← सूक्तं ९.५२ ऋग्वेदः - मण्डल ९
सूक्तं ९.५३
अवत्सारः काश्यपः
सूक्तं ९.५४ →
दे. पवमानः सोमः। गायत्री


उत्ते शुष्मासो अस्थू रक्षो भिन्दन्तो अद्रिवः ।
नुदस्व याः परिस्पृधः ॥१॥
अया निजघ्निरोजसा रथसंगे धने हिते ।
स्तवा अबिभ्युषा हृदा ॥२॥
अस्य व्रतानि नाधृषे पवमानस्य दूढ्या ।
रुज यस्त्वा पृतन्यति ॥३॥
तं हिन्वन्ति मदच्युतं हरिं नदीषु वाजिनम् ।
इन्दुमिन्द्राय मत्सरम् ॥४॥


सायणभाष्यम्

‘उत्ते' इति चतुर्ऋचमेकोनत्रिंशं सूक्तं काश्यपस्यावत्सारस्यार्षं गायत्रं पवमानसोमदेवताकम् । तथा चानुकान्तम्-- उत्ते चतुष्कमवत्सारः' इति । उक्तो विनियोगः ॥


उत्ते॒ शुष्मा॑सो अस्थू॒ रक्षो॑ भिं॒दंतो॑ अद्रिवः ।

नु॒दस्व॒ याः प॑रि॒स्पृधः॑ ॥१

उत् । ते॒ । शुष्मा॑सः । अ॒स्थुः॒ । रक्षः॑ । भि॒न्दन्तः॑ । अ॒द्रि॒ऽवः॒ ।

नु॒दस्व॑ । याः । प॒रि॒ऽस्पृधः॑ ॥१

उत् । ते । शुष्मासः । अस्थुः । रक्षः । भिन्दन्तः । अद्रिऽवः ।

नुदस्व । याः । परिऽस्पृधः ॥१

हे “अद्रिवः ग्राववन् सोम “ते तव “शुष्मासः शुष्मा वेगाः “रक्षः राक्षसान् “भिन्दन्तः विदारयन्तः “उत “अस्थुः उत्तिष्ठन्ति । "याः “स्पृधः स्पर्धमानाः शत्रुसेना अस्मान् प्रतिबाधन्ते तास्त्वं “नुदस्व प्रेरय । बाधस्वेत्यर्थः ॥


अ॒या नि॑ज॒घ्निरोज॑सा रथसं॒गे धने॑ हि॒ते ।

स्तवा॒ अबि॑भ्युषा हृ॒दा ॥२

अ॒या । नि॒ऽज॒घ्निः । ओज॑सा । र॒थ॒ऽस॒ङ्गे । धने॑ । हि॒ते ।

स्तवै॑ । अबि॑भ्युषा । हृ॒दा ॥२

अया । निऽजघ्निः । ओजसा । रथऽसङ्गे । धने । हिते ।

स्तवै । अबिभ्युषा । हृदा ॥२

हे सोम त्वम् “अया अनेन कृतेन “ओजसा बलेन “निजघ्निः शत्रून् हन्तुं शीलवान् । तं त्वाम् “अबिभ्युषा अभीतेन “हृदा मनसा युक्तोऽहं “रथसङ्गे अस्माकं रथानां सङ्गे “हिते शत्रुषु निहिते “धने च निमित्ते “स्तवै स्तौमि ॥


अस्य॑ व्र॒तानि॒ नाधृषे॒ पव॑मानस्य दू॒ढ्या॑ ।

रु॒ज यस्त्वा॑ पृत॒न्यति॑ ॥३

अस्य॑ । व्र॒तानि॑ । न । आ॒ऽधृषे॑ । पव॑मानस्य । दुः॒ऽध्या॑ ।

रु॒ज । यः । त्वा॒ । पृ॒त॒न्यति॑ ॥३

अस्य । व्रतानि । न । आऽधृषे । पवमानस्य । दुःऽध्या ।

रुज । यः । त्वा । पृतन्यति ॥३

हे सोम “पवमानस्य क्षरतो यस्य “अस्य तव “व्रतानि कर्माणि “दूढ्या दुर्बुद्धिना राक्षसेन “नाधृषे आधर्षयितुमशक्यानि स त्वं त्वां “यः दुर्बुद्धिः शत्रुः “पृतन्यति योद्भुमिच्छति तं "रुज बाधस्व।।


