← सूक्तं ८.३६ ऋग्वेदः - मण्डल ८
सूक्तं ८.३७
श्यावाश्व आत्रेयः
सूक्तं ८.३८ →
दे. इन्द्रः । महापङ्क्तिः, १ अतिजगती


प्रेदं ब्रह्म वृत्रतूर्येष्वाविथ प्र सुन्वतः शचीपत इन्द्र विश्वाभिरूतिभिः ।
माध्यंदिनस्य सवनस्य वृत्रहन्ननेद्य पिबा सोमस्य वज्रिवः ॥१॥
सेहान उग्र पृतना अभि द्रुहः शचीपत इन्द्र विश्वाभिरूतिभिः ।
माध्यंदिनस्य सवनस्य वृत्रहन्ननेद्य पिबा सोमस्य वज्रिवः ॥२॥
एकराळस्य भुवनस्य राजसि शचीपत इन्द्र विश्वाभिरूतिभिः ।
माध्यंदिनस्य सवनस्य वृत्रहन्ननेद्य पिबा सोमस्य वज्रिवः ॥३॥
सस्थावाना यवयसि त्वमेक इच्छचीपत इन्द्र विश्वाभिरूतिभिः ।
माध्यंदिनस्य सवनस्य वृत्रहन्ननेद्य पिबा सोमस्य वज्रिवः ॥४॥
क्षेमस्य च प्रयुजश्च त्वमीशिषे शचीपत इन्द्र विश्वाभिरूतिभिः ।
माध्यंदिनस्य सवनस्य वृत्रहन्ननेद्य पिबा सोमस्य वज्रिवः ॥५॥
क्षत्राय त्वमवसि न त्वमाविथ शचीपत इन्द्र विश्वाभिरूतिभिः ।
माध्यंदिनस्य सवनस्य वृत्रहन्ननेद्य पिबा सोमस्य वज्रिवः ॥६॥
श्यावाश्वस्य रेभतस्तथा शृणु यथाशृणोरत्रेः कर्माणि कृण्वतः ।
प्र त्रसदस्युमाविथ त्वमेक इन्नृषाह्य इन्द्र क्षत्राणि वर्धयन् ॥७॥


सायणभाष्यम्

‘प्रेदं ब्रह्म' इति सप्तर्चं सप्तमं सूक्तमात्रेयस्य श्यावाश्वस्यार्षम् । आद्या द्वापञ्चाशदक्षरातिजगती । शिष्टाः षड़ृचः षडष्टका महापङ्क्तयः । इन्द्रो देवता । तथा चानुक्रान्तं- ‘ प्रेदं महापाङ्क्तमाद्यातिजगती' इति । महाव्रते निष्केवल्य एतत्सूक्तम् । तथा च सूत्रं - प्रेदं ब्रह्मेन्द्रो मदाय' (आश्व. श्रौ. ७. १२) इति ।।


प्रेदं ब्रह्म॑ वृत्र॒तूर्ये॑ष्वाविथ॒ प्र सु॑न्व॒तः श॑चीपत॒ इन्द्र॒ विश्वा॑भिरू॒तिभि॑ः ।

माध्यं॑दिनस्य॒ सव॑नस्य वृत्रहन्ननेद्य॒ पिबा॒ सोम॑स्य वज्रिवः ॥१

प्र । इ॒दम् । ब्रह्म॑ । वृ॒त्र॒ऽतूर्ये॑षु । आ॒वि॒थ॒ । प्र । सु॒न्व॒तः । श॒ची॒ऽप॒ते॒ । इन्द्र॑ । विश्वा॑भिः । ऊ॒तिऽभिः॑ ।

माध्य॑न्दिनस्य । सव॑नस्य । वृ॒त्र॒ऽह॒न् । अ॒ने॒द्य॒ । पिब॑ । सोम॑स्य । व॒ज्रि॒ऽवः॒ ॥१

प्र । इदम् । ब्रह्म । वृत्रऽतूर्येषु । आविथ । प्र । सुन्वतः । शचीऽपते । इन्द्र । विश्वाभिः । ऊतिऽभिः ।

