← सूक्तं ८.२२ ऋग्वेदः - मण्डल ८
सूक्तं ८.२३
विश्वमना वैयश्वः।
सूक्तं ८.२४ →
दे. अग्निः। उष्णिक्।


ईळिष्वा हि प्रतीव्यं यजस्व जातवेदसम् ।
चरिष्णुधूममगृभीतशोचिषम् ॥१॥
दामानं विश्वचर्षणेऽग्निं विश्वमनो गिरा ।
उत स्तुषे विष्पर्धसो रथानाम् ॥२॥
येषामाबाध ऋग्मिय इषः पृक्षश्च निग्रभे ।
उपविदा वह्निर्विन्दते वसु ॥३॥
उदस्य शोचिरस्थाद्दीदियुषो व्यजरम् ।
तपुर्जम्भस्य सुद्युतो गणश्रियः ॥४॥
उदु तिष्ठ स्वध्वर स्तवानो देव्या कृपा ।
अभिख्या भासा बृहता शुशुक्वनिः ॥५॥
अग्ने याहि सुशस्तिभिर्हव्या जुह्वान आनुषक् ।
यथा दूतो बभूथ हव्यवाहनः ॥६॥
अग्निं वः पूर्व्यं हुवे होतारं चर्षणीनाम् ।
तमया वाचा गृणे तमु व स्तुषे ॥७॥
यज्ञेभिरद्भुतक्रतुं यं कृपा सूदयन्त इत् ।
मित्रं न जने सुधितमृतावनि ॥८॥
ऋतावानमृतायवो यज्ञस्य साधनं गिरा ।
उपो एनं जुजुषुर्नमसस्पदे ॥९॥
अच्छा नो अङ्गिरस्तमं यज्ञासो यन्तु संयतः ।
होता यो अस्ति विक्ष्वा यशस्तमः ॥१०॥
अग्ने तव त्ये अजरेन्धानासो बृहद्भाः ।
अश्वा इव वृषणस्तविषीयवः ॥११॥
स त्वं न ऊर्जां पते रयिं रास्व सुवीर्यम् ।
प्राव नस्तोके तनये समत्स्वा ॥१२॥
यद्वा उ विश्पतिः शितः सुप्रीतो मनुषो विशि ।
विश्वेदग्निः प्रति रक्षांसि सेधति ॥१३॥
श्रुष्ट्यग्ने नवस्य मे स्तोमस्य वीर विश्पते ।
नि मायिनस्तपुषा रक्षसो दह ॥१४॥
न तस्य मायया चन रिपुरीशीत मर्त्यः ।
यो अग्नये ददाश हव्यदातिभिः ॥१५॥
व्यश्वस्त्वा वसुविदमुक्षण्युरप्रीणादृषिः ।
महो राये तमु त्वा समिधीमहि ॥१६॥
उशना काव्यस्त्वा नि होतारमसादयत् ।
आयजिं त्वा मनवे जातवेदसम् ॥१७॥
विश्वे हि त्वा सजोषसो देवासो दूतमक्रत ।
श्रुष्टी देव प्रथमो यज्ञियो भुवः ॥१८॥
इमं घा वीरो अमृतं दूतं कृण्वीत मर्त्यः ।
पावकं कृष्णवर्तनिं विहायसम् ॥१९॥
तं हुवेम यतस्रुचः सुभासं शुक्रशोचिषम् ।
विशामग्निमजरं प्रत्नमीड्यम् ॥२०॥
यो अस्मै हव्यदातिभिराहुतिं मर्तोऽविधत् ।
भूरि पोषं स धत्ते वीरवद्यशः ॥२१॥
प्रथमं जातवेदसमग्निं यज्ञेषु पूर्व्यम् ।
प्रति स्रुगेति नमसा हविष्मती ॥२२॥
आभिर्विधेमाग्नये ज्येष्ठाभिर्व्यश्ववत् ।
मंहिष्ठाभिर्मतिभिः शुक्रशोचिषे ॥२३॥
नूनमर्च विहायसे स्तोमेभि स्थूरयूपवत् ।
ऋषे वैयश्व दम्यायाग्नये ॥२४॥
अतिथिं मानुषाणां सूनुं वनस्पतीनाम् ।
विप्रा अग्निमवसे प्रत्नमीळते ॥२५॥
महो विश्वाँ अभि षतोऽभि हव्यानि मानुषा ।
अग्ने नि षत्सि नमसाधि बर्हिषि ॥२६॥
वंस्वा नो वार्या पुरु वंस्व रायः पुरुस्पृहः ।
सुवीर्यस्य प्रजावतो यशस्वतः ॥२७॥
त्वं वरो सुषाम्णेऽग्ने जनाय चोदय ।
सदा वसो रातिं यविष्ठ शश्वते ॥२८॥
त्वं हि सुप्रतूरसि त्वं नो गोमतीरिषः ।
महो रायः सातिमग्ने अपा वृधि ॥२९॥
अग्ने त्वं यशा अस्या मित्रावरुणा वह ।
ऋतावाना सम्राजा पूतदक्षसा ॥३०॥


सायणभाष्यम्

ईळिष्व' इति त्रिंशदृचं तृतीयं सूक्तम् । व्यश्वपुत्रो विश्वमना ऋषिः । उष्णिक् छन्दः । अग्निर्देवता । तथा चानुक्रान्तम्-’ ईळिष्व त्रिंशद्विश्वमना वैयश्व आग्नेयमौष्णिहं ह' इति । प्रातरनुवाक आग्नेये क्रतावौष्णिहे छन्दस्याश्विनशस्त्रे चेदं सूक्तम् । सूत्रितं च- ईलिष्वा हीत्यौष्णिहम्' (आश्व. श्रौ. ४. १३) इति ॥


