जयाख्यसंहिता/पटलः १३
← पटलः १२ | जयाख्यसंहिता पटलः १३ [[लेखकः :|]] |
पटलः १४ → |
जयाख्यसंहितायाः पटलाः |
---|
पटलः - 13
अथ बाह्ययागाख्यानं नाम त्रयोदशः पटलः। 13-1
श्रीभगवान्
पुराऽने(1)न विधानेन कृत्वा यागं तु मानसम्।
कर्मणा भक्तियुक्तेन मण्डलस्थं यजेत्ततः ।। 1 ।।
(1. तेन S.)
हृत्पुण्डरीकमध्ये य इष्टो मन्त्रगणः पुरा।
प्रस्फुरन्तं तमत्रैव प्राणापानगतं स्मरेत् ।। 2 ।।
विसर्जयेन्न तं यावन्न कृता बाह्यतः क्रियाः।
न्यसनीयो ह्ययं(2) यस्मादर्घ्यपात्रे द्विजोत्तम ।। 3 ।।
(2. सौ C. L.)
मण्डले ह्यक्षसूत्रे च कुण्डमध्यगतेऽनले।
[प्रश्नप्रतिवचनमुखेन बाह्ययागस्यावश्यकत्वनिरूपणम्] 13-2
[नारदः]
भगवंस्त्वत्प्रसादेन ज्ञातो ह्यज्ञाननाशनः ।। 4 ।।
ज्ञानविज्ञानसहितो हृद्यागस्सर्वसिद्धिदः।
किमर्थं बाह्यतः पूजा कार्या वै मण्डलान्तरे ।। 5 ।।
एतदाचक्ष्व भगवंस्तत्र मे संशयो महान्।
श्रीभगवान् ---
बाह्योत्था बासना विप्र बहुजन्मार्जिता दृढा ।। 6 ।।
लोलीकृतोऽनया ह्यात्मा शुद्धोऽशुद्धस्वरूपया।
या मन्त्रविषया शुद्धा क्रिया शान्तस्वरूपदा ।। 7 ।।
समुत्थानविनाशार्थमस्यास्सा संप्रकीर्तिता।
स बाह्याभ्यन्तराब्यां च क्रियाभ्यां तन्मयो भवेत् ।। 8 ।।
दृढोत्थवासनानां च तानवं स्याच्छनैश्शनैः।
यन्मयस्साधको विप्र देहस्थस्सांप्रतो भवेत् ।। 9 ।।
तन्मयो देहपातात्स्यादित्येतत्कथितं मया।
नारदः ---
ब्रूहि मे देवदेवेश मण्डले यजनं यथा ।। 10 ।।
स्वरूपं मण्डलस्यापि यदि सानुग्रहोऽसि मे।
श्री भगावान्
[मण्डल विन्यासः] 13-3
शृणु मण्डलविन्यासं विष्णोरद्भुततेजसः ।। 11 ।।
प्रवक्ष्यामि समासेन येन श्रोयो ह्यवाप्स्यसि।
परीक्ष्य विविधामुर्वीं गन्धवर्णस्सान्विताम् ।। 12 ।।
लाङ्गलाद्यैः पुरा यत्नास्कृत्वा तु परिशोधिताम्।
दुष्टशल्यविनिर्मुक्तां हस्तिभारवतीं दृढाम् ।। 13 ।।
तत्पृष्ठे मण्डपं कुर्यात्सुधाधवलितं शुभम्।
वितानकपताकाभिर्वस्त्रैश्च सुपरिष्कृतम् ।। 14 ।।
तत्रादौ लक्षयेद्बुध्या ब्रह्मस्थानं प्रयत्नतः।
वृक्षजाम्()उन्नतां कुर्याद्वेदिं याग(गे)द्विजाधिका(यता)म् ।। 15 ।।
अस्त्राभिमन्त्रितं कृत्वा पञ्चगव्यं तु तेजसा।
उपलिप्याग्रतस्सूत्रं वेदिकामभिमन्त्र्य च ।। 16 ।।
दद्यात्पू(1)र्वपरं सूत्रं तत्र मध्ये च नारद।
अष्टहस्तं तदर्द्धं वा चतुरस्रं तु साधयेत् ।। 17 ।।
(1. पूर्वा A.)
मानादर्धार्धसूत्रेण ब्रह्मस्थानस्थितेन च।
दिग्द्वयान्मध्यसूत्रं तु चिन्हीकृत्य समं यथा ।। 18 ।।
चिन्हाचिन्हगतं(2) सूत्रं कृत्वा तदनु नारद।
उल्लङ्घ्योल्लङ्घ्य वै कुर्याल्लांछने सौम्ययाम्यगे ।। 19 ।।
(2. चि C. L.)
एवमेवापरे चिन्हे तद्वत्तस्मिंश्च दिग्द्वये।
कुर्यात्तेनैव सूत्रेण चिन्हा(3)च्चिन्हगतेन च ।। 20 ।।
(3. चि C. L.)
