ऋग्वेदः सूक्तं ९.४८
← सूक्तं ९.४७ | ऋग्वेदः - मण्डल ९ सूक्तं ९.४८ कविर्भार्गवः। |
सूक्तं ९.४९ → |
दे. पवमानः सोमः। गायत्री। |
तं त्वा नृम्णानि बिभ्रतं सधस्थेषु महो दिवः ।
चारुं सुकृत्ययेमहे ॥१॥
संवृक्तधृष्णुमुक्थ्यं महामहिव्रतं मदम् ।
शतं पुरो रुरुक्षणिम् ॥२॥
अतस्त्वा रयिमभि राजानं सुक्रतो दिवः ।
सुपर्णो अव्यथिर्भरत् ॥३॥
विश्वस्मा इत्स्वर्दृशे साधारणं रजस्तुरम् ।
गोपामृतस्य विर्भरत् ॥४॥
अधा हिन्वान इन्द्रियं ज्यायो महित्वमानशे ।
अभिष्टिकृद्विचर्षणिः ॥५॥
सायणभाष्यम्
‘ तं त्वा' इति पञ्चर्चं चतुर्विशं सूक्तम् । ऋष्याद्याः पूर्ववत् । ‘तं त्वा' इत्यनुक्रान्तम् । गतो विनियोगः ॥
तं त्वा॑ नृ॒म्णानि॒ बिभ्र॑तं स॒धस्थे॑षु म॒हो दि॒वः ।
चारुं॑ सुकृ॒त्यये॑महे ॥१
तम् । त्वा॒ । नृ॒म्णानि॑ । विभ्र॑तम् । स॒धऽस्थे॑षु । म॒हः । दि॒वः ।
चारु॑म् । सु॒ऽकृ॒त्यया॑ । ई॒म॒हे॒ ॥१
तम् । त्वा । नृम्णानि । विभ्रतम् । सधऽस्थेषु । महः । दिवः ।
चारुम् । सुऽकृत्यया । ईमहे ॥१
"महः “दिवः महतो द्युलोकस्य “सधस्थेषु सहस्थानेषु स्थितं “नृम्णानि धनानि “बिभ्रतम् अस्मदर्थं धारयन्तं “चारुं कल्याणं “तं पवमानं “त्वा त्वां “सुकृत्यया शोभनया क्रियया “ईमहे धनानि याचामहे ॥
संवृ॑क्तधृष्णुमु॒क्थ्यं॑ म॒हाम॑हिव्रतं॒ मदं॑ ।
श॒तं पुरो॑ रुरु॒क्षणिं॑ ॥२
संवृ॑क्तऽधृष्णुम् । उ॒क्थ्य॑म् । म॒हाऽम॑हिव्रतम् । मद॑म् ।
श॒तम् । पुरः॑ । रु॒रु॒क्षणि॑म् ॥२
संवृक्तऽधृष्णुम् । उक्थ्यम् । महाऽमहिव्रतम् । मदम् ।
शतम् । पुरः । रुरुक्षणिम् ॥२
हे सोम “संवृक्तधृष्णुम् । संवृक्ताः संछिन्ना धृष्णवो धर्षणशीलाः शत्रवो येनासौ संवृक्तधृष्णुः। तम् “उक्थ्यम् उक्थार्हं प्रशस्यं महामहिव्रतं महनीयबहुकर्माणं “मदं मदकरं “शतं बहूनि “पुरः शत्रूणां पुराणि “रुरुक्षणिं विनाशयन्तं त्वां धनानीमह इति संबन्धः ॥
अत॑स्त्वा र॒यिम॒भि राजा॑नं सुक्रतो दि॒वः ।
सु॒प॒र्णो अ॑व्य॒थिर्भ॑रत् ॥३
अतः॑ । त्वा॒ । र॒यिम् । अ॒भि । राजा॑नम् । सु॒क्र॒तो॒ इति॑ सुऽक्रतो । दि॒वः ।
सु॒ऽप॒र्णः । अ॒व्य॒थिः । भ॒र॒त् ॥३
अतः । त्वा । रयिम् । अभि । राजानम् । सुक्रतो इति सुऽक्रतो । दिवः ।
सुऽपर्णः । अव्यथिः । भरत् ॥३
हे सोम “रयिमभि धनं प्रति “राजानं “त्वा त्वाम् “अतः “दिवः अमुष्मात् द्युलोकात् “सुक्रतुः सुप्रज्ञः “अव्यथिः व्यथारहितः “सुपर्णः श्येनः “भरत् आहरत् । तथा च निगमान्तरम्-- ‘ आदाय श्येनो अभरत्सोमं सहस्रं सवाँ' (ऋ. सं. ४.२६.७ ) इति ॥
विश्व॑स्मा॒ इत्स्व॑र्दृ॒शे साधा॑रणं रज॒स्तुरं॑ ।
गो॒पामृ॒तस्य॒ विर्भ॑रत् ॥४
विश्व॑स्मै । इत् । स्वः॑ । दृ॒शे । साधा॑रणम् । र॒जः॒ऽतुर॑म् ।
गो॒पाम् । ऋ॒तस्य॑ । विः । भ॒र॒त् ॥४
विश्वस्मै । इत् । स्वः । दृशे । साधारणम् । रजःऽतुरम् ।
गोपाम् । ऋतस्य । विः । भरत् ॥४
“रजस्तुरम् उदकस्य प्रेरकम् "ऋतस्य यज्ञस्य “गोपां गोपायितारं "विश्वस्मै सर्वस्मै “स्वदृशे सर्वदृशे देवाय “साधारणम् “इत् समानमेव सन्तं सोमं “विः पक्षी श्येनः “भरत् स्वर्गादाहरत् ॥
अधा॑ हिन्वा॒न इं॑द्रि॒यं ज्यायो॑ महि॒त्वमा॑नशे ।
अ॒भि॒ष्टि॒कृद्विच॑र्षणिः ॥५
अध॑ । हि॒न्वा॒नः । इ॒न्द्रि॒यम् । ज्यायः॑ । म॒हि॒ऽत्वम् । आ॒न॒शे॒ ।
अ॒भि॒ष्टि॒ऽकृत् । विऽच॑र्षणिः ॥५
अध । हिन्वानः । इन्द्रियम् । ज्यायः । महिऽत्वम् । आनशे ।
अभिष्टिऽकृत् । विऽचर्षणिः ॥५
“अध अथ “विचर्षणिः कर्मणां विद्रष्टा “अभिष्टिकृत् यजमानानामभीष्टस्य फलस्य कर्ता सोमः “इन्द्रियं स्वकीयं बलं “हिन्वानः प्रेरयन् “ज्यायः प्रशस्यतरं “महित्वं महत्त्वम् “आनशे प्राप्नोति ॥ ॥ ५ ॥
मण्डल ९ | |||
---|---|---|---|