← पटलः २३ जयाख्यसंहिता
पटलः २४
[[लेखकः :|]]
पटलः २५ →
जयाख्यसंहितायाः पटलाः

पटलः - 24
अथ संस्काराख्यानं नाम चतुर्विंशः पटलः। 24-1
नारद :---
काम्यं (कव्यं ?) प्रेतं पितृश्राद्धं त्वत्प्रसादान्मया श्रुतम्।
इदानीं श्रोतुमिच्छामि गतासूनां च संस्कृतिम् ।। 1 ।।
त्वच्छासनप्रपन्नानां कथयस्व समासतः।
उदीरितं त्वया पूर्वं नोदितं च परिस्फुटम् ।। 2 ।।
भगवान् ---
विपन्नं दीक्षितं ज्ञात्वा प्रार्थनीयो महागुरुः।
स्नेहेन कृपया वाऽथ सह शिष्यैः कृतात्मभिः ।। 3 ।।
यायात्कृताह्निकः शश्वदभुक्तान्नो विशेषतः।
[शवसंस्कारविधानम्]
प्रागुक्तया पुरा दृष्ट्या अवलोक्य च तं द्विज ।। 4 ।।
[शवस्य स्नपनालङ्करणे] 24-2
दत्वाऽऽज्ञां तु समुत्थाप्य स्नापयेत्तु मृतं पुरा।
अस्त्रमन्त्राभिजप्तेन गोमयेन मृदम्भसा ।। 5 ।।
सुगन्धामलकैः स्नाप्य सर्वौषध्युदकेन च।
चन्दनेन समालिप्य सबाह्लीकेन नारद ।। 6 ।।
सकषाये सिते वाऽथ वाससी ह्यधरोत्तरे।
परिधाप्योपवीतं च सोत्तरीयं तथा नवम् ।। 7 ।।
पवित्रकद्वयं तत्र योज्याङ्गुल्योः कुशैः कृतम्।
पुष्पस्रग्भूषितं कृत्वा स्थाप्य यन्त्रे पटावृते ।। 8 ।।
[शवस्य संस्कारस्थाननयनम्] 24-3
गृहीत्वाऽथ स्वजातीयैर्दीक्षितैर्वाऽप्यदीक्षितैः।
तन्नयेत्संस्कृतिस्थानमस्थ्यङ्गारादिवर्जितम् ।। 9 ।।
[संस्कृतिस्थानसमीकरणम्] 24-4
उपलिप्य पुरा तद्वै समीकृत्य यथाविधि।
[भैक्षपात्रादिद्रव्याणां तदीयानां तच्छवेन सह नयनम्] 24-5
भैक्षपात्रं तथा दण्डं स्रुक्‌स्रुवौ चाक्षसूत्रकम् ।। 10 ।।
पादुके आसनं चैव योगपट्टं तथैव च।
दारवं भद्रपीठं च सार्घ्यपात्रं कमण्डलुम् ।। 11 ।।
मांत्रोपकरणं सर्वं पदीयं मुनिसत्तम।
[तत्र वर्ज्यद्रव्याणि] 24-6
हिरण्यवस्त्रशास्त्रैश्च घण्टया च विवर्जितम् ।। 12 ।।
तच्छ्राद्धकाले दातव्यं तत्प्रीत्यर्थं हि कस्यचित्।
[प्रेतसंस्कारोपकरणद्रव्याणामग्रतो नयनम्] 24-7
नयेत्तस्याग्रतः पुष्पमर्घ्याम्बुकुसुमादिकम् ।। 13 ।।
उपयोज्यं च यत्तत्र अर्चने होमकर्मणि।
अश्वत्थतरुसंभूता अष्टौ तीक्ष्णा हि शङ्कवः ।। 14 ।।
अयत्नलब्धा विप्रेन्द्र अन्यस्माद्यतिनः स्वयम्।
छिन्द्यादश्वत्थवृक्षं तु पालाशाद्यमभावतः ।। 15 ।।
पीतं वा सुसितं सूत्रं क्षौमं कार्पासजं तु वा।
समस्तधान्यानि तिलाः कृष्णास्सिद्धार्थकैर्युताः ।। 16 ।।
प्रभूतमिन्धनं शुष्कं पालाशाद्यं च पावनम्।
तत्र चैशानदिग्भागमासाद्योपविशेद्गुरुः ।। 17 ।।
[गुरुणाऽऽप्ययक्रमेण स्वाङ्गन्यासस्य कर्तव्यता] 24-8
समलङ्कृत्य चात्मानमापादाच्च शिरोन्तिमम्।
मन्त्रेणाप्यययुक्त्या वै षडङ्गविधिना पुरा ।। 18 ।।
[मृतेन योऽनुष्ठितो मन्त्रस्तेन प्रथमं पूजनस्य कर्तव्यता] 24-9
तदनुष्ठानसंज्ञेन प्रारम्भे पूजयेद्द्विज।
परिशिष्टस्य वाऽन्यस्य आचार्यस्यापि कस्यचित् ।। 19 ।।
शासनस्थस्य भक्तस्य मन्त्रे चाविदिते सति।
[तदपरिज्ञाने नारसिह्ममन्त्रेण पूजनविधिः] 24-10
प्रणवाद्यन्तरुद्धेन सामान्येन महात्मना ।। 20 ।।
नारसिह्मेण चोग्रेण तस्योङ्कारः पुरा भवेत्।
नमो भगवते कृत्वा नारसिह्माय वै तत ।। 21 ।।
द्वादशाक्षरमन्त्रोऽयं सर्वैः सर्वत्र शस्यते।
तन्नामपूर्ववर्णं तु दीर्घैः षड्भिर्विभेदितम् ।। 22 ।।
तेषामाद्यावसाने तु प्रणवञ्चापि योजयेत्।
प्रकल्प्य चाङ्गषट्कं तु सामानय्स्य च संज्ञया ।। 23 ।।
[कुम्भस्थापनतत्पूजनविधिः] 24-11
अन्तःस्थं पूजयित्वाऽऽदौ बहिस्तदनु पूजयेत्।
प्रणवेन पुरा पीठं साधारं परिकल्पयेत् ।। 24 ।।
तत्रार्चिते न्यसेत्पृष्ठे कलशं वारिपूरितम्।
समायं (सामयं ?) विन्यसेन्मन्त्रं विलोमोच्चारयोगतः ।। 25 ।।
अस्त्राद्यमङ्गषट्‌कं तद्वैपरीत्येन विन्यसेत्।
हृद्यस्त्रं हृदयं चास्त्रे यथा भवति नारद ।। 26 ।।
कृत्वैवं कलशे न्यासं तं यजेद्विधिना ततः।
तत्रास्त्रकलशं कुर्यादासनं तत्र कल्पयेत् ।। 27 ।।
फट्कारेण तु चक्राख्यं केवलं रक्तरूपधृक्।
नाभिनेमिविहीनं तु तदूर्ध्वे कलशं न्यसेत् ।। 28 ।।
पुष्पार्घ्यधूपैर्लिप्त्वा च अस्त्रमन्त्रं तदन्तरे।
विसर्गफट्‌पदाद्यं तु वैपरीत्येन चोच्चरेत् ।। 29 ।।
बलिदानावसानं तत्पूजयित्वा ततो द्विज।
[अथ मण्डले (स्थंडिले) पूजनविधानम्] 24-12
तदग्रे भद्रपीठं तु योजयेत्तदभावतः ।। 30 ।।
भूमावुपरि विन्यस्य आधारं प्रणवेन तु।
ऐश्वर्याद्यं तदूर्ध्वे तु धर्मान्तं चाथ विनय्सेत् ।। 31 ।।
हृन्मन्त्रेण तदूर्ध्वे तु शेषं सप्रणवेन तु।
कल्पयेन्मुनिशार्दूल रत्नपुञ्जनिभं महत ।। 32 ।।
हृदयाच्चैव तत्पृष्ठे मन्त्रमावाह्य विन्यसेत्।
केवलं लयदेहं तु पूर्वोच्चारक्रमेण तु ।। 33 ।।
[कुण्डे हवनविधानम्] 24-13
पूजयित्वा यथान्यायं तदग्रेऽथ प्रकल्पयेत्।
प्रमाणरहितं कुण्डमेकं मेखलयाऽन्वितम् ।। 34 ।।
तत्संस्कृत्यं पुरा तत्र गगनादवतार्य च।
सूर्यकान्तेन मणिना वैष्णवं जातवेदसम् ।। 35 ।।
लौकिकं तदभावाच्च आनाय्य तु तथा स्मरेत्।
तत्र दर्भास्तरं दद्यात्रिधा दिक्ष्वन्तरा ग्रहम्(?) ।। 36 ।।
संस्कृत्य पावकं प्राग्वन्नमोऽन्तं जुहुयात्ततः।
[होमः]
मूलमन्त्रं शतं साष्टं तिलैराज्येन वै तथा ।। 37 ।।
संहारक्रमयोगेन स्मृत्वा मन्त्रं ततोऽन्तगम्।
दद्यात्पूर्णाहुतिं विप्र ततश्चार्घ्याम्बुना तु वै ।। 38 ।।
[अथ शवस्य प्रोक्षणादि] 24-14
तं शवं प्रोक्षणीयं च ताडयित्वाऽवलोक्य च।
चक्षुषा ज्ञानपूर्णेन करुणानुगतेन च ।। 39 ।।
दत्वाऽर्घ्यपुष्पे शिरसि दूरस्थश्चास्पृशंश्च तम्।
आनाय्य पृष्ठदेशं तु कलशाभ्यां द्विजोत्तम ।। 40 ।।
आसने त्वपकृष्टे तु कायं सन्धाय केनचित्।
तं वीक्षमाणः कुण्डस्थो गुरुस्तूपविशेत्ततः ।। 41 ।।
प्राक्कर्मपरिशुद्धं तु मृतं संस्कारवर्जितम्।
[आह्वानपूर्वकं जीवस्य शवशरीरे योजनविधानम्] 24-15
जीवं च केवलीभूतं सामीप्यपदवीगतम् ।। 42 ।।
मन्त्रेणाहूय देहस्थं कृत्वा तदनु योजयेत्।
पूर्ववच्छवपिण्डे तु रत्नदीपोज्ज्वलप्रभम् ।। 43 ।।
[जीवाह्वानमन्त्रः] 24-16
प्रणवान्तं (न्ते ?) शिखाबीजं संज्ञां तदनु योजयेत्।
तदन्ते तु शिखाबीजं प्रभा(ण ?)वान्तं न्यसेत्पुनः ।। 44 ।।
आगच्छ .... नेतस्य प्रविश्या(शा ?)थ नियोजयेत्।
एवं स्वस्थानगं कृत्वा जीवं शुक्रगतं त्विह ।। 45 ।।
[स्वस्थानं गमितस्य जीवस्य परतत्त्वे संयोजनविधानम्] 24-17
व्यापारशक्तिसंयुक्तं काष्ठस्थमिव पावकम्।
दीक्षाख्येन क्रमेणास्य लयहोमस्तु केवलः ।। 46 ।।
कर्तव्यो गुरुणा सम्यक् प्रथिव्यादिक्रमेण तु।
परे तत्त्वे तु संयोज्य पूर्णाहुत्या तु पूर्ववत् ।। 47 ।।
[अथ चिताकल्पनविधानम्] 24-18
दक्षिणेनात्मनश्चाथ प्रोक्ष्य क्ष्मामस्त्रवारिणा।
तिलैः सिद्धार्थकैर्धान्यैर्मिश्रीभूतैस्तु नारद ।। 48 ।।
नाभिनेमिविहीनं च कालचक्रं समापयेत्।
वामावर्तद्विषट्कारं त्रिकोणं तद्बहिः पुरः ।। 49 ।।
तद्देहवर्णज्वालाढ्यं स्वस्तिकत्रितयान्वितम्।
तद्बहिश्चतुरश्रं च पञ्चरङ्गोज्ज्वलं पुरम् ।। 50 ।।
पञ्चरेखान्वितं कुर्याद्वज्राष्टकविभूषितम्।
विलोमगत्या वामेन पाणिना पातयेद्रजः ।। 51 ।।
विमानवच्चितिं काष्ठैर्विचिन्वीयात्पुराऽऽहृतैः।
गोमयैर्वा द्विजारण्यसंप्राप्तैः कुशमिश्रितैः ।। 52 ।।
अन्तकाशादितश्चाथ नैर्ऋत्यान्तं तु शङ्कवः।
रोपणीया हि सूत्रेण त्रिरावृत्तेन वेष्टयेत् ।। 53 ।।
[सर्वस्य पूजाद्रव्यस्योपसंहृतस्य कुण्डाग्नौ प्रक्षेपः] 24-19
पूजाद्रव्यं समस्तं च नैवेद्यान्तं हि नारद।
उपसंहृत्य जुहुयादग्नौ कुण्डगते ततः ।। 54 ।।
[कुम्भादिस्थानान्मन्त्रस्योत्सर्जनम्]
विसर्ज्य मन्त्रं कुम्भस्थं भद्रपीठाग्निमध्यगम्।
खात्वा तु सेचयेद्भूमिं कलशस्थेन चाम्भसा ।। 55 ।।
[शवस्य चितायामारोपणम्] 24-20
सासनं च ततः शावं दक्षिणाभिमुखं ततः।
चितोपरि स्थितं कुर्यात्
[योगपट्टादीनां शवस्य कण्ठादिस्थानविशेषे स्थापनम्] 24-21
तस्य कण्ठे विनिक्षिपेत् ।। 56 ।।
विततं योगपट्टं च दक्षिणे चाक्षसूत्रकम्।
वामहस्तेऽर्ध्यपात्रं तु प्रणीतां च कमण्डलुम् ।। 57 ।।
वामतः पादुके छत्रं उष्णीषं दक्षिणे न्यसेत्।
अग्रतो भद्रपीठं च शङ्खमुद्रादिकं च यत् ।। 58 ।।
संपूज्य पुष्पधूपाद्यैश्चन्दनेन तु तां चिताम्।
[चिताप्रज्ज्वालनं पूर्णाहुतिश्च] 24-22
प्रज्ज्वाल्य दर्भपुञ्जीलं कुण्डस्थेन तु वह्निना ।। 59 ।।
ज्वालयेद्दक्षिणाशां च वीक्षमाणस्तु तां चिताम्।
गुरुश्चाभिमुखः स्थित्वा तस्य पूर्णाहुतिं क्षिपेत् ।। 60 ।।
मूर्ध्नि वा वक्त्रविवरे त्यजेत्तत्रैव स्रुक्स्रुवौ।
[चितापरिभ्रमणपूर्वकमस्त्रकलशस्य वियति प्रक्षेपविधिः] 24-23
ततोऽस्त्रकुम्भमादाय वरुणाशादितो द्विज ।। 61 ।।
विक्षिपन्नौदकीं धारां वामतश्च परिभ्रमेत्।
दिशि क्षिपेद्दक्षिणस्यां कलशं गगनोपरि ।। 62 ।।
[अथ स्नानविधानम्] 24-24
तत्र संरक्षकान्दत्वा गुरुर्यायाज्जलाशयम्।
सचेलं जलमाविश्य मनसा चोपसंहरेत् ।। 63 ।।
पूर्वोक्तं विग्रहन्यासं स्नात्वाऽथ विधिना ततः।
स्नानमाचमनाद्यं तु कृत्वा दद्याज्जलाञ्जलिम् ।। 64 ।।
उत्तीर्य परिधायान्यदम्बरं शुचि निर्मलम्।
[गुर्वादिभिः कर्तव्यो जपविधिः] 24-25
प्राङ्मुखस्त्वासने स्थित्वा मनसा नृहरिं मुने ।। 65 ।।
जपेदष्टाधिकं भक्त्या सहस्रं ध्यानसंयुतम्।
वोढारस्तु तदर्धं च तदर्धं भाण्डवाहकाः ।। 66 ।।
[नक्तं भगवतो यजनस्य कर्तव्यता] 24-26
प्राप्ते नक्तं जपान्ते वा विशेषादच्युतं यजेत्।
जपहोमावसाने च समश्नीयात्ततो गुरुः ।। 67 ।।
तद्बान्धवैः स्वशिष्यैस्तु (1)संवृतः शोकशान्तये।
[अस्थिसञ्चयनम्] 24-27
अस्थिसङ्घटनं कुर्यात्तृतीयेऽह्नि समागते ।। 68 ।।
(1. अत्र-वृतःशोकं प्रशान्तयेत् इति पाठो युक्तः प्रतिभाति।)
इष्टा(ष्ट्वा?)पूर्वीश्वीरं(?)पूर्वं पूष्पार्घ्यबलिधूपकैः।
विमलाम्भसि निक्षिप्य अगाधे वा नदीजले ।। 69 ।।
भूमावथ कृते खाते ह्यधस्ताद्विनिवेशयेत्।
न दीक्षितानां विप्रेन्द्र क्षिपेदस्थि ततस्ततः ।। 70 ।।
इत्येष वैष्णवानां च सद्भक्तानां मयोदितः।
[शवसंस्कारस्य सर्वैरवश्यकर्तव्यता] 24-28
देहपातिकसंस्कारो ह्यपवर्गफलप्रदः ।। 71 ।।
अनुष्ठेयस्ततस्तस्माच्छिष्याणां गुरुणा सदा।
सच्छिष्यैर्वा गुरूणां तु स्त्रीणामथ महामते ।। 72 ।।
दीक्षितानां महायागे मात्रोपकरणं विना।
संस्काराश्चाखिला मन्त्राः पित्राऽथ गुरुणाऽथवा ।। 73 ।।
आत्मजेनाथ पत्न्या वा कार्यश्चादीक्षितैरपि।
कृपयाऽघविघातार्थमसन्दिग्धतया धिया ।। 74 ।।
[यतिधर्राश्रयाणां दाहे विशेषः] 24-29
यतिधर्माश्रयाणां तु कर्मसन्यासिनां च वै।
दाहमात्रं तु विहितं मन्त्रपूजाविवर्जितम् ।। 75 ।।
[परोक्षतो मृतानां संस्कारविधानप्रकारः] 24-30
परोक्षतो विपन्नानां विधानमधुनोच्यते।
येन याति पदं विष्णोः पदं योऽन्यतरस्थितः ।। 76 ।।
यदैव दीक्षितस्तिष्ठेच्छासनेऽस्मिन्मयोदिते।
तदैवाप्तं मुनिश्रेष्ठ तैः पदं विमलं मम ।। 77 ।।
किं तु ये दीक्षिताः पूर्वं न निर्व्यूढास्सदाऽर्चने।
म्रियन्ते चाकृतार्थाश्च समयज्ञास्तु पुत्रकाः ।। 78 ।।
ते स्वकर्मवशं यान्ति किञ्चित्स्थानमशाश्वतम्।
भूयस्तस्माच्चिरेणैव केनचिद्विग्रहात्मना ।। 79 ।।
काले शुभे शुभे देशे उत्पद्यन्तेऽशुभेऽथवा।
पुण्यं कुर्वन्ति वा पापं देशे काले तयोर्वशात् ।। 80 ।।
शुभेन कर्मणा स्वर्गमशुभेनाप्नुवन्त्यधः।
एवमस्थितिमाप्नोति उपसंहृत्य दीक्षितः ।। 81 ।।
मृतश्चापि परोक्षे तु यदा वै गुरुणा तदा।
कृपात्मना समर्थेन कार्यमुद्धरणं महत् ।। 82 ।।
शरीरधर्मसंस्थेन यथा तदवधारय।
विधिवन्मरणं ज्ञात्वा पुरा भक्तस्य कस्यचित् ।। 83 ।।
स्वकाह्निकावसाने तु यजेदर्चादिषु प्रभुम्।
विशेषविहितेनैव कर्मणा होमपश्चिमम् ।। 84 ।।
श्वेतां मृदमथालोड्य पञ्चगव्येन चाम्भसा।
द्वादशाङ्गुलमात्रं तु मूर्तिं कृत्वा तदाकृतिम् ।। 85 ।।
आपादाच्चूलिकान्तं च सर्वाङ्गावयवान्विताम्।
पलाशाश्वत्थवल्कोत्थदारुणा पल्लवेन वा ।। 86 ।।
तामग्नेः कुण्डदेशस्थां कृत्वा यन्त्रकृतां पुरा।
प्रणवेन तु सास्त्रेण प्रोक्षयेत्सप्तधाऽम्बुना ।। 87 ।।
अर्घ्यपात्रोद्धृतेनैव त्रिधाऽथ द्वादशात्मना।
फडन्तेन द्विधा ताड्यं त्र्यक्षरेणार्घ्यतण्डुलैः ।। 88 ।।
कुसुमैरथ पत्रैर्वा दर्भकाण्डयुतेन तु।
ततोऽवलोकनं कुर्यान्मन्त्रवित् ज्ञानचक्षुषा ।। 89 ।।
साधिभूतमथाध्यात्मस्वरूपं तत्त्वसंग्रहम्।
ततः सृष्टिक्रमेणैव विनिवेश्य यथा पुरा ।। 90 ।।
स्थानलक्ष्यक्रमेणापि ध्यानमार्गेण देशिकः।
होमं कृत्वा यथान्यायं त्रिद्व्येकाहुतिभिस्तु वा ।। 91 ।।
तत्त्वार्णमभिधायुक्तं मूलसंपुटयोगतः।
आयाहिपदसंमिश्रं ज्ञात्वा देहि(ह्य?)भिसन्धये ।। 92 ।।
तत्त्वं तत्त्वं क्रमेणैव प्रागुक्तविधिना मुने।
ततो हृत्पुण्डरीकस्थं मन्त्रं ध्यायेच्च सर्वगम् ।। 93 ।।
तज्जीवानयने सम्यक् बन्धकक्ष्यसमन्वितम्।
करुणानन्दसंपूर्णं महामाणिक्कदीधितिम् ।। 94 ।।
विज्ञाप्य मनसा तूर्णं त्रिधा स्मृत्वा पुराऽमलम्।
महाविभूते षाड्गुण्यशरीर परमेश्वर ।। 95 ।।
तदन्ते मूलमन्त्रस्तु संस्मरेन्मूर्तिसंयुतम्।
यत्र कुत्रचिदादाय पदञ्चावस्थितं ततः ।। 96 ।।
तदन्तेऽमृतबीजं तु व्योमेशे भूषितं स्मरेत्।
आनयेति द्विधा योज्यं तत्संज्ञां तदनु द्विज ।। 97 ।।
नमस्कारान्वितं मन्त्रमिदं वै रोचयेद्बहिः।
स्मरेत्संपूरितं तेन यदूर्ध्वे यच्च विद्यते ।। 98 ।।
तिर्यक् पृष्ठे पुरस्ताच्च आब्रह्मभवनान्तिमम्।
स्वतेजसा समाकृष्य जीवं दूरस्थितं त्वपि ।। 99 ।।
क्षिप्रं द्विज स्वसामर्थ्यात्पतङ्गं पावके यथा।
ततस्तमात्मसात्कुर्यान्मन्त्रं जीवसमन्वितम् ।। 100 ।।
मन्त्रमात्मनि संशोध्य जीवं प्रतिकृतौ न्यसेत्।
प्राग्वत्सन्धानयोगेन प्रतिष्ठोक्तेन नारद ।। 101 ।।
ततस्तस्य विधानेन तत्त्वदीक्षां समापयेत्।
प्रागुक्तेनाथ योगेन योजयेच्छाश्वते पदे ।। 102 ।।
पूर्णाहुतिप्रदानेन ततः प्रतिकृतिं दहेत्।
तस्माच्चैवाग्निकुण्डात्तु मन्त्रे चोत्थापिते सति ।। 103 ।।
पश्चात्स्नानादिकं सर्वं पूर्वोक्तं तु समाचरेत्।
समस्तदोषशान्त्यर्थं प्रायश्चित्तं चरेत्ततः ।। 104 ।।
स्वस्थोऽन्यस्मिन्दिने विप्र समर्थो वाऽथ तद्दिने।
इति श्रीपाञ्चरात्रे जयाख्यसंहितायां संस्काराख्यानं नाम चतुर्विंशः पटलः।
* * * * *

"https://sa.wikisource.org/w/index.php?title=जयाख्यसंहिता/पटलः_२४&oldid=206755" इत्यस्माद् प्रतिप्राप्तम्