← सूक्तं ९.१२ ऋग्वेदः - मण्डल ९
सूक्तं ९.१३
कश्यपोऽसितो देवलो वा।
सूक्तं ९.१४ →
दे. पवमानः सोमः। गायत्री।


सोमः पुनानो अर्षति सहस्रधारो अत्यविः ।
वायोरिन्द्रस्य निष्कृतम् ॥१॥
पवमानमवस्यवो विप्रमभि प्र गायत ।
सुष्वाणं देववीतये ॥२॥
पवन्ते वाजसातये सोमाः सहस्रपाजसः ।
गृणाना देववीतये ॥३॥
उत नो वाजसातये पवस्व बृहतीरिषः ।
द्युमदिन्दो सुवीर्यम् ॥४॥
ते नः सहस्रिणं रयिं पवन्तामा सुवीर्यम् ।
सुवाना देवास इन्दवः ॥५॥
अत्या हियाना न हेतृभिरसृग्रं वाजसातये ।
वि वारमव्यमाशवः ॥६॥
वाश्रा अर्षन्तीन्दवोऽभि वत्सं न धेनवः ।
दधन्विरे गभस्त्योः ॥७॥
जुष्ट इन्द्राय मत्सरः पवमान कनिक्रदत् ।
विश्वा अप द्विषो जहि ॥८॥
अपघ्नन्तो अराव्णः पवमानाः स्वर्दृशः ।
योनावृतस्य सीदत ॥९॥


सायणभाष्यम्

॥ श्रीगणेशाय नमः ॥

यस्य निःश्वसितं वेदा यो वेदेभ्योऽखिलं जगत्।

निर्ममे तमहं वन्दे विद्यातीर्थमहेश्वरम् ॥

षष्ठस्य सप्तमोऽध्यायः संग्रहात्संप्रदर्शितः ।

अथाष्टमः सुमतिना संगमेन प्रदर्श्यते ॥

तत्र सोमः पुनानः' इति नवचं त्रयोदशं सूक्तम् । असितो देवलो वर्षिः। सोमो देवता । ‘ पवमानगुणः सोमो विज्ञेयः काश्यपावृषी । इति विद्यादनुक्तेऽपि लाघवाया दृळ्हच्युतात् ॥ ‘सोमः इत्यनुक्रान्तम् । गतो विनियोगः ॥


सोमः॑ पुना॒नो अ॑र्षति स॒हस्र॑धारो॒ अत्य॑विः ।

वा॒योरिंद्र॑स्य निष्कृ॒तं ॥१

सोमः॑ । पु॒ना॒नः । अ॒र्ष॒ति॒ । स॒हस्र॑ऽधारः । अति॑ऽअविः ।

वा॒योः । इन्द्र॑स्य । निः॒ऽकृ॒तम् ॥१

सोमः । पुनानः । अर्षति । सहस्रऽधारः । अतिऽअविः ।

वायोः । इन्द्रस्य । निःऽकृतम् ॥१

अयं “पुनानः पावकः “सोमः “अर्षति गच्छति । कीदृशोऽयं पवमानः। “सहस्रधारः अपरिमितधारः “अत्यविः । अत्राविशब्देन तल्लोमान्युच्यन्ते । अविलोमभिर्निष्पादितं दशापवित्रमित्यर्थः । तदतिक्रम्य गच्छतीत्यत्यविः । किमर्थम् । “वायोरिन्द्रस्य च पानायेति शेषः । किं प्रति । “निष्कृतम् । निरित्येष समित्येतस्मिन्नर्थे । संस्कृतं पात्रं प्रति ॥