ईळि॑ष्वा॒ हि प्र॑ती॒व्यं१॒॑ यज॑स्व जा॒तवे॑दसं ।

च॒रि॒ष्णुधू॑म॒मगृ॑भीतशोचिषं ॥१

ईळि॑ष्व । हि । प्र॒ती॒व्य॑म् । यज॑स्व । जा॒तऽवे॑दसम् ।

च॒रि॒ष्णुऽधू॑मम् । अगृ॑भीतऽशोचिषम् ॥१

ईळिष्व । हि । प्रतीव्यम् । यजस्व । जातऽवेदसम् ।

चरिष्णुऽधूमम् । अगृभीतऽशोचिषम् ॥१

“प्रतीव्यं शत्रुषु प्रतिगमनशीलमग्निम् । हिरवधारणे । अग्निमेव “ईळिव स्तुतिभिः स्तोत्रं कुरु ।। किंच चरिष्णुधूमं सर्वतश्चरणशीलधूमजालम् "अगृभीतशोचिषं रक्षोभिरगृह्यमाणदीप्ति जातवेदसं जातप्रज्ञम् । यद्वा । जातानि भूतानि वेत्तीति जातवेदाः । तमग्निं “यजस्व हविर्भिः पूजय ।।


दा॒मानं॑ विश्वचर्षणे॒ऽग्निं वि॑श्वमनो गि॒रा ।

उ॒त स्तु॑षे॒ विष्प॑र्धसो॒ रथा॑नां ॥२

दा॒मान॑म् । वि॒श्व॒ऽच॒र्ष॒णे॒ । अ॒ग्निम् । वि॒श्व॒ऽम॒नः॒ । गि॒रा ।

उ॒त । स्तु॒षे॒ । विऽस्प॑र्धसः । रथा॑नाम् ॥२

दामानम् । विश्वऽचर्षणे । अग्निम् । विश्वऽमनः । गिरा ।

उत । स्तुषे । विऽस्पर्धसः । रथानाम् ॥२

“उत अपि च हे “विश्वचर्षणे विश्वस्य सर्वस्यार्थस्य ज्ञानेन द्रष्टः “विश्वमनः । सर्वेषु स्थावरजङ्गमात्मकेष्वेकं मनो यस्य सः । एतन्नामक हे ऋषे “विस्पर्धसः विगतमात्सर्यस्य यजमानस्य “रथानां रथादीनां “दामानं दातारमेवंविधम् “अग्निं “गिरा स्तुतिलक्षणया वाचा "स्तुषे स्तोत्रं कुरु ॥


येषा॑माबा॒ध ऋ॒ग्मिय॑ इ॒षः पृ॒क्षश्च॑ नि॒ग्रभे॑ ।

उ॒प॒विदा॒ वह्नि॑र्विंदते॒ वसु॑ ॥३

येषा॑म् । आ॒ऽबा॒धः । ऋ॒ग्मियः॑ । इ॒षः । पृ॒क्षः । च॒ । नि॒ऽग्रभे॑ ।

उ॒प॒ऽविदा॑ । वह्निः॑ । वि॒न्द॒ते॒ । वसु॑ ॥३

येषाम् । आऽबाधः । ऋग्मियः । इषः । पृक्षः । च । निऽग्रभे ।

उपऽविदा । वह्निः । विन्दते । वसु ॥३

“आबाधः शत्रूणामाभिमुख्येन बाधकः “ऋग्मियः ऋग्भिरर्चनीयोऽग्निः “येषाम् अयजमानानाम् “इषः अन्नानि “पृक्षः अन्नादिरसांश्च निग्रभे निगृह्णीते । ग्रहेर्लटि छान्दसो विकरणस्थ लुक् । लोपस्त आत्मनेपदेषु' इति तलोपः । ‘ हृग्रहोर्भश्छन्दसि इति भकारः । निगृह्य च “वह्निः हविषां वोढा स एवाग्निः “उपविदा उपवेदनेन एते हवींषि देवार्थं न प्रयच्छन्तीत्येतज्ज्ञानेन तेषामेव “वसु धनं “विन्दते लभते ॥


उद॑स्य शो॒चिर॑स्थाद्दीदि॒युषो॒ व्य१॒॑जरं॑ ।

तपु॑र्जंभस्य सु॒द्युतो॑ गण॒श्रियः॑ ॥४

उत् । अ॒स्य॒ । शो॒चिः । अ॒स्था॒त् । दी॒दि॒युषः॑ । वि । अ॒जर॑म् ।

तपुः॑ऽजम्भस्य । सु॒ऽद्युतः॑ । ग॒ण॒ऽश्रियः॑ ॥४

उत् । अस्य । शोचिः । अस्थात् । दीदियुषः । वि । अजरम् ।

तपुःऽजम्भस्य । सुऽद्युतः । गणऽश्रियः ॥४

“दीदियुषः । दीदितिर्दीप्तिकर्मा । संदीप्यमानस्य “तपुर्जम्भस्य तापयितृदंष्ट्रस्य “सुद्युतः शोभनदीप्तेः “गणश्रियः । हविरादानार्थं यजमानगणं श्रयति तस्य । “अस्य एतादृशोऽग्नेः “अजरं जरारहितं पुनःपुनर्मथ्यमानत्वान्नूतनं हविर्भिर्वर्धमानत्वादभिनवं वा “शोचिः तेजः “उत् “अस्थात् उद्गतमभूत् ॥


उदु॑ तिष्ठ स्वध्वर॒ स्तवा॑नो दे॒व्या कृ॒पा ।

अ॒भि॒ख्या भा॒सा बृ॑ह॒ता शु॑शु॒क्वनिः॑ ॥५

उत् । ऊं॒ इति॑ । ति॒ष्ठ॒ । सु॒ऽअ॒ध्व॒र॒ । स्तवा॑नः । दे॒व्या । कृ॒पा ।

अ॒भि॒ऽख्या । भा॒सा । बृ॒ह॒ता । शु॒शु॒क्वनिः॑ ॥५

उत् । ऊं इति । तिष्ठ । सुऽअध्वर । स्तवानः । देव्या । कृपा ।

अभिऽख्या । भासा । बृहता । शुशुक्वनिः ॥५

“स्वध्वर शोभनयज्ञ हे अग्ने “अभिख्या अभिमुखं गच्छन्त्याभितः प्रसिद्धया वा “बृहता बृहत्या “भासा दीप्त्या “शुशुक्वनिः । ‘ शुच दीप्तौ'। दीपनशीलस्त्वं “स्तवानः स्तोतृभिः स्तूयमानः सन् “देव्या द्योतमानया "कृपा ज्वालया "उत्तिष्ठ तमःपरिहारार्थमुद्गच्छ । उ प्रसिद्धौ ॥ ॥ ९ ॥


