ऋग्वेदः सूक्तं ९.८४
← सूक्तं ९.८३ | ऋग्वेदः - मण्डल ९ सूक्तं ९.८४ वाच्यः प्रजापतिः। |
सूक्तं ९.८५ → |
दे. पवमानः सोमः। जगती। |
पवस्व देवमादनो विचर्षणिरप्सा इन्द्राय वरुणाय वायवे ।
कृधी नो अद्य वरिवः स्वस्तिमदुरुक्षितौ गृणीहि दैव्यं जनम् ॥१॥
आ यस्तस्थौ भुवनान्यमर्त्यो विश्वानि सोमः परि तान्यर्षति ।
कृण्वन्संचृतं विचृतमभिष्टय इन्दुः सिषक्त्युषसं न सूर्यः ॥२॥
आ यो गोभिः सृज्यत ओषधीष्वा देवानां सुम्न इषयन्नुपावसुः ।
आ विद्युता पवते धारया सुत इन्द्रं सोमो मादयन्दैव्यं जनम् ॥३॥
एष स्य सोमः पवते सहस्रजिद्धिन्वानो वाचमिषिरामुषर्बुधम् ।
इन्दुः समुद्रमुदियर्ति वायुभिरेन्द्रस्य हार्दि कलशेषु सीदति ॥४॥
अभि त्यं गावः पयसा पयोवृधं सोमं श्रीणन्ति मतिभिः स्वर्विदम् ।
धनंजयः पवते कृत्व्यो रसो विप्रः कविः काव्येना स्वर्चनाः ॥५॥
सायणभाष्यम्
‘ पवस्व देवमादनः' इति पञ्चर्चं सप्तदशं सूक्तं वाचः पुत्रस्य प्रजापतेरार्षं जागतं पवमानसोमदेवताकम् । तथा चानुक्रान्तं- पवस्व वाच्यः प्रजापतिः' इति । गतो विनियोगः ॥
पव॑स्व देव॒माद॑नो॒ विच॑र्षणिर॒प्सा इंद्रा॑य॒ वरु॑णाय वा॒यवे॑ ।
कृ॒धी नो॑ अ॒द्य वरि॑वः स्वस्ति॒मदु॑रुक्षि॒तौ गृ॑णीहि॒ दैव्यं॒ जनं॑ ॥१
पव॑स्व । दे॒व॒ऽमाद॑नः । विऽच॑र्षणिः । अ॒प्साः । इन्द्रा॑य । वरु॑णाय । वा॒यवे॑ ।
कृ॒धि । नः॒ । अ॒द्य । वरि॑वः । स्व॒स्ति॒ऽमत् । उ॒रु॒ऽक्षि॒तौ । गृ॒णी॒हि॒ । दैव्य॑म् । जन॑म् ॥१
पवस्व । देवऽमादनः । विऽचर्षणिः । अप्साः । इन्द्राय । वरुणाय । वायवे ।
कृधि । नः । अद्य । वरिवः । स्वस्तिऽमत् । उरुऽक्षितौ । गृणीहि । दैव्यम् । जनम् ॥१
हे सोम “देवमादनः देवानां मादयिता “विचर्षणिः विद्रष्टा “अप्साः अपां दाता त्वं "पवस्व क्षर । कस्मै । "इन्द्राय "वरुणाय “वायवे च । "नः अस्माकं "वरिवः धनं "स्वस्तिमत् । स्वस्तीत्यविनाशनाम । तद्वद्धनं "कृधि कुरु । "उरुक्षितौ विस्तीर्णायां भूमौ यज्ञसंबन्धियां “दैव्यं "जनं देवसंबन्धिनं संघम् । जनशब्दः संघवाची । तं "गृणीहि । गृणातिः शब्दकर्मा । शब्दय । यथा त्वदीयाभिषवशब्दं श्रुत्वा देवा आगच्छन्ति तथा गृणीहीत्यर्थः । अथवा दैव्यं जनमित्यृषिः स्वात्मानमाह । देवसंबन्धिनं जनं मां गृणीहि साधुसंभक्ता इति शब्दय ॥