पव॑मानमवस्यवो॒ विप्र॑म॒भि प्र गा॑यत ।

सु॒ष्वा॒णं दे॒ववी॑तये ॥२

पव॑मानम् । अ॒व॒स्य॒वः॒ । विप्र॑म् । अ॒भि । प्र । गा॒य॒त॒ ।

सु॒स्वा॒नम् । दे॒वऽवी॑तये ॥२

पवमानम् । अवस्यवः । विप्रम् । अभि । प्र । गायत ।

सुस्वानम् । देवऽवीतये ॥२

हे “अवस्यवः रक्षणकामा उद्गात्रादयः यूयं “पवमानं शोधकं “विप्रं विशेषेन देवानां प्रीणयितारं विप्रवच्छुद्धं वा । अथवा विप्र इति मेधाविनाम। मेधाविनम्। “देववीतये देवपानाय “सुष्वाणं सूयमानम् "अभि “प्र “गायत आभिमुख्येन प्रकर्षेण स्तुत ॥


पवं॑ते॒ वाज॑सातये॒ सोमाः॑ स॒हस्र॑पाजसः ।

गृ॒णा॒ना दे॒ववी॑तये ॥३

पव॑न्ते । वाज॑ऽसातये । सोमाः॑ । स॒हस्र॑ऽपाजसः ।

गृ॒णा॒नाः । दे॒वऽवी॑तये ॥३

पवन्ते । वाजऽसातये । सोमाः । सहस्रऽपाजसः ।

गृणानाः । देवऽवीतये ॥३

“पवन्ते क्षरन्ति “सोमाः । किमर्थम् । “वाजसातये अन्नस्य लाभाय । कीदृशाः । “सहस्रपाजसः बहुबलाः । पातॄणां बलप्रदा इत्यर्थः । “गृणानाः । कर्मणि कर्तृप्रत्ययः । स्तूयमानाः । पुनः किमर्थम् । “देववीतये । देवानां वीतिर्गतिः प्राप्तिर्भक्षणं वा यस्मिन् स देववीतिर्यज्ञः । तदर्थम् । यज्ञसिद्धिः साक्षात् प्रयोजनं तद्द्वारा अन्नलाभ इत्यर्थः ॥


उ॒त नो॒ वाज॑सातये॒ पव॑स्व बृह॒तीरिषः॑ ।

द्यु॒मदिंन्दो सु॒वीर्यं॑ ॥४

उ॒त । नः॒ । वाज॑ऽसातये । पव॑स्व । बृ॒ह॒तीः । इषः॑ ।

द्यु॒ऽमत् । इ॒न्दो॒ इति॑ । सु॒ऽवीर्य॑म् ॥४

उत । नः । वाजऽसातये । पवस्व । बृहतीः । इषः ।

द्युऽमत् । इन्दो इति । सुऽवीर्यम् ॥४

“उत अपि च “नः अस्माकं “वाजसातये अन्नलाभाय हे “इन्दो सोम “बृहतीरिषः महतीः रसधाराः “द्युमत् दीप्तिमत् “सुवीर्यं शोभनसामर्थ्यं च “पवस्व क्षर । शोभनसामर्थ्योपेता धाराः पवस्वेत्यर्थः । अथवा । वाजसातये संग्रामाय बृहतीरिषो द्युमत् सुवीर्यं संपादयितुं पवस्वेति योज्यम् ॥


ते नः॑ सह॒स्रिणं॑ र॒यिं पवं॑ता॒मा सु॒वीर्यं॑ ।

सु॒वा॒ना दे॒वास॒ इंद॑वः ॥५

ते । नः॒ । स॒ह॒स्रिण॑म् । र॒यिम् । पव॑न्ताम् । आ । सु॒ऽवीर्य॑म् ।

सु॒वा॒नाः । दे॒वासः॑ । इन्द॑वः ॥५

ते । नः । सहस्रिणम् । रयिम् । पवन्ताम् । आ । सुऽवीर्यम् ।

सुवानाः । देवासः । इन्दवः ॥५

“ते “इन्दवः सोमाः “नः अस्माकं “सहस्रिणं सहस्रसंख्योपेतं “रयिं धनं “सुवीर्यं च “आ “पवन्ताम् । कीदृशास्ते । "सुवानाः सूयमानाः “देवासः द्योतनादिगुणयुक्ताः ॥ ॥ १ ॥