प्रसार्योर्द्धस्थितं सूत्रं मत्स्यसन्धिद्वये द्विज।
दक्षिणोत्तरदिग्यातं प्राक्पूर्वापरसंस्थितम् ।। 21 ।।
ततो मानार्धसूत्रेण चिन्हयेद्दिक्चतुष्टयम्।
तेषु चिन्हेषु वै पृष्ठे कृत्वा तच्चाथ सूत्रकम् ।। 22 ।।
सल्लांछ्य कोणभागान्वै पूर्वतुल्यैस्तु लांछितैः।
दिद्गळस्थेन सूत्रेण ततस्सूत्रचतुष्टयम् ।। 23 ।।
दद्याद्वै क्षेत्रसिध्यर्थं कोणात्कोणे च नारद।
समैः पदैस्तु तत्क्षेत्रं कृत्वा षोडशधा ततः ।। 24 ।।
चतुर्भिस्तु पदैर्मध्ये पद्ममष्टदळं लिखेत्।
तद्वदष्टासु वै कुर्यादाशासु कमलाष्टकम् ।। 25 ।।
दिक्षु पद्मचतुष्कं तु देवीनां पूजनाय च।
विदुक्ष्वन्यानि चत्वारि सत्यान्ता येष्ववस्थिताः ।। 26 ।।
तेषां मध्ये तु नवमं पूज्यते यत्र केशवः।
मध्यमं कमलं क्षेत्रं चतुर्द्धा भ्रामयेन्मुने ।। 27 ।।
वर्जयित्वाऽष्टमांशं तु व्योम तेनार्धतो बहिः।
भ्रमणेनान्तरस्थेन भवति द्विज कर्णिका ।। 28 ।।
केसराणि द्वितीयेन तृतीये पत्रसन्धयः।
पत्राग्राणि चतुर्थेन भ्रमणोपरि कल्पयेत् ।। 29 ।।
कोणात्कोणगतं तस्मिन्पद्मे सूत्रद्वयं क्षिपेत्।
सूत्राणामन्तरे भूयः क्षिपेत्सूत्राष्ठकं तथा ।। 30 ।।
पद्मसन्धिस्थसूत्रेण दिक्क्रमेण दळाष्टकम्।
भ्राम्य वृत्तार्थयोगेन एवमन्ये बहिस्थिताः ।। 31 ।।
पद्माः कार्याः प्रयत्नेन (1)सुसमाश्च परस्परम्।
चतुर्धा केशरांशं तु पत्रे पत्रे विभज्य च ।। 32 ।।
(1. समृद्धा A.)
केसरत्रितयं मद्ये एकैकेन यथा भवेत्।
संसक्तनवपद्मे तु गर्भस्यार्धेन वीधिकाः ।। 33 ।।
आधाय वीधिविस्तारान् षडंशं वाऽथ पञ्चकम्।
तेन पद्मसमूहस्य चतुरश्रं लिखेद्बहिः ।। 34 ।।
तत्र्रिधा विभजेद्दिक्षु पीठः स्यात्पादगात्रभृत्।
दिग्पद्मं परितो द्वारं कुर्याद्दिक्षु चतुर्ष्वपि ।। 35 ।।
तस्मिन्भागद्वयेनैव कर्णं कुर्याद्द्विजोत्तम।
चतुर्भिरुपकर्णं तु कोणं कोणं भवेत्ततः ।। 36 ।।
द्वाविंशतिपदैः पूर्णमेकीकृत्य विशोध्य च।
विविक्तं पश्चिमद्वारं कुर्याद्रेखाविवर्जितम् ।। 37 ।।
कणिंकां पीतवर्णेन पीतरक्तेन केसरान्।
पत्राष्टकं सितं कुर्यादन्तराळं नभस्समम् ।। 38 ।।
पीतेन पीठकोणादि गात्रकाण्यरुणेन तु।
सितं द्वारचतुष्कं तु कोणान्रक्तेन भूषयेत् ।। 39 ।।
बाह्ये रेखात्रयं दद्याद्रक्तपीतासितान्तिमम्।
अन्तःशक्तिगतेनैव स्वरषोडशकेन च ।। 40 ।।
[मण्डले प्रकारभेदाः फलभेदाश्च] 13-4
अथवा द्वादशारं तु द्वादशस्वरभावितम्।
अष्टारं विलिखेन्नित्यं नाभिनेमिसमन्वितम् ।। 41 ।।
वर्गाष्टकेन वै व्याप्ता अरा ऋझ्वस्सुशोभनाः।
चक्रनाभौ लिखेत्पद्मं पूर्वलक्षणलक्षितम् ।। 42 ।।
शङ्खोदरेऽथवा लेख्यं पङ्कजं सुमनोहरम्।
कौमोदक्यां पुरो वाऽपि बिम्बे वा कौस्तुभोपमे ।। 43 ।।
पुष्पमालाकृतौ वाऽथ यथाकामाप्तये मुने।
स्वलांछनाकृतौ यागे ददात्यभिमतं विदुः ।। 44 ।।
नवनाभौ परां सिद्धिमैहिकामुष्मिकीं लभेत्।
पद्मोदरे कृते यागे सदा लक्ष्मीः प्रवर्धते ।। 45 ।।
चक्रमध्ये भवेद्राज्यं शत्रुपक्षक्षयङ्करम्।
शान्तिकर्मणि वै शङ्खे गदायां सुभगो भवेत् ।। 46 ।।
कौस्तुभे राज्यलाभस्तु पुष्टिर्वै पुष्पमण्डले।
एष पद्मोदरो यागः पद्मादेर्मध्यगः स्मृतः ।। 47 ।।
[मण्डलस्येव कुम्भ पुष्पमण्डल स्थण्डिल प्रतिमादीनामपि बाह्ययाग प्रदेशत्वविधानम्] 13-5
नानावर्णकसंयुक्तस्त्वन्यः कुम्भोदरे श्रुणु।
सौवर्णं राजतं ताम्रं मृण्मयं वा घटं दृढम् ।। 48 ।।
काळमूलैस्तु रहितं त्रासप्राणविवर्जितम्। ()
क्षीरपूर्णं तु तं कुर्याद्दध्ना वा गन्धवारिणा ।। 49 ।।
सर्वरत्नौषधीगाढं कुशदूर्वाफलोदरम्।
सिद्धार्थकाक्षतोपेतं कुङ्कुमोदकभावितम् ।। 50 ।।
प्रशस्ततरुशाखाभिः कोमलाभिरलङ्कृतम्।
शङ्खस्वस्तिकपद्मैश्च चर्चितं चन्दनेन च ।। 51 ।।
शोभितं च सितैर्वस्त्रैः पट्टैश्चैव स्रगादिभिः।
तन्मध्ये चासनं पद्मं तन्मध्ये तु जनार्दनः ।। 52 ।।
वैनतेयोपरिस्थस्तु लक्ष्माद्याः पूर्ववत्स्थिताः।
संक्षेपपूजनार्थं तु कुम्भे यागः प्रकीर्तितः ।। 53 ।।
उपलिप्य स्थलं वाथ गोमयेन मृदाम्भसा।
वर्त्तुळं पीयात्तत्र दद्याद्वा चतुरश्रकम् ।। 54 ।।
यथा कालोद्भवैः पुष्पैः पवित्रैः (1)कटमुक्तये।
तत्र संपूजयेद्देवमथवा मुनिसत्तम ।। 55 ।।
(1. कूट A.)