आ यस्त॒स्थौ भुव॑ना॒न्यम॑र्त्यो॒ विश्वा॑नि॒ सोमः॒ परि॒ तान्य॑र्षति ।
कृ॒ण्वन्त्सं॒चृतं॑ वि॒चृत॑म॒भिष्ट॑य॒ इंदुः॑ सिषक्त्यु॒षसं॒ न सूर्यः॑ ॥२
आ । यः । त॒स्थौ । भुव॑नानि । अम॑र्त्यः । विश्वा॑नि । सोमः॑ । परि॑ । तानि॑ । अ॒र्ष॒ति॒ ।
कृ॒ण्वन् । स॒म्ऽचृत॑म् । वि॒ऽचृत॑म् । अ॒भिष्ट॑ये । इन्दुः॑ । सि॒स॒क्ति॒ । उ॒षस॑म् । न । सूर्यः॑ ॥२
आ । यः । तस्थौ । भुवनानि । अमर्त्यः । विश्वानि । सोमः । परि । तानि । अर्षति ।
कृण्वन् । सम्ऽचृतम् । विऽचृतम् । अभिष्टये । इन्दुः । सिसक्ति । उषसम् । न । सूर्यः ॥२
"यः "अमर्त्यः देवः "सोमः "भुवनानि लोकान् “आ “तस्थौ आस्थितवान् "तानि "विश्वानि सर्वाणि भुवनानि “परि “अर्षति परितो गच्छति । परितो रक्षतीत्यर्थः । सोऽयम् "इन्दुः यज्ञं यजमानं वा "संचृतं देवैः फलैर्वा संबद्धं "कृण्वन् कुर्वन् "विचृतम् असुरादिभिर्दुःखैर्वा विमुक्तं “कृण्वन् अभितो यागाय “सिषक्ति सेवते यज्ञम् । “उषसं "न "सूर्यः। सूर्य उषसमिव यथा “अभिष्टये अभितो गमनाय प्राणिनां संचृतं प्रकाशैः संयुक्तं विचृतं तमोभिर्विमुक्तं च लोकं कुर्वन्नुषसं सेवते तद्वत् ॥
आ यो गोभिः॑ सृ॒ज्यत॒ ओष॑धी॒ष्वा दे॒वानां॑ सु॒म्न इ॒षय॒न्नुपा॑वसुः ।
आ वि॒द्युता॑ पवते॒ धार॑या सु॒त इंद्रं॒ सोमो॑ मा॒दयं॒दैव्यं॒ जनं॑ ॥३
आ । यः । गोभिः॑ । सृ॒ज्यते॑ । ओष॑धीषु । आ । दे॒वाना॑म् । सु॒म्ने । इ॒षय॑न् । उप॑ऽवसुः ।
आ । वि॒ऽद्युता॑ । प॒व॒ते॒ । धार॑या । सु॒तः । इन्द्र॑म् । सोमः॑ । मा॒दय॑न् । दैव्य॑म् । जन॑म् ॥३
आ । यः । गोभिः । सृज्यते । ओषधीषु । आ । देवानाम् । सुम्ने । इषयन् । उपऽवसुः ।
आ । विऽद्युता । पवते । धारया । सुतः । इन्द्रम् । सोमः । मादयन् । दैव्यम् । जनम् ॥३
"यः सोमः "गोभिः रश्मिभिः “आ “सृज्यते "ओषधीषु । यं सोमं स्थापयन्तीत्यर्थः । किमर्थम् । "देवानां "सुम्ने सुखे निमित्ते सति । कीदृशोऽयम्। "इषयन् देवान् प्राप्तुमिच्छन् । इष गतौ'। धनमिच्छन् वा । तथा “उपावसुः शत्रुभ्यः सकाशात् प्राप्तधनः । सः "सोमः "विद्युता विद्योतमानया “धारया “आ “पवते "सुतः सन् । किं कुर्वन् । "दैव्यं देवस्वामिनम् "इन्द्रं "मादयन् ॥