अग्ने॑ या॒हि सु॑श॒स्तिभि॑र्ह॒व्या जुह्वा॑न आनु॒षक् ।

यथा॑ दू॒तो ब॒भूथ॑ हव्य॒वाह॑नः ॥६

अग्ने॑ । या॒हि । सु॒श॒स्तिऽभिः॑ । ह॒व्या । जुह्वा॑नः । आ॒नु॒षक् ।

यथा॑ । दू॒तः । ब॒भूथ॑ । ह॒व्य॒ऽवाह॑नः ॥६

अग्ने । याहि । सुशस्तिऽभिः । हव्या । जुह्वानः । आनुषक् ।

यथा । दूतः । बभूथ । हव्यऽवाहनः ॥६

हे “अग्ने “आनुषक् अनुषक्तं यथा भवति तथा “हव्या हव्यानि हवनयोग्यान्यन्नानि “जुह्वानः जुह्वन् देवेभ्यः प्रयच्छंस्त्वं “सुशस्तिभिः शोभनैः स्तोत्रैः सह “याहि देवानां हविष्प्रदानार्थं गच्छ । अस्य हविष्प्रदातृत्वं कथमित्याशङ्क्याह । "यथा त्वं “हव्यवाहनः हविषां वोढा देवानां “दूतो “बभूथ भवसि तथा जुह्वान इत्यन्वयः ॥


अ॒ग्निं वः॑ पू॒र्व्यं हु॑वे॒ होता॑रं चर्षणी॒नां ।

तम॒या वा॒चा गृ॑णे॒ तमु॑ वः स्तुषे ॥७

अ॒ग्निम् । वः॒ । पू॒र्व्यम् । हु॒वे॒ । होता॑रम् । च॒र्ष॒णी॒नाम् ।

तम् । अ॒या । वा॒चा । गृ॒णे॒ । तम् । ऊं॒ इति॑ । वः॒ । स्तु॒षे॒ ॥७

अग्निम् । वः । पूर्व्यम् । हुवे । होतारम् । चर्षणीनाम् ।

तम् । अया । वाचा । गृणे । तम् । ऊं इति । वः । स्तुषे ॥७

“चर्षणीनां मनुष्याणां “होतारं होमनिष्पादकं “पूर्व्यं पुरातनं “वः यष्टृत्वेन युष्मत्संबन्धिनम् “अग्निं “हुवे आह्वयामि । आहूय च “तम् अग्निम् “अया अनया सूक्तरूपया “वाचा गिरा “गृणे शंसामि । किंच “वः युष्मदर्थं “तमु तमेवाग्निं “स्तुषे स्तौमि ॥


य॒ज्ञेभि॒रद्भु॑तक्रतुं॒ यं कृ॒पा सू॒दयं॑त॒ इत् ।

मि॒त्रं न जने॒ सुधि॑तमृ॒ताव॑नि ॥८

य॒ज्ञेभिः॑ । अद्भु॑तऽक्रतुम् । यम् । कृ॒पा । सू॒दय॑न्ते । इत् ।

मि॒त्रम् । न । जने॑ । सुऽधि॑तम् । ऋ॒तऽव॑नि ॥८

यज्ञेभिः । अद्भुतऽक्रतुम् । यम् । कृपा । सूदयन्ते । इत् ।

मित्रम् । न । जने । सुऽधितम् । ऋतऽवनि ॥८

“अद्भुतक्रतुं बहुविधप्रज्ञं यद्वा चित्रकर्माणं "मित्रं “न यजमानानां मित्रमिव स्थितं "सुधितं हविर्भिः संतर्पितं "यम् अग्निम् "ऋतावनि यज्ञवति “जने यजमाने “कृपा स्वसामर्थ्येन “यज्ञेभिः यज्ञैः "सूदयन्ते । सूदिः क्षरणकर्मा । अध्वर्य्वादयः कामान् क्षारयन्त्येव । यजमानस्य कामान् प्रापयन्तीत्यर्थः । तमग्निमुपासेवध्वमित्युत्तरत्र संबन्धः ॥


ऋ॒तावा॑नमृतायवो य॒ज्ञस्य॒ साध॑नं गि॒रा ।

उपो॑ एनं जुजुषु॒र्नम॑सस्प॒दे ॥९

ऋ॒तऽवा॑नम् । ऋ॒त॒ऽय॒वः॒ । य॒ज्ञस्य॑ । साध॑नम् । गि॒रा ।

उषः॑ । ए॒न॒म् । जु॒जु॒षुः॒ । नम॑सः । प॒दे ॥९

ऋतऽवानम् । ऋतऽयवः । यज्ञस्य । साधनम् । गिरा ।

उषः । एनम् । जुजुषुः । नमसः । पदे ॥९

“ऋतायवः यज्ञकामा हे यजमानाः “ऋतावानं यज्ञवन्तं “यज्ञस्य “साधनं साधनभूतम् "एनम् अग्निं “नमसः हविषः “पदे स्थाने यज्ञाङ्गे वा “गिरा स्तुतिलक्षणया वाचा “उपो “जुजुषुः उपासेवध्वम् ॥ ‘ तिङा तिङो भवन्ति' इति मध्यमपुरुषस्य प्रथमपुरुषादेशः ॥


