जयाख्यसंहिता/पटलः १४
← पटलः १३ | जयाख्यसंहिता पटलः १४ [[लेखकः :|]] |
पटलः १५ → |
जयाख्यसंहितायाः पटलाः |
---|
पटलः - 14
अथ जपविधानं नाम चतुर्दशः पटलः 14-1
नारद :---
ब्रृहि मे देवदेवेश विष्णोर्विभवमात्मनः।
निर्णयं जपयज्ञस्य न ज्ञातं तत्कथं भवेत् ।। 1 ।।
श्री भगवानुवाच
एवं सन्तर्प्य देवेशं कुम्भे वा मण्डलादिषु।
जपयज्ञविधानेन देवं सन्तर्पयेत्ततः ।। 2 ।।
तदा स सर्वकामार्थान्मनसेष्टान्प्रयच्छति।
[जपस्य त्रैविध्यम्] 14-2
जपं ति त्रिविधं कुर्यादक्षसूत्रकरार्पितः ।। 3 ।।
वाचिकं क्षुद्रकर्मभ्य उपांशुं सिद्धिकर्मणि।
मानसं मोक्षकमार्थं ध्यायेद्देवं तु सर्वतः ।। 4 ।।
अक्षसूत्रं शुभं कार्यमदृश्यमितरैर्जनैः।
[अक्षसूत्रविधानम् तत्र मणिप्रमाणादिविशेषाः] 14-3
अक्षास्थिमात्रैर्मणिभिर्ज्येष्ठं कुर्यात्सुवर्त्तुळम् ।। 5 ।।
घात्रीफलानां गर्भेण प्रमाणं मघ्यमं स्मृतम्।
बदरास्थिप्रमाणेन (1)कनीयं समुदाहृतम् ।। 6 ।।
(1. कन्यसं Y.)
अष्टोत्तरशतं पूर्णं तदर्धं पादमेव वा।
कुर्यात्तच्च विधानोक्तं विधिना प्रतिकर्मणि ।। 7 ।।
सौवर्णं द्रव्यसिध्यर्थमुत्तमं तत्र कारयेत्।
पुष्ट्यर्थं रूपलाभाय राजतं पितृकर्मणि ।। 8 ।।
मेधावीर्यमहातेजोलाभार्थं ताम्रमेव च।
मघ्यमं मुनिशार्दूल कार्यं चैवाक्षसूत्रकम् ।। 9 ।।
यक्षाणां यक्षिणीनां च साधने त्रपुजं स्मृतम्।
राक्षसानां पिशाचानां वशे सीसमयं तु वै ।। 10 ।।
पाताळसाधनार्थं तु अरीतिमयमुच्यते।
सपन्नगानां नागानां साधने स्यात्तु कांस्यजम् ।। 11 ।।
कनीयस्तु तदा कुर्यादायसं क्षुद्रकर्मणि।
इति धातुमयानां च सूत्राणां विधयः स्मृताः ।। 12 ।।
वक्ष्ये मणिमयानां च विभागं मुनिसत्तम।
सर्वं मणिमयं चैव आयुरारोग्यभूतिदम् ।। 13 ।।
मोक्षदं तु विशेषेण स्फाटिकं शान्तिकर्मणि।
त्रितयं चोत्तमाद्यं यत्समं सर्वेषु कर्मसु ।। 14 ।।
मूलजानामथो वक्ष्ये बीजानां विधिमुत्तमम्।
सौभाग्ये वैद्रुमं कार्यमुत्तमाद्यं सदा त्रयम् ।। 15 ।।
मुक्त्यर्थं पुत्र दीप्तैस्तु पुष्पषैर्दोप्रशान्तये।
वक्ष्ये जलोत्थितानां च विषयं सर्वसिद्धिदम् ।। 16 ।।
पद्मबीजैश्च शाङ्खैश्च श्रीकामो जपमारभेत्।
