ऋग्वेदः सूक्तं ८.६३
← सूक्तं ८.६२ | ऋग्वेदः - मण्डल ८ सूक्तं ८.६३ प्रगाथः काण्वः |
सूक्तं ८.६४ → |
दे. इन्द्रः, १२ देवाः। १, ४-५, ७ अनुष्टुप्, १२ त्रिष्टुप् । |
स पूर्व्यो महानां वेनः क्रतुभिरानजे ।
यस्य द्वारा मनुष्पिता देवेषु धिय आनजे ॥१॥
दिवो मानं नोत्सदन्सोमपृष्ठासो अद्रयः ।
उक्था ब्रह्म च शंस्या ॥२॥
स विद्वाँ अङ्गिरोभ्य इन्द्रो गा अवृणोदप ।
स्तुषे तदस्य पौंस्यम् ॥३॥
स प्रत्नथा कविवृध इन्द्रो वाकस्य वक्षणिः ।
शिवो अर्कस्य होमन्यस्मत्रा गन्त्ववसे ॥४॥
आदू नु ते अनु क्रतुं स्वाहा वरस्य यज्यवः ।
श्वात्रमर्का अनूषतेन्द्र गोत्रस्य दावने ॥५॥
इन्द्रे विश्वानि वीर्या कृतानि कर्त्वानि च ।
यमर्का अध्वरं विदुः ॥६॥
यत्पाञ्चजन्यया विशेन्द्रे घोषा असृक्षत ।
अस्तृणाद्बर्हणा विपोऽर्यो मानस्य स क्षयः ॥७॥
इयमु ते अनुष्टुतिश्चकृषे तानि पौंस्या ।
प्रावश्चक्रस्य वर्तनिम् ॥८॥
अस्य वृष्णो व्योदन उरु क्रमिष्ट जीवसे ।
यवं न पश्व आ ददे ॥९॥
तद्दधाना अवस्यवो युष्माभिर्दक्षपितरः ।
स्याम मरुत्वतो वृधे ॥१०॥
बळृत्वियाय धाम्न ऋक्वभिः शूर नोनुमः ।
जेषामेन्द्र त्वया युजा ॥११॥
अस्मे रुद्रा मेहना पर्वतासो वृत्रहत्ये भरहूतौ सजोषाः ।
यः शंसते स्तुवते धायि पज्र इन्द्रज्येष्ठा अस्माँ अवन्तु देवाः ॥१२॥
सायणभाष्यम्
‘स पूर्व्यः' इति द्वादशर्चं चतुर्थं सूक्तम् । अत्रानुक्रमणिका - ‘स पूर्व्यो गायत्रमाद्या चतुर्थ्यादिद्वे सप्तमी चानुष्टुभो गायत्रेऽन्त्या दैवी त्रिष्टुप्' इति । प्रथमाचतुर्थीपञ्चमीसप्तम्यश्चतस्रोऽनुष्टुभः ‘अस्मे रुद्राः' इत्यन्त्या त्रिष्टुबवशिष्टा गायत्र्यः । अन्त्याया देवा देवता शिष्टा ऐन्द्र्यः । षष्ठेऽहनि मरुत्वतीयस्याद्यस्तृचः प्रतिपत् । सूत्रितं च – स पूर्व्यो महानां त्रय इन्द्रस्य सोमा इति मरुत्वतीयस्य प्रतिपदनुचरौ' (आश्व. श्रौ. ८. १) इति ॥
स पू॒र्व्यो म॒हानां॑ वे॒नः क्रतु॑भिरानजे ।
यस्य॒ द्वारा॒ मनु॑ष्पि॒ता दे॒वेषु॒ धिय॑ आन॒जे ॥१
सः । पू॒र्व्यः । म॒हाना॑म् । वे॒नः । क्रतु॑ऽभिः । आ॒न॒जे॒ ।
यस्य॑ । द्वारा॑ । मनुः॑ । पि॒ता । दे॒वेषु॑ । धियः॑ । आ॒न॒जे ॥१
सः । पूर्व्यः । महानाम् । वेनः । क्रतुऽभिः । आनजे ।