अच्छा॑ नो॒ अंगि॑रस्तमं य॒ज्ञासो॑ यंतु सं॒यतः॑ ।

होता॒ यो अस्ति॑ वि॒क्ष्वा य॒शस्त॑मः ॥१०

अच्छ॑ । नः॒ । अङ्गि॑रःऽतमम् । य॒ज्ञासः॑ । य॒न्तु॒ । स॒म्ऽयतः॑ ।

होता॑ । यः । अस्ति॑ । वि॒क्षु । आ । य॒शःऽत॑मः ॥१०

अच्छ । नः । अङ्गिरःऽतमम् । यज्ञासः । यन्तु । सम्ऽयतः ।

होता । यः । अस्ति । विक्षु । आ । यशःऽतमः ॥१०

“संयतः स्रुगादिभिर्नियमिताः “नः अस्माकं “यज्ञासः यज्ञाः “अङ्गिरस्तमम् अङ्गिरसां विशिष्टमग्निम् “अच्छ आभिमुख्येन च “यन्तु गच्छन्तु । “यः अग्निः “विक्षु मनुष्येषु “होता होमनिष्पादकः सन् “आ सर्वतः “यशस्तमः । लुप्तमत्वर्थीयः । यशस्वितमः “अस्ति भवति तमग्निं यन्त्वित्यन्वयः ॥ ॥१०॥


अग्ने॒ तव॒ त्ये अ॑ज॒रेंधा॑नासो बृ॒हद्भाः ।

अश्वा॑ इव॒ वृष॑णस्तविषी॒यवः॑ ॥११

अग्ने॑ । तव॑ । त्ये । अ॒ज॒र॒ । इन्धा॑नासः । बृ॒हत् । भाः ।

अश्वाः॑ऽइव । वृष॑णः । त॒वि॒षी॒ऽयवः॑ ॥११

अग्ने । तव । त्ये । अजर । इन्धानासः । बृहत् । भाः ।

अश्वाःऽइव । वृषणः । तविषीऽयवः ॥११

“अजर जरारहित हे “अग्ने “इन्धानासः इन्धाना दीप्यमानाः “बृहत् बृहन्तो महान्तः “त्ये ते सर्वगताः “तव त्वदीयाः “भाः भासो रश्मयः “वृषणः कामानां वर्षितारः सन्तः “तविषीयवः बलमाचरन्तो भवन्ति । तत्र दृष्टान्तः । “अश्वाइव । यथा वृषणो रेतसः सेक्तारोऽश्वा बलमाचरन्तो भवन्ति तद्वत् ॥


स त्वं न॑ ऊर्जां पते र॒यिं रा॑स्व सु॒वीर्यं॑ ।

प्राव॑ नस्तो॒के तन॑ये स॒मत्स्वा ॥१२

सः । त्वम् । नः॒ । ऊ॒र्जा॒म् । प॒ते॒ । र॒यिम् । रा॒स्व॒ । सु॒ऽवीर्य॑म् ।

प्र । अ॒व॒ । नः॒ । तो॒के । तन॑ये । स॒मत्ऽसु॑ । आ ॥१२

सः । त्वम् । नः । ऊर्जाम् । पते । रयिम् । रास्व । सुऽवीर्यम् ।

प्र । अव । नः । तोके । तनये । समत्ऽसु । आ ॥१२

“ऊर्जाम् अन्नानां “पते स्वामिन् हे अग्ने “सः तथाविधः “त्वं “नः अस्मभ्यं "सुवीर्यं शोभन वीर्योपेतं “रयिं धनं “रास्व देहि । “नः अस्माकं "तोके पुत्रे “तनये । तनोति विस्तारयति पुत्रमिति तनयः पौत्रः । तस्मिन्वर्तमानं धनं “समत्सु संग्रामेषु च यत् रक्षितव्यं धनं तच्च “प्राव प्रकर्षेण रक्ष । अनेन पुत्रपौत्रप्रार्थनं करोति ॥


यद्वा उ॑ वि॒श्पतिः॑ शि॒तः सुप्री॑तो॒ मनु॑षो वि॒शि ।

विश्वेद॒ग्निः प्रति॒ रक्षां॑सि सेधति ॥१३

यत् । वै । ऊं॒ इति॑ । वि॒श्पतिः॑ । शि॒तः । सुऽप्री॑तः । मनु॑षः । वि॒शि ।

विश्वा॑ । इत् । अ॒ग्निः । प्रति॑ । रक्षां॑सि । से॒ध॒ति॒ ॥१३

यत् । वै । ऊं इति । विश्पतिः । शितः । सुऽप्रीतः । मनुषः । विशि ।

विश्वा । इत् । अग्निः । प्रति । रक्षांसि । सेधति ॥१३

“विश्पतिः विशां पालयिता "शितः हविर्भिस्तीक्ष्णीकृतः सोऽग्निः “सुप्रीतः सुष्ठु प्रीतः सन् “मनुषः मनुष्यस्य “विशि निवेशने गृहे "यद्वै यदा खलु वर्तते तदानीम् “अग्निः “विश्वेत् विश्वान्येव तस्य बाधकानि "रक्षांसि “प्रति “षेधति हिनस्ति । ‘षिधु गत्याम्'। भौवादिकः । “उ प्रसिद्धौ ।


श्रु॒ष्ट्य॑ग्ने॒ नव॑स्य मे॒ स्तोम॑स्य वीर विश्पते ।

नि मा॒यिन॒स्तपु॑षा र॒क्षसो॑ दह ॥१४

श्रु॒ष्टी । अ॒ग्ने॒ । नव॑स्य । मे॒ । स्तोम॑स्य । वी॒र॒ । वि॒श्प॒ते॒ ।

नि । मा॒यिनः॑ । तपु॑षा । र॒क्षसः॑ । द॒ह॒ ॥१४

श्रुष्टी । अग्ने । नवस्य । मे । स्तोमस्य । वीर । विश्पते ।

नि । मायिनः । तपुषा । रक्षसः । दह ॥१४

“वीर शत्रूणां विनाशयितर्वीर्यवन् “विश्पते विशां पालयितर्हे “अग्ने “नवस्य इदानीं क्रियमाणत्वान्नूतनं “मे मदीयं “स्तोमस्य स्तोत्रशस्त्रादिकं “श्रुष्टी श्रुत्वा “मायिनः मायाविनः “रक्षसः कर्मविघ्नकारिणो राक्षसान् “तपुषा तापकेन तेजसा “नि "दह नितरां भस्मीकुरु ॥ श्रुष्टी । स्नात्व्यादयश्च ' इति निपातितः । वकारलोपश्छान्दसः ॥


