ऋग्वेदः सूक्तं ९.८२
← सूक्तं ९.८१ | ऋग्वेदः - मण्डल ९ सूक्तं ९.८२ वसुर्भारद्वाजः। |
सूक्तं ९.८३ → |
दे. पवमानः सोमः। जगती, ५ त्रिष्टुप्। |
असावि सोमो अरुषो वृषा हरी राजेव दस्मो अभि गा अचिक्रदत् ।
पुनानो वारं पर्येत्यव्ययं श्येनो न योनिं घृतवन्तमासदम् ॥१॥
कविर्वेधस्या पर्येषि माहिनमत्यो न मृष्टो अभि वाजमर्षसि ।
अपसेधन्दुरिता सोम मृळय घृतं वसानः परि यासि निर्णिजम् ॥२॥
पर्जन्यः पिता महिषस्य पर्णिनो नाभा पृथिव्या गिरिषु क्षयं दधे ।
स्वसार आपो अभि गा उतासरन्सं ग्रावभिर्नसते वीते अध्वरे ॥३॥
जायेव पत्यावधि शेव मंहसे पज्राया गर्भ शृणुहि ब्रवीमि ते ।
अन्तर्वाणीषु प्र चरा सु जीवसेऽनिन्द्यो वृजने सोम जागृहि ॥४॥
यथा पूर्वेभ्यः शतसा अमृध्रः सहस्रसाः पर्यया वाजमिन्दो ।
एवा पवस्व सुविताय नव्यसे तव व्रतमन्वापः सचन्ते ॥५॥
सायणभाष्यम्
‘असावि' इति पञ्चर्चं पञ्चदशं सूक्तम् । ऋष्याद्याः पूर्ववत् । अत्रानुक्रमणिका– असावीति त्रिष्टुबन्ते' इति । अनेन द्विवचनेन प्रकृतयोः ‘प्र सोमस्य' इत्यादिकयोर्द्वयोरपि त्रिष्टुबन्तता प्रतिपादिता । गतो विनियोगः ॥
असा॑वि॒ सोमो॑ अरु॒षो वृषा॒ हरी॒ राजे॑व द॒स्मो अ॒भि गा अ॑चिक्रदत् ।
पु॒ना॒नो वारं॒ पर्ये॑त्य॒व्ययं॑ श्ये॒नो न योनिं॑ घृ॒तवं॑तमा॒सदं॑ ॥१
असा॑वि । सोमः॑ । अ॒रु॒षः । वृषा॑ । हरिः॑ । राजा॑ऽइव । द॒स्मः । अ॒भि । गाः । अ॒चि॒क्र॒द॒त् ।
पु॒ना॒नः । वार॑म् । परि॑ । ए॒ति॒ । अ॒व्यय॑म् । श्ये॒नः । न । योनि॑म् । घृ॒तऽव॑न्तम् । आ॒ऽसद॑म् ॥१
असावि । सोमः । अरुषः । वृषा । हरिः । राजाऽइव । दस्मः । अभि । गाः । अचिक्रदत् ।
पुनानः । वारम् । परि । एति । अव्ययम् । श्येनः । न । योनिम् । घृतऽवन्तम् । आऽसदम् ॥१
“सोमः “असावि अभिषुतोऽभूत्। कीदृशः सोमः । “अरुषः आरोचमानः “वृषा वर्षकः “हरिः हरितवर्णः । स च “राजेव “दस्मः दर्शनीयः सन् “गाः उदकानि अभिलक्ष्य “अचिक्रदत् शब्दं करोति स्वरसनिर्मोकसमये । पश्चात् “पुनानः पूयमानः “अव्ययम् अविमयं “वारं वालं दशापवित्रं “पर्येति । ततः “श्येनो “न श्येन इव “योनिं स्वकीयं स्थानं “घृतवन्तम् उदकवन्तम् “आसदम् आसदनाय पवत इति शेषः ॥
क॒विर्वे॑ध॒स्या पर्ये॑षि॒ माहि॑न॒मत्यो॒ न मृ॒ष्टो अ॒भि वाज॑मर्षसि ।
अ॒प॒सेधं॑दुरि॒ता सो॑म मृळय घृ॒तं वसा॑नः॒ परि॑ यासि नि॒र्णिजं॑ ॥२
क॒विः । वे॒ध॒स्या । परि॑ । ए॒षि॒ । माहि॑नम् । अत्यः॑ । न । मृ॒ष्टः । अ॒भि । वाज॑म् । अ॒र्ष॒सि॒ ।
अ॒प॒ऽसेध॑न् । दुः॒ऽइ॒ता । सो॒म॒ । मृ॒ळ॒य॒ । घृ॒तम् । वसा॑नः । परि॑ । या॒सि॒ । निः॒ऽनिज॑म् ॥२
कविः । वेधस्या । परि । एषि । माहिनम् । अत्यः । न । मृष्टः । अभि । वाजम् । अर्षसि ।
अपऽसेधन् । दुःऽइता । सोम । मृळय । घृतम् । वसानः । परि । यासि । निःऽनिजम् ॥२
हे सोम "कविः क्रान्तदर्शी सन् "वेधस्या यागविधानेच्छया "माहिनं मंहनीयं पवित्रं "पर्येषि परिगच्छसि । पश्चात् "मृष्टः प्रक्षालितः "अत्यो “न अश्व इव “वाजं संग्रामम् "अभि “अर्षसि । हे “सोम “दुरिता अस्माकं दुरितानि “अपसेधन परिहरन् "मृळय सुखय । “घृतम् उदकं "वसानः आच्छादयन् "परि "यासि अभिगच्छसि । किम् । "निर्णिजं निर्णेजकं पवित्रम् ॥