ए॒ष स्य सोमः॑ पवते सहस्र॒जिद्धि॑न्वा॒नो वाच॑मिषि॒रामु॑ष॒र्बुधं॑ ।
इन्दुः॑ समु॒द्रमुदि॑यर्ति वा॒युभि॒रेंद्र॑स्य॒ हार्दि॑ क॒लशे॑षु सीदति ॥४
ए॒षः । स्यः । सोमः॑ । प॒व॒ते॒ । स॒ह॒स्र॒ऽजित् । हि॒न्वा॒नः । वाच॑म् । इ॒षि॒राम् । उ॒षः॒ऽबुध॑म् ।
इन्दुः॑ । स॒मु॒द्रम् । उत् । इ॒य॒र्ति॒ । वा॒युऽभिः॑ । आ । इन्द्र॑स्य । हार्दि॑ । क॒लशे॑षु । सी॒द॒ति॒ ॥४
एषः । स्यः । सोमः । पवते । सहस्रऽजित् । हिन्वानः । वाचम् । इषिराम् । उषःऽबुधम् ।
इन्दुः । समुद्रम् । उत् । इयर्ति । वायुऽभिः । आ । इन्द्रस्य । हार्दि । कलशेषु । सीदति ॥४
“एष "स्यः सः "सोमः "पवते पूयते । कीदृश एषः । "सहस्रजित् सहस्रस्य जेता । किं कुर्वन् । “वाचम् ऋत्विजां स्तुतिरूपां वाचं “हिन्वानः प्रेरयन् । कीदृशीं वाचम् । "इषिरां गमनशीलां स्तुत्यं प्रति गन्त्रीम् "उषर्बुधम् उषसि प्रबुद्धाम् । सोऽयम् "इन्दुः सोमः "समुद्रं समुद्रियं रसम् "उदियर्ति उद्गमयति “वायुभिः गन्तृभिरध्वर्य्वादिभिः वायुभिरेव वा प्रेर्यमाणः सन् । तथा “इन्द्रस्य "हार्दि । हार्दं प्रियम् । तद्धार्दि इन्द्रस्य प्रियवद्यथा भवति तथा "कलशेषु द्रोणकलशप्रभृतिषु “आ “सीदति ॥
अ॒भि त्यं गावः॒ पय॑सा पयो॒वृधं॒ सोमं॑ श्रीणंति म॒तिभिः॑ स्व॒र्विदं॑ ।
ध॒नं॒ज॒यः प॑वते॒ कृत्व्यो॒ रसो॒ विप्रः॑ क॒विः काव्ये॑ना॒ स्व॑र्चनाः ॥५
अ॒भि । त्यम् । गावः॑ । पय॑सा । प॒यः॒ऽवृध॑म् । सोम॑म् । श्री॒ण॒न्ति॒ । म॒तिऽभिः॑ । स्वः॒ऽविद॑म् ।
ध॒न॒म्ऽज॒यः । प॒व॒ते॒ । कृत्व्यः॑ । रसः॑ । विप्रः॑ । क॒विः । काव्ये॑न । स्वः॑ऽचनाः ॥५
अभि । त्यम् । गावः । पयसा । पयःऽवृधम् । सोमम् । श्रीणन्ति । मतिऽभिः । स्वःऽविदम् ।
धनम्ऽजयः । पवते । कृत्व्यः । रसः । विप्रः । कविः । काव्येन । स्वःऽचनाः ॥५
“त्यं तं “पयोवृधं पयसो वर्धकं "सोमं "गावः "पयसा स्वकीयेन क्षीरेण "श्रीणन्ति श्रयणं कुर्वन्ति । यः “मतिभिः स्तुतिभिः सर्वं प्रयच्छति तं "स्वर्विदं सोमं श्रीणन्ति । सः “धनंजयः शत्रुधनानां जेता सोमः "काव्येन कर्मणा "पवते पूयते । कीदृशः सः । "कृत्व्यः कर्मण्यः "रसः रसरूपः “विप्रः मेधावी “कविः क्रान्तप्रज्ञः "स्वर्चनाः सर्वान्नः । चन इत्यन्ननाम ॥ ॥ ९ ॥
मण्डल ९ | |||
---|---|---|---|