न तस्य॑ मा॒यया॑ च॒न रि॒पुरी॑शीत॒ मर्त्यः॑ ।

यो अ॒ग्नये॑ द॒दाश॑ ह॒व्यदा॑तिभिः ॥१५

न । तस्य॑ । मा॒यया॑ । च॒न । रि॒पुः । ई॒शी॒त॒ । मर्त्यः॑ ।

यः । अ॒ग्नये॑ । द॒दाश॑ । ह॒व्यदा॑तिऽभिः ॥१५

न । तस्य । मायया । चन । रिपुः । ईशीत । मर्त्यः ।

यः । अग्नये । ददाश । हव्यदातिऽभिः ॥१५

“मर्त्यः मनुष्यः “रिपुः शत्रुः । चनेति निपातसमुदायोऽप्यर्थे । "मायया "चन माययापि “तस्य जनस्य “न “ईशीत ईश्वरो न भवति । “यः जनः “हव्यदातिभिः हविषां दातृभिर्ऋत्विभिः “अग्नये “ददाश हवींषि प्रयच्छति । तस्य रिपुर्नास्तीत्यर्थः ॥ ॥ ११ ॥


व्य॑श्वस्त्वा वसु॒विद॑मुक्ष॒ण्युर॑प्रीणा॒दृषिः॑ ।

म॒हो रा॒ये तमु॑ त्वा॒ समि॑धीमहि ॥१६

विऽअ॑श्वः । त्वा॒ । व॒सु॒ऽविद॑म् । उ॒क्ष॒ण्युः । अ॒प्री॒णा॒त् । ऋषिः॑ ।

म॒हः । रा॒ये । तम् । ऊं॒ इति॑ । त्वा॒ । सम् । इ॒धी॒म॒हि॒ ॥१६

विऽअश्वः । त्वा । वसुऽविदम् । उक्षण्युः । अप्रीणात् । ऋषिः ।

महः । राये । तम् । ऊं इति । त्वा । सम् । इधीमहि ॥१६

“उक्षण्युः धनानां सेक्तारमात्मन इच्छन् यद्वा वृष्टिसेक्तारमिच्छन् “व्यश्वः “ऋषिः एतन्नामको मम पिता “वसुविदं वसूनां धनानां लम्भकं “त्वा त्वाम् “अप्रीणात् धनादिप्राप्त्यर्थं हविर्भिरतोषयत् । तथा वयमपि “महः महते “राये धनाय “तमु तथाविधमेव “त्वा त्वां “समिधीमहि सम्यगाज्यादिहविर्भिर्दीपयेम ।।


उ॒शना॑ का॒व्यस्त्वा॒ नि होता॑रमसादयत् ।

आ॒य॒जिं त्वा॒ मन॑वे जा॒तवे॑दसं ॥१७

उ॒शना॑ । का॒व्यः । त्वा॒ । नि । होता॑रम् । अ॒सा॒द॒य॒त् ।

आ॒ऽय॒जिम् । त्वा॒ । मन॑वे । जा॒तऽवे॑दसम् ॥१७

उशना । काव्यः । त्वा । नि । होतारम् । असादयत् ।

आऽयजिम् । त्वा । मनवे । जातऽवेदसम् ॥१७

हे अग्ने “काव्यः कविपुत्रः "उशना एतन्नामक ऋषिः “मनवे राज्ञे । तस्य गृह इत्यर्थः । "आयजिम् आभिमुख्येन यष्टारं “जातवेदसं जातप्रज्ञं “त्वा त्वाम् । पुनस्त्वाशब्द आदरार्थः । त्वमेव “होतारं होमनिष्पादकं “नि “असादयत् नितरामुपावेशयत् ।। विश्व हि त्वां सजोषसो देवासो दूतमक्रत । श्रुष्टी दैव प्रथमो यज्ञियौ भुवः॥१८॥


विश्वे॒ हि त्वा॑ स॒जोष॑सो दे॒वासो॑ दू॒तमक्र॑त ।

श्रु॒ष्टी दे॑व प्रथ॒मो य॒ज्ञियो॑ भुवः ॥१८

विश्वे॑ । हि । त्वा॒ । स॒ऽजोष॑सः । दे॒वासः॑ । दू॒तम् । अक्र॑त ।

श्रु॒ष्टी । दे॒व॒ । प्र॒थ॒मः । य॒ज्ञियः॑ । भु॒वः॒ ॥१८

विश्वे । हि । त्वा । सऽजोषसः । देवासः । दूतम् । अक्रत ।

श्रुष्टी । देव । प्रथमः । यज्ञियः । भुवः ॥१८

हे अग्ने “विश्वे सर्वे “देवासः देवाः “सजोषसः संगताः सन्तः अस्माकं हवींष्यानयतीति विचार्य “त्वा। हिरवधारणे । त्वामेव "दूतं हविषां वोढारं दूतम् “अक्रत अकार्षुः । ततः "देव द्योतमान हे अग्ने “प्रथमः देवानां मुख्यभूतस्त्वं “श्रुष्टी । श्रुष्टीति क्षिप्रनाम । क्षिप्रं “यज्ञियः देवानां हविर्दातृत्वेन यज्ञार्हः "भुवः भूयाः ।।