माध्यन्दिनस्य । सवनस्य । वृत्रऽहन् । अनेद्य । पिब । सोमस्य । वज्रिऽवः ॥१

हे शचीपते “इन्द्र त्वं “वृत्रतूर्येषु संग्रामेषु “इदं “ब्रह्म इमान् ब्राह्मणान् “विश्वाभिः सर्वाभिः “ऊतिभिः रक्षाभिः “प्र “आविथ प्ररक्ष । “सुन्वतः सोमाभिषवं कुर्वतो यजमानांश्च “प्र अविथ । अपि च हे “अनेद्य अनिन्द्य “वज्रिवः वज्रिन् “वृत्रहन् “इन्द्र “माध्यंदिनस्य “सवनस्य संबन्धिनं “सोमस्य सोमं “पिब ॥


से॒हा॒न उ॑ग्र॒ पृत॑ना अ॒भि द्रुह॑ः शचीपत॒ इन्द्र॒ विश्वा॑भिरू॒तिभि॑ः ।

माध्यं॑दिनस्य॒ सव॑नस्य वृत्रहन्ननेद्य॒ पिबा॒ सोम॑स्य वज्रिवः ॥२

से॒हा॒नः । उ॒ग्र॒ । पृत॑नाः । अ॒भि । द्रुहः॑ । श॒ची॒ऽप॒ते॒ । इन्द्र॑ । विश्वा॑भिः । ऊ॒तिऽभिः॑ ।

माध्य॑न्दिनस्य । सव॑नस्य । वृ॒त्र॒ऽह॒न् । अ॒ने॒द्य॒ । पिब॑ । सोम॑स्य । व॒ज्रि॒ऽवः॒ ॥२

सेहानः । उग्र । पृतनाः । अभि । द्रुहः । शचीऽपते । इन्द्र । विश्वाभिः । ऊतिऽभिः ।

माध्यन्दिनस्य । सवनस्य । वृत्रऽहन् । अनेद्य । पिब । सोमस्य । वज्रिऽवः ॥२

हे "शचीपते कर्मपते “उग्र उद्गूर्ण “इन्द्र “अभि “द्रुहः द्रोग्ध्रीः “पृतनाः सेनाः “सेहानः अभिभवन् सर्वेः पालनैर्ब्राह्मणान् प्राविथेत्यर्थः । सिद्धमन्यत् ।।


ए॒क॒राळ॒स्य भुव॑नस्य राजसि शचीपत॒ इन्द्र॒ विश्वा॑भिरू॒तिभि॑ः ।

माध्यं॑दिनस्य॒ सव॑नस्य वृत्रहन्ननेद्य॒ पिबा॒ सोम॑स्य वज्रिवः ॥३

ए॒क॒ऽराट् । अ॒स्य । भुव॑नस्य । रा॒ज॒सि॒ । श॒ची॒ऽप॒ते॒ । इन्द्र॑ । विश्वा॑भिः । ऊ॒तिऽभिः॑ ।

माध्य॑न्दिनस्य । सव॑नस्य । वृ॒त्र॒ऽह॒न् । अ॒ने॒द्य॒ । पिब॑ । सोम॑स्य । व॒ज्रि॒ऽवः॒ ॥३

एकऽराट् । अस्य । भुवनस्य । राजसि । शचीऽपते । इन्द्र । विश्वाभिः । ऊतिऽभिः ।

माध्यन्दिनस्य । सवनस्य । वृत्रऽहन् । अनेद्य । पिब । सोमस्य । वज्रिऽवः ॥३

हे “शचीपते "इन्द्र “अस्य “भुवनस्य “एकराट् एक एव राजा सन् "राजसि भ्राजसे। सिद्धमन्यत् ।।


स॒स्थावा॑ना यवयसि॒ त्वमेक॒ इच्छ॑चीपत॒ इन्द्र॒ विश्वा॑भिरू॒तिभि॑ः ।

माध्यं॑दिनस्य॒ सव॑नस्य वृत्रहन्ननेद्य॒ पिबा॒ सोम॑स्य वज्रिवः ॥४

स॒ऽस्थावा॑ना । य॒व॒य॒सि॒ । त्वम् । एकः॑ । इत् । श॒ची॒ऽप॒ते॒ । इन्द्र॑ । विश्वा॑भिः । ऊ॒तिऽभिः॑ ।

माध्य॑न्दिनस्य । सव॑नस्य । वृ॒त्र॒ऽह॒न् । अ॒ने॒द्य॒ । पिब॑ । सोम॑स्य । व॒ज्रि॒ऽवः॒ ॥४

