जयाख्यसंहिता/पटलः १
जयाख्यसंहिता पटलः १ [[लेखकः :|]] |
पटलः २ → |
जयाख्यसंहितायाः पटलाः |
---|
ॐ
पटलः - 1
श्रीपाञ्चरात्रे जयाख्यासंहिता
शास्त्रारम्भप्रयोजनं नाम प्रथमः पटलः।
नमः सकलकल्याणदायिने चक्रपाणये।
विषयार्णवमग्नानां (1)समुद्धरणेहतवे ।। 1 ।।
(1. सद्यस्तरण. A)
[शास्त्रावतरणम्.] 1-1
सुसि(2)द्धपूजिते स्थाने देवब्रह्मर्षिसेविते।
तपस्विजनसङ्कीर्णे पुण्यकृद्भिर्निषेविते ।। 2 ।।
(2. सुसिद्धे. A)
तीर्थोत्तमे प्रभासे वै(3) यत्र सन्निहितः सदा।
विश्वात्मा भगवान् विष्णुर्लोकानुग्रहकृत्प्रभुः ।। 3 ।।
(3. प्रभासे च. A)
तत्र शुश्रूषणपरः पित्रादिगुरुसन्ततेः।
नित्यमेवापवर्गार्थी विरागी वीतमत्सरः ।। 4 ।।
संवर्तकः कान्तिनिधिर्दृष्ट्वा मग्नं स्वकं वपुः।
प्राञ्जलिः प्रणतो भूत्वा और्वं पितरमब्रवीत् ।। 5 ।।
संवर्तक :---
संसारार्णवमग्नस्य ममोपायो हि(4) कथ्यताम्।
यं ज्ञात्वा न पुनर्जन्म स्यान्ममान्यस्य कस्यचित् ।। 6 ।।
(4. योऽभि. A)
और्व :---
पुरा कृतयुगे वत्स मत्पूर्वैः संयमस्थितैः।
वेदवेदाङ्गपारज्ञै ऋषिभिश्च तपोधनैः ।। 7 ।।
केनापि चात्मभावेन एतदालोचितं तु वै।
बहून्यब्दसहस्राणि तपस्तप्त्वा सुदारुणम् ।। 8 ।।
(सन्तोषनियमाढ्यं च व्रतचर्यासमन्वितम्)
[निःश्रेयसालाभान्महर्षीणां निर्वेदः] 1-2
कालेन तपसोऽन्ते वै(1) वयं सद्धर्ममास्थिताः।
सिद्धिगोचरमप्राप्ताः (2)प्रोच्छ्वसन्तः पुनः पुनः ।। 9 ।।
(1. तु A.)
(2. प्रोंच्छ्वसानाः S.)
न विद्मः किं भविष्यामो ह्यद्यापि गहने भवे
न स्थितिः शास्वती स्वस्थे न च बन्धपरिक्षयः ।। 10 ।।
न चैवेह स्थिरा भोगाः किं कुर्यामोऽत्र (3)वैशसे
इत्येवं गहने प्राप्ते तपसश्चानवस्थितेः ।। 11 ।।
(3. वेधसे S.)
संप्राप्ताः स्म ततो मोहं तदा वाणी महत्य भूत्।
भगवद्धर्मजिज्ञासैर्ध्यानासक्तैः प्रचोदिता ।। 12 ।।
[परतत्त्वज्ञानस्य निःश्रेयसहेतुत्वम्] 1-3
न यज्ञवेदाधिगमैर्नच दानैस्तु केवलैः
क्रियाभिर्न त्वनेकाभिर्व्रतैश्चान्द्रायणादिकैः ।। 13 ।।
स्वर्गे (4)वै न भवेत् स्थैर्यं बन्धमोक्षश्च वै कुतः।
अज्ञाते परतत्त्वे तु शाश्वते चाक्षयेऽच्युते ।। 14 ।।
(4. वा C L.)
व्यापके तु जगन्नाथे नित्यतृप्ते निरञ्जने।
इच्छारूपधरे नित्ये शुद्धे बुद्धे सुनिर्मले ।। 15 ।।
एवमाद्यः परो देवो ज्ञातो यावन्न वै द्विजाः।
तावदेवापवर्गस्तु दुर्लभो युगकोटिभिः ।। 16 ।।
तस्माद्यतध्वं येनाशु हृदावासो (5)जगद्गुरुः।
केवलं चित्स्वरूपश्च (6)गुणगुण्यश्च निर्गुणः ।। 17 ।।
(5. त्प्रभुः CL.)
(6. गुह्य. CL)
प्रसादमेति वै क्षिप्रमनाथानामसंशयः।
अभूतपूर्वं श्रुत्वैवं स्थितास्ते हृष्टमानसाः ।। 18 ।।
तस्मिन्नेव क्षणे पुण्ये श्रुतमात्रेण पुत्रक।
किमेतत्केन कथितं किं तद्ब्रह्म ह्यनामकम् ।। 19 ।।
ज्ञास्यामस्तत्कथं सम्यगेवमूचुः परस्परम्।
संशयेऽभिनिविष्टास्तु दीर्घकालं यदा तदा ।। 20 ।।
पुनरेवोत्थिता वाणी गगनादमृतोपमा।
[परतत्त्वविवेचनम्] 1-4
यत्तदक्षरमक्षोभ्यं परं ब्रह्म सनातनम् ।। 21 ।।
परा गतिर्या सर्वेषामच्युतं वित्त तद्द्विजाः।
मुनयो ब्रह्मनिष्णाता यमाश्रित्य भवोदधिम् ।। 22 ।।
तरन्ति पुण्डरीकाक्षो(1) देवो नारायण्सतु सः।
शङ्खचक्रधरं विष्णुमानन्दस्यन्दनिर्भरम् ।। 23 ।।
(1. काक्ष. A)
ये संश्रयन्ति तं भक्त्या सूक्ष्ममध्यात्मचिन्तकाः।
ते यान्ति वै पदं विष्णोर्जरामरणवर्जिताः ।। 24 ।।
इत्युक्त्वा च (2)ततो भूयः सा वागस्तमिता यदा।
तदा वयं हृष्टतुष्टाः प्रायशो विगतज्वराः ।। 25 ।।
(2. तथा S)
श्रीवत्साङ्कवपुर्देवस्त्राता (3)शास्ति जगत्र्रये।
चेतसोऽवस्थितिं कृत्वा ऋषिभिश्च तपोधनैः ।। 26 ।।
(3. चास्मिन् A)
चिन्तितं च (4)तदा भूयो ज्ञास्यामस्तं कथं विभुम्।
[परतत्त्वाधिगमोपायजिज्ञासया शाण्डिल्यं प्रत्यभिगमनम्] 1-5
को वेत्ता देवदेवस्य त्रैलोक्येऽस्मिन् (5)यथार्थतः ।। 27 ।।
(4. तथा A)
(5. यथास्थितिम् A)
प्रसन्नः कस्य भगवान् परमात्माऽप्यधोक्षजः।
प्रभावात्तपसः सर्वं चिन्तितं मनसा तदा ।। 28 ।।
यथावद्विदितं पश्चात्सर्वेषां भावितात्मनाम्।
कृतकृत्यो जगत्यस्मिन् शाण्डिल्यः श्रूयते भुवि ।। 29 ।।
ते चैवं स्वाश्रमात्सर्वे फलपुष्पकरोद्यताः।
प्रयाताः स मुनिर्यत्र कृतकृत्योऽवतिष्ठते ।। 30 ।।
सुखासीनो द्विजैः सार्धं योगैश्वर्यसमन्वितः।
तपसा तेजसा युक्तः पर्वते गन्धमादने ।। 31 ।।
नानाश्चर्यसमायुक्ते नानापुष्पोपशोभिते।
फलद्रुमसमाकीर्णे नानाधातुविचित्रिते ।। 32 ।।
सिद्धैरध्यासिते रम्ये देवजुष्टे मनोरमे।
तपश्शीलैस्सुदान्तैश्च योगव्रतपरायणैः ।। 33 ।।
सच्छिष्यैर्ज्ञानसंपूर्णैर्वृतश्चन्द्र इव ग्रहैः।
दृष्ट्वा(ष्टो ?) ज्ञानक्रियाढ्योऽसावृषिभिः प्राञ्जलिस्थितैः ।। 34 ।।
स चाभिवादितस्सर्वैः क्रमात्तेन च ते तथा।
पूजिताः फलमूलाद्यैरम्बुना कुसुमैस्सह ।। 35 ।।
निवृत्तेऽभ्यागते धर्मे सोत्सुकैर्भगवान्मुनिः।
पृष्टस्तपोधनैस्सर्वैः शाण्डिल्यस्सुरपूजितः ।। 36 ।।
[भगवत्तत्त्वतदाराधनप्रकारप्रश्नः] 1-6
भगवन्श्रोतुमिच्छामो विष्णोरद्भुतकर्मणः।
उपासालक्षणं कर्म कथयस्व प्रसादतः ।। 37 ।।
श्रुतमत्युद्भुतं यस्मादस्माभिर्गगनान्तरात्।
अज्ञाते भगवत्तत्वे दुर्लभा परमा गतिः ।। 38 ।।
तथाऽनाराधिते चैव सात्विकेन तु कर्मणा।
सन्तारणार्थमस्माकमन्येषां (1)भविनां तथा ।। 39 ।।
(1. भाविनां A)
यथार्थं भगवद्धर्म वक्तुमर्हसि सर्वथा।
[अस्य शास्त्रस्य प्रवृत्तिक्रमः] 1-7
शाण्डिंल्य :---
श्रुणुध्वं संयतास्सर्वे विष्णोरद्भुततेजसः ।। 40 ।।
सारभूतमिदं शास्त्रं ज्ञानोपनिषदं महत्।
रहस्यमप्रकाश्यं च ब्रह्मगर्भं च शास्वतम् ।। 41 ।।
अनुग्रहार्थं च पुरा कथितं नारदस्य तत्।
तथाचातिरहस्यत्वाल्लोकेऽस्मिन्न प्रकाशितम् ।। 42 ।।
न चापि चोदितं चैव केनचिद्धर्मगौरवात्।
तथोक्तस्य (तथाऽनेक?) दिनस्यान्ते अन्तर्धानगतं तु तम्(त्?) ।। 43 ।।
भूयश्चैवावतीर्णेन विष्णुना प्रभ वष्णुना।
मुनेर्वै स्वांशभूतस्य यदुक्तं पुनरेव हि ।। 44 ।।
बदर्याश्रमसंस्थेन(2) प्रभुना लोककारिणा।
धर्ममार्गावतारार्थं व्रतेनानेन सत्तमाः ।। 45 ।।
(2. सुस्थेन A)
सिद्धानां शृण्वतां चैव तथा गगनचारिणाम्।
देवानां च ऋषीणां च नरादीनां तथैव च ।। 46 ।।
मृकण्डुतार्क्ष्यपूर्वाणामादित्यानां महात्मनाम्।
किन्नराणां च दैत्यानां वसूनां भावितात्मनाम् ।। 47 ।।
साङ्ख्यानां योगसिद्धानां ज्ञानविज्ञानवेदिनाम्।
[गुरोर्नारदादधिगतस्यास्य शास्त्रस्य मुनीन् प्रति यथाधिगतमुपदेशप्रतिज्ञा]
तच्छृणुध्वं मुनिश्रेष्ठाः धर्मं संसारतारकम् ।। 48 ।।
यादृक्प्राप्तं मया पूर्वं परितुष्टाच्च नारदात्।
सर्वज्ञानक्रियायुक्तं सर्वसिद्धिप्रसाधनम् ।। 49 ।।
संक्षिप्तं च महार्थं यत्तथा सम्यग्विवेकदम्।
ज्ञात्वैवं सारभूतं च अधीतं हि पुरा मया ।। 50 ।।
यस्माद्वै धर्मकामार्थमोक्षाणामाशुसिद्धिकृत्।
अधीत्य च श्रुतं पश्चात् ज्ञानानां ज्ञानमुत्तमम् ।। 51 ।।
यत्प्रसादात्तु वै भूयो भवेऽस्मिन्न भवाम्यहम्।
तद्युष्मभ्यं प्रवक्ष्यामि आम्नायेन यथास्थितम् ।। 52 ।।
[श्रद्धाभक्तिपूर्वकमुपसन्नस्यैव शास्त्रस्यास्योपदेशे पात्रता।] 1-8
रहितं संशयैस्सर्वैर्गुरुशिष्यक्रमेण तु।
परिज्ञातं क्रमेणैव यस्माच्छास्त्रं फलप्रदम् ।। 53 ।।
तस्मान्नयं द्विजाः पूर्वमाश्रयध्वं प्रयत्नतः।
भक्तिश्रद्धासमेतं तु अस्तित्वे (आस्तिक्ये?) नाप्यलङ्कृतम् ।। 54 ।।
सर्वस्वमपि यो दद्यात् भक्तिश्रद्धाविवर्जितः।
नयाचारविनिर्मुक्तो मानी(1) सास्त्रार्थदूषकः ।। 55 ।।
(1. रादि A)
न तस्य शास्त्रं वक्तव्यं ब्रूते वा यस्स यात्यधः।
समाचारेण यो ब्रूयाच्छृणुयाद्यश्च(2) तावुभौ ।। 56 ।।
(2. द्वाऽपि A)
गच्छेतां तु जगद्योनेः पदं (3)घोरविपर्ययात्।
[गुरोर्महिमानुवर्णनगर्भं गुरौ भक्तेः श्रेयःसाधनत्ववर्णनम्] 1-9
शास्त्रायत्ता यतः सर्वे भोगमोक्षादयो द्विजाः ।। 57 ।।
(3. घोरे A)
वैष्णवं(4) ज्ञानवक्तारं यो विद्याद्विष्णुवद्गुरुम्।
पूजयेद्वाङ्भनःकायैस्स शास्त्रज्ञस्स वैष्णवः ।। 58 ।।
(4. वैष्णवज्ञान A)
श्लोकपादस्य वक्ताऽपि यतः पूज्यस्सदैव हि।
किं पुनर्भगवद्विष्णोस्स्वरूपं विवृणोति यः ।। 59 ।।
शास्त्रस्य चैव वक्ताऽपि तद्भावगतमानसः।
विभोः शास्त्रस्य च गुरोस्त्रितयस्यास्य पूजनात् ।। 60 ।।
फलं भवत्यनूनं वै इह लोके परत्र च।
नारायणः परं ब्रह्म तज्ज्ञानेनाभिगम्यते ।। 61 ।।
ज्ञानस्य साधनं शास्त्रं तच्छास्त्रं गुरुवक्त्रगम्।
ब्रह्मप्राप्तिरतो हेतोर्गुर्वधीना सदैव हि ।। 62 ।।
ईतुनाऽनेन वै विप्रा गुरुर्गुरुतमःस्मृतः।
यस्माद्देवो जगन्नाथः कृत्वा मर्त्यमयीं तनुम् ।। 63 ।।
मग्नानुद्धरते लोकान् कारुण्याच्छास्त्रपाणिना।
तस्माद्भक्तिर्गुरौ कार्या संसारभयभीरुणा ।। 64 ।।
शास्त्राञ्जनेन(1) योऽज्ञानतिमिंरं विनिपातयेत्।
शास्त्रं पापहरं पुण्यं पवित्रं भोगमोक्षदम् ।। 65 ।।
(1. शास्त्रज्ञानेन. A)
शान्तिदं च महार्थं च वक्ति यस्स जगद्गुरुः।
[अथ तत्त्वशुश्रूषया मुनिभिः स्वीकृतः शिष्यभावः]
इत्युक्तास्तेन मुनयो मुनिना ब्रह्मवेदिना ।। 66 ।।
त्यक्तासनास्ततस्सर्वे बभूवुश्शान्तमानसाः।
तत्पादमूले पतितास्तच्चित्तास्तत्परायणाः ।। 67 ।।
[अतोपदेशारम्भः]
दत्तो मूर्ध्नि ततस्तेषां मुनीनां(2) भावितात्मनाम्।
विष्णुहस्तश्च (?) तुष्टेन मुनिना ब्रह्मवेदिना ।। 68 ।।
(2. ऋषीणां. A)
अथोवाच स विप्रेन्द्रः प्रणिपत्याच्युतं हरिम्।
क्रमागतं महच्छास्त्रं ज्ञानामृतंफलप्रदम् ।। 69 ।।
[अस्य शास्त्रस्यारम्भकाल--प्रवर्तकपुरुषविशेष--आख्याविशेषाणां निरूपणम्] 1-10
कृते युगे प्रवृत्ते तु कस्मिंश्चिन्मुनिसत्तमाः।
पौष्करे(1) ब्रह्मकल्पे तु प्रत्यक्षस्थेऽप्यधोक्षजे ।। 70 ।।
(1. पुष्करे. S.)
कामक्रोधविनिर्मुक्ते प्रवृद्धे तु पितामहे।
स्थिते निष्कण्टके सम्यक्त्रैलोक्ये सचराचरे ।। 71 ।।
संप्रवृद्धे तथा धर्मे अधर्मे नाशमागते।
नारदेन यथा पृष्टो देवः कमललोचनः ।। 72 ।।
जयार्थमपि भक्तानां हितार्थमपि चात्मनः।
अनुष्टुप्छन्दोबद्धेन(2) सारात्सारतरा शुभा ।। 73 ।।
(2. यं. A)
प्रोक्ता त्रैलोक्यगुरुणा पृच्छते नारदाय तु।
सारभूतं समुद्धृत्य संहिताऽमृतगर्भिणी ।। 74 ।।
सर्वज्ञत्वगुणेनैव कृत्स्नं ज्ञात्वा च तत्त्वतः।
सार्धकोटिप्रमाणं तु ज्ञातृज्ञानोपबृंहितम् ।। 75 ।।
जयाव्यं (3)निषदं तन्त्रं ब्रह्ममूलाद्विनिस्सृतम्।
अमूर्त्ताद्गगनाद्यद्वत् निर्घातो जायते स्वयम् ।। 76 ।।
(3. नै. A)
शान्तात्संविन्मयात्तद्वच्छास्त्रं शब्दात्म (4)चोत्थितम्।
अविकारमसङ्कल्पं यद्रूपं तत्परं विभोः ।। 77 ।।
(4. त्मनो. A.)
यद्विकारं जगद्धातुश्शब्दब्रह्मेति तत्स्मृतम्।
ततःप्रभृति कालाच्च लोकेऽस्मिन्मुनिसत्तमाः ।। 78 ।।
जयेति विमलं नाम प्रणीतं विश्वकर्मणा।
[अधिकः पाठः]
(*)पञ्चरात्रस्य कृत्स्नस्य वक्ता नारायणः स्वयम्।
इति सर्वत्र विख्यातं भगवच्छास्त्रगौरवम् ।। 1 ।।
(*. अयं तु कुण्डलितः पाठः प्राचीनेषु बहुषु कोशेषु नोपलभ्यते, पटलस्यास्यान्ते कैश्चित्प्रक्षिप्तः स्यात्, अथाऽपि (Adyar Library Ms.) यथोपलम्भं प्राकठ्यं नीतः)
सात्त्वतं पौष्करं चैव जयाख्यं तन्त्रमुत्तमम्।
रत्नत्रयमिति ख्यातं तद्विशेष इहोच्यते ।। 2 ।।
सारं सात्त्वतशास्त्रस्य रहस्यं प्राज्ञसंमतम्।
रत्नत्रयमिदं साक्षाद्भगवद्वक्त्रनिःसृतम् ।। 3 ।।
प्रवर्तितं तथैवेदमन्यूनानधिकत्वतः।
अन्यान्यानि तु तन्त्राणि भगवन्मुखनिर्गतम् ।। 4 ।।
सारं समुपजीव्यैव समासव्यासधारणैः।
व्याख्योपबृंहणन्यायाद्व्यापितानि तथा तथा ।। 5 ।।
व्याख्यामूलनयेनैषां गौरवं सम्प्रतिष्ठितम्।
तन्त्रेऽप्यष्टोत्तरशते पारमेश्वरसंहिता ।। 6 ।।
पौष्करार्थविवृत्यर्था व्याख्यारूपाऽवतारिता।
सात्त्वतस्य विवृत्यर्थमीश्वरं तन्त्रमुत्तमम् ।। 7 ।।
जयाख्यास्यास्य तन्त्रस्य व्याख्यानं पाद्ममुच्यते।
भगवद्व्यक्तिदेशेषु स्वयंव्यक्तेषु भूतले ।। 8 ।।
अष्टोत्तरशते मुख्यं रत्नभूतं चतुष्टयम्।
श्रीरङ्गं वेंकटाद्रिश्च हस्तिशैलस्ततः परम् ।। 9 ।।
ततो नारायणाद्रिश्च दिव्यस्थानचतुष्टयम्।
वेंकटाद्रिं विनाऽन्येषु देवदेवस्य धामसु ।। 10 ।।
रत्नेषु त्रिषु रत्नानि त्रीणि तन्त्राण्युपासते।
मूलव्याख्यानरूपत्वादुपजीव्यं परस्परम् ।। 11 ।।
तन्त्रत्रयमिदं विद्यादेकशास्त्रं तथा बुधः।
सात्त्वतं यदुशैलेन्द्रे श्रीरङ्गे पौष्करं तथा ।। 12 ।।
हस्तिशैले जयाख्यं च साम्राज्यमधितिष्ठति।
पाद्मतन्त्रं हस्तिशैले श्रीरङ्गे पारमेश्वरम् ।। 13 ।।
ईश्वरं यादवाद्रौ च कार्यकारि प्रचार्यते।
श्रीरङ्गाद्यादवाद्रेश्च हस्तिशैलो विशिष्यते ।। 14 ।।
पद्मरागाच्च वैडूर्याद्यथा वज्रं महागुणम्।
पुरा कृतयुगे ब्रह्मा साक्षात्कृत्य रमापतिम् ।। 15 ।।
स्वयं समर्चयित्वाऽथ तदर्चाक्रममुत्तमम्।
शिष्येभ्यो महनीयेभ्य उपदिश्य कृपावशात् ।। 16 ।।
तैरेवाराधनं काले कारयत्यब्जसंभवः।
इत्येवं नारदाच्छ्रुत्वा पुनरेवाहमब्रुवम् ।। 17 ।।
भगवन् कमलाकान्तः कथं साक्षात्कृतः कदा।
तदेतद्ब्रूहि मे स्वामिन् हस्त्यद्रेश्चापि वैभवम् ।। 18 ।।
इति पृष्टो मया प्राह नारदो भगवान् ऋषिः।
साधु पृष्टोऽस्म्यहं वत्स श्लाघनीयोऽसि मे मतः ।। 19 ।।
यदद्य करिशैलस्य वक्ष्यामि तव वैभवम्।
पुरा मयोपसन्नेन भगवान् भूतभावनः ।। 20 ।।
जगत्स्रष्टा स्रुराधीशोऽनुयुक्तश्चतुराननः।
हस्तिशैलस्य माहात्म्यं वरदस्य कृपारसम् ।। 21 ।।
सत्यव्रतस्य क्षेत्रस्य वैभवं चान्ववर्णयत्।
तत्तेऽहं संप्रवक्ष्यामि संग्रहेणैव सारवत् ।। 22 ।।
सावधानः शृणु प्रीत्या गुह्यं सारमिदं यतः।
भगवन्नाभिपाथोजाज्जातो धाताऽब्जसंभवः ।। 23 ।।
सृष्ट्वा चराचरं विश्वं गर्वं परमुपाययौ।
आभिजात्यं सदाचारो विद्या चेति मदत्रयम् ।। 24 ।।
सर्वानेवाभिभवति किमु सर्वाधिके पदे।
ततोऽसौ मत्तचित्तः सन् देवदेवं रमापतिम् ।। 25 ।।
साक्षाच्चिकीर्षुर्योगेन परं यत्नमुपागमत्।
देवदेवस्वरूपादिसाक्षात्कारविरोधिना ।। 26 ।।
अप्रमेयेन महता दुष्कृतेनैष वारितः।
पुनः पुनः प्रयत्नेऽपि सुमहत्यप्यनुष्ठिते ।। 27 ।।
न स सिद्धिमनुप्रापत् समाधे- प्रत्यहन्यत।
अथ चिन्तापरो दीनश्चिन्तयित्वा मुहुर्मुहुः ।। 28 ।।
वृथैवाचरितं कष्टमियता मन्दबुद्धिना।
देवावाससमारोहावरोहाभिख्यकेलितः ।। 29 ।।
निर्मोचनार्थमेकोऽपि क्षणो हन्त न यापितः।
अथालम्ब्य धृतिं धीमान् भूलोकं प्रत्यपद्यत ।। 30 ।।
गङ्गामध्ये महद्घोरं तपस्तप्तुमुपाक्रमत्।
अङ्गुष्टाग्रपदात्तिष्टन्निरुद्धस्वासचेष्टितः ।। 31 ।।
ऊर्द्धबाहुर्निराहारस्तपस्तेपे सुदारुणम्।
कापेयचपलं चित्तं न स्वास्थ्यं प्राप तस्य यत् ।। 32 ।।
क्षणमात्रमपि श्रीशं न द्यातुं प्राभवत्ततः।
अथ दीने कृशे धातर्याकाशादशरीरिणी ।। 33 ।।
वाणी प्रादुरभूत्पुण्या बोधयामास पद्मजम्।
अधिकारमहानन्दरसमग्नस्य ते मनः ।। 34 ।।
सहस्रेणाश्वमेधानां विना शुद्धिं न गच्छति।
अशुद्धस्येह मनसः स्वास्थ्यं संपाद्यतां कथम् ।। 35 ।।
अस्वस्थे मनसि ध्यानं साधु निष्पद्यतां कथम्।
कर्तव्यगौरवात्कालविलम्बाच्च बिभेषि चेत् ।। 36 ।।
उपायं सुकरं वक्ष्ये यथावदवधारय।
गङ्गाया दक्षिणे भागे योजनानां शतद्वये ।। 37 ।।
पञ्चयोजनविस्तारं पञ्चयोजनमायतम्।
तीरान्तं पूर्ववाराशेः सर्वैः सुमहितं गुणैः ।। 38 ।।
सिद्धिक्षेत्रं महापुण्यं श्रीशस्याभिमतं परम्।
सत्यव्रतमिति ख्यातं यथार्थाख्यावभासकम् ।। 39 ।।
एकस्तत्र कृतो धर्मो वर्धते हि सहस्रधा।
तत्र त्वमश्वमेधेन यजेरेकेन चेद्धरिम् ।। 40 ।।
सहस्रस्याश्वमेधानां फलं प्राप्स्यसि निश्चितम्।
तत्र शर्वतरे कल्पे दिग्गजा विष्णुमव्ययम् ।। 41 ।।
कस्यचिद्गिरिवर्यस्य शिखरे पर्यपूजयन्।
तेषामाविरभूद्देव करुणावरुणालयः ।। 42 ।।
कमलाकामुकः कान्तविग्रहः कञ्जलोचनः।
ततः प्रभृति शैलेन्द्रो ययौ करिगिरिप्रथाम् ।। 43 ।।
तमेव वेदिकां कृत्वा वाजिमेधेन तं यज।
लक्ष्मीवल्लभकारुण्यवीक्षावैभवतो महान् ।। 44 ।।
धन्यः कृतार्थो विमलो भविष्यसि न संशयः।
इति वाणीं समाकर्ण्य विरिञ्चो हृष्टमानसः ।। 45 ।।
क्षेत्रं सत्यव्रतं पुण्यं त्वरितं समुपागमत्।
त्वष्ट्रा हस्तिगिरेः शृङ्गं टङ्कैः सन्तक्ष्य शोभनाम् ।। 46 ।।
यागार्हां यजमानोऽयं यागवेदीमकल्पयत्।
यथाशास्त्रं च लक्ष्मीशं सर्वकारणकारणम् ।। 47 ।।
ईजेऽजो वाजिमेधेन यागानामुत्तमेन सः।
तत्र सर्वेषु मन्त्रेषु तत्तद्दैवतनामभिः ।। 48 ।।
पठ्यमानेषु धाताऽयं देवदेवं रमापतिम्।
हृदये समनुध्यायंस्तस्मै सर्वं हविर्हुतम् ।। 49 ।।
भक्त्या समर्पयन्नेतदलमेकोऽपि वेदितुम्।
सर्वमेव हविर्देवः पुण्डरीकेक्षणो हरिः ।। 50 ।।
स्वयमेव समादाय समास्वादयदादरात्।
स्वान् स्वान् भागान्परीक्लृप्तान्कालेष्वनधिगच्छताम् ।। 51 ।।
उन्मुखानां वञ्चितानां देवानां क्षुभितं मनः।
ब्रह्माणमथ ते सर्वे समागत्यान्वयुञ्जत ।। 52 ।।
किमिदं वर्तते मोहः क्षोभिता वञ्विता वयम्।
ब्रह्मा तु स्मयमानस्तान् सांत्वपूर्वमबोधयत् ।। 53 ।।
देवा मया पुरा सृष्टाः स्रष्टाऽहं भवतां पिता।
किमेतद्यत्पिता पुत्रानुपास्तां विनयादिति ।। 54 ।।
संसारमार्गनिष्णातैस्तत्तत्फलमभीप्सुभिः।
यूयमाराधनीया हि तदर्थमधिकारिताः ।। 55 ।।
सर्वान्तरात्मा सर्वेशो मम चापि पिता हरिः।
कमलावल्लभो देवस्तमेवोद्दिश्य हूयते ।। 56 ।।
इह सर्वं हविर्यज्ञे नाममात्रं तु मन्त्रगम्।
भवतां तत्तदर्थस्तु भगवान् कमलापतिः ।। 57 ।।
इयं मद्यज्ञसारस्य धोरणी सारमाधुरी।
परमैकान्तिनां नॄणामप्येषैव निबोधत ।। 58 ।।
इति संबोधिता देवा गतक्षोभाः प्रजापतिम्।
सारार्थावगमात्तुष्टाः साधु साध्वित्यपूजयन् ।। 59 ।।
श्रेयसां किल कार्याणां प्रत्यूहानां शतं शतम्।
तथा तत्र महायज्ञे विघ्रानां शतमुत्थितम् ।। 60 ।।
देवदेवो रमानाथः कृपया परया मुदा।
सर्वान्प्रशमयामास प्रत्यूहान् समुपस्थितान् ।। 61 ।।
अथ काले बहुगुणे वपाहोमोचिते तदा।
आविरासन्निमित्तानि मनोहारीणि सर्वसः ।। 62 ।।
मेषमासे सिते पक्षे चतुर्दशतमे तिथौ।
शोभने हस्तनक्षत्रे रविवारेण संयुते ।। 63 ।।
प्रातः सवनकालीने वपाहोमे समापिते।
तां वपामधरे गृह्णन्नग्नेराविरभूद्धरिः ।। 64 ।।
सूर्यकोटिप्रतीकाशे तप्तकार्त्तस्वरोज्वले।
विमाने पुण्यकोठ्याख्ये श्रीभूमिसहितः प्रभुः ।। 65 ।।
पश्चिमाभिमुखो दीप्तकिरीटमकुटोज्ज्वलः।
ऊर्ध्वपुण्ड्रोल्लसत्फालपट्टो राजीवलोचनः ।। 66 ।।
तिलप्रसूनसौभाग्यनासाकल्पलतान्वितः।
प्रवालखण्डसुषमामोषदक्षाधरोष्ठवान् ।। 67 ।।
कम्बुगम्भीरकण्ठान्तर्लम्बिकौस्तुभविभ्रमः।
श्रीवत्सवक्षा हारश्रीशोभमानभुजान्तरः ।। 68 ।।
पञ्चायुधोल्लसद्बाहुचतुष्टयमनोहरः।
सपद्मेन करेणोच्चैर्वहन्नभयमुद्रिकाम्र ।। 69 ।।
गदां चापं च वामेन पाणिना परिभूषयन्।
कटिबन्धे धरन्दिव्यं नंदकं खङ्गमुत्तमम् ।। 70 ।।
पीताम्बरलसन्नाभिगह्वरोज्वलविह्वलः (ग्रहः?)।
कामारामीयकदलीकळीचोरोरुभास्वरः ।। 71 ।।
मुकुराकारजानूत्थलावण्यप्रसराद्भुतः।
कळाचिकारुचिस्पर्धिजङ्घाद्वितयसुन्दरः ।। 72 ।।
पद्मसौभाग्यसर्वस्वहारिपादमनोहरः।
करुणारसपूर्णाभ्यामीक्षणाभ्यां चतुर्मुखम् ।। 73 ।।
आदरादनुगृह्णानः स्मिताञ्चदधरान्तिकः।
एवं स्वयमुदात्तेन रूपयौवनशोभिना ।। 74 ।।
विग्रहेणोदितं देवं रमाकान्तं जगत्पतिम्।
आसेव्य सर्वे संहृष्टाः कृतार्थनयनोदयाः ।। 75 ।।
अहो भाग्यमहो भाग्यमित्युच्चैरुदघोषयन्।
चतुर्मुखोऽपि नयनैरष्टाभिर्देवमच्युतम् ।। 76 ।।
प्रणतार्तिहरं नाथं वरदं समसेवत।
सहर्षसंभ्रमो नानाचेष्टास्तास्ताः स्वयं चरन् ।। 77 ।।
क्रमेण शानत्संरभ्भो देवो नाभिप्रचोदितः।
वत्स सत्यव्रक्षेत्रमाहात्म्यं पश्य पद्मज ।। 78 ।।
एकेन हयमेधेन सहस्रस्य फलं त्वया।
कांक्षितं तेन चित्तस्य शुद्धिस्तेन च चेतसः ।। 79 ।।
स्थैर्यं तेन च निष्पत्तिर्ध्यानस्येतीप्सितं त्वया।
अन्ते प्रतीक्षितं यत्ते फलं पर्वक्रमात्किल ।। 80 ।।
प्रथमे पर्वणि प्राप्तं सुखेनैव प्रजापते।
प्रसन्नोऽस्मि तवानेन हयमेधेन सुव्रत ।। 81 ।।
वपारसोऽयं मधुरो मम हृद्यो मनोऽहरत्।
पारमैकान्तिसौरभ्यसारामृतमनोहरा ।। 82 ।।
वपेयं सर्वभक्ष्येभ्यो मम प्रीतिकरी सदा।
वरं वरय तस्मात्त्वं यथाऽभिमतमात्मनः ।। 83 ।।
सर्वं संपत्स्यते पुंसां मयि दृष्टिपथं गते।
इति देवेन संदिष्टः प्रहृष्टः परमार्थवित् ।। 84 ।।
ब्रह्मा प्रणम्य बहुशः स्तुत्वा च प्रार्थयद्विभुम्।
वैकुण्ठे तु यथा लोके यथैव क्षीरसागरे ।। 85 ।।
तथा सत्यव्रतक्षेत्रे निवासस्ते भवेदिह।
हस्तिशैलस्य शिखरे सर्वलोकनमस्कृते ।। 86 ।।
पुण्यकोटिविमानेऽस्मिन् पश्यन्तु त्वां नरास्सदा।
इति संप्रार्थितो देवो भगवान् भक्तवत्सलः ।। 87 ।।
हिताय सर्वलोकानां तथाऽस्त्वित्यन्वमोदत।
तस्मिन् कृतयुगे ब्रह्मा देवदेवमधोक्षजम् ।। 88 ।।
स्वयं तेनैव रूपेण समाराधयदच्युतम्।
महाशान्तगजेन्द्रोऽथ त्रेतायां हरिमार्चयते ।। 89 ।।
स्वकराग्रोद्धृतैः पद्मैरथ ग्राहेण पीडितः।
शरणागतिमाधाय वरदेन विमोचितः ।। 90 ।।
हरिणा धाम निन्ये स्वं वाहनेन गरुत्मता।
अथ द्वापरसंज्ञे तु युगे देवगुरुः स्वयम् ।। 91 ।।
आराध्य वरदं देवं स्वाभीष्टां सिद्धिमाप्नुत।
ततः कलियुगस्यादौ ब्रह्माणं वरदोऽब्रवीत् ।। 92 ।।
परामृशन् जगत्सर्वं प्रहृष्टेनान्तरात्मना।
कालोऽयं कलिरायातः सर्वे स्वार्थपरा जनाः ।। 93 ।।
न कोऽपि तत्त्वतो भक्तो द्रक्ष्यते कालविप्लवात्।
अयुते वा परार्धे वा यदि कोऽपि च तादृशः ।। 94 ।।
संभाव्यते गुणोत्कृष्टं न तं लोकोऽनुमंस्यते।
दोषानारोपयेत्कश्चिन्मत्सरात्तस्य मूर्द्धनि ।। 95 ।।
तं तथैवेति सर्वेऽन्वे घोषयिष्यन्ति सर्वशः।
अन्ते तस्यापि नैराश्याच्च्युतिरेव मनोगतेः ।। 96 ।।
भविष्यति तथा नाम कालोऽयं कलिरूर्जितः।
अतो न रोचते वत्स हस्तिशैलस्य मूर्धनि ।। 97 ।।
दिव्येनानेन रूपेण वस्तुं काले कलाविह।
प्रतिज्ञातं च कल्पान्तमवस्थानमिहैव मे ।। 98 ।।
अतोऽत्र क्रियतामेवमहं त्वामनुमानये।
वरदोऽहं विधे भक्तजनानां करुणाकरः ।। 99 ।।
अतः स्थलमिदं पुण्यं त्यागमण्टपमुच्यताम्।
योगमण्टपसंज्ञातु श्रीरङ्गस्य मया कृता ।। 100 ।।
पुष्पमण्टपमित्याख्या वेङ्कटाद्रेर्विराजताम्।
अन्यद्यदुगिरिस्थानं विद्यामण्टपमुच्यताम् ।। 101 ।।
सर्वोत्तममिदं पुण्यं क्षेत्रं स्थानं च शोभनम्।
मम प्रीतिकरं दिव्यं मुक्तिक्षेत्रेषु चोत्तमम् ।। 102 ।।
नैतस्य सदृशं किञ्चित् क्षेत्रं वा तीर्थमेव वा।
अतो मदाज्ञया ब्रह्मन् आलयोऽत्र विधीयताम् ।। 103 ।।
सर्वमन्त्रस्वरूपत्वात् सर्वेभ्योऽभ्यधिको भुवि।
संस्थानस्यालयस्यास्य स्वरूपं परमार्थतः ।। 104 ।।
न वेत्तुं प्रभवेदन्यो मदीक्षावीभितान्नरात्।
कलिकालोचितां रीतिमाश्रित्य मनसा मया ।। 105 ।।
पाञ्चरात्राह्वयं तन्त्रं यथावदवतारितम्।
तदुक्तेन प्रकारेण मूलकर्मोत्सवाश्रयाः ।। 106 ।।
तिस्रो मूर्तीः प्रतिष्ठाप्य पूजनं प्रतिपादय।
बल्यर्चा च विधानेन सादरं परिकल्प्यताम् ।। 107 ।।
रत्नेषु त्रिष्वपि श्रेष्ठं जयाख्यं तन्त्रमुच्यते।
तदुक्तेन विधानेन प्रतिष्ठादि प्रवर्त्यताम् ।। 108 ।।
काण्वीं शाखामधीयानावौपगायनकौशिकौ।
प्रपत्तिशास्त्रनिष्णातौ स्वनिष्ठानिष्ठितावुभौ ।। 109 ।।
जयाख्यतन्त्रमार्गेण दीक्षयित्वाऽब्जमण्डले।
आचार्यके चाभिषिच्य ताभ्यां पूजां प्रकल्पय ।। 110 ।।
तद्गोत्रसंभवा एव कल्पान्तं पूजयन्तु माम्।
जयाख्येनाथ पाद्मेन तन्त्रेण सहितेन वै ।। 111 ।।
मूलव्याख्यानरूपाब्यां समर्चयतु मां सदा।
न तन्त्रसङ्करो दोषस्तन्त्रयोरनयोरिह ।। 112 ।।
आचार्यके तथाऽऽर्त्विज्ये पूजने वा ममाब्जज।
तावेतौ गोत्रिणौ मुख्यौ मम प्रीतिकरौ मतौ ।। 113 ।।
परिचर्यासु तत्तासु योग्यान्निर्णीय चेतसा।
दीक्षयित्वा च ते तत्र नियुज्यन्तां यथाविधि ।। 114 ।।
अत्राधिकार उभयोस्तयोरेव कुलीनयोः।
शाण्डिल्यश्च भरद्वाजो मुनिर्मौञ्जायनस्तथा ।। 115 ।।
इमौ च पञ्चगोत्रस्था मुख्याः काण्वीमुपाश्रिताः।
श्रीप्राञ्चरात्रतन्त्रीये सर्वेऽस्मिन् मम कर्मणि ।। 116 ।।
इह ताभ्यां चिरं वत्स तोषितोऽस्मि तपोबलात्।
तयोरयं वरः प्रीत्या प्रादायि प्रार्थितो मया ।। 117 ।।
मन्त्रैः कातीयसूत्रेण निर्दिष्टैर्वैदिकैः सह।
भगवच्छास्त्रसंसिद्धैर्दिव्यैर्मन्त्रैर्विमिश्रितैः ।। 118 ।।
गर्भाधानादिकाः सर्वे संस्कारा नित्यकर्म च।
नैमित्तिकं च श्राद्धादि कर्तव्यं तैरतन्द्रितैः ।। 119 ।।
आचारेणैवामुनैवाहं भवामि प्रीतिमानसः।
शर्करासहितेनेव क्षीरेण कमलासन ।। 120 ।।
प्रत्यब्दं चैत्रमासे तु स्वेन रूपेण मां विभुम्।
पूर्णिमायामिहागत्य त्वं मामाराधयानघ ।। 121 ।।
प्रत्यहं रात्रिकाले तु शेषः फणभृतां वरः।
अप्राकृतेन रूपेण मां समाराधयिष्यति ।। 122 ।।
इति देवेन संदिष्टः परतन्त्रमना विधिः।
तथैव तत्स्वयं प्रीत्या निरवर्तयदादरात् ।। 123 ।।
देवावतारसमये विमानमतुलप्रभम्।
सर्वदेवमयं दिव्यमग्निमध्यात् समुत्थितम् ।। 124 ।।
तथैव देवदेवस्य वरदस्य निदेशतः।
भूतले वास्तुविधिना प्रतिष्ठामध्यगम्यत ।। 125 ।।
दिव्यालयस्य निर्माणप्रकारो विश्वकर्मणे।
देवादेशाद्विरिञ्चेन स्फुटमेवात्यदिश्यत ।। 126 ।।
स तस्याज्ञां वहन्मूर्ध्ना तदादिष्टेन वर्त्मना।
आलयं निर्ममे दिव्यं तेनैव प्रत्यवेक्षितः ।। 127 ।।
मूलमन्त्रत्रयात्मत्वाद्देवदेवस्य सन्निधौ।
प्रणवेन समं पूर्वं सोपानत्रयमास तत् ।। 128 ।।
षडक्षरस्य मन्त्रस्य स्मारणाय रमापतेः।
अर्धमण्डमभागे षट् सोपानानि चकार सः ।। 129 ।।
चतुर्विशतितत्त्वात्मा चतुर्विंशतिसंख्यका।
गायत्रीसंमिता पश्चात् सोपानावलिराबभौ ।। 130 ।।
अथ द्वयाख्यं परमं मन्त्रराजमनुस्मरन्।
सोपानयोर्द्वयं दीप्रं निर्ममे निर्ममान्तरः ।। 131 ।।
प्रणतार्तिहृतो मन्त्रे दिव्ये देवस्य तोषणे।
दशवर्णआ इति व्यक्तीकुर्वन् दश तताऽकरोत् ।। 132 ।।
बहुनाऽत्र किमुक्तेन देवदेवालयो महान्।
उक्तानां भगवच्छास्त्रे लक्ष्मणां लक्ष्यतां ययौ ।। 133 ।।
करीशः कमलाकान्तः काले कमलसम्भवम्।
स्वच्छन्दः संदिशंस्तेन स्वमालयमकारयत् ।। 134 ।।
अथ देवेन निर्दिष्टे काले कमलसंभवः।
जयाख्यतन्त्रमार्गेण प्रतिष्ठाविधिमादिशत् ।। 135 ।।
दारुणा मूलबेरं तु कर्मार्चां रजतेन वै।
औत्सवं चैव ताम्रेणाकारयद्विश्वकर्मणा ।। 136 ।।
तथैव चाथ बल्यर्चां विधिनाऽकारयद्विधिः।
औपगायनमाचार्यं कौशिकं च तपस्विनम् ।। 137 ।।
तत्पुत्रांश्च महाभागान् द्वौ द्वौ देवसुतोपमौ।
दीक्षयित्वा यथान्यायं चक्रवारिजमण्डले ।। 138 ।।
तैः प्रतिष्ठान्तिकं सर्वं कर्षणाद्यमकारयत्।
वैशाखे श्रवणर्क्षे तु संकल्प्यावभृथं पुरा ।। 139 ।।
नवमेऽह्नि ध्वजारोहं विधिनाऽकारयद्विधिः।
प्रथमेऽहनि देवेशं मण्डपेन विभासिना ।। 140 ।।
वीथीः सञ्चारयामास प्रातर्भक्तानुकम्पया।
रात्रौ मृगेन्द्रवाहेन देवस्योत्सवमाचरत् ।। 141 ।।
द्वितीये दिवसे प्रातर्हंसवाहनमाचरत्।
रात्रौ मार्तण्डबिम्बेन महोत्सवमकारयत् ।। 142 ।।
तृतीये दिवसे प्रातर्गरुडोत्सवमाचरत्।
अवतारात्परं देवस्योत्सवे प्रथमे पुरा ।। 143 ।।
ेवो रमापतिर्दिव्यं वैनतेयमधिश्रितः।
प्रथमं दर्शयामास निजमप्राकृतं वपुः ।। 144 ।।
मध्ये गोपुरमुख्यस्य ततो गरुडवाहने।
गोपुराग्रिममध्ये तु देवसेवा विशिष्यते ।। 145 ।।
सर्वपापहरी पुण्या मुक्तिमार्ग उदीरितः।
रात्रौ हनुमता चैव देवदेवमचारयत् ।। 146 ।।
चतुर्थे दिवसे प्रातः शेषासनतले हरिः।
परव्योम्नीव भक्तानां स्वं रुपं समदर्शयत् ।। 147 ।।
रात्रौ चन्द्रमसं बिम्बमास्थितस्योत्सवोंऽभवत्।
मोहिनीरूपमास्थाय प्रातरान्दोलिकां गतः ।। 148 ।।
पंचमेऽहनि देवेशो भक्तान्सर्वाननन्दयत्।
रात्रौ तु यालवाहेन देवस्योत्सवमाचरत् ।। 149 ।।
षष्ठे प्रातः कल्पतरौ वेणुगानोत्सवोऽभवत्।
रात्रौ गजेन्द्रमास्थाय दिव्यं रूपमदर्शयत् ।। 150 ।।
सप्तमे स्यन्दनं दिव्यमास्थाप्योत्सवमाचरत्।
अष्टमे तु जलद्रोणीमवगाह्य दिवा हरिः ।। 151 ।।
रात्रौ तुरङ्गमास्थाय सर्वाल्लोकानपावयत्।
नवमे शिबिकायात्रामारचय्य रमापतिः ।। 152 ।।
लीलां प्रणयकोपस्य प्रदर्श्य कमलाभुवोः।
अनन्तसरसीवर्येऽवभृथं महमास्थितः ।। 153 ।।
रात्रौ तु पुण्यकोठ्याख्ये विमाने निष्ठितः प्रभुः।
सर्वं पुरं परिभ्रम्य सर्वांल्लोकानपावयत् ।। 154 ।।
दशमेऽहनि मद्याह्ने पुष्पयागमहोऽभवत्।
रात्रौ महाविमानेन पुरयात्रा प्रकल्पिता ।। 155 ।।
सर्वावरणनिष्क्रामात्परं विहगराड्ध्वजम्।
अवरोपय्य विधिवत्पूजको बहुमानितः ।। 156 ।।
एवं संरम्भयोगेन महोत्सवमकारयत्।
प्रतिवत्सरमेवैवं महोत्सवविधिः कृतः ।। 157 ।।
पक्षमासायनाब्दाद्या उत्सवाश्चाभवन्क्रमात्।
महर्षी दीक्षितौ तौ द्वावौपगायनकौशिकौ ।। 158 ।।
पर्यायेणैव देवेशमानर्च्यतुरिहादरात्।
तदेतन्महितं धाम हस्तिशैलप्रथां गतम् ।। 159 ।।
प्रणतार्तिहरो देवो वरदो यत्र पूज्यते।
पूजकास्तस्य तद्वस्या महात्मानो गुणोज्ज्वलाः ।। 160 ।।
पाञ्चरात्रिकमुख्येभ्यः सर्वेभ्योऽप्यधिका भुवि।
एवमेतत्समाख्यातं हस्तिशैलस्य वैभवम् ।। 161 ।।
देवस्य तन्त्रसारस्य पूजकस्य तु संग्रहात्।
यथा वै नारदमुनेः मुखात्पूर्वं श्रुतं मया ।। 162 ।।
तथैव सर्वमाख्यातं प्रसङ्गात्प्रीतिपूर्वकम्।
अथ प्रकृतमेवाद्य तन्त्रमारंभ्यते मया ।। 163 ।।
श्रूयतामवधानेन श्रद्धाभक्तिमहीयसा)
इति श्रीपाञ्चरात्रे जयाख्यसहितायां शास्त्ररम्भप्रयोजनं नाम प्रथमः पटलः।
* * * * *