इ॒मं घा॑ वी॒रो अ॒मृतं॑ दू॒तं कृ॑ण्वीत॒ मर्त्यः॑ ।

पा॒व॒कं कृ॒ष्णव॑र्तनिं॒ विहा॑यसं ॥१९

इ॒मम् । घ॒ । वी॒रः । अ॒मृत॑म् । दू॒तम् । कृ॒ण्वी॒त॒ । मर्त्यः॑ ।

पा॒व॒कम् । कृ॒ष्णऽव॑र्तनिम् । विऽहा॑यसम् ॥१९

इमम् । घ । वीरः । अमृतम् । दूतम् । कृण्वीत । मर्त्यः ।

पावकम् । कृष्णऽवर्तनिम् । विऽहायसम् ॥१९

अनया यजमानश्चाग्निं देवानां दूतमकार्षीदित्याह। "वीरः कर्मणि समर्थः “मर्त्यः मनुष्यो यजमानः “अमृतं मरणधर्मरहितं “पावकं पापानां शोधकं “कृष्णवर्तनिम्। वर्तनिर्मार्गः । कृष्णमार्गं “विहायसम् । विहाया इति महन्नाम। गुणैस्तेजोऽधिकत्वेन वा महान्तम् “इमं “घ इममेवाग्निं “दूतं देवानां वोढ़ृत्वेन दूतं “कृण्वीत अकार्षीत् ।।


तं हु॑वेम य॒तस्रु॑चः सु॒भासं॑ शु॒क्रशो॑चिषं ।

वि॒शाम॒ग्निम॒जरं॑ प्र॒त्नमीड्यं॑ ॥२०

तम् । हु॒वे॒म॒ । य॒तऽस्रु॑चः । सु॒ऽभास॑म् । शु॒क्रऽशो॑चिषम् ।

वि॒शाम् । अ॒ग्निम् । अ॒जर॑म् । प्र॒त्नम् । ईड्य॑म् ॥२०

तम् । हुवेम । यतऽस्रुचः । सुऽभासम् । शुक्रऽशोचिषम् ।

विशाम् । अग्निम् । अजरम् । प्रत्नम् । ईड्यम् ॥२०

“यतस्रुचः गृहीतस्रुचो यद्वा तत्तत्स्थानेषु नियमितस्रुचो वयं "सुभासं शोभनदीप्तिं “शुक्रशोचिषं दीपनशीलतेजस्कं “विशां स्वामिनम् । यद्वा । विशाम् “ईड्यम् इत्यन्वयः । मनुष्याणां स्तोतव्यम् “अजरं जरारहितं “प्रत्नं पुरातनं “तं तथाविधम् “अग्निं “हुवेम स्तोत्रशस्त्रादिभिराह्वयामः ।। ॥ १२ ॥


यो अ॑स्मै ह॒व्यदा॑तिभि॒राहु॑तिं॒ मर्तोऽवि॑धत् ।

भूरि॒ पोषं॒ स ध॑त्ते वी॒रव॒द्यशः॑ ॥२१

यः । अ॒स्मै॒ । ह॒व्यदा॑तिऽभिः । आऽहु॑तिम् । मर्तः॑ । अवि॑धत् ।

भूरि॑ । पोष॑म् । सः । ध॒त्ते॒ । वी॒रऽव॑त् । यशः॑ ॥२१

यः । अस्मै । हव्यदातिऽभिः । आऽहुतिम् । मर्तः । अविधत् ।

भूरि । पोषम् । सः । धत्ते । वीरऽवत् । यशः ॥२१

“यः “मर्तः मनुष्यः “हव्यदातिभिः हविर्दातृभिर्ऋत्विग्भिः “अस्मै अग्नये “आहुतिम् "अविधत् विदधाति “सः मनुष्यः “भूरि बहु "पोषं धनादिभिः पोषणम् “वीरवत् पुत्रपौत्रादियुक्तं यशः कीर्तिं च “धत्ते धारयति । तस्मै धनादीनि प्रयच्छतीत्यर्थः ।।


प्र॒थ॒मं जा॒तवे॑दसम॒ग्निं य॒ज्ञेषु॑ पू॒र्व्यं ।

प्रति॒ स्रुगे॑ति॒ नम॑सा ह॒विष्म॑ती ॥२२

प्र॒थ॒मम् । जा॒तऽवे॑दसम् । अ॒ग्निम् । य॒ज्ञेषु॑ । पू॒र्व्यम् ।

प्रति॑ । स्रुक् । ए॒ति॒ । नम॑सा । ह॒विष्म॑ती ॥२२

प्रथमम् । जातऽवेदसम् । अग्निम् । यज्ञेषु । पूर्व्यम् ।

प्रति । स्रुक् । एति । नमसा । हविष्मती ॥२२

“प्रथमं देवानां प्रधानभूतं “जातवेदसं जातप्रज्ञं “पूर्व्यं पुरातनमेतादृशम् “अग्निं “यज्ञेषु अग्निष्टोमादियज्ञेषु “हविष्मती सोमादिहविर्युक्ता “स्रुक् "नमसा स्तोत्रेण नमस्कारेण वा सह “प्रति “ऐति अग्निं प्रति गच्छति ।।


आभि॑र्विधेमा॒ग्नये॒ ज्येष्ठा॑भिर्व्यश्व॒वत् ।

मंहि॑ष्ठाभिर्म॒तिभिः॑ शु॒क्रशो॑चिषे ॥२३

आभिः॑ । वि॒धे॒म॒ । अ॒ग्नये॑ । ज्येष्ठा॑भिः । व्य॒श्व॒ऽवत् ।

मंहि॑ष्ठाभिः । म॒तिऽभिः॑ । शु॒क्रऽशो॑चिषे ॥२३

आभिः । विधेम । अग्नये । ज्येष्ठाभिः । व्यश्वऽवत् ।

मंहिष्ठाभिः । मतिऽभिः । शुक्रऽशोचिषे ॥२३

विश्वमनोनामका वयं “ज्येष्ठाभिः प्रशस्यतमाभिः “मंहिष्ठाभिः पूज्यतमाभिः “आभिः सूक्तरूपाभिः स्तुतिभिः “शुक्रशोचिषे ज्वलत्तेजसे “अग्नये “विधेम परिचरेम । कथमिव । “व्यश्ववत् । यथा व्यश्वोऽस्माकं पिता अग्निं स्तुतिभिः पर्यचरत् तद्वद्वयमपि परिचरेम ॥