आयुःप्रज्ञायशश्शान्तौ मौक्तिकं सर्वसिद्धिदम् ।। 17 ।।
उत्तमादिविभागेन त्रितयं यत्प्रकीर्तितम्।
एभ्यो मध्यादेकतमं ग्राह्यं चैव शुभे दिने ।। 18 ।।
[मणीनां क्षालनप्रकारः] 14-4
सास्त्रेण गन्धतोयेन क्षालयेत्तदनन्तरम्।
[सूत्रविशेषविधानम्] 14-5
शाणं कार्पासकं वाऽथ प्राप्य सूत्रं नवं दृढम् ।। 19 ।।
त्रिगुणं त्रिगुणीकृत्य चतुर्था वा यथा दृढम्।
सुवेष्टितं तु वै कृत्वा क्षाळयेत्पूर्ववद्द्विज ।। 20 ।।
[सूत्रे मणीनां योजनप्रकारः] 14-6
निक्षेप्या मणयस्तस्मिन्सन्धानक्रमयुक्तितः।
मणयस्सुसमास्सर्वे ऊनादिक्यविवर्जिताः ।। 21 ।।
जपार्थं मुनिशार्दूल नित्यं मन्त्रेषु निष्कळे।
मणिभिः क्रमसूत्रैस्तु सुतन्तुकळ निष्कळे () ।। 22 ।।
सकळे तु यथेच्छा वै सूत्रार्थं मणिगोळकाः ()।
युगळं युगळं सूत्रे परस्परमुखं द्विज ।। 23 ।।
पृष्ठं पृष्ठस्य लग्नं वा यथा स्याद्योजयेत्तथा।
सन्धाय चातिसुश्लिष्टं गहनं न भवेद्यथा ।। 24 ।।
[अक्षसूत्रस्य वलयाकारतापादनम्] 14-7
परस्परमणीनां तु प्रोतानां मुनिसत्तम।
अव्युच्छिन्नेन तेनैव त्वेंकेन प्रोततन्तुना ।। 25 ।।
मणिभ्यां सङ्गमोद्देशात्सूत्रं सूत्रेण वेष्टयेत्।
यथा स्यात्कटकाकारं स्तब्धं वृत्तं विभक्तिमत् ।। 26 ।।
[अक्षसूत्रे मेरुकल्पनम्] 14-8
ग्रन्धिसन्धावतो विप्र मणिसख्याधिकं ततः।
मेरुं प्रकल्पयेन्मध्ये एकेन गुळिकेन च ।। 27 ।।
[अक्षसूत्रसंशोधनावधानम्] 14-9
विलिप्य चन्दनाद्यैस्तु स्थापयेद्भाजने शुभे।
संपूज्य पुष्पधूपाद्यैस्तस्य शुद्धिमथाचरेत् ।। 28 ।।
दग्धमस्त्रेण संचिन्त्य वर्मणा मारुतेरितम्।
आप्लाव्य मूलमन्त्रेण परमामृतरूपिणा ।। 29 ।।
संशोध्यैवं पुरा सूत्रं देहवच्चिन्तयेत्ततः।
[अक्षसूत्रस्य दिव्यदेहत्वेन चिन्तनम्]
चतुर्भुजं तु विरजो नारायणमिवापरम् ।। 30 ।।
वरदाभयहस्तं च बद्धाञ्जलिधरं स्मरेत्।
ब्रह्मद्वारस्थितं तच्च सूत्रं ध्यायेच्छिखोपमम् ।। 31 ।।
स्वमन्त्रेण द्विजश्रेष्ठ मन्त्रमत्र निबोधतु।
[अक्षसूत्रमन्त्रः] 14-10
प्रोद्धरेत्प्रणवं पूर्वं तदन्ते कौस्तुभं न्यसेत् ।। 32 ।।
त्रैलोक्यैश्वर्यदोपेतं गोपनेनाङ्कयेच्च तत्।
तदन्ते त्वक्षसूत्राय पदं पञ्चाक्षरं न्यसेत् ।। 33 ।।
नमस्कारान्वितः प्रोक्तो ह्यक्षसूत्रस्य मन्त्रराट्।
