वि॒षः॒ ॥२४
याभिः । सिन्धुम् । अवथ । याभिः । तूर्वथ । याभिः । दशस्यथ । क्रिविम् ।
मयः । नः । भूत । ऊतिऽभिः । मयःऽभुवः । शिवाभिः । असचऽद्विषः ॥२४
हे मरुतः “याभिः ऊतिभिः “सिन्धुं समुद्रम् “अवथ रक्षथ । “याभिः च “तूर्वथ स्तोतॄणां शत्रून् हिंस्थ । तुर्वी हिँसार्थः । “याभिः च “क्रिविं कूपं तृष्णजे गोतमाय “दशस्यथ प्रयच्छथ । हे “मयोभुवः मयसः सुखस्य भावयितारो हे “असचद्विषः असक्तशत्रवः शत्रुरहिताः “शिवाभिः कल्याणीभिस्ताभिः सर्वाभिः “ऊतिभिः रक्षाभिः “नः अस्माकं “मयः सुखं "भूत भावयत उत्पादयत। यद्वा । ‘भू प्राप्तौ ' । प्रापयत ।।
यत्सिन्धौ॒ यदसि॑क्न्यां॒ यत्स॑मु॒द्रेषु॑ मरुतः सुबर्हिषः ।
यत्पर्व॑तेषु भेष॒जम् ॥२५
यत् । सिन्धौ॑ । यत् । असि॑क्न्याम् । यत् । स॒मु॒द्रेषु॑ । म॒रु॒तः॒ । सु॒ऽब॒र्हि॒षः॒ ।
यत् । पर्व॑तेषु । भे॒ष॒जम् ॥२५
यत् । सिन्धौ । यत् । असिक्न्याम् । यत् । समुद्रेषु । मरुतः । सुऽबर्हिषः ।
यत् । पर्वतेषु । भेषजम् ॥२५
हे "सुबर्हिषः शोभनयज्ञाः "मरुतः “सिन्धौ एतत्संज्ञे स्यन्दनशीले नदे “यत् “भेषजम् अस्ति “यत् च “असिक्न्यां “यत् च "समुद्रेषु जलधिषु “यत् च “पर्वतेषु भेषजं विद्यते तत्सर्वं भेषजं पश्यन्त इत्युत्तरयैकवाक्यता ॥
विश्वं॒ पश्य॑न्तो बिभृथा त॒नूष्वा तेना॑ नो॒ अधि॑ वोचत ।
क्ष॒मा रपो॑ मरुत॒ आतु॑रस्य न॒ इष्क॑र्ता॒ विह्रु॑तं॒ पुन॑ः ॥२६
विश्व॑म् । पश्य॑न्तः । बि॒भृ॒थ॒ । त॒नूषु॑ । आ । तेन॑ । नः॒ । अधि॑ । वो॒च॒त॒ ।
क्ष॒मा । रपः॑ । म॒रु॒तः॒ । आतु॑रस्य । नः॒ । इष्क॑र्त । विऽह्रु॑तम् । पुन॒रिति॑ ॥२६
विश्वम् । पश्यन्तः । बिभृथ । तनूषु । आ । तेन । नः । अधि । वोचत ।
क्षमा । रपः । मरुतः । आतुरस्य । नः । इष्कर्त । विऽह्रुतम् । पुनरिति ॥२६
“विश्वं सर्वं पूर्वोक्तं भेषजं “पश्यन्तः जानन्तो यूयं “तनूषु अस्मदीयेषु विषयेषु “आ “बिभृथ आहरथ । आहृतेन च “तेन “नः अस्मान् “अधि “वोचत अधिब्रूत । चिकित्सतेत्यर्थः । अपि च हे “मरुतः “नः अस्माकं मध्ये "आतुरस्य रोगिणः “रपः । पापनामैतत् । रपसः पापफलस्य रोगस्य “क्षमा क्षान्तिर्यथा भवति तथा “विह्रुतं विबाधितमङ्गं “पुनः “इष्कर्त निःशेषेण संपूर्णं कुरुत । निसो नलोपश्छान्दसः । करोतेर्लोटि छान्दसो विकरणस्य लुक् । “तप्तनप्तनथनाश्च' इति तशब्दस्य तबादेशः । अत एवोपसर्गसमुदायो नावगृह्यते ॥ ॥ ४० ॥ ॥ ३ ॥
वेदार्थस्य प्रकाशेन तमो हार्दं निवारयन् ।
पुमर्थांश्चतुरो देयाद्विद्यातीर्थमहेश्वरः ॥
इति श्रीमद्राजाधिराजपरमेश्वरवैदिकमार्गप्रवर्तकश्रीवीरबुक्कभूपालसाम्राज्यधुरंधरेण सायणाचार्येण विरचिते माधवीये वेदार्थप्रकाश ऋक्संहिताभाष्ये
षष्ठाष्टके प्रथमोऽध्यायः समाप्तः ॥
टिप्पणी
८.२०.२४ याभिः सिन्धुमवथ इति
क्रिवि उपरि टिप्पणी। दशस्यथा - वैदिकवाङमये एका दक्षता दशतया सम्बद्धा भवति, एका शततया, एका सहस्रतया। शततया यजुर्वेदतः भवति, सहस्रतया सामतः। पुराणेषु शतानीकः, शतानीक-पुत्रः सहस्रानीकः आदि सन्ति।
मण्डल ८ | ||||||
---|---|---|---|---|---|---|