ऋग्वेदः सूक्तं ९.४७
← सूक्तं ९.४६ | ऋग्वेदः - मण्डल ९ सूक्तं ९.४७ कविर्भार्गवः |
सूक्तं ९.४८ → |
दे. पवमानः सोमः। गायत्री। |
अया सोमः सुकृत्यया महश्चिदभ्यवर्धत ।
मन्दान उद्वृषायते ॥१॥
कृतानीदस्य कर्त्वा चेतन्ते दस्युतर्हणा ।
ऋणा च धृष्णुश्चयते ॥२॥
आत्सोम इन्द्रियो रसो वज्रः सहस्रसा भुवत् ।
उक्थं यदस्य जायते ॥३॥
स्वयं कविर्विधर्तरि विप्राय रत्नमिच्छति ।
यदी मर्मृज्यते धियः ॥४॥
सिषासतू रयीणां वाजेष्वर्वतामिव ।
भरेषु जिग्युषामसि ॥५॥
सायणभाष्यम्
‘अया सोमः' इति पञ्चर्चं त्रयोविंशं सूक्तं भृगुपुत्रस्य कवेरार्षं गायत्रं पवमानसोमदेवताकम् । तथा चानुक्रान्तम् -- ‘अया सोमः पञ्च कविर्भार्गवः' इति । उक्तो विनियोगः ॥
अ॒या सोमः॑ सुकृ॒त्यया॑ म॒हश्चि॑द॒भ्य॑वर्धत ।
मं॒दा॒न उद्वृ॑षायते ॥१
अ॒या । सोमः॑ । सु॒ऽकृ॒त्यया॑ । म॒हः । चि॒त् । अ॒भि । अ॒व॒र्ध॒त॒ ।
म॒न्दा॒नः । उत् । वृ॒ष॒ऽय॒ते॒ ॥१
अया । सोमः । सुऽकृत्यया । महः । चित् । अभि । अवर्धत ।
मन्दानः । उत् । वृषऽयते ॥१
“सोमः "अया अनया “सुकृत्यया शोभनयाभिषवादिलक्षणया क्रियया “महश्चित् महतो देवान् प्रति अभ्यवर्धत प्रवृद्धोऽभूत् । “मन्दानः मोदमानः “उद्वृषायते वृषवदाचरति । यथा मोदमानो वृषभः शब्दं करोति तथाभिषववेलायामुपरवेषु शब्दं करोतीत्यर्थः ॥
कृ॒तानीद॑स्य॒ कर्त्वा॒ चेतं॑ते दस्यु॒तर्ह॑णा ।
ऋ॒णा च॑ धृ॒ष्णुश्च॑यते ॥२
कृ॒तानि॑ । इत् । अ॒स्य॒ । कर्त्वा॑ । चेत॑न्ते । द॒स्यु॒ऽतर्ह॑णा ।
ऋ॒णा । च॒ । धृ॒ष्णुः । च॒य॒ते॒ ॥२
कृतानि । इत् । अस्य । कर्त्वा । चेतन्ते । दस्युऽतर्हणा ।
ऋणा । च । धृष्णुः । चयते ॥२
“अस्य यस्य एतस्य सोमस्य “दस्युतर्हणा दस्यूनामसुराणां नाशकानि “कर्त्वा कर्माणि सः “इत् अस्माभिरेव सोऽयं “धृष्णुः धृष्टः सोमो यजमानानाम् "ऋणा “च ऋणान्यपि “चयते कामप्रदानेन चातयति ॥
आत्सोम॑ इंद्रि॒यो रसो॒ वज्रः॑ सहस्र॒सा भु॑वत् ।
उ॒क्थं यद॑स्य॒ जाय॑ते ॥३
आत् । सोमः॑ । इ॒न्द्रि॒यः । रसः॑ । वज्रः॑ । स॒ह॒स्र॒ऽसाः । भु॒व॒त् ।
उ॒क्थम् । यत् । अ॒स्य॒ । जाय॑ते ॥३
आत् । सोमः । इन्द्रियः । रसः । वज्रः । सहस्रऽसाः । भुवत् ।
उक्थम् । यत् । अस्य । जायते ॥३
“यत् यदा “अस्य इन्द्रस्य “उक्थं शस्त्रं “जायते प्रादुर्भवति तत् "आत् अनन्तरमेव “इन्द्रियः इन्द्रस्य प्रियकरः रसः बलवान् “वज्रः वज्रसदृशः केनाप्यहिंस्यः “सोमः “सहस्रसाः अस्मभ्यमपरिमितस्य धनस्य दाता भवति ॥
स्व॒यं क॒विर्वि॑ध॒र्तरि॒ विप्रा॑य॒ रत्न॑मिच्छति ।
यदी॑ मर्मृ॒ज्यते॒ धियः॑ ॥४
स्व॒यम् । क॒विः । वि॒ऽध॒र्तरि॑ । विप्रा॑य । रत्न॑म् । इ॒च्छ॒ति॒ ।
यदि॑ । म॒र्मृ॒ज्यते॑ । धियः॑ ॥४
स्वयम् । कविः । विऽधर्तरि । विप्राय । रत्नम् । इच्छति ।
यदि । मर्मृज्यते । धियः ॥४
“यदि “कविः क्रान्तकर्मा अयं सोमः “धियः धीभिः। विभक्तिव्यत्ययः। धीतिभिः । अङ्गुलीभिरित्यर्थः । "मर्मृज्यते शोध्यते तर्हि “स्वयं स्वयमेव “विप्राय मेधाविने “विधर्तरि कामानां विधातरीन्द्रे “रत्नं रमणीयं धनम् “इच्छति । इन्द्रेण धनं दापयितुमिच्छतीत्यर्थः ॥
सि॒षा॒सतू॑ रयी॒णां वाजे॒ष्वर्व॑तामिव ।
भरे॑षु जि॒ग्युषा॑मसि ॥५
सि॒सा॒सतुः॑ । र॒यी॒णाम् । वाजे॑षु । अर्व॑ताम्ऽइव ।
भरे॑षु । जि॒ग्युषा॑म् । अ॒सि॒ ॥५
सिसासतुः । रयीणाम् । वाजेषु । अर्वताम्ऽइव ।
भरेषु । जिग्युषाम् । असि ॥५
हे सोम त्वं “भरेषु संग्रामेषु “जिग्युषां शत्रून् जयतां “रयीणां धनानां “सिषासतुः संभक्तुमिच्छुः “असि भवसि । शत्रून् जयद्योत् धनानि प्रयच्छसीत्यर्थः । तत्र दृष्टान्तः। “वाजेषु संग्रामेषु “अर्वतामिव अश्वानामिव । यथा संग्रामं प्रविशद्भ्योऽश्वेभ्यो घासं प्रयच्छन्ति तद्वदित्यर्थः॥ ॥ ४ ॥
टिप्पणी
९.४७.१ अया सोम सुकृत्यया इति
अयासोमीयम् (ग्रामगेयः)
मण्डल ९ | |||
---|---|---|---|