यस्य । द्वारा । मनुः । पिता । देवेषु । धियः । आनजे ॥१
“सः “पूर्व्यः मुख्यः “महानां पूज्यानां यजमानानां “क्रतुभिः कर्मभिर्निमित्तभूतैः "वेनः कान्तस्तेषां हविः कामयमानः “आनजे आगच्छति । “यस्य इन्द्रस्य “द्वारा द्वाराणि प्राप्त्युपायानि “धियः कर्माणि “देवेषु एतेषु मध्ये “पिता सर्वेषां पालकः “मनुः "आनजे प्राप । आनजिः प्राप्तिकर्मा ॥
दि॒वो मानं॒ नोत्स॑द॒न्त्सोम॑पृष्ठासो॒ अद्र॑यः ।
उ॒क्था ब्रह्म॑ च॒ शंस्या॑ ॥२
दि॒वः । मान॑म् । न । उत् । स॒द॒न् । सोम॑ऽपृष्ठासः । अद्र॑यः ।
उ॒क्था । ब्रह्म॑ । च॒ । शंस्या॑ ॥२
दिवः । मानम् । न । उत् । सदन् । सोमऽपृष्ठासः । अद्रयः ।
उक्था । ब्रह्म । च । शंस्या ॥२
“दिवः द्युलोकस्य “मानं निर्मातारमिन्द्रं “नोत्सदन् नोत्सृजन्तु। के। “सोमपृष्ठासः सोमस्प्रष्टारः सोमाभिषवकर्तारः “अद्रयः ग्रावाणः । किंच “उक्था उक्थानि शस्त्राणि “ब्रह्म “च ब्रह्माणि स्तोत्राणि “शंस्या शंसनीयानि भवन्तीति शेषः । यद्वा । यानि स्तोत्राणि शस्त्राणि च सन्ति तानीन्द्रं नोत्सृजन्विति समन्वयः ॥
स वि॒द्वाँ अङ्गि॑रोभ्य॒ इन्द्रो॒ गा अ॑वृणो॒दप॑ ।
स्तु॒षे तद॑स्य॒ पौंस्यं॑ ॥३
सः । वि॒द्वान् । अङ्गि॑रःऽभ्यः । इन्द्रः॑ । गाः । अ॒वृ॒णो॒त् । अप॑ ।
स्तु॒षे । तत् । अ॒स्य॒ । पौंस्य॑म् ॥३
सः । विद्वान् । अङ्गिरःऽभ्यः । इन्द्रः । गाः । अवृणोत् । अप ।
स्तुषे । तत् । अस्य । पौंस्यम् ॥३
“सः “विद्वान् उपायज्ञः “इन्द्रः “अङ्गिरोभ्यः तेषामर्थाय “गाः पणिभिरपहृताः पिहिताः “अप "अवृणोत् अपवारितवान् । “तत् तादृशम् “अस्य पौंस्यं पुंस्त्वं सामर्थ्यं “स्तुषे स्तौमि ।।
स प्र॒त्नथा॑ कविवृ॒ध इन्द्रो॑ वा॒कस्य॑ व॒क्षणिः॑ ।
शि॒वो अ॒र्कस्य॒ होम॑न्यस्म॒त्रा ग॒न्त्वव॑से ॥४
सः । प्र॒त्नऽथा॑ । क॒वि॒ऽवृ॒धः । इन्द्रः॑ । वा॒कस्य॑ । व॒क्षणिः॑ ।
शि॒वः । अ॒र्कस्य॑ । होम॑नि । अ॒स्म॒ऽत्रा । ग॒न्तु॒ । अव॑से ॥४
सः । प्रत्नऽथा । कविऽवृधः । इन्द्रः । वाकस्य । वक्षणिः ।
शिवः । अर्कस्य । होमनि । अस्मऽत्रा । गन्तु । अवसे ॥४