[स्वमन्त्रेणाक्षसूत्रस्य सकलीकरणपूजने]
सकळीकरणं कुर्यान्मन्त्रेणानेन तस्य वै ।। 34 ।।
पूजयेच्च स्वमन्त्रेण ततस्तत्सन्घये क्रमात्।
[वैष्णव्याः परशक्तेरक्षसूत्रे भावनाक्रमविधानम्] 14-11
या परा वैष्णवी शक्तिरभिन्ना परमात्मनः ।। 35 ।।
प्रचलत्पूर्णचन्द्राभा सूर्यवत्किरणावृता।
युगक्षयोग्रहुतभुक्तेजसा तीवृबृंहिता ।। 36 ।।
प्राग्वत्सृष्टिक्रमेणैव स्मरेद्धृत्पद्ममध्यगाम्।
पूरकेण तु विप्रेन्द्र कुम्भकेन निरोधिताम् ।। 37 ।।
हृत्पद्मादुत्थितां भूयो ब्रह्मरन्ध्रावधिं स्मरेत्।
ब्रह्मरन्ध्रात्ततो विप्र प्रोल्लसन्तीं शनैश्शनैः ।। 38 ।।
पूर्ववत्सन्धिमार्गेण चिन्तयेद्द्वादशान्तगाम्। ()
रेचकाख्येन योगेन तया सूत्रं तु भावयेत् ।। 39 ।।
[अक्षसूत्रप्रभोद्भासितत्वेन यागालयस्मरणम्]
भासितं चाथ सूत्रेण सर्वं यागालयं स्मरेत्।
पूर्णेन्दुनेव गगनं,
[मन्त्रात्मनो भगवच्छत्तेः सूत्रस्य मन्त्राक्षराणां चैकीभूतत्वभावनविधिः]
निष्कळो मन्त्रराट् ततः ।। 40 ।।
मन्त्रबृन्दसमायुक्तो मग्नस्तत्रेति चिन्तयेत्।
मन्त्रात्मा भगवच्छक्तिस्सूत्रमन्त्राक्षराणि वै ।। 41 ।।
सर्वमेकीकृतं ध्यायेद्यथा क्षीरेण सोदकम्।
[सकलनिष्कलमन्त्रस्य सृष्टिक्रमेणाक्षसूत्रे सान्निध्यचिन्तनम्]
तत्र पुष्पाञ्जलौ पृष्ठे गृहीत्वा चिन्तयेदिमम् ।। 42 ।।
सुसंस्कृताक्षसूत्रस्य पतन्तं पृष्ठतो द्विज।
सृष्टिक्रमात्समायातं मन्त्रं सकळनिष्कळम् ।। 43 ।।
स्फुलिङ्गगणसङ्काशमाधेयतनुतां गतम्।
[भगवत्प्रार्थनापूर्वक तदभ्यनुज्ञयाऽक्षसूत्रस्य ग्रहणम्]
इदं विज्ञाप्य देवेशमक्षसूत्रमयाच्युत ।। 44 ।।
प्रयच्छ मन्त्रजापार्थं स्मरेद्दत्तं च तेन तत्।
गृहीस्वा शिरसा पश्चात्प्रसीद इति चोच्चरेत् ।। 45 ।।
[अभ्यर्चनपूर्वकमक्षसूत्रे मन्त्रस्य प्रतिष्ठापनक्रमः]
प्राप्तं संस्नापयेत्पश्चादर्घ्यपात्राच्च वारिणा।
संपूज्य पुष्पधूपाद्यैर्मन्त्रं तव च विन्यसेत् ।। 46 ।।
साधारं साधनं चैव शक्तिपूर्वैस्समावृतम्।
सन्निधौ भव देवेश सन्निरुद्धो भवाच्युत ।। 47 ।।
सूत्राख्ये मणिजालेऽस्मिन्यावच्चंद्रार्कतारकम्।
एवं मुने प्रतिष्ठाप्य मन्त्रं सूत्रेऽक्षसंज्ञिके ।। 48 ।।