अहतं सुसितं वस्त्रं धूपगन्धादिवासितम्।
पृष्ठतस्तु स्थले दत्वा तत्रोपरि यजेद्धरिम् ।। 56 ।।
प्रतिमां कारयेद्वाऽथ घातुमृच्छैलदारुजाम्।
सपद्मं केवलं वाऽथ भद्रपीठं प्रकल्पयेत् ।। 57 ।।
केवले तोयमध्ये वा दीप्थेऽग्नौ धूमवर्जिते।
स्थितमायतने वाऽथ साकारं परमेश्वरम् ।। 58 ।।
शङ्खचक्रधरं विष्णुं सुरसिद्धावधारितम्।
ऋषिभिर्मनुजैर्वाऽथ भक्तियुक्तैः प्रतिष्ठितम् ।। 59 ।।
तन्मूर्त्तौ च स्वमन्त्रेण यजेदावाहनं विना।
भूमिष्ठे ह्यचले विप्र पाषाणे चक्रलांच्छिते ।। 60 ।।
चले वा शङ्खपद्माख्यमुद्राभिर्विप्र मुद्रिते।
तत्रोपरि यथापूर्वं तथा संपूजयेत्प्रभुम् ।। 61 ।।
एभिर्यागपरैर्मध्यादेकं निष्पाद्य यत्नतः।
कर्मणा भक्तियुक्तेन पूजयेत्सर्वकामदम् ।। 62 ।।
यथाशक्त्युपचारेण विभवेन तु वा मुने।
[अथ मण्डले बाह्ययागप्रकारः]
अर्घ्यपात्रं समादाय सुवर्णरजतादिजम् ।। 63 ।।
शैलं मृद्दारुजं वाऽथ पलाशांबुजपर्णजम्।
अस्त्रोदकेन प्रक्षाल्य लेपयेत्कुङ्कुमादिभिः ।। 64 ।।
अनेकाङ्गं च तत्रार्घ्यं योजयेदस्त्रसंस्कृतम्।
[अर्ध्यद्रव्याणि] 13-6
सिद्धार्थकास्तिलादूर्वास्सयवास्सिततण्डुलाः ।। 65 ।।
तोयक्षीरफलोपेता इदमर्घ्यमुदाहृतम्।
आप्याय्य मूलमन्त्रेण सुधासन्दोहमूर्तिना ।। 66 ।।
[अर्ध्यस्य विनियोगः] 13-7
पात्रद्वयस्थितं तेन कृत्वा भागद्वयं मुने।
एकस्मिन्निष्कलाधारे संस्थितं निष्कळात्मकम् ।। 67 ।।
मन्त्रचक्रं स्ववीर्येण प्रस्फुरत्तच्च विन्यसेत्।
संस्थाप्य मण्डलाग्रे तु पूज्यं पुष्पादिना पुरा ।। 68 ।।
धारणाद्वितयेनैव अग्नीषोममयेन च।
सम्यग्द्वितीयं संस्कुर्याद्यथावदवधारय ।। 69 ।।
प्रचण्डकिरणव्रातैर्भास्करीयैर्दहेत्पुरा।
संचिन्त्य भस्मभूतं तु ततः पूर्णेन्दुरश्मिभिः ।। 70 ।।
आपूर्यामृतकल्लोलधारापातेन नारद।
कान्तिमच्चिन्तयेद्भूयो यद्दग्धं भानुना तु वै ।। 71 ।।
मूलमन्त्रादिभिर्मुख्यैर्मन्त्रैस्तदभिमन्त्र्य च।
बध्वाकामदुधां मुद्रां स्रवन्तीं (1)मन्त्रसंयुताम् ।। 72 ।।
(1. पद्म A.)
गोरूपां हिमशैलाभां निराधारपथस्थिताम्।
गन्धदिग्धौ करौ कत्वा अर्ध्यपात्रोद्धृतेन च ।। 73 ।।
मण्डलं मण्टपं प्रोक्ष्य यागद्रव्याण्यशेषतः।
दाहयेदस्त्रमन्त्रेण मूलेन प्लावयेत्ततः ।। 74 ।।
निर्मलो द्रव्यसङ्घश्च यागयोग्यो भवेत्तदा।
नमस्कृत्य ततो विष्णुं मूलमन्त्रं समुच्चरेत् ।। 75 ।।
[द्वारपूजा] 13-8
स्वमूर्तिसंस्थितः पूज्यः पुष्पैरञ्जलिसंस्थितैः।
अर्ध्यपात्रं समादाय पुष्पं धूपं विलेपनम् ।। 76 ।।
दीपनैवेद्यपर्यन्तं द्वारं बाह्यं ततो यजेत्।
[द्वारदेवतापूजा] 13-9
उदुम्बरस्य मूले तु बहिर्द्वारस्य मध्यतः ।। 77 ।।
भूमिष्ठं क्षेत्रपालं च पूजयेत्तदनन्तरम्।
द्वारोपरि स्थितां लक्ष्मीमूर्ध्वसंस्थ उदुम्बरे ।। 78 ।।
दक्षिणोत्तरशाखाभ्यां मूले चण्डप्रचण्डकौ।
तद्वज्जयं च विजयं बाह्ये द्वारस्य चान्तरे ।। 79 ।।
शाखाद्वयस्य मध्ये तु वामदक्षिणतः क्रमात्।
गङ्गां च यमुनां चैव पूजयेत्तदनन्तरम् ।। 80 ।।
तेनैव क्रमयोगेन द्वारस्याभ्यन्तरस्थितौ।
निधीशौ शङ्खपद्माख्यावर्घ्यपुष्पादिभिर्यजेत् ।। 81 ।।
[यागमंदिरप्रवेशविधिः] 13-10
कृत्वैव द्वारयागं तु ततः पुष्पं च सम्मुखम्।
गृहीत्वाऽङ्गुष्ठपूर्वेण अड्गुलीत्रितयेन तु ।। 82 ।।
अभिमन्त्र्य तदस्त्रेण चक्रं तदुपरि स्मरेत्।
निशितारं ज्वलद्रूपं वर्षन्तमनलाशनिम् ।। 83 ।।
क्षयकृद्विघ्नजालानां क्षिपेद्यागगृहान्तरे।
दक्षिणां तर्जनीं विप्र कुर्यादूर्ध्वमुखीं ततः ।। 84 ।।
शिखामन्त्रेण संयुक्तां विद्युद्विलसितप्रभाम्।
स्मृत्वा भ्रामयमाणस्तां संविशेद्यागमन्दिरम् ।। 85 ।।