“सः इन्द्रः “प्रत्नथा प्रत्नवत् पूर्वस्मिन् काले यथा तद्वदिदानीमपि “कविवृधः मेधाविनां स्तोतॄणां वर्धयिता “वाकस्य स्तोतुः “वक्षणिः वोढा “शिवः सुखकरः “अंर्कस्य । अर्कमन्नमर्चनीयत्वादर्चनसाधनत्वाद्वा । तादृशस्य सोमस्य "होमनि होमे सः “अस्मत्रा अस्मासु निमित्तभूतेषु “अवसे रक्षणाय “गन्तु गच्छतु ॥
आदू॒ नु ते॒ अनु॒ क्रतुं॒ स्वाहा॒ वर॑स्य॒ यज्य॑वः ।
श्वा॒त्रम॒र्का अ॑नूष॒तेन्द्र॑ गो॒त्रस्य॑ दा॒वने॑ ॥५
आत् । ऊं॒ इति॑ । नु । ते॒ । अनु॑ । क्रतु॑म् । स्वाहा॑ । वर॑स्य । यज्य॑वः ।
श्वा॒त्रम् । अ॒र्काः । अ॒नू॒ष॒त॒ । इन्द्र॑ । गो॒त्रस्य॑ । दा॒वने॑ ॥५
आत् । ऊं इति । नु । ते । अनु । क्रतुम् । स्वाहा । वरस्य । यज्यवः ।
श्वात्रम् । अर्काः । अनूषत । इन्द्र । गोत्रस्य । दावने ॥५
"आदु अनन्तरमेव “नु अद्य हे “इन्द्र “ते तव "क्रतुं कर्म “अनु क्रमेण “अनूषत इति संबन्धः । अनुक्रमेण स्तुवन्ति । के। “स्वाहावरस्य स्वाहादेव्याः पतेरग्नेः "यज्यवः यष्टारः । त्वदर्थमग्नौ यागं कुर्वन्त इत्यर्थः । तादृशाः “अर्काः अर्चयितारः स्तोतारः। “श्वात्रम् इति क्षिप्रनाम । अन्यदेवतास्तुतिरूपविलम्बमकृत्वातिशीघ्रमतिदीर्घं स्तुवन्तीत्यभिप्रायः । किमर्थं स्तुवन्तीति उच्यते । “गोत्रस्य “दावने धनस्य दानाय ॥
इन्द्रे॒ विश्वा॑नि वी॒र्या॑ कृ॒तानि॒ कर्त्वा॑नि च ।
यम॒र्का अ॑ध्व॒रं वि॒दुः ॥६
इन्द्रे॑ । विश्वा॑नि । वी॒र्या॑ । कृ॒तानि॑ । कर्त्वा॑नि । च॒ ।
यम् । अ॒र्काः । अ॒ध्व॒रम् । वि॒दुः ॥६
इन्द्रे । विश्वानि । वीर्या । कृतानि । कर्त्वानि । च ।
यम् । अर्काः । अध्वरम् । विदुः ॥६
अस्मिन् “इन्द्रे “विश्वानि सर्वाणि “वीर्या वीर्याणि सामर्थ्यानि “कृतानि “कर्त्वानि ““च कर्तव्यानि च वर्तन्त इति शेषः । "यम् इन्द्रम् “अर्काः स्तोतारः “अध्वरम् अहिंसकं “विदुः जानन्ति तस्मिन्निन्द्र इति ॥ ॥ ४२ ॥
पञ्चमेऽहनि मरुत्वतीये ‘यत्पाञ्चजन्यया ' इति तृचः प्रतिपत् । सूत्रितं च --यत्पाञ्चजन्यया विशेन्द्र इत्सोमपा एक इति मरुत्वतीयस्य प्रतिपदनुचरौ' ( आश्व. श्रौ. ७. १२) इति ॥
यत्पाञ्च॑जन्यया वि॒शेन्द्रे॒ घोषा॒ असृ॑क्षत ।
अस्तृ॑णाद्ब॒र्हणा॑ वि॒पो॒३॒॑ऽर्यो मान॑स्य॒ स क्षयः॑ ॥७
यत् । पाञ्च॑ऽजन्यया । वि॒शा । इन्द्रे॑ । घोषाः॑ । असृ॑क्षत ।
अस्तृ॑णात् । ब॒र्हणा॑ । वि॒पः । अ॒र्यः । मान॑स्य । सः । क्षयः॑ ॥७