प्रतिष्ठितस्य वै पश्चान्मुद्रां स्वां च प्रदर्शयेत्।
[अक्षसूत्रमुद्रा] 14-12
लग्नं तिर्यग्गतं कुर्यात्कुञ्चितं दक्षिणात्करात् ।। 49 ।।
चतुष्कमङ्गुलीनां च अङ्गुष्ठाग्रेण संस्पृशेत्।
तर्जनादिक्रमेणैव कनिष्ठान्तं द्विजोत्तम ।। 50 ।।
संस्पृशन्तं कनिष्ठान्तमङ्गुष्ठं चोर्ध्वमानयेत्।
अक्षसूत्रस्य मुद्रैषा नित्यसन्निधिकारिणी ।। 51 ।।
जपं समारभेत्पश्चाददृश्यमितरैर्जनैः।
[जपारम्भात्प्राक्कर्तव्योऽनुसन्धानविशेषः] 14-13
करणं वाङ्भनश्चैव मन्त्रेण परमात्मना ।। 52 ।।
विष्णुना शक्तिरूपेण भावितं भावयेत्पुरा।
चेतसा यदुपारूढं तद्युक्तं वस्तु वाग्गतम् ।। 53 ।।
वस्तुयुक्तं च चैतन्यं वाक्तृतीया च नारद।
समारोहेत्कर्मपदे विकारत्वे शनैश्शनैः ।। 54 ।।
एवं विवर्तते मन्त्रस्तुर्याज्जाग्रावधि क्रमात्।
प्रातिलोम्येन वै विप्र पुनरेव निवर्तते ।। 55 ।।
करणं वाक्स्वरूपं स्याद्वाक्च चिद्रूपिणी भवेत्।
यच्चित्तं स भवेन्मन्त्रो यो मन्त्रस्स त्वजो हरिः ।। 56 ।।
ब्रह्माद्यजाग्रत्पर्यन्तं पुनरत्रैव संनयेत्।
व्यापकं यत्परं ब्रह्म शक्तिर्नारायणी च या ।। 57 ।।
सा ह्येव परिणामेन तुर्याख्यं(1) भजते पदम्।
तुर्यं सुषुप्ततामेति सुषुप्तं स्वप्नतां व्रजेत् ।। 58 ।।
(1. खं S.)
जाग्रत्वं स्वप्नमायाति एवं जाग्रादितः पुनः।
[जाग्रदादिभेदनिरूपणम्] 14-14
भगवच्छक्तिपर्यन्तं सन्धानं चैकतां स्मरेत् ।। 59 ।।
यदनित्यमिदं विप्र चित्रवत्परिदृश्यते।
बाह्यं विषयजालं च जाग्रदेतदुदाहृतम् ।। 60 ।।
अनित्यप्रतिपत्तिर्या अस्मिन्नुपरि सर्वदा।
भङ्गुरे स्वप्ततुल्यो यस्स स्वप्नो जाग्रकारणम् ।। 61 ।।
सुषुप्तं शान्ततां विद्धि स्वप्नवृत्तेः परं तु यत्।
शक्तिरूपस्य वै विष्णोः प्राप्तस्तुर्यत्वमेति सः ।। 62 ।।
तया सह समत्वं च तुर्यातीतं तदुच्यते।
मन्त्रातीतं परं मन्त्रं स्थूलसूक्ष्मद्वयं तथा ।। 63 ।।
आत्मानं पञ्चमं विप्र एकत्वेनानुसन्धयेत्।
कृत्वैवमनुसन्धानं प्रारभेत जपं तथा ।। 64 ।।
[अन्तर्हृत्पुण्डरीकादिव बहिरक्षसूत्रे मन्त्रस्योदय क्रमभावनम्] 14-15
हृत्पुण्डरीकमद्यस्थो भारूपः परमेश्वरः।
निर्मलस्फटिकप्रख्यः प्रस्फुरन्यः स्वतेजसा ।। 65 ।।
