← सूक्तं ९.८ ऋग्वेदः - मण्डल ९
सूक्तं ९.९
कश्यपोऽसितो देवलो वा।
सूक्तं ९.१० →
दे. पवमानः सोमः। गायत्री।


परि प्रिया दिवः कविर्वयांसि नप्त्योर्हितः ।
सुवानो याति कविक्रतुः ॥१॥
प्रप्र क्षयाय पन्यसे जनाय जुष्टो अद्रुहे ।
वीत्यर्ष चनिष्ठया ॥२॥
स सूनुर्मातरा शुचिर्जातो जाते अरोचयत् ।
महान्मही ऋतावृधा ॥३॥
स सप्त धीतिभिर्हितो नद्यो अजिन्वदद्रुहः ।
या एकमक्षि वावृधुः ॥४॥
ता अभि सन्तमस्तृतं महे युवानमा दधुः ।
इन्दुमिन्द्र तव व्रते ॥५॥
अभि वह्निरमर्त्यः सप्त पश्यति वावहिः ।
क्रिविर्देवीरतर्पयत् ॥६॥
अवा कल्पेषु नः पुमस्तमांसि सोम योध्या ।
तानि पुनान जङ्घनः ॥७॥
नू नव्यसे नवीयसे सूक्ताय साधया पथः ।
प्रत्नवद्रोचया रुचः ॥८॥
पवमान महि श्रवो गामश्वं रासि वीरवत् ।
सना मेधां सना स्वः ॥९॥


सायणभाष्यम्

‘परि प्रिया' इति नवर्चं नवमं सूक्तम् । ऋष्याद्याः पूर्ववत् । परि प्रिया' इत्यनुक्रान्तम् । उक्तो विनियोगः ।।


परि॑ प्रि॒या दि॒वः क॒विर्वयां॑सि न॒प्त्यो॑र्हि॒तः ।

सु॒वा॒नो या॑ति क॒विक्र॑तुः ॥१

परि॑ । प्रि॒या । दि॒वः । क॒विः । वयां॑सि । न॒प्त्योः॑ । हि॒तः ।

सु॒वा॒नः । या॒ति॒ । क॒विऽक्र॑तुः ॥१

परि । प्रिया । दिवः । कविः । वयांसि । नप्त्योः । हितः ।

सुवानः । याति । कविऽक्रतुः ॥१

"कविः मेधावी "कविक्रतुः क्रान्तप्रज्ञः क्रान्तकर्मा वा सोमः “नप्त्योः अधिषवणफलकयोः “हितः निहितः "सुवानः अभिषूयमाणः "दिवः द्युलोकस्य "परि "प्रिया अतिप्रियाणि "वयांसि ग्राव्णः । तथा च मन्त्रवर्णः -- वयांसि श्येना अतिथयः पर्वतानां ककुभः' इति । "याति गच्छति ॥


प्रप्र॒ क्षया॑य॒ पन्य॑से॒ जना॑य॒ जुष्टो॑ अ॒द्रुहे॑ ।

वी॒त्य॑र्ष॒ चनि॑ष्ठया ॥२

प्रऽप्र॑ । क्षया॑य । पन्य॑से । जना॑य । जुष्टः॑ । अ॒द्रुहे॑ ।

वी॒ती । अ॒र्ष॒ । चनि॑ष्ठया ॥२

प्रऽप्र । क्षयाय । पन्यसे । जनाय । जुष्टः । अद्रुहे ।

वीती । अर्ष । चनिष्ठया ॥२

हे सोम “प्रप्र अत्यन्तं "क्षयाय तव निवासभूताय "अद्रुहे अद्रोग्ध्रे च “पन्यसे स्तोत्रे “जनाय मनुष्याय "वीती वीत्यै भक्षणाय "जुष्टः पर्याप्तस्त्वं "चनिष्ठया अन्नवत्तमया धारया "अर्ष यागं प्रति गच्छ ।


स सू॒नुर्मा॒तरा॒ शुचि॑र्जा॒तो जा॒ते अ॑रोचयत् ।

म॒हान्म॒ही ऋ॑ता॒वृधा॑ ॥३

सः । सू॒नुः । मा॒तरा॑ । शुचिः॑ । जा॒तः । जा॒ते इति॑ । अ॒रो॒च॒य॒त् ।

म॒हान् । म॒ही इति॑ । ऋ॒त॒ऽवृधा॑ ॥३

सः । सूनुः । मातरा । शुचिः । जातः । जाते इति । अरोचयत् ।

महान् । मही इति । ऋतऽवृधा ॥३

“जातः उत्पन्नः "शुचिः विशुद्धः "महान् हविरुत्तमः "सः सोमाख्यः "सूनुः पुत्रः "मही महत्यौ “ऋतावृधा यज्ञस्य वर्धयित्र्यौ "जाते विश्वस्य जनयित्र्यौ "मातरा आत्मनो मातरौ द्यावापृथिव्यौ "अरोचयत् रोचयति दीपयति ॥


स स॒प्त धी॒तिभि॑र्हि॒तो न॒द्यो॑ अजिन्वद॒द्रुहः॑ ।

या एक॒मक्षि॑ वावृ॒धुः ॥४

सः । स॒प्त । धी॒तिऽभिः॑ । हि॒तः । न॒द्यः॑ । अ॒जि॒न्व॒त् । अ॒द्रुहः॑ ।

याः । एक॑म् । अक्षि॑ । व॒वृ॒धुः ॥४

सः । सप्त । धीतिऽभिः । हितः । नद्यः । अजिन्वत् । अद्रुहः ।

याः । एकम् । अक्षि । ववृधुः ॥४

“याः नद्यः यम् “एकं मुख्यं सोमम् "अक्षि अक्षीणं “ववृधुः वर्धयन्ति "सः सोमः “धीतिभिः अङ्गुलिभिः । ‘ रशना धीतयः' इत्यङ्गुलिनामसु पाठात् । “हितः निहितः सन् “अद्रुहः द्रोहवर्जिताः "सप्त सप्तसंख्याकाः "नद्यः नदीः “अजिन्वत् प्रीणयति ॥


ता अ॒भि संत॒मस्तृ॑तं म॒हे युवा॑न॒मा द॑धुः ।

इंदु॑मिंद्र॒ तव॑ व्र॒ते ॥५

ताः । अ॒भि । सन्त॑म् । अस्तृ॑तम् । म॒हे । युवा॑नम् । आ । द॒धुः॒ ।

इन्दु॑म् । इ॒न्द्र॒ । तव॑ । व्र॒ते ॥५

ताः । अभि । सन्तम् । अस्तृतम् । महे । युवानम् । आ । दधुः ।

इन्दुम् । इन्द्र । तव । व्रते ॥५

हे "इन्द्र "तव त्वदीये “व्रते कर्मणि “ताः अङ्गुल्यः । पूर्वत्र धीतिभिः इत्यङ्गुलीनामुपात्तत्वात् तच्छब्देन परामर्शः । "सन्तं विद्यमानम् "अस्तृतम् अहिसितं "युवानं नित्यतरुणम् "इन्दुं सोमं “महे महतेऽभिषवादिलक्षणाय कर्मणे “अभि “आ “दधुः ॥ ॥ ३३ ॥


अ॒भि वह्नि॒रम॑र्त्यः स॒प्त प॑श्यति॒ वाव॑हिः ।

क्रिवि॑र्दे॒वीर॑तर्पयत् ॥६

अ॒भि । वह्निः॑ । अम॑र्त्यः । स॒प्त । प॒श्य॒ति॒ । वाव॑हिः ।

क्रिविः॑ । दे॒वीः । अ॒त॒र्प॒य॒त् ॥६

अभि । वह्निः । अमर्त्यः । सप्त । पश्यति । वावहिः ।

क्रिविः । देवीः । अतर्पयत् ॥६

यः "वह्निः यज्ञस्य धुरो वोढा "अमर्त्यः मरणरहितः "वावहिः देवानां तृप्तेरत्यन्तं वोढा च सोमः "सप्त नदीः "पश्यति सोऽयं “क्रिविः कूपरूपेण पूर्णोऽवस्थितः सन् “देवीः नदी: "अतर्पयत् तर्पयति ॥


अवा॒ कल्पे॑षु नः पुम॒स्तमां॑सि सोम॒ योध्या॑ ।

तानि॑ पुनान जंघनः ॥७

अव॑ । कल्पे॑षु । नः॒ । पु॒मः॒ । तमां॑सि । सो॒म॒ । योध्या॑ ।

तानि॑ । पु॒ना॒न॒ । ज॒ङ्घ॒नः॒ ॥७

अव । कल्पेषु । नः । पुमः । तमांसि । सोम । योध्या ।

तानि । पुनान । जङ्घनः ॥७

हे "पुमः पुमन् सोम "कल्पेषु कल्पनीयेष्वहःसु "नः अस्मान् "अव रक्ष । अपि च "पुनान हे पवमान "सोम त्वं "योध्या योधनीयानि “तमांसि रक्षांसि यानि "तानि जङ्घनः नाशय ॥


नू नव्य॑से॒ नवी॑यसे सू॒क्ताय॑ साधया प॒थः ।

प्र॒त्न॒वद्रो॑चया॒ रुचः॑ ॥८

नु । नव्य॑से । नवी॑यसे । सु॒ऽउ॒क्ताय॑ । सा॒ध॒य॒ । प॒थः ।

प्र॒त्न॒ऽवत् । रो॒च॒य॒ । रुचः॑ ॥८

नु । नव्यसे । नवीयसे । सुऽउक्ताय । साधय । पथः ।

प्रत्नऽवत् । रोचय । रुचः ॥८

हे सोम "नव्यसे नव्याय नूतनाय "नवीयसे स्तुत्यायास्माकं "सूक्ताय "पथः मार्गान् "नु क्षिप्रं “साधय अभिगच्छ । अपि च "प्रत्नवत् यथापूर्वं "रुचः स्वदीप्तीः "रोचय प्रकाशय ॥


पव॑मान॒ महि॒ श्रवो॒ गामश्वं॑ रासि वी॒रव॑त् ।

सना॑ मे॒धां सना॒ स्वः॑ ॥९

पव॑मान । महि॑ । श्रवः॑ । गाम् । अश्व॑म् । रा॒सि॒ । वी॒रऽव॑त् ।

सन॑ । मे॒धाम् । सन॑ । स्वः॑ ॥९

पवमान । महि । श्रवः । गाम् । अश्वम् । रासि । वीरऽवत् ।

सन । मेधाम् । सन । स्वः ॥९

हे "पवमान सोम यस्त्वं "वीरवत् पुत्रवत् "महि महत् "श्रवः अन्नं “गां च “अश्वं च “रासि अस्मभ्यं प्रयच्छसि स त्वं “मेधां “सन अस्मभ्यं प्रयच्छ । अपि च “स्वः यदस्मदभिलषितं तत् सर्वं “सन देहि ॥ ॥ ३३ ॥

सम्पाद्यताम्

टिप्पणी

९.९.१ परि प्रिया दिवः इति

और्णायवाद्यम्

और्णायवोत्तरम्

और्णायवे द्वे (ग्रामगेयः)

९.९.६ अभि वह्निः इति

क्रिवि उपरि टिप्पणी

मण्डल ९

सूक्तं ९.१

सूक्तं ९.२

सूक्तं ९.३

सूक्तं ९.४

सूक्तं ९.५

सूक्तं ९.६

सूक्तं ९.७

सूक्तं ९.८

सूक्तं ९.९

सूक्तं ९.१०

सूक्तं ९.११

सूक्तं ९.१२

सूक्तं ९.१३

सूक्तं ९.१४

सूक्तं ९.१५

सूक्तं ९.१६

सूक्तं ९.१७

सूक्तं ९.१८

सूक्तं ९.१९

सूक्तं ९.२०

सूक्तं ९.२१

सूक्तं ९.२२

सूक्तं ९.२३

सूक्तं ९.२४

सूक्तं ९.२५

सूक्तं ९.२६

सूक्तं ९.२७

सूक्तं ९.२८

सूक्तं ९.२९

सूक्तं ९.३०

सूक्तं ९.३१

सूक्तं ९.३२

सूक्तं ९.३३

सूक्तं ९.३४

सूक्तं ९.३५

सूक्तं ९.३६

सूक्तं ९.३७

सूक्तं ९.३८

सूक्तं ९.३९

सूक्तं ९.४०

सूक्तं ९.४१

सूक्तं ९.४२

सूक्तं ९.४३

सूक्तं ९.४४

सूक्तं ९.४५

सूक्तं ९.४६

सूक्तं ९.४७

सूक्तं ९.४८

सूक्तं ९.४९

सूक्तं ९.५०

सूक्तं ९.५१

सूक्तं ९.५२

सूक्तं ९.५३

सूक्तं ९.५४

सूक्तं ९.५५

सूक्तं ९.५६

सूक्तं ९.५७

सूक्तं ९.५८

सूक्तं ९.५९

सूक्तं ९.६०

सूक्तं ९.६१

सूक्तं ९.६२

सूक्तं ९.६३

सूक्तं ९.६४

सूक्तं ९.६५

सूक्तं ९.६६

सूक्तं ९.६७

सूक्तं ९.६८

सूक्तं ९.६९

सूक्तं ९.७०

सूक्तं ९.७१

सूक्तं ९.७२

सूक्तं ९.७३

सूक्तं ९.७४

सूक्तं ९.७५

सूक्तं ९.७६

सूक्तं ९.७७

सूक्तं ९.७८

सूक्तं ९.७९

सूक्तं ९.८०

सूक्तं ९.८१

सूक्तं ९.८२

सूक्तं ९.८३

सूक्तं ९.८४

सूक्तं ९.८५

सूक्तं ९.८६

सूक्तं ९.८७

सूक्तं ९.८८

सूक्तं ९.८९

सूक्तं ९.९०

सूक्तं ९.९१

सूक्तं ९.९२

सूक्तं ९.९३

सूक्तं ९.९४

सूक्तं ९.९५

सूक्तं ९.९६

सूक्तं ९.९७

सूक्तं ९.९८

सूक्तं ९.९९

सूक्तं ९.१००

सूक्तं ९.१०१

सूक्तं ९.१०२

सूक्तं ९.१०३

सूक्तं ९.१०४

सूक्तं ९.१०५

सूक्तं ९.१०६

सूक्तं ९.१०७

सूक्तं ९.१०८

सूक्तं ९.१०९

सूक्तं ९.११०

सूक्तं ९.१११

सूक्तं ९.११२

सूक्तं ९.११३

सूक्तं ९.११४

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_९.९&oldid=401045" इत्यस्माद् प्रतिप्राप्तम्