यत् । पाञ्चऽजन्यया । विशा । इन्द्रे । घोषाः । असृक्षत ।
अस्तृणात् । बर्हणा । विपः । अर्यः । मानस्य । सः । क्षयः ॥७
“यत् यदा “पाञ्चजन्यया । निषादपञ्चमाश्चत्वारो वर्णाः पञ्चजनाः। तत्र भवया “विशा प्रजया “इन्द्रे “घोषाः स्तुतयः “असृक्षत सृज्यन्ते तदानीमयमिन्द्रः “अस्तृणात् हिनस्ति शत्रून् “बर्हणा स्वमहत्त्वेन । अनन्यसहायेनेत्यर्थः । तादृशः “सः “अर्यः इन्द्रः “विपः मेधाविनः स्तोतुर्मम “मानस्य पूजायाः सत्कारस्य “क्षयः निवासो भवति ।
इ॒यमु॑ ते॒ अनु॑ष्टुतिश्चकृ॒षे तानि॒ पौंस्या॑ ।
प्राव॑श्च॒क्रस्य॑ वर्त॒निं ॥८
इ॒यम् । ऊं॒ इति॑ । ते॒ । अनु॑ऽस्तुतिः । च॒कृ॒षे । तानि॑ । पौंस्या॑ ।
प्र । आ॒वः॒ । च॒क्रस्य॑ । व॒र्त॒निम् ॥८
इयम् । ऊं इति । ते । अनुऽस्तुतिः । चकृषे । तानि । पौंस्या ।
प्र । आवः । चक्रस्य । वर्तनिम् ॥८
“इयम् इदानीं क्रियमाणा “अनुष्टुतिः अनुकूला स्तुतिः “ते तव स्वभूता । कुतस्त इति उच्यते । “तानि प्रसिद्धानि वृत्रवधादीनि “पौंस्या पुंस्त्वानि यतः “चकृषे । अतस्त इत्यर्थः । हे इन्द्र “चक्रस्य रथाधारस्य “वर्तनिं मार्गं “प्रावः प्रारक्षः । अथास्मद्यज्ञगमनाय रक्षःकृता चक्रमार्गबाधा यथा न भवति तथा रक्षसीत्यर्थः ॥
अ॒स्य वृष्णो॒ व्योद॑न उ॒रु क्र॑मिष्ट जी॒वसे॑ ।
यवं॒ न प॒श्व आ द॑दे ॥९
अ॒स्य । वृष्णः॑ । वि॒ऽओद॑ने । उ॒रु । क्र॒मि॒ष्ट॒ । जी॒वसे॑ ।
यव॑म् । न । प॒श्वः । आ । द॒दे॒ ॥९
अस्य । वृष्णः । विऽओदने । उरु । क्रमिष्ट । जीवसे ।
यवम् । न । पश्वः । आ । ददे ॥९
“अस्य वृष्णः वर्षितुरिन्द्रस्य “व्योदने विविधेऽन्ने लब्धे सति “जीवसे जीवनाथ “उरु विस्तीर्णं “क्रमिष्ट पदनिधानं करोति सर्वो लोकः । अथवेन्द्रस्य स्वभूतेऽन्ने लब्धे लब्धव्ये वा सति पदन्यासं करोति । तथा कृत्वा “यवं “न “पश्वः यवं पशव इव सर्वो जनः “आ “ददे आदत्ते स्तुतादस्मात् ॥
तद्दधा॑ना अव॒स्यवो॑ यु॒ष्माभि॒र्दक्ष॑पितरः ।
स्याम॑ म॒रुत्व॑तो वृ॒धे ॥१०
तत् । दधा॑नाः । अ॒व॒स्यवः॑ । यु॒ष्माभिः॑ । दक्ष॑ऽपितरः ।
स्याम॑ । म॒रुत्व॑तः । वृ॒धे ॥१०
तत् । दधानाः । अवस्यवः । युष्माभिः । दक्षऽपितरः ।
स्याम । मरुत्वतः । वृधे ॥१०