सऽस्थावाना । यवयसि । त्वम् । एकः । इत् । शचीऽपते । इन्द्र । विश्वाभिः । ऊतिऽभिः ।

माध्यन्दिनस्य । सवनस्य । वृत्रऽहन् । अनेद्य । पिब । सोमस्य । वज्रिऽवः ॥४

हे “शचीपते “इन्द्र “त्वमेकः एव “सस्थावाना समानं तिष्ठन्ताविमौ लोकौ “यवयसि पृथक्करोषि । सिद्धमन्यत् ॥


क्षेम॑स्य च प्र॒युज॑श्च॒ त्वमी॑शिषे शचीपत॒ इन्द्र॒ विश्वा॑भिरू॒तिभि॑ः ।

माध्यं॑दिनस्य॒ सव॑नस्य वृत्रहन्ननेद्य॒ पिबा॒ सोम॑स्य वज्रिवः ॥५

क्षेम॑स्य । च॒ । प्र॒ऽयुजः॑ । च॒ । त्वम् । ई॒शि॒षे॒ । श॒ची॒ऽप॒ते॒ । इन्द्र॑ । विश्वा॑भिः । ऊ॒तिऽभिः॑ ।

माध्य॑न्दिनस्य । सव॑नस्य । वृ॒त्र॒ऽह॒न् । अ॒ने॒द्य॒ । पिब॑ । सोम॑स्य । व॒ज्रि॒ऽवः॒ ॥५

क्षेमस्य । च । प्रऽयुजः । च । त्वम् । ईशिषे । शचीऽपते । इन्द्र । विश्वाभिः । ऊतिऽभिः ।

माध्यन्दिनस्य । सवनस्य । वृत्रऽहन् । अनेद्य । पिब । सोमस्य । वज्रिऽवः ॥५

अपि च हे "शचीपते "इन्द्र सर्वस्य जगतः “क्षेमस्य “प्रयुजश्च प्रयोगस्य च । योगक्षेमयोरित्यर्थः। “ईशिषे ईश्वरो भवसि । सिद्धमन्यत् ॥


क्ष॒त्राय॑ त्व॒मव॑सि॒ न त्व॑माविथ शचीपत॒ इन्द्र॒ विश्वा॑भिरू॒तिभि॑ः ।

माध्यं॑दिनस्य॒ सव॑नस्य वृत्रहन्ननेद्य॒ पिबा॒ सोम॑स्य वज्रिवः ॥६

क्ष॒त्राय॑ । त्व॒म् । अव॑सि । न । त्व॒म् । आ॒वि॒थ॒ । श॒ची॒ऽप॒ते॒ । इन्द्र॑ । विश्वा॑भिः । ऊ॒तिऽभिः॑ ।

माध्य॑न्दिनस्य । सव॑नस्य । वृ॒त्र॒ऽह॒न् । अ॒ने॒द्य॒ । पिब॑ । सोम॑स्य । व॒ज्रि॒ऽवः॒ ॥६

क्षत्राय । त्वम् । अवसि । न । त्वम् । आविथ । शचीऽपते । इन्द्र । विश्वाभिः । ऊतिऽभिः ।

माध्यन्दिनस्य । सवनस्य । वृत्रऽहन् । अनेद्य । पिब । सोमस्य । वज्रिऽवः ॥६

हे “शचीपते “इन्द्र “त्वं “क्षत्राय जगतो बलाय भवसि । “अवसि आश्रितान् रक्षसि । “त्वं “न “आविथ केनापि न रक्ष्यसे । सिद्धमन्यत् ॥


श्या॒वाश्व॑स्य॒ रेभ॑त॒स्तथा॑ शृणु॒ यथाशृ॑णो॒रत्रे॒ः कर्मा॑णि कृण्व॒तः ।

प्र त्र॒सद॑स्युमाविथ॒ त्वमेक॒ इन्नृ॒षाह्य॒ इन्द्र॑ क्ष॒त्राणि॑ व॒र्धय॑न् ॥७

श्या॒वऽअ॑श्वस्य । रेभ॑तः । तथा॑ । शृ॒णु॒ । यथा॑ । अशृ॑णोः । अत्रेः॑ । कर्मा॑णि । कृ॒ण्व॒तः ।