तं हि॑न्वंति मद॒च्युतं॒ हरिं॑ न॒दीषु॑ वा॒जिनं॑ ।

इंदु॒मिंद्रा॑य मत्स॒रं ॥४

तम् । हि॒न्व॒न्ति॒ । म॒द॒ऽच्युत॑म् । हरि॑म् । न॒दीषु॑ । वा॒जिन॑म् ।

इन्दु॑म् । इन्द्रा॑य । म॒त्स॒रम् ॥४

तम् । हिन्वन्ति । मदऽच्युतम् । हरिम् । नदीषु । वाजिनम् ।

इन्दुम् । इन्द्राय । मत्सरम् ॥४

“मदच्युतं मदस्य च्यावयितारं “हरिं हरितवर्णं “वाजिनं बलिनं “मत्सरं मदकरं “तम् “इन्दुं सोमं “नदीषु वसतीवरीषु “इन्द्राय इन्द्रार्थं “हिन्वन्ति ऋत्विजः प्रेरयन्ति ॥ ॥ १० ॥


मण्डल ९

सूक्तं ९.१

सूक्तं ९.२

सूक्तं ९.३

सूक्तं ९.४

सूक्तं ९.५

सूक्तं ९.६

सूक्तं ९.७

सूक्तं ९.८

सूक्तं ९.९

सूक्तं ९.१०

सूक्तं ९.११

सूक्तं ९.१२

सूक्तं ९.१३

सूक्तं ९.१४

सूक्तं ९.१५

सूक्तं ९.१६

सूक्तं ९.१७

सूक्तं ९.१८

सूक्तं ९.१९

सूक्तं ९.२०

सूक्तं ९.२१

सूक्तं ९.२२

सूक्तं ९.२३

सूक्तं ९.२४

सूक्तं ९.२५

सूक्तं ९.२६

सूक्तं ९.२७

सूक्तं ९.२८

सूक्तं ९.२९

सूक्तं ९.३०

सूक्तं ९.३१

सूक्तं ९.३२

सूक्तं ९.३३

सूक्तं ९.३४

सूक्तं ९.३५

सूक्तं ९.३६

सूक्तं ९.३७

सूक्तं ९.३८

सूक्तं ९.३९

सूक्तं ९.४०

सूक्तं ९.४१

सूक्तं ९.४२

सूक्तं ९.४३

सूक्तं ९.४४

सूक्तं ९.४५

सूक्तं ९.४६

सूक्तं ९.४७

सूक्तं ९.४८

सूक्तं ९.४९

सूक्तं ९.५०

सूक्तं ९.५१

सूक्तं ९.५२

सूक्तं ९.५३

सूक्तं ९.५४

सूक्तं ९.५५

सूक्तं ९.५६

सूक्तं ९.५७

सूक्तं ९.५८

सूक्तं ९.५९

सूक्तं ९.६०

सूक्तं ९.६१

सूक्तं ९.६२

सूक्तं ९.६३

सूक्तं ९.६४

सूक्तं ९.६५

सूक्तं ९.६६

सूक्तं ९.६७

सूक्तं ९.६८

सूक्तं ९.६९

सूक्तं ९.७०

सूक्तं ९.७१

सूक्तं ९.७२

सूक्तं ९.७३

सूक्तं ९.७४

सूक्तं ९.७५

सूक्तं ९.७६

सूक्तं ९.७७

सूक्तं ९.७८

सूक्तं ९.७९

सूक्तं ९.८०

सूक्तं ९.८१

सूक्तं ९.८२

सूक्तं ९.८३

सूक्तं ९.८४

सूक्तं ९.८५

सूक्तं ९.८६

सूक्तं ९.८७

सूक्तं ९.८८

सूक्तं ९.८९

सूक्तं ९.९०

सूक्तं ९.९१

सूक्तं ९.९२

सूक्तं ९.९३

सूक्तं ९.९४

सूक्तं ९.९५

सूक्तं ९.९६

सूक्तं ९.९७

सूक्तं ९.९८

सूक्तं ९.९९

सूक्तं ९.१००

सूक्तं ९.१०१

सूक्तं ९.१०२

सूक्तं ९.१०३

सूक्तं ९.१०४

सूक्तं ९.१०५

सूक्तं ९.१०६

सूक्तं ९.१०७

सूक्तं ९.१०८

सूक्तं ९.१०९

सूक्तं ९.११०

सूक्तं ९.१११

सूक्तं ९.११२

सूक्तं ९.११३

सूक्तं ९.११४

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_९.५३&oldid=208640" इत्यस्माद् प्रतिप्राप्तम्