[उपवेशनशेषभूतमासनप्रोक्षणादि]
स्वासनं च ततः प्रोक्ष्य अर्ध्यपात्रोदकेन च।
सास्त्रेण ताड्य पुष्पेण तत्पृष्ठे क्रमशो द्विज ।। 86 ।।
आधारशक्तिपूर्वं तु मन्त्रसङ्घं प्रपूजयेत्।
उपविश्य ततः पश्चात्
[पूजनाङ्गभूतावेक्षणप्रोक्षणविशेषौ] 13-11
हृदयस्थं च तत्परम् ।। 87 ।।
तेजो नारायणाख्यं तु तत्कुर्यान्नेत्रमध्यगम्।
वासुदेवाभिधानं तु प्रागुक्तं च समाश्रयेत् ।। 88 ।।
निरीक्ष्य सकलं सम्यक्स्तब्धनेत्रयुगेन च।
मण्डलञ्चार्घ्यपात्रं तु पुनः प्रोक्ष्य कुशाम्भसा ।। 89 ।।
[आधारशक्त्याद्यासनकल्पनतत्पूजनक्रमः] 13-12
पूजनं प्रारभेत्पश्चात्सार्ध्यैः पुष्पैः क्रमेण तु।
आधारशक्तोरारभ्यअनुसन्धानपूर्वकम् ।। 90 ।।
युगावसानं प्राक् दत्वा स्थूलं मन्त्रासनासनम्।
तत्रोर्ध्वे मद्यदेशेऽपि प्रागुक्तविधिना न्यसेत् ।। 91 ।।
द्विरष्टकं तु धर्माद्यं कान्तिमत्पररूपधृत्।
तच्च षोडशकं न्यस्य भूयो भूयो दिगष्टके ।। 92 ।।
सूक्ष्मरूपधरं विप्र प्राक्पदादीशगोचरम्।
पद्मादिवन्हिवेश्मान्तमेकैकस्मिन्न्यसेत्ततः ।। 93 ।।
तदेव गर्भदेशस्थं ह्यनुसन्धाय विनय्सेत्।
भावासनावसानान्तं (नं तत् ) मन्त्रैः स्वैस्स्वैरथार्चयेत् ।। 94 ।।
उपर्युपरि योगेन पुष्पधूपानुलेपनैः।
[चतुरस्रायतमण्डलकल्पनम्]
युगावसाने पीठस्य पृष्ठे विधिसमीपतः ।। 95 ।।
कल्पनाजनितं कुर्याच्चतुरस्रायतं ततः।
मण्डलं देवदेवस्य दक्षिणे मण्डलोपरि ।। 96 ।।
वायव्यकोणादारभ्य यावदीशानगोचरम्।
[गणेशादिपूजनम्] 13-13
तत्रादौ तु स्वमन्त्रेण गणेशं पूजयेत्द्विजः ।। 97 ।।
ततो वागीश्वरीं देवीं तदन्ते गरुडं यजेत्।
पूजयेच्च ततो भक्त्या गुरुं परमसंज्ञितत् ।। 98 ।।
परमेष्ठी ततः पूज्यस्ततः पितृगणं यजेत्।
आदिसिद्धसमूहं च भगवद्ध्यानतत्परम् ।। 99 ।।
अनुज्ञां प्रार्थयेत्तेभ्यो यथानुक्रममेव च।
[हृदयकमलाद्भगवत आवाहन पूजनप्रकारः] 13-14
गृहीत्वा शिरसा तां च तत आवाहयेत्प्रभुम् ।। 100 ।।
आवाह्य मन्त्रेण मुने मुद्रायुक्तेन भक्तितः।
प्रोच्चार्य मूलमन्त्रं तु हृदयस्थं च सर्वगम् ।। 101 ।।
अवतार्य क्रमेणैव रेचकेन शनैश्शनैः।
नाडीभ्यां सन्धिदेशेन नीरूपेणामलेन च ।। 102 ।।
कल्पनारहितेनैव चिद्भावाभासितेन च।
सर्वगस्य ततो विप्र सार्घ्यं पुष्पाञ्जलिं विभोः ।। 103 ।।
निक्षिण्याथोमुखेनैव पाणियुग्मेन मूर्धनि।
लययागोक्तविधिना पूजयेत्प्रथमं ततः ।। 104 ।।
पुष्पार्घ्यलेपनैर्धूपैर्मूलमन्त्रादिभिः क्रमात्।
[लक्ष्म्यादीनां ध्यानपूर्वको क्रमात्।]
ततो भगवतो विष्णोर्भासा भास्वरविग्रहात् ।। 105 ।।
लक्ष्म्यादीर्निस्सृता ध्यायेत्स्फुलिङ्गनिचया यथा।
भोगस्थाने यथायोगमेकैकं विन्यसेत्ततः ।। 106 ।।
[मण्डले मन्त्रन्यासक्रमः] 13-15
मण्डलोपरि मन्त्रं च यथा तदवधारय।
ऊर्ध्वतः पद्ममद्ये तु यथा भूतं तथा न्यसेत् ।। 107 ।।
मूलमन्त्रं द्विजश्रेष्ठ मूर्तियुक्तं तु पूर्ववत्।
तदग्रसंस्थिते पद्मे लक्ष्मीं वै कर्णिकान्तरे ।। 108 ।।
कीर्तिं दक्षिणभागस्थे पृष्ठगे तु जयां न्यसेत्।
मायां चोत्तरपद्मे तु कर्णिकान्तेऽथ(1) विन्यसेत् ।। 109 ।।
(1. न्तेतु Y)
आग्नेये हृदयं मध्ये शिरस्त्वीशानपङ्कजे।
शिखां राक्षसदिङ्भध्ये कवचं वायुगोचरे ।। 110 ।।
अथ मध्यस्थिते पद्मे देवस्य पुरतो दळे।
नेत्रमन्त्रं विन्यसेत्तु विदिक्पत्रेषु चास्त्रराट् ।। 111 ।।
अत्रैव नारसिह्माख्यं( द्यं ) वराहान्तत्रयं क्रमात्।
दिक्षु पत्रत्रयं (ये ) विष्णोर्याम्ये प्रत्यक्तथोत्तरे ।। 112 ।।
लक्ष्मीकमलयन्त्रा (पत्रा )णां सर्वेषां कौस्तुभं न्यसेत्।
तद्वद्धृत्पङ्कजीयानां वनमालां निवेश्य च ।। 113 ।।
कीर्तिपङ्कजपत्राणां पद्ममाहूय विन्यसेत्।
शङ्खं शिखाब्जपत्राणां जयाब्जे चक्रमेव च ।। 114 ।।
ततस्तु तत्र पद्मे तु (2)पत्रस्थां विनय्सेद्गदाम्।
मायाम्बुजच्छदे विप्र न्यसेत्पाशं ततो द्विज ।। 115 ।।
(2. पद्म Y.)
शीर्षाधारे तु वै पद्मे पत्राणामङ्कुसं ततः।
न्यसेद्द्वारचतुष्के तु समाहूय खगेश्वरम् ।। 116 ।।
कर्णिकायां न्यसेत्सत्यं हृन्मन्त्रस्य ततो(थो )परि।
आश्रित्य दक्षिणं भागमथ ब्रह्माम्बुजोपरि ।। 117 ।।
(1)मूर्तं मूर्तव्यपेक्षायां न्यस्तं मन्त्रेषु नारद।
शिरस्यूर्ध्वे तु विन्यस्य वासुदेवं तथैव च ।। 118 ।।
शिखायामुपरि न्यासं कुर्यात्सङ्कर्षणस्य तु।
अथोर्ध्वे कर्णिकायास्तु प्रद्युम्नं कवचोपरि ।। 119 ।।
लक्ष्म्यादिष्वनिरुद्धं च आधेयत्वेन चोपरि।
ततस्सप्ताक्षरं मन्त्रं मूलमन्त्रोपरि न्यसेत् ।। 120 ।।
प्राच्यादावीशपर्यन्तमिन्द्राद्यं चाष्टकं बहिः।
नागेशं विन्यसेच्छेषमधःस्थमथ चोर्ध्वगम् ।। 121 ।।
ब्रह्माणं च सुरेशानमेवं लोकेशसन्ततिम्।
न्यसेत्तदनु चास्त्राणि बहिस्तेषां तु विन्यसेत् ।। 122 ।।
पूर्वादिक्रमयोगेन यावदीशानगोचरम्।
अधो नागेश्वरास्त्रं च ब्रह्मास्त्रमुपरि न्यसेत् ।। 123 ।।
त्र्यम्बकोत्तरदिग्भ्यां तु मद्यतः खस्थितं स्मरेत्।
विष्वक्सेनं द्विजश्रेष्ठ आयान्तं गगनान्तरात् ।। 124 ।।
एवं न्यासं पुरा कृत्वा मन्त्राणां मण्डलान्तरे।
[अथ मन्त्राणां यथान्यासं ध्यानविधिः]
ततस्संचिन्तयेद्ध्यानमेकैकस्य यथास्थितम् ।। 125 ।।
मूलमन्त्रस्य देवा(वी )नां पुरा प्रोक्तंय मया मुने।
नोक्तं यद्धृदयादीनां तदेकाग्रमनाः श्रुणु ।।126 ।।
[हृदयमन्त्रध्यानप्रकारः] 13-16
सितशोणितवर्णाभमेकवक्त्रं चतुर्भुजम्।
गरुडासनसंस्थं च पद्मशङ्खकरान्वितम् ।। 127 ।।
मुद्रालङ्खृतिमत् ध्यायेद्दक्षिणं चापरं करम्।
वामपाणिं द्वितीयं च संयुक्तमभयेन तु ।। 128 ।।
सिताभरणमाल्यैश्च कर्पूरालिप्तविग्रहम्।
सम्मुखं देवदेवस्य हृन्मन्त्रं संस्मरेत्सदा ।। 129 ।।
[शिरोमन्त्रध्यान प्रकारः] 13-17
बन्धुजीवोपमं रक्तं पद्मचक्रोद्यतंद्विज।
स्वमुद्रासंयुतं ध्यायेत्पाणिना वरदेन च ।। 130 ।।
कुङ्कुमेन विलिप्ताङ्गं रक्तभासं मनोहरम्।
रक्ताभरणसंयुक्तं रक्तपुष्पविभूषितम् ।। 131 ।।
सम्मुखं मन्त्रनाथस्य शिरोमन्त्रं च संस्मरेत्।
[शिखामन्त्रध्यानप्रकारः] 13-18
चलाळिपटलाभं तु पद्मकौमोदकीधरम् ।। 132 ।।
आत्मीयमुद्रां धर्त्तारं युक्तं चाभयपाणिना।
युक्तं मृगमदेनैव पुष्पाद्यैरसितैश्च तम् ।। 133 ।।
ईषत्स्मिताननं ध्यायेच्छिखामन्त्रं च नारद।
[कवचमन्त्रध्यानप्रकारः] 13-19
मधुपिङ्गळवर्णाभं शङ्खचक्रधरं तथा ।। 134 ।।
स्वमुद्राव्यग्रितं ध्यायेत्पाणियुग्मयुतो(तं) परम्।
मिश्रैर्विलेपनैर्लिप्तं मिश्रैः पुष्पादिभिस्तथा ।। 135 ।।
निरीक्ष्य(क्ष )माणं च विभोः कवचं संस्मरेद्द्विज।
[नेत्रमन्त्रध्यानप्रकारः] 13-20
रक्तपीतप्रभं चैव गदापद्मोद्यतं क्रमात् ।। 136 ।।
दक्षिणापरहस्ताभ्यां युक्तं चैव स्वमुद्रया।
सकाश्मीरेण लिप्ताङ्गं चन्दनेन सितेन च ।। 137 ।।
पुष्पाभरणवासोभिः पीतैर्मण्डितविग्रहम्।
संस्मरेन्नेत्रमन्त्रं तु सुनेत्रं च स्मिताननम् ।। 138 ।।
[अस्त्रमन्त्रध्यानप्रकारः] 13-21
राजोपलद्युतिमुषं गदाचक्रोद्यतं गहत्।
युक्तं चैव स्वमुद्राभ्यां सुवर्णसदृशैः शुभैः ।। 139 ।।
युक्तमाभरणाद्यैश्च प्रळयानलविक्रमम्।
अस्त्रमन्त्रं विभोर्ध्यायेत्सम्मुखं स्वामिनः सदा ।। 140 ।।
एकवक्त्राः स्मृताः सर्वे सर्वे च गरुडा(1)सनाः।
इतीदमुक्तमङ्गानां घ्यानं पापहरं शुभम् ।। 141 ।।
(1. ननाः Y.)
नृसिंहपूर्वमन्त्राणां त्रयाणामवधारय।
[नृसिह्ममन्त्रध्यानप्रकारः] 13-22
प्रळयाम्बुदनिर्घोषं (1)प्रोद्वमन्तं च पावकम् ।। 142 ।।
(1. द्वह Y.)
पद्मशङ्खगदाचक्रधर्त्तारं परमेश्वरम्।
द्रवच्चामीकराभासं नानाभरणभूषितम् ।। 143 ।।
नानाविलेपनाड्गं च प्रभूतस्रग्धरं द्विज।
रक्तकौशेयवसनं नृसिह्मं संस्मरेद्विभुम् ।। 144 ।।
[कपिलमन्त्रध्यानप्रकारः] 13-23
उदयादित्यसङ्काशं पिङ्गलश्मश्रुलोचनम्।
चतुर्भुजमुदाराङ्गं पद्माद्यैरुपशोभितम् ।। 145 ।।
सितवस्त्रोत्तरीयं च मुक्ताभरणभूषितम्।
सितमाल्यधरं ध्यायेत्कापिलं मन्त्रनायकम् ।। 146 ।।
[वाराहध्यानप्रकारः] 13-24
राजाश्मराशिवर्णाभं पीताभरणभूषितम्।
महाद्युतिधरं ध्यायेच्चतुर्हस्तं च नारद ।। 147 ।।
प्राग्वल्लाञ्छनसङ्घेन कमलाद्येन मण्डित्।
(2)वराहमन्त्रनाथं च मधुपिङ्गळलोचनम् ।। 148 ।।
(2. वाराहं A.)
चलद्विद्युद्भुवं रौद्रं ज्वालाश्मश्रुसटं(3) स्मरेत्।
बालचन्द्राग्रतुल्येन युक्तं दंष्ट्राद्वयेन तु ।। 149 ।।
(3. जेटं Y)
पद्मासनोपविष्टास्च चिन्तयन्तः स्वकारणम्।
सम्मुखाः (4)कर्णिकाधःस्थाः स्मर्तव्याः सर्वदा मुने ।। 150 ।।
(4. कास्तस्य Y.)
[कौस्तुभादिध्यानप्रकारः] 13-25
कौस्तुभं द्विभुजं ध्यायेत्सहस्रार्कसमप्रभम्।
नानावर्णधरां देवीं वनमालां तथैव च ।। 151 ।।
कान्तां कमलपत्राक्षीं प्रौढस्त्रीसदृशीं द्विज।
पुण्डरीकप्रबं पद्मं शङ्खं कुन्देन्दुसन्निभम् ।। 152 ।।
राजोपलप्रभं चक्रं हेमाभां संस्मरेद्गदाम्।
द्विरष्टवर्षवत्कान्तां कुमारीं नवयौवनाम् ।। 153 ।।
[गरुडध्यानप्रकारः] 13-26
रक्ततुण्डं महाप्राणं भीमभुकुटिलोचनम्।
द्रवच्चामीकराकारं पक्ष्मण्डलमण्डितम् ।। 154 ।।
संस्मरेद्गरुडं विप्र गृध्रवक्रं पृथूदरम्।
[पाशाङ्कुशयोर्ध्यानप्रकारः] 13-27
नवदूर्वाङ्कुरश्यामं पाशेशं पन्नगाननम् ।। 155 ।।
संस्मरेदङ्कुशं कृष्णं दीर्घनासं भयानकम्।
स्वमुद्रालङ्कृताः सर्वे द्विभुजाश्चारुकुण्टलाः ।। 156 ।।
ध्यातव्याः पुरुषाकाराः स्वप्रभाभिर्विराजिताः।
एतल्लाञ्छनमन्त्राणां ध्यानमुक्तं मया मुने ।। 157 ।।
[सत्यादिपञ्चकध्यानप्रकाराः] 13-28
सत्यादीनामथ ध्यानं समासादवधारय।
द्विभुजं संस्मरेत्सत्यं सितमिन्दुशताकृतिम् ।। 158 ।।
वरदाभयहस्तं च ध्यानोन्मीलितलोचनम्।
सितकौशेयवसनं मुक्तादामाद्यलतङ्कृम् ।। 159 ।।
सितचन्दनलिप्ताङ्गं सितपुष्पविभूषितम्।
ऊर्ध्वस्थं मन्त्रनाथस्य ब्रह्मपु(प )त्रस्थितं स्मरेत् ।। 160 ।।
पद्मासनेनोपविष्टं प्रसन्नवदनं द्विज।
एवं विधं ततो ध्यायेद्वासुदेवं चतुर्भुजम् ।। 161 ।।
शङ्खपद्मधरं चैव वरदाभयदं विभुम्।
प्रशान्तहुतभूग्रूपं न सितं नातिचारुणम् ।। 162 ।।
ध्यायेत्सङ्कर्षणं देवं प्रद्युम्नं संस्मरेत्ततः।
पीतचम्पकवर्णाभं कमलायतलोचनम् ।। 163 ।।
शरद्गगनसङ्काशमनिरुद्धं स्मरेत्ततः।
वासुदेवसमाः सर्वे भुजा(1)भरणलाञ्छनैः ।। 164 ।।
(1. भूषण Y.)
उपविष्टास्तथैवेते ब्रह्मरन्ध्राम्बुजेषु च।
[सप्ताक्षरमन्त्रध्यानप्रकारः] 13-29
सुशुद्धस्फटिकप्रख्यं नीरूपमिव (मपि )रूपिणम् ।। 165 ।।
सर्वाकारधरं चैव सर्वाकारविवर्जितम्।
सर्वतः पाणिपादं च सर्वतोऽक्षिशिरोमुखम् ।। 166 ।।
प्रसन्नरश्मिजालेन स्फटिकामलरूपिणा।
स्वदेहनिस्सृतेनैव भासितं परितः प्रभुम् ।। 167 ।
प्रतिबिम्बति वै यस्मिन्मन्त्रचक्रं यथास्थितम्।
ध्यायेत्सप्ताक्षरं मन्त्रं भोगस्थानगतं मुने ।। 168 ।।
एवं ध्यात्वा समभ्यर्च्य यथान्यासक्रमेण च।
[घ्यानानानन्तरं न्यासक्रमेण मन्त्रगणस्य बाह्ययागप्रकारः] 13-30
अर्घैः पाद्यैस्तथा पुष्पैः सुगन्धैरनुलेपनैः ।। 169 ।।
शालिपूर्णोत्थितागारपृष्ठसंस्थैरनेकशः।
सुगन्धघृतदीपैश्च पुष्पालम्बनचर्चितैः ।। 170 ।।
महामोदैश्शुभोद्दीपैरच्छिन्नैर्गुग्गुलान्वितैः।
भक्ष्यैर्भोज्यैस्तथा लेह्यैः पेयैरन्यैरनेकधा ।। 171 ।।
मधुपर्कैश्च मात्राभिः फलमूलैरनेकशः।
पायसैर्विविधैर्दिव्यैः मोदकैः कृसरादिभिः ।। 172 ।।
सुसंस्कृतैश्च बहुभिर्मध्वाज्यादिपरिप्लुतैः।
एकैकस्मिंस्तु वै भोगे मुद्रां कामदुघां पुरा ।। 173 ।।
समन्त्रां पूर्ववद्ध्यायेत्प्रोक्षयेर्दर्घ्यवारिणा।
दत्वा पुष्पार्घ्यमुपरि संस्पृशेद्विष्णुपाणिना ।। 174 ।।
निवेदयेत्ततो विप्र शिरसाऽवनतेन च।
यत्किंञ्चन्मानसे यागे पुरा प्रोक्तं मया चते ।। 175 ।।
तत्सर्वं देवदेवस्य बहुमूर्तं निवेदयेत्।
असन्निधिश्च यो भोगो ह्यङ्गभावमनुव्रजेत् ।। 176 ।।
तत्तद्ध्यात्वा तु मनसा भक्त्या विष्णोर्निवेदयेत्।
यथानुक्रमतो ह्येवं सर्वमन्त्रगणं मुने ।। 177 ।।
इष्ट्वा पूर्वं विधानेन भूयः संपूज्य केशवम्।
[पुष्पाञ्जलिप्रकारः] 13-31
मूलमन्त्रं समुच्चार्य पुष्पैरापूर्य चाञ्जलिम् ।। 178 ।।
तन्मद्ये परमात्मानं मन्त्रं माणिक्यदीधितिम्।
समस्तमन्त्रसंलीनं ध्यायेदुद्धारयोगतः ।। 179 ।।
पूरकादिविभागेन शब्देनातिप्लुतात्मना।
यावच्छब्दावसानस्थो व्यज्यतेऽसावनेकधा ।। 180 ।।
तन्त्रीशब्दात्मना विप्र ततो भासात्मना तु वै।
ह्लादात्मना च तदनु आनन्दविभवात्मना ।। 181 ।।
तस्मात्सर्वपदातीतः सर्वत्र विभवात्मना।
सच्चिद्धनोर्मिनिर्मुक्तशान्तबोधान्तरात्मना ।। 182 ।।
एवं षडूर्मिनिर्मुक्तं विकल्पातीतगोचरम्।
अवगाह्य क्रमेणाथ पुनरेत्य पदात्पदम् ।। 183 ।।
घ्यात्वा मन्त्रं सहस्त्रांशुं सहस्रकरजामृतम्।
रेचकेन विनिक्षिप्य देवदेवस्य मूर्धनि ।। 184 ।।
ततोऽछिन्नं करे कृत्वा धूपपात्रं तु दक्षिणे।
[धूपपात्रविधिः] 13-32
पद्मचक्राङ्कितं दिव्यमाधारं कञ्जरूपिणम् ।। 185 ।।
एकनाळं च कर्तव्यं (कुर्वीत ) शेषं सप्तफणं विभुम्।
बद्धाञ्जलिपुटं नित्यं ध्यायन्तं कारणं परम् ।। 186 ।।
चक्रलाङ्गलहस्तं च पद्मासनगतं विभुम्।
कर्तव्यं (कुर्वीत ) धूपघर्त्तारं किङ्किणीजालशोभितम् ।। 187 ।।
चक्रं तच्चक्रहृदयं पद्मं हृत्कोटरं विदुः।
चक्रे या या (ये ये ) अराख्या (स्स्यु )स्ता नाड्यो वै द्वादश स्मृताः ।। 188 ।।
किङ्किण्यो याः स्मृता विप्र ज्ञेयास्ताः सूक्ष्मनाडयः।
यासां वै मध्यमा शक्तिर्भुजङ्गकुटिलोपम् ।। 189 ।।
धूमधूसरवर्णाभा अण्डं भित्वा विनिर्गता।
कालाग्निहृदयोत्था सा सत्यान्ते तु लयं गता ।। 190 ।।
तया संबोधितो ह्यात्मा मन्त्रमूर्तिधरः प्रभुः।
सन्निधौ भवति, क्षिप्रमन्युच्छिन्नं दहेत्तथा ।। 191 ।।
[धूपपात्रमन्त्रविधानम्] 13-33
मन्त्रेणानेन विप्रर्षे तन्मन्त्रमवधारय।
ओङ्कारं पूर्वमुद्धृत्य परमात्मा ततः पुनः ।। 192 ।।
व्योमानन्देन संयुक्तमनन्ताय पदं ततः।
कालाग्निरूपाय पदं जगद्धूमपदं तथा ।। 193 ।।
सुगन्धिने पदं कुर्यात्सर्वगन्धवहाय च।
नमः स्वाहासमायुक्तमेकत्रिंशाक्षरं परम् ।। 194 ।।
मन्त्रं द्विज समाख्यातं धूपपात्रस्य नारद।
मुद्राद्यानसमायुक्तं (क्तां) सर्वसिद्धिकरं (रीं)परम् (राम्) ।। 195 ।।
पूजितां धूपितां लिप्तां मन्त्रविनय्स्तविग्रहाम्।
एकीकृत्य स्वशब्देन हृद्गतेनान्तरात्मना ।। 196 ।।
[घण्टाचालनविधानम्] 13-34
सञ्चालयेत्ततस्सम्यक्सशब्दां चक्रचिन्हिताम्।
त्रैलोक्यद्राविणीं घण्टां सर्वदु(1)ष्टनिबर्हिणीम् ।। 197 ।।
[घण्टानादप्रभाववर्णनम्] 13-35
एषा दूती हि मन्त्राणां सुप्तानां च प्रबोधिनी।
वारणी सर्वविघ्नानां सर्वमन्त्रप्रसादिनी ।। 198 ।।
[मन्त्रशब्दनिरुक्तिः] 13-36
प्रणवान्ते ध्वनिर्ह्येष शब्दशक्तौ लयं गतः।
वर्णदेहाः स्मृता मन्त्रा मन्त्रदेहाश्च देवताः ।। 199 ।।
घण्टास्तनितमूलास्ते प्रबुद्धाः कर्मसिद्धिदाः।
परशब्दोत्थिता शक्तिर्घण्टास्तनितरूपिणी ।। 200 ।।
वर्णत्वं समनुप्राप्ता तैर्वर्णैर्मुनिसत्तम।
मन्त्राणां कल्पनादेहा नानाकाराः सहस्रशः ।। 201 ।।
स्वेच्छया त्वनया शक्त्या सामर्थ्यात्स्वात्मनस्स्वयम्।
अनुग्रहार्थमिह हि भक्तानां भावितात्मनाम् ।। 202 ।।
मननान्मुनिशार्दूल त्राणं कुर्वन्ति वै ततः।
ददते पदमात्मीयं तस्मान्मन्त्राः प्रकीर्तिताः ।। 203 ।।
अनभिव्यक्तशद्बास्ते निराकारास्तथैव च।
घण्टायां चाल्यमानायां निर्यान्ति च सहस्रशः ।। 204 ।।
[आवाहनाद्युपचारेषु घण्टाचालनस्य कर्तव्यता] 13-37
अत एव मुनिश्रेष्ठ मन्त्रमाता प्रकीर्तिता।
एषा घण्टाभिधा शक्तिर्वागीशी च सर्स्वती ।। 205 ।।
वाचि मन्त्राः स्थितास्सर्वे वाच्या मन्त्रे प्रतिष्ठिता।
मन्त्ररूपात्मकं विश्वं स बाह्याभ्यन्तरं ततः ।। 206 ।।
वण्टाशब्दगतं सर्वं तस्मात्तां चालयेत्पुरा।
आवाहनेऽर्घ्ये धूपे च दीपे नैवेद्यजोषणे ।। 207 ।।
नित्यमेव प्रयुञ्जीत सम्यङ्मन्त्रार्थसिद्धये।
[पूजाकालादन्यत्र घण्टाचालनप्रतिषेधः] 13-38
पूजाकालं विनाऽन्यत्र हितं नास्याः प्रचालनम् ।। 208 ।।
नानया तु विना कार्यं पूजनं सिद्धिमिच्छता।
यस्मात्तस्मात्परं मन्त्रमेतदीयमिदं शृणु ।। 209 ।।
[घण्टामन्त्रनिरूपणम्] 13-39
आदाय प्रणवं पूर्वमनन्तेशं ततः परम्।
तच्चानलेन संभिन्नमूर्ध्वाधो मुनिसत्तम ।। 210 ।।
त्रैलोक्यैश्वर्यदेनाथ लाञ्छयेत्पञ्चबिन्दुना।
दद्यादस्यावसाने तु जगद्ध्वनिपदं ततः ।। 211 ।।
मन्त्रामात्रे पदं चान्यत्स्वाहाक्षरसमन्वितम्।
तदन्ते परमात्मानं प्रज्ञाधारोपरि स्थितम् ।। 212 ।।
भूधरेण युतं मूर्ध्ना भूधरोपरि विन्यसेत्।
विश्वाप्यायकरान्तस्थं त्रैलोक्यैश्वर्यदं मुने ।। 213 ।।
त्रयोदशाक्षरो मन्त्रