ऋग्वेदः सूक्तं ९.५८
← सूक्तं ९.५७ | ऋग्वेदः - मण्डल ९ सूक्तं ९.५८ अवत्सारः काश्यपः। |
सूक्तं ९.५९ → |
दे. पवमानः सोमः। गायत्री। |
तरत्स मन्दी धावति धारा सुतस्यान्धसः ।
तरत्स मन्दी धावति ॥१॥
[१]उस्रा वेद वसूनां मर्तस्य देव्यवसः ।
तरत्स मन्दी धावति ॥२॥
ध्वस्रयोः पुरुषन्त्योरा सहस्राणि दद्महे ।
तरत्स मन्दी धावति ॥३॥
आ ययोस्त्रिंशतं तना सहस्राणि च दद्महे ।
तरत्स मन्दी धावति ॥४॥
सायणभाष्यम्
‘तरत्सः' इति चतुर्ऋचं चतुस्त्रिंशं सूक्तम् । ऋष्याद्याः पूर्ववत् । “तरत्सः' इत्यनुक्रान्तम् ।। उक्तो विनियोगः ।।
तर॒त्स मं॒दी धा॑वति॒ धारा॑ सु॒तस्यांध॑सः ।
तर॒त्स मं॒दी धा॑वति ॥१
तर॑त् । सः । म॒न्दी । धा॒व॒ति॒ । धारा॑ । सु॒तस्य॑ । अन्ध॑सः ।
तर॑त् । सः । म॒न्दी । धा॒व॒ति॒ ॥१
तरत् । सः । मन्दी । धावति । धारा । सुतस्य । अन्धसः ।
तरत् । सः । मन्दी । धावति ॥१
“मन्दी देवानां हर्षकरः “सः सोमः “तरत् स्तोतॄन् पाप्मनः सकाशात् तारयन् “धावति पवते । तदेव दर्शयति । “सुतस्य अभिषुतस्य “अन्धसः देवानामन्नात्मकस्य सोमस्य “धारा धावतीति । पुनरपि तदेवाह अत्यन्तादरार्थं “तरत्स “मन्दी “धावति इति । यद्वा । अस्या ऋचो यास्केनोक्तोऽर्थो द्रष्टव्यः । तद्यथा-‘तरति स पापं सर्वं मन्दी यः स्तौति धावति गच्छत्यूर्ध्वाँ गतिम् । धारा सुतस्यान्धसो धारयाभिषुतस्य सोमस्य मन्त्रपूतस्य वाचा स्तुतस्य ' (निरु. १३.६ ) इति ॥
उ॒स्रा वे॑द॒ वसू॑नां॒ मर्त॑स्य दे॒व्यव॑सः ।
तर॒त्स मं॒दी धा॑वति ॥२
उ॒स्रा । वे॒द॒ । वसू॑नाम् । मर्त॑स्य । दे॒वी । अव॑सः ।
तर॑त् । सः । म॒न्दी । धा॒व॒ति॒ ॥२
उस्रा । वेद । वसूनाम् । मर्तस्य । देवी । अवसः ।
तरत् । सः । मन्दी । धावति ॥२
“वसूनां धनानाम् “उस्रा उत्सरणशीला प्रदात्री “देवी द्योतमाना स्तूयमाना वा यस्य सोमस्य धारा “मर्तस्य मनुष्यं यजमानम् “अवसः रक्षितुं वेद जानाति । सिद्धमन्यत् ॥
ध्व॒स्रयोः॑ पुरु॒षंत्यो॒रा स॒हस्रा॑णि दद्महे ।
तर॒त्स मं॒दी धा॑वति ॥३
ध्व॒स्रयोः॑ । पु॒रु॒ऽसन्त्योः॑ । आ । स॒हस्रा॑णि । द॒द्म॒हे॒ ।
तर॑त् । सः । म॒न्दी । धा॒व॒ति॒ ॥३
ध्वस्रयोः । पुरुऽसन्त्योः । आ । सहस्राणि । दद्महे ।
तरत् । सः । मन्दी । धावति ॥३
“ध्वस्रयोः “पुरुषन्त्योः । ध्वस्रः कश्चिद्राजा पुरुषन्तिः कश्चित् । तयोरुभयोः । अत्र इतरेतरयोगविवक्षया द्विवचनं द्रष्टव्यम् । “सहस्राणि धनानां सहस्राणि “आ “दद्महे वयं प्रतिगृह्णीमः । तदस्माभिः प्रतिगृहीतं धनमुत्तममस्त्विति ऋषिः सोमं प्रार्थयत इति सोमस्य स्तुतिः । सिद्धमन्यत् । यथावत्सार एतयोर्धनानि प्रतिजग्राह एवं तरन्तपुरुमीळ्हौ प्रतिजगृहतुः । तथा च शाट्यायनकम्--- ‘ अथ ह वै तरन्त पुरुमीळ्हौ वैददश्वी ध्वस्रयोः पुरुषन्त्योर्बहु प्रतिगृह्य गरगिराविव मेनाते तौ ह स्माङ्गुल्या सातं प्रतिममृशाते तावकामयेतामसातं नाविवेदं सातं स्यादात्तमिवैव न प्रतिगृहीतमिति तावेतञ्चतुर्ऋचमपश्यतां तेन प्रत्यैतां ततो वै तयोरसातं सातमभवदात्तमिवैव न प्रतिगृहीतं स यः प्रतिगृह्य कामयेत' इत्यादि ।।
आ ययो॑स्त्रिं॒शतं॒ तना॑ स॒हस्रा॑णि च॒ दद्म॑हे ।
तर॒त्स मं॒दी धा॑वति ॥४
आ । ययोः॑ । त्रिं॒शत॑म् । तना॑ । स॒हस्रा॑णि । च॒ । दद्म॑हे ।
तर॑त् । सः । म॒न्दी । धा॒व॒ति॒ ॥४
आ । ययोः । त्रिंशतम् । तना । सहस्राणि । च । दद्महे ।
तरत् । सः । मन्दी । धावति ॥४
“ययोः ध्वस्रपुरुषन्त्योः “त्रिंशतं त्रिशतानि “सहस्राणि “तना वस्त्राणि “आ “दद्महे वयं प्रतिगृह्णीमः तयोरस्माभिः प्रतिगृहीतं तत्सर्वमप्रतिगृहीतमस्त्विति सोमऋषिः प्रार्थयत इति सोमस्यैव स्तुतिः । सिद्धमन्यत् ॥ ॥ १५ ॥
टिप्पणी
SV.1.500
अथ षष्ठस्याह्नः - ज्योतिर्यज्ञस्य(साम १०३१) असृक्षत (साम ४८२ ) पवस्वदेववीरति (साम १०३७ ) दशर्चम् । सना ( साम १०४७ )-दशर्चम् । तरत्समन्दी (साम १०५७ ) चतुर्ऋचम् । एते सोमा (साम १०६१?, साम ११७८? ) इति बहिष्पवमानम् ।। - आर्षेयकल्पः उपोद्घातः
तरति स पापं सर्वं मन्दी यः स्तौति धावति गच्छत्यूर्ध्वां गतिम् । धारा सुतस्यान्धसः । धारयाभिषुतस्य सोमस्य मन्त्रपूतस्य वाचा स्तुतस्य । - निरुक्तशा. १३.६
BrhPDh. 2.137. GDh. 24.2;
बहुप्रतिगृह्य याजयित्वा वासन्नमात्मानं मन्यमानो गौषूक्ताश्वसूक्ते शुद्धाशुद्धीये तरत्समन्दीत्येतानि प्रयुञ्जानः पूतो भवति - Svidh. २.१.६;
BDh. 2. 3.5.8; 4.2.5; ViDh. 56.6; MDh.11.254; Rvidh. 3.2.2; 3-4; GDh. 20.12; BDh.4.2.4; VaDh. 28.11; BDh.4.3.8; LAtDh.3.11; VAtDh. 3.11; BrhPDh.5.250.
मण्डल ९ | |||
---|---|---|---|