ऋग्वेदः सूक्तं ९.३४
← सूक्तं ९.३३ | ऋग्वेदः - मण्डल ९ सूक्तं ९.३४ त्रित आप्त्यः। |
सूक्तं ९.३५ → |
दे. पवमानः सोमः। गायत्री। |
प्र सुवानो धारया तनेन्दुर्हिन्वानो अर्षति ।
रुजद्दृळ्हा व्योजसा ॥१॥
सुत इन्द्राय वायवे वरुणाय मरुद्भ्यः ।
सोमो अर्षति विष्णवे ॥२॥
वृषाणं वृषभिर्यतं सुन्वन्ति सोममद्रिभिः ।
दुहन्ति शक्मना पयः ॥३॥
भुवत्त्रितस्य मर्ज्यो भुवदिन्द्राय मत्सरः ।
सं रूपैरज्यते हरिः ॥४॥
अभीमृतस्य विष्टपं दुहते पृश्निमातरः ।
चारु प्रियतमं हविः ॥५॥
समेनमह्रुता इमा गिरो अर्षन्ति सस्रुतः ।
धेनूर्वाश्रो अवीवशत् ॥६॥
सायणभाष्यम्
‘प्र सुवानः' इति षडृचं दशमं सूक्तम् । ऋष्याद्याः पूर्ववत् । ‘प्र सुवानः' इत्यनुक्रान्तम् । गतो विनियोगः ॥
प्र सु॑वा॒नो धार॑या॒ तनेन्दु॑र्हिन्वा॒नो अ॑र्षति ।
रु॒जद्दृ॒ळ्हा व्योज॑सा ॥१
प्र । सु॒वा॒नः । धार॑या । तना॑ । इन्दुः॑ । हि॒न्वा॒नः । अ॒र्ष॒ति॒ ।
रु॒जत् । दृ॒ळ्हा । वि । ओज॑सा ॥१
प्र। सुवानः । धारया। तना। इन्दुः। हिन्वानः । अर्षति ।
रुजत् । दृळ्हा। वि। ओजसा ॥१॥
इन्दुः सोमः "सुवानः सूयमानः “हिन्वानः अध्वर्युणा प्रेर्यमाणः “धारया “तना पवित्रं “प्र “अर्षति गच्छति । अथ प्रत्यक्षेणोच्यते । “दृळ्हा दृढान्यपि शत्रुपुराणि "ओजसा बलेन “वि रुजत् विरुजति विश्लथयति ॥
सु॒त इन्द्रा॑य वा॒यवे॒ वरु॑णाय म॒रुद्भ्यः॑ ।
सोमो॑ अर्षति॒ विष्ण॑वे ॥२
सु॒तः । इन्द्रा॑य । वा॒यवे॑ । वरु॑णाय । म॒रुत्ऽभ्यः॑ ।
सोमः॑ । अ॒र्ष॒ति॒ । विष्ण॑वे ॥२
सुतः । इन्द्राय । वायवे। वरुणाय । मरुत्ऽभ्यः ।
सोमः । अर्षति । विष्णवे ॥ २ ॥
अयं “सुतः अभिषुतः “सोमः इन्द्राद्यर्थम् अर्षति गच्छति ॥
वृषा॑णं॒ वृष॑भिर्य॒तं सु॒न्वन्ति॒ सोम॒मद्रि॑भिः ।
दु॒हन्ति॒ शक्म॑ना॒ पयः॑ ॥३
वृषा॑णम् । वृष॑ऽभिः । य॒तम् । सु॒न्वन्ति॑ । सोम॑म् । अद्रि॑ऽभिः ।
दु॒हन्ति॑ । शक्म॑ना । पयः॑ ॥३
वृषाणम्। वृषऽभिः । यतम् । सुन्वन्ति। सोमम् । अद्रिऽभिः ।
दुहन्ति। शक्मना। पयः ॥३॥
“वृषाणं रससेक्तारं “यतं नियतं “सोमं “वृषभिः रसस्य वर्षकैः “अद्रिभिः ग्रावभिः "सुन्वन्ति। “शक्मना कर्मणा "दुहन्ति अध्वर्य्वादयः “पयः सोमरसम् । सोमं पयो दुहन्तीति द्विकर्मकोऽयम् ॥
भुव॑त्त्रि॒तस्य॒ मर्ज्यो॒ भुव॒दिन्द्रा॑य मत्स॒रः ।
सं रू॒पैर॑ज्यते॒ हरिः॑ ॥४
भुव॑त् । त्रि॒तस्य॑ । मर्ज्यः॑ । भुव॑त् । इन्द्रा॑य । म॒त्स॒रः ।
सम् । रू॒पैः । अ॒ज्य॒ते॒ । हरिः॑ ॥४
भुवत् । त्रितस्य । मर्ज्यः । भुवत् । इन्द्राय । मत्सरः ।
सम् । रूपैः । अज्यते । हरिः ॥४॥
“त्रितस्य अपां पुत्रस्य सूक्तद्रष्टुर्ऋषेः सोऽयं मत्सरः मदकरः सोमः "मर्ज्यो “भुवत् शुद्धो भवति । तस्य यागार्थं शेषपानार्थं च । तथा “इन्द्राय इन्द्रपानाय मर्ज्यः भुवत् । “रूपैः रूपकैश्च क्षीरादिभिः “हरिः हरितवर्णः सोमः “सम् "अज्यते ॥
अ॒भीमृ॒तस्य॑ वि॒ष्टपं॑ दुह॒ते पृश्नि॑मातरः ।
चारु॑ प्रि॒यत॑मं ह॒विः ॥५
अ॒भि । ई॒म् । ऋ॒तस्य॑ । वि॒ष्टप॑म् । दु॒ह॒ते । पृश्नि॑ऽमातरः ।
चारु॑ । प्रि॒यऽत॑मम् । ह॒विः ॥५
अभि । ईम् । ऋतस्य । विष्टपम् । दुहते। पृश्निऽमातरः ।
चारु । प्रियऽतमम् । हविः ॥५॥
“ईम् एनं सोमम् “ऋतस्य “विष्टपं स्थानम् । यज्ञाश्रयमित्यर्थः । तादृशं “पृश्निमातरः मरुतः “अभि “दुहते। किम् । “प्रियतमम् इन्द्रादीनां “हविः होमसाधनं “चारु मनोहरम्। मरुत्प्रेरितवृष्ट्या सोमवृद्धेस्तद्दोग्धृत्वम् ।।
समे॑न॒मह्रु॑ता इ॒मा गिरो॑ अर्षन्ति स॒स्रुतः॑ ।
धे॒नूर्वा॒श्रो अ॑वीवशत् ॥६
सम् । ए॒न॒म् । अह्रु॑ताः । इ॒माः । गिरः॑ । अ॒र्ष॒न्ति॒ । स॒ऽस्रुतः॑ ।
धे॒नूः । वा॒श्रः । अ॒वी॒व॒श॒न् ॥६
सम् । एनम् । अह्रुताः । इमाः । गिरः । अर्षन्ति। सऽस्रुतः।
धेनूः । वाश्रः । अवीवशत् ॥६॥
“सम् अर्षन्ति संगच्छन्ते “एनं सोमम् अह्रुताः अकुटिलाः “गिरः अस्मदीयाः स्तुतयः “सस्रुतः सरन्त्यः । ताश्च “धेनूः प्रीणयित्रीः स्तुतीः "वाश्रः शब्दयन् “अवीवशत् कामयते सोमः ॥ ॥ २४ ॥
मण्डल ९ | |||
---|---|---|---|