“तत् स्तोत्रं “दधानाः धारयन्तः “अवस्यवः रक्षाकामा वयं हे ऋत्विजः "युष्माभिः । सहिता इति वा योज्यम् । तादृशाः “दक्षपितरः । दक्षोऽन्नम् । तस्य पितरः पालकाः स्वामिनः “स्याम । किमर्थम् । "मरुत्वतः मरुद्भिस्तद्वत इन्द्रस्य "वृधे वर्धनाय यागाय ॥
बळृ॒त्विया॑य॒ धाम्न॒ ऋक्व॑भिः शूर नोनुमः ।
जेषा॑मेन्द्र॒ त्वया॑ यु॒जा ॥११
बट् । ऋ॒त्विया॑य । धाम्ने॑ । ऋक्व॑ऽभिः । शू॒र॒ । नो॒नु॒मः॒ ।
जेषा॑म । इ॒न्द्र॒ । त्वया॑ । यु॒जा ॥११
बट् । ऋत्वियाय । धाम्ने । ऋक्वऽभिः । शूर । नोनुमः ।
जेषाम । इन्द्र । त्वया । युजा ॥११
"बट् सत्यम् "ऋत्वियाय ऋतौ भवाय । ऋतुशब्दो योगकालोपलक्षकः । यागकाले प्रादुर्भूताय “धाम्ने कल्याणतेजसे तुभ्यं हे “शूर इन्द्र “ऋक्वभिः मन्त्रैः "नोनुमः अतिशयेन स्तुमः । हे “इन्द्र स्तुतेन “त्वया युजा सहायभूतेन “जेषाम जयेम शत्रून् ॥
अ॒स्मे रु॒द्रा मे॒हना॒ पर्व॑तासो वृत्र॒हत्ये॒ भर॑हूतौ स॒जोषाः॑ ।
यः शंस॑ते स्तुव॒ते धायि॑ प॒ज्र इन्द्र॑ज्येष्ठा अ॒स्माँ अ॑वन्तु दे॒वाः ॥१२
अ॒स्मे इति॑ । रु॒द्राः । मे॒हना॑ । पर्व॑तासः । वृ॒त्र॒ऽहत्ये॑ । भर॑ऽहूतौ । स॒ऽजोषाः॑ ।
यः । शंस॑ते । स्तु॒व॒ते । धायि॑ । प॒ज्रः । इन्द्र॑ऽज्येष्ठाः । अ॒स्मान् । अ॒व॒न्तु॒ । दे॒वाः ॥१२
अस्मे इति । रुद्राः । मेहना । पर्वतासः । वृत्रऽहत्ये । भरऽहूतौ । सऽजोषाः ।
यः । शंसते । स्तुवते । धायि । पज्रः । इन्द्रऽज्येष्ठाः । अस्मान् । अवन्तु । देवाः ॥१२
“अस्मे अस्मान् “रुद्राः “मेहना उदकसेचनयुक्ताः “पर्वतासः मेघाश्च “वृत्रहत्ये वृत्रहननसाधने “भरहूतौ संग्रामाह्वाने “सजोषाः अस्मत्समानप्रीतिश्च “यः इन्द्रः “शंसते शस्त्रं पठते “स्तुवते स्तोत्रं कुर्वते च यजमानाय "पज्रः बलवान् वेगवान् वा “धायि गच्छति स इन्द्रश्चेमे “इन्द्रज्येष्ठाः “देवाः “अस्मानवन्तु रक्षन्तु । अस्मानिति पूरणः । अथवैवं योज्यम् । रुद्रा रुद्रपुत्रा मेहना सेचनेन युक्ताः पर्वताः पर्वतसदृशाः पूरणवन्तः प्रीणनवन्तो वा ।' पर्व पुनः पृणातेः प्रीणातेर्वा' (निरु. १. २०) इति निरुक्तम् । वृत्रहत्ये भरहूतौ सजोषाः सजोषसः सहायभूता मरुतो देवा इन्द्रज्येष्ठा उक्तलक्षण इन्द्रश्चास्मानवन्त्विति ॥ ॥ ४३ ॥
मण्डल ८ | ||||||
---|---|---|---|---|---|---|