नू॒नम॑र्च॒ विहा॑यसे॒ स्तोमे॑भिः स्थूरयूप॒वत् ।

ऋषे॑ वैयश्व॒ दम्या॑या॒ग्नये॑ ॥२४

नू॒नम् । अ॒र्च॒ । विऽहा॑यसे । स्तोमे॑भिः । स्थू॒र॒यू॒प॒ऽवत् ।

ऋषे॑ । वै॒य॒श्व॒ । दम्या॑य । अ॒ग्नये॑ ॥२४

नूनम् । अर्च । विऽहायसे । स्तोमेभिः । स्थूरयूपऽवत् ।

ऋषे । वैयश्व । दम्याय । अग्नये ॥२४

“वैयश्व व्यश्वस्य पुत्र हे विश्वमनोनामक “ऋषे “विहायसे महते “दम्याय दमे गृहेऽरणीभिः मथ्यमानत्वेन भवाय । यद्वा । यजमानगृहाणां बाधपरिहारेण हिताय । “अग्नये “नूनं संप्रति “स्तोमेभिः त्रिवृत्पञ्चदशादिलक्षणैः स्तोमैः "अर्च स्तुहि । तत्र दृष्टान्तः । स्थूरयूपवत् । यथा स्थूरयूपो नामर्षिरेनमग्निमानर्च तद्वदर्चेत्यर्थः ।।


अति॑थिं॒ मानु॑षाणां सू॒नुं वन॒स्पती॑नां ।

विप्रा॑ अ॒ग्निमव॑से प्र॒त्नमी॑ळते ॥२५

अति॑थिम् । मानु॑षाणाम् । सू॒नुम् । वन॒स्पती॑नाम् ।

विप्राः॑ । अ॒ग्निम् । अव॑से । प्र॒त्नम् । ई॒ळ॒ते॒ ॥२५

अतिथिम् । मानुषाणाम् । सूनुम् । वनस्पतीनाम् ।

विप्राः । अग्निम् । अवसे । प्रत्नम् । ईळते ॥२५

“विप्राः मेधाविनो यजमानाः “मानुषाणां मनुष्याणाम् “अतिथिम् अतिथिवत्पूज्यं “वनस्पतीनां “सूनुं वनस्पतिरूपाभिररणीभिर्जायमानत्वेन तेषां सूनुं “प्रत्नं पुरातनमेवंविधम् “अग्निमवसे कर्मरक्षणाय “ईळते स्तुतिभिः स्तुवन्ति ॥ ॥ १३ ॥


म॒हो विश्वाँ॑ अ॒भि ष॒तो॒३॒॑ऽभि ह॒व्यानि॒ मानु॑षा ।

अग्ने॒ नि ष॑त्सि॒ नम॒साधि॑ ब॒र्हिषि॑ ॥२६

म॒हः । विश्वा॑न् । अ॒भि । स॒तः । अ॒भि । ह॒व्यानि॑ । मानु॑षा ।

अग्ने॑ । नि । स॒त्सि॒ । नम॑सा । अधि॑ । ब॒र्हिषि॑ ॥२६

महः । विश्वान् । अभि । सतः । अभि । हव्यानि । मानुषा ।

अग्ने । नि । सत्सि । नमसा । अधि । बर्हिषि ॥२६

हे “अग्ने “महः कर्मकर्तृत्वेन महतः “विश्वान् सर्वान् “सतः स्तोत्रकरणार्थं वर्तमानान् स्तोतॄन् “अभि अभितस्त्वं “नमसा स्तुत्यतया “बर्हिषि “अधि “नि “षत्सि निषीद। तथा “मानुषा मनुष्यसंबन्धीनि “हव्यानि हवींषि “अभि अभितस्तानि स्वीकर्तुं निषीद ।।


वंस्वा॑ नो॒ वार्या॑ पु॒रु वंस्व॑ रा॒यः पु॑रु॒स्पृहः॑ ।

सु॒वीर्य॑स्य प्र॒जाव॑तो॒ यश॑स्वतः ॥२७

वंस्व॑ । नः॒ । वार्या॑ । पु॒रु । वंस्व॑ । रा॒यः । पु॒रु॒ऽस्पृहः॑ ।

सु॒ऽवीर्य॑स्य । प्र॒जाऽव॑तः । यश॑स्वतः ॥२७

वंस्व । नः । वार्या । पुरु । वंस्व । रायः । पुरुऽस्पृहः ।

सुऽवीर्यस्य । प्रजाऽवतः । यशस्वतः ॥२७

हे अग्ने "वार्या वार्याणि वरणीयानि “पुरु पुरूणि बहूनि गवादीनि "नः अस्मभ्यं “वंस्व प्रयच्छ । तथा “पुरुस्पृहः पुरुभिर्बहुभिः स्पृहणीयं “रायः धनम्। किंविशिष्टम् । “सुवीर्यस्य शोभनवीर्योपेतं "प्रजावतः पुत्रपौत्रादिसहितं “यशस्वतः कीर्तिमच्च धनं नोऽस्मभ्यं "वंस्व प्रयच्छ ।


त्वं व॑रो सु॒षाम्णेऽग्ने॒ जना॑य चोदय ।

सदा॑ वसो रा॒तिं य॑विष्ठ॒ शश्व॑ते ॥२८

त्वम् । व॒रो॒ इति॑ । सु॒ऽसाम्ने॑ । अग्ने॑ । जना॑य । चो॒द॒य॒ ।

सदा॑ । व॒सो॒ इति॑ । रा॒तिम् । य॒वि॒ष्ठ॒ । शश्व॑ते ॥२८

त्वम् । वरो इति । सुऽसाम्ने । अग्ने । जनाय । चोदय ।

सदा । वसो इति । रातिम् । यविष्ठ । शश्वते ॥२८

“वरो सर्वैर्वरणीय “वसो शत्रूणां वासयितः “यविष्ठ पुनःपुनर्जायमानत्वेन युवतम हे “अग्ने “त्वं “सुषाम्णे सुसाम्ने। सुषामादित्वात् षत्वम् । त्वत्प्रसादाच्छोभनसामवते “शश्वते बहवे "जनाय प्रादुर्भूताय स्तोतॄणां “सदा सर्वदा “रातिं धनादिकं “चोदय प्रेरय ॥