प्र । त्र॒सद॑स्युम् । आ॒वि॒थ॒ । त्वम् । एकः॑ । इत् । नृ॒ऽसह्ये॑ । इन्द्र॑ । ब्रह्मा॑णि । व॒र्धय॑न् ॥७

श्यावऽअश्वस्य । रेभतः । तथा । शृणु । यथा । अशृणोः । अत्रेः । कर्माणि । कृण्वतः ।

प्र । त्रसदस्युम् । आविथ । त्वम् । एकः । इत् । नृऽसह्ये । इन्द्र । ब्रह्माणि । वर्धयन् ॥७

हे “इन्द्र “रेभतः स्तुवतः “श्यावाश्वस्य मम स्तुतिं “कर्माणि “कृण्वतः “अत्रेः "यथा “अशृणोः “तथा “शृणु । अपि च “क्षत्राणि बलानि कामैः “वर्धयन् युद्धे “त्वमेकः एव त्रसदस्युं “प्र “आविथ ॥ ॥ १९ ॥


मण्डल ८

सूक्तं ८.१

सूक्तं ८.२

सूक्तं ८.३

सूक्तं ८.४

सूक्तं ८.५

सूक्तं ८.६

सूक्तं ८.७

सूक्तं ८.८

सूक्तं ८.९

सूक्तं ८.१०

सूक्तं ८.११

सूक्तं ८.१२

सूक्तं ८.१३

सूक्तं ८.१४

सूक्तं ८.१५

सूक्तं ८.१६

सूक्तं ८.१७

सूक्तं ८.१८

सूक्तं ८.१९

सूक्तं ८.२०

सूक्तं ८.२१

सूक्तं ८.२२

सूक्तं ८.२३

सूक्तं ८.२४

सूक्तं ८.२५

सूक्तं ८.२६

सूक्तं ८.२७

सूक्तं ८.२८

सूक्तं ८.२९

सूक्तं ८.३०

सूक्तं ८.३१

सूक्तं ८.३२

सूक्तं ८.३३

सूक्तं ८.३४

सूक्तं ८.३५

सूक्तं ८.३६

सूक्तं ८.३७

सूक्तं ८.३८

सूक्तं ८.३९

सूक्तं ८.४०

सूक्तं ८.४१

सूक्तं ८.४२

सूक्तं ८.४३

सूक्तं ८.४४

सूक्तं ८.४५

सूक्तं ८.४६

सूक्तं ८.४७

सूक्तं ८.४८

सूक्तं ८.४९

सूक्तं ८.५०

सूक्तं ८.५१

सूक्तं ८.५२

सूक्तं ८.५३

सूक्तं ८.५४

सूक्तं ८.५५

सूक्तं ८.५६

सूक्तं ८.५७

सूक्तं ८.५८

सूक्तं ८.५९

सूक्तं ८.६०

सूक्तं ८.६१

सूक्तं ८.६२

सूक्तं ८.६३

सूक्तं ८.६४

सूक्तं ८.६५

सूक्तं ८.६६

सूक्तं ८.६७

सूक्तं ८.६८

सूक्तं ८.६९

सूक्तं ८.७०

सूक्तं ८.७१

सूक्तं ८.७२

सूक्तं ८.७३

सूक्तं ८.७४

सूक्तं ८.७५

सूक्तं ८.७६

सूक्तं ८.७७

सूक्तं ८.७८

सूक्तं ८.७९

सूक्तं ८.८०

सूक्तं ८.८१

सूक्तं ८.८२

सूक्तं ८.८३

सूक्तं ८.८४

सूक्तं ८.८५

सूक्तं ८.८६

सूक्तं ८.८७

सूक्तं ८.८८

सूक्तं ८.८९

सूक्तं ८.९०

सूक्तं ८.९१

सूक्तं ८.९२

सूक्तं ८.९३

सूक्तं ८.९४

सूक्तं ८.९५

सूक्तं ८.९६

सूक्तं ८.९७

सूक्तं ८.९८

सूक्तं ८.९९

सूक्तं ८.१००

सूक्तं ८.१०१

सूक्तं ८.१०२

सूक्तं ८.१०३

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_८.३७&oldid=191734" इत्यस्माद् प्रतिप्राप्तम्