तस्य शब्दमयी शक्ती(क्तिः )ज्वालावन्निस्सृतं महत् (ताहिया)।
तद्धर्मधर्मिणी शुद्धा तस्या वै वर्णसन्ततिः ।। 66 ।।
निस्सृता मन्त्रजननी तदग्राच्चैव मन्त्रराट्।
निस्सृतं(तु) यथा पुष्पं लताग्रान्मुनिसत्तम ।। 67 ।।
एवमेवाक्षसूत्रे तु उदितं च क्रमं स्मरेत्।
हृल्लयं तल्लयीकुर्याद्धृल्लयस्य च तत्तथा ।। 68 ।।
एकस्य मन्त्रनाथस्य अन्तर्बाह्योदितस्य च।
[जपसङ्ख्याविधानम्] 14-16
यदैकं तज्जपो विप्र लक्षसंख्याभिधो भवेत् ।। 69 ।।
एवं लक्षस्थितो यस्माज्जपस्तु परिसंख्यते।
प्रयत्नादक्षसूत्रेण जपसंख्या तु सा स्मृता ।। 70 ।।
अनेन क्रमयोगेन विष्णुवत्करणं भवेत्।
विष्णुवद्योगमाश्रित्य अक्षमक्षं समाहरेत् ।। 71 ।।
सह प्राणोदयेनैव निष्ठाक्षं यावदेव हि।
[मेरोर्लङ्घननिषेधः] 14-17
ततः प्रदक्षिणं कुर्यान्मेरुमूर्तिस्थितस्य च ।। 72 ।।
निष्कळस्य च मन्त्रस्य तदूर्ध्वेऽवस्थितस्य च।
ग्रन्धीरूपस्य च विभोरमलस्य महात्मनः ।। 73 ।।
पृष्ठेन लङ्घनं यस्माद्वर्जनीयं तु नारद।
मेरुमूलेऽङ्गुलिप्रान्तं शिष्टं कृत्वा शनैश्शनैः ।। 74 ।।
अङ्गुष्ठस्य भ्रमं कुर्यान्नमेरोर्लङ्घनं भवेत्।
अङ्गुष्ठमूलमध्ये च भ्रामणीयं च छत्रवत् ।। 75 ।।
विधिनाऽनेन जप्तव्यो मन्त्रो ध्यानसमन्वितः।
[शान्तिकपौष्टिकादिनिमित्तभेदेन मन्त्रस्य भिन्नभिन्नरूपतया ध्यानविधानम्] 14-18
शांन्तिके स्फाटिकाभं च पीतं ध्यायेच्च पौष्टिके ।। 76 ।।
वश्ये किंशुकपुष्पाभमाकृष्टौ नृपशैलवत्।
मारणे कज्जळाभं तु विद्वेषे चाषपक्षवत् ।। 77।।
उच्चाटने च धूम्राभं मन्त्रं ध्यायेज्जपेत्सदा।
[परापरभेदेन जपस्य द्वैविध्यम्] 14-19
परापरस्वरूपेण जपस्तु द्विविधः स्मृतः ।। 78 ।।
परदेहप्रदे(वे)शे च तत्त्वानां प्रेरणे द्विजं।
क्रूरकर्मणि सिध्यर्थं जपो ज्योतिर्मयस्स्मृतः ।। 79 ।।
तत्रान्तर्लीनममलं शब्दं तु परिभावयेत्।
भुक्तिमुक्तिप्रसिध्यर्थं दोषदुःखक्षयङ्करम् ।। 80 ।।
शान्तौ तु सर्वकार्याणां सिध्यर्थमविचारतः।
सुखसौभाग्यसिध्यर्थं तथाऽप्याधानकर्मणि ।। 81 ।।
जपो भवति शब्दाख्यस्तत्रान्तस्तु विभावयेत्।
निशाम्बुकणसङ्काशप्रकाशात्मजनार्दनम् ।। 82 ।।
हृत्पद्मात्तु स्वमन्त्रेणं बावयेच्छब्दमुत्थितम्।
न