त्वं हि सु॑प्र॒तूरसि॒ त्वं नो॒ गोम॑ती॒रिषः॑ ।

म॒हो रा॒यः सा॒तिम॑ग्ने॒ अपा॑ वृधि ॥२९

त्वम् । हि । सु॒ऽप्र॒तूः । असि॑ । त्वम् । नः॒ । गोऽम॑तीः । इषः॑ ।

म॒हः । रा॒यः । सा॒तिम् । अ॒ग्ने॒ । अप॑ । वृ॒धि॒ ॥२९

त्वम् । हि । सुऽप्रतूः । असि । त्वम् । नः । गोऽमतीः । इषः ।

महः । रायः । सातिम् । अग्ने । अप । वृधि ॥२९

हे “अग्ने “त्वम् । हिरवधारणे । त्वमेव “सुप्रतूः स्तोतॄणां धनादिकं सुष्ठु प्रदाता “असि प्रयच्छसीत्यर्थः । अत एव “गोमतीः पश्वादियुक्तानि इषः अन्नानि “महः महतः “रायः धनस्य मध्ये “सातिं देयं धनं च “नः स्तोतॄणामस्माकम् “अपा "वृधि अपावृणु । प्रयच्छेत्यर्थः ॥


अग्ने॒ त्वं य॒शा अ॒स्या मि॒त्रावरु॑णा वह ।

ऋ॒तावा॑ना स॒म्राजा॑ पू॒तद॑क्षसा ॥३०

अग्ने॑ । त्वम् । य॒शाः । अ॒सि॒ । आ । मि॒त्रावरु॑णा । व॒ह॒ ।

ऋ॒तऽवा॑ना । स॒म्ऽराजा॑ । पू॒तऽद॑क्षसा ॥३०

अग्ने । त्वम् । यशाः । असि । आ । मित्रावरुणा । वह ।

ऋतऽवाना । सम्ऽराजा । पूतऽदक्षसा ॥३०

हे “अग्ने “त्वं "यशाः । लुप्तमत्वर्थीयः । देवानां मध्ये यशस्वी “असि भवसि । अत एव त्वम् “ऋतावाना ऋतावानौ सत्यवन्तौ यज्ञवन्तौ वा “सम्राजा सम्राजौ सम्यग्राजमानौ “पूतदक्षसा पूतदक्षसौ । दक्ष इति बलनाम। शुद्धबलौ मित्रावरुणावस्मिन् कर्मणि “आ “वह आह्वय । प्रायेण कर्मणि अग्नेर्मित्रावरुणसहितत्वमस्तीति' सूचयति ॥ ॥ १४ ॥

टिप्पणी

८.२३.१३ यद्वा उ विश्पति इति

राक्षोघ्नम् (ग्रामगेयः )

मण्डल ८

सूक्तं ८.१

सूक्तं ८.२

सूक्तं ८.३

सूक्तं ८.४

सूक्तं ८.५

सूक्तं ८.६

सूक्तं ८.७

सूक्तं ८.८

सूक्तं ८.९

सूक्तं ८.१०

सूक्तं ८.११

सूक्तं ८.१२

सूक्तं ८.१३

सूक्तं ८.१४

सूक्तं ८.१५

सूक्तं ८.१६

सूक्तं ८.१७

सूक्तं ८.१८

सूक्तं ८.१९

सूक्तं ८.२०

सूक्तं ८.२१

सूक्तं ८.२२

सूक्तं ८.२३

सूक्तं ८.२४

सूक्तं ८.२५

सूक्तं ८.२६

सूक्तं ८.२७

सूक्तं ८.२८

सूक्तं ८.२९

सूक्तं ८.३०

सूक्तं ८.३१

सूक्तं ८.३२

सूक्तं ८.३३

सूक्तं ८.३४

सूक्तं ८.३५

सूक्तं ८.३६

सूक्तं ८.३७

सूक्तं ८.३८

सूक्तं ८.३९

सूक्तं ८.४०

सूक्तं ८.४१

सूक्तं ८.४२

सूक्तं ८.४३

सूक्तं ८.४४

सूक्तं ८.४५

सूक्तं ८.४६

सूक्तं ८.४७

सूक्तं ८.४८

सूक्तं ८.४९

सूक्तं ८.५०

सूक्तं ८.५१

सूक्तं ८.५२

सूक्तं ८.५३

सूक्तं ८.५४

सूक्तं ८.५५

सूक्तं ८.५६

सूक्तं ८.५७

सूक्तं ८.५८

सूक्तं ८.५९

सूक्तं ८.६०

सूक्तं ८.६१

सूक्तं ८.६२

सूक्तं ८.६३

सूक्तं ८.६४

सूक्तं ८.६५

सूक्तं ८.६६

सूक्तं ८.६७

सूक्तं ८.६८

सूक्तं ८.६९

सूक्तं ८.७०

सूक्तं ८.७१

सूक्तं ८.७२

सूक्तं ८.७३

सूक्तं ८.७४

सूक्तं ८.७५

सूक्तं ८.७६

सूक्तं ८.७७

सूक्तं ८.७८

सूक्तं ८.७९

सूक्तं ८.८०

सूक्तं ८.८१

सूक्तं ८.८२

सूक्तं ८.८३

सूक्तं ८.८४

सूक्तं ८.८५

सूक्तं ८.८६

सूक्तं ८.८७

सूक्तं ८.८८

सूक्तं ८.८९

सूक्तं ८.९०

सूक्तं ८.९१

सूक्तं ८.९२

सूक्तं ८.९३

सूक्तं ८.९४

सूक्तं ८.९५

सूक्तं ८.९६

सूक्तं ८.९७

सूक्तं ८.९८

सूक्तं ८.९९

सूक्तं ८.१००

सूक्तं ८.१०१

सूक्तं ८.१०२

सूक्तं ८.१०३

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_८.२३&oldid=400837" इत्यस्माद् प्रतिप्राप्तम्