प॒र्जन्यः॑ पि॒ता म॑हि॒षस्य॑ प॒र्णिनो॒ नाभा॑ पृथि॒व्या गि॒रिषु॒ क्षयं॑ दधे ।
स्वसा॑र॒ आपो॑ अ॒भि गा उ॒तास॑र॒न्त्सं ग्राव॑भिर्नसते वी॒ते अ॑ध्व॒रे ॥३
प॒र्जन्यः॑ । पि॒ता । म॒हि॒षस्य॑ । प॒र्णिनः॑ । नाभा॑ । पृ॒थि॒व्याः । गि॒रिषु॑ । क्षय॑म् । द॒धे॒ ।
स्वसा॑रः । आपः॑ । अ॒भि । गाः । उ॒त । अ॒स॒र॒न् । सम् । ग्राव॑ऽभिः । न॒स॒ते॒ । वी॒ते । अ॒ध्व॒रे ॥३
पर्जन्यः । पिता । महिषस्य । पर्णिनः । नाभा । पृथिव्याः । गिरिषु । क्षयम् । दधे ।
स्वसारः । आपः । अभि । गाः । उत । असरन् । सम् । ग्रावऽभिः । नसते । वीते । अध्वरे ॥३
यस्य "महिषस्य महतः "पर्णिनः पर्णवतः पतनवतो वा सोमस्य "पर्जन्यः "पिता जनकः स सोमः "पृथिव्याः "नाभा नाभौ नाभिस्थानीये हविर्धाने “गिरिषु गिरिसंबन्धिग्रावसु "क्षयं निवासं "दधे धारयत्यभिषवसमये । "उत अपि च "स्वसारः अङ्गुलयः "आपः वसतीवर्यः "गाः आशिरार्थाः स्तुतयो वा “अभि "असरन् अभिसरन्ति । “सं "नसते संगच्छते च "ग्रावभिः साकम् । कुत्र । “वीते कान्ते "अध्वरे यज्ञे ॥
जा॒येव॒ पत्या॒वधि॒ शेव॑ मंहसे॒ पज्रा॑या गर्भ शृणु॒हि ब्रवी॑मि ते ।
अं॒तर्वाणी॑षु॒ प्र च॑रा॒ सु जी॒वसे॑ऽनिं॒द्यो वृ॒जने॑ सोम जागृहि ॥४
जा॒याऽइ॑व । पत्यौ॑ । अधि॑ । शेव॑ । मं॒ह॒से॒ । पज्रा॑याः । ग॒र्भ॒ । शृ॒णु॒हि । ब्रवी॑मि । ते॒ ।
अ॒न्तः । वाणी॑षु । प्र । च॒र॒ । सु । जी॒वसे॑ । अ॒नि॒न्द्यः । वृ॒जने॑ । सो॒म॒ । जा॒गृ॒हि॒ ॥४
जायाऽइव । पत्यौ । अधि । शेव । मंहसे । पज्रायाः । गर्भ । शृणुहि । ब्रवीमि । ते ।
अन्तः । वाणीषु । प्र । चर । सु । जीवसे । अनिन्द्यः । वृजने । सोम । जागृहि ॥४
“जायेव "पत्यौ जाया यथा स्वभार्यां भर्तरि सुखं प्रयच्छति तद्वत् “शेव शेवम्। द्वितीयाया अम्भावाभावश्छान्दसः । सुखं “मंहसे प्रयच्छसि यजमाने । हे “पज्राया “गर्भं सोम “शृणुहि शृणु स्तुतीर्याः “ते तुभ्यं "ब्रवीमि । पजिर्गतिकर्मा । पज्रा पृथिवीत्याहुः । अपि वा माध्यमिका वाक् पज्रा । भूमावोषधिरूपेण जातवात्तद्गर्भत्वम् । माध्यमिकाया वाचोऽपि वृष्टिसाधनत्वात् तत्पुत्रत्वम् । स त्वं “वाणीषु वाक्षु स्तुतिषु "अन्तः मध्ये "सु सुष्ठु “प्र “चर "जीवसे अस्माकं जीवनाय ।
यथा॒ पूर्वे॑भ्यः शत॒सा अमृ॑ध्रः सहस्र॒साः प॒र्यया॒ वाज॑मिंदो ।
ए॒वा प॑वस्व सुवि॒ताय॒ नव्य॑से॒ तव॑ व्र॒तमन्वापः॑ सचंते ॥५
यथा॑ । पूर्वे॑भ्यः । श॒त॒ऽसाः । अमृ॑ध्रः । स॒ह॒स्र॒ऽसाः । प॒रि॒ऽअयाः॑ । वाज॑म् । इ॒न्दो॒ इति॑ ।
ए॒व । प॒व॒स्व॒ । सु॒वि॒ताय॑ । नव्य॑से । तव॑ । व्र॒तम् । अनु॑ । आपः॑ । स॒च॒न्ते॒ ॥५
यथा । पूर्वेभ्यः । शतऽसाः । अमृध्रः । सहस्रऽसाः । परिऽअयाः । वाजम् । इन्दो इति ।
एव । पवस्व । सुविताय । नव्यसे । तव । व्रतम् । अनु । आपः । सचन्ते ॥५
हे “इन्दो सोम त्वं "यथा “पूर्वेभ्यः महर्षिभ्यः स्तोतृभ्यः "शतसाः शतसंख्याकस्य धनस्य दाता तथा "सहस्रसाः च सन् “पर्ययाः परिगच्छेः “एव एवमिदानीमपि “नव्यसे नवतराय “सुविताय अभ्युदयाय "पवस्व क्षर। “तव “व्रतं कर्म "अन्वापः वसतीवर्यः "सचन्ते। अतः पवस्व ॥ ॥ ७ ॥
टिप्पणी
मण्डल ९ | |||
---|---|---|---|