अत्या॑ हिया॒ना न हे॒तृभि॒रसृ॑ग्रं॒ वाज॑सातये ।

वि वार॒मव्य॑मा॒शवः॑ ॥६

अत्याः॑ । हि॒या॒नाः । न । हे॒तृऽभिः॑ । असृ॑ग्रम् । वाज॑ऽसातये ।

वि । वार॑म् । अव्य॑म् । आ॒शवः॑ ॥६

अत्याः । हियानाः । न । हेतृऽभिः । असृग्रम् । वाजऽसातये ।

वि । वारम् । अव्यम् । आशवः ॥६

“वाजसातये संग्रामाय “हियानाः प्रेर्यमाणाः “अस्याः “न अश्वा इव ते यथा प्रेरकैः प्रेर्यमाणाः संग्रामाय शीघ्रं धावन्ति तद्वत् “हेतृभिः प्रेरकैः प्रेर्यमाणाः “आशवः शीघ्रगामिनः सोमाः वाजसातये अन्नलाभाय “अव्यं “वारं दशापवित्रं “वि “असृग्रं व्यतिसृज्यन्ते ॥


वा॒श्रा अ॑र्षं॒तींद॑वो॒ऽभि व॒त्सं न धे॒नवः॑ ।

द॒ध॒न्वि॒रे गभ॑स्त्योः ॥७

वा॒श्राः । अ॒र्ष॒न्ति॒ । इन्द॑वः । अ॒भि । व॒त्सम् । न । धे॒नवः॑ ।

द॒ध॒न्वि॒रे । गभ॑स्त्योः ॥७

वाश्राः । अर्षन्ति । इन्दवः । अभि । वत्सम् । न । धेनवः ।

दधन्विरे । गभस्त्योः ॥७

“वाश्राः शब्दयन्तः “इन्दवः सोमाः “अभि “अर्षन्ति अभिगच्छन्ति पात्रं प्रति वाश्राः शब्दकारिण्यः “धेनवः “न । ता यथा शब्दयन्त्यः “वत्सं प्रत्यागच्छन्ति तद्वत् । त एव “गभस्त्योः बाह्वोः “दधन्विरे ध्रियन्ते च ।।


जुष्ट॒ इन्द्रा॑य मत्स॒रः पव॑मान॒ कनि॑क्रदत् ।

विश्वा॒ अप॒ द्विषो॑ जहि ॥८

जुष्टः॑ । इन्द्रा॑य । म॒त्स॒रः । पव॑मान । कनि॑क्रदत् ।

विश्वाः॑ । अप॑ । द्विषः॑ । ज॒हि॒ ॥८

जुष्टः । इन्द्राय । मत्सरः । पवमान । कनिक्रदत् ।

विश्वाः । अप । द्विषः । जहि ॥८

"इन्द्राय "जुष्टः प्रियः पर्याप्तः “मत्सरः सोमो भवतीति शेषः। 'मत्सरः सोमो मन्दतेस्तृप्तिकर्मणः ' (निरु. २.५) इति निरुक्तम् । हे "पवमान त्वं “कनिक्रदत् शब्दयन् “विश्वाः “द्विषः सर्वानस्माकं द्वेष्टॄन् "अप "जहि ॥


अ॒प॒घ्नंतो॒ अरा॑व्णः॒ पव॑मानाः स्व॒र्दृशः॑ ।

योना॑वृ॒तस्य॑ सीदत ॥९

अ॒प॒ऽघ्नन्तः॑ । अरा॑व्णः । पव॑मानाः । स्वः॒ऽदृशः॑ ।

योनौ॑ । ऋ॒तस्य॑ । सी॒द॒त॒ ॥९

अपऽघ्नन्तः । अराव्णः । पवमानाः । स्वःऽदृशः ।

योनौ । ऋतस्य । सीदत ॥९

हे “पवमानाः “अराव्णः अदानानयजमानान् “अपघ्न्तः हिंसन्तः “स्वर्दृशः सर्वत्र द्रष्टारश्च यूयम् “ऋतस्य “योनौ यज्ञस्य स्थाने "सीदत । अथवा । सोमपानार्थमुक्तलक्षणा देवा ऋतस्य योनौ सीदतेति योज्यम् ॥ ॥ २ ॥

मण्डल ९

सूक्तं ९.१

सूक्तं ९.२

सूक्तं ९.३

सूक्तं ९.४

सूक्तं ९.५

सूक्तं ९.६

सूक्तं ९.७

सूक्तं ९.८

सूक्तं ९.९

सूक्तं ९.१०

सूक्तं ९.११

सूक्तं ९.१२

सूक्तं ९.१३

सूक्तं ९.१४

सूक्तं ९.१५

सूक्तं ९.१६

सूक्तं ९.१७

सूक्तं ९.१८

सूक्तं ९.१९

सूक्तं ९.२०

सूक्तं ९.२१

सूक्तं ९.२२

सूक्तं ९.२३

सूक्तं ९.२४

सूक्तं ९.२५

सूक्तं ९.२६

सूक्तं ९.२७

सूक्तं ९.२८

सूक्तं ९.२९

सूक्तं ९.३०

सूक्तं ९.३१

सूक्तं ९.३२

सूक्तं ९.३३

सूक्तं ९.३४

सूक्तं ९.३५

सूक्तं ९.३६

सूक्तं ९.३७

सूक्तं ९.३८

सूक्तं ९.३९

सूक्तं ९.४०

सूक्तं ९.४१

सूक्तं ९.४२

सूक्तं ९.४३

सूक्तं ९.४४

सूक्तं ९.४५

सूक्तं ९.४६

सूक्तं ९.४७

सूक्तं ९.४८

सूक्तं ९.४९

सूक्तं ९.५०

सूक्तं ९.५१

सूक्तं ९.५२

सूक्तं ९.५३

सूक्तं ९.५४

सूक्तं ९.५५

सूक्तं ९.५६

सूक्तं ९.५७

सूक्तं ९.५८

सूक्तं ९.५९

सूक्तं ९.६०

सूक्तं ९.६१

सूक्तं ९.६२

सूक्तं ९.६३

सूक्तं ९.६४

सूक्तं ९.६५

सूक्तं ९.६६

सूक्तं ९.६७

सूक्तं ९.६८

सूक्तं ९.६९

सूक्तं ९.७०

सूक्तं ९.७१

सूक्तं ९.७२

सूक्तं ९.७३

सूक्तं ९.७४

सूक्तं ९.७५

सूक्तं ९.७६

सूक्तं ९.७७

सूक्तं ९.७८

सूक्तं ९.७९

सूक्तं ९.८०

सूक्तं ९.८१

सूक्तं ९.८२

सूक्तं ९.८३

सूक्तं ९.८४

सूक्तं ९.८५

सूक्तं ९.८६

सूक्तं ९.८७

सूक्तं ९.८८

सूक्तं ९.८९

सूक्तं ९.९०

सूक्तं ९.९१

सूक्तं ९.९२

सूक्तं ९.९३

सूक्तं ९.९४

सूक्तं ९.९५

सूक्तं ९.९६

सूक्तं ९.९७

सूक्तं ९.९८

सूक्तं ९.९९

सूक्तं ९.१००

सूक्तं ९.१०१

सूक्तं ९.१०२

सूक्तं ९.१०३

सूक्तं ९.१०४

सूक्तं ९.१०५

सूक्तं ९.१०६

सूक्तं ९.१०७

सूक्तं ९.१०८

सूक्तं ९.१०९

सूक्तं ९.११०

सूक्तं ९.१११

सूक्तं ९.११२

सूक्तं ९.११३

सूक्तं ९.११४

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_९.१३&oldid=333863" इत्यस्माद् प्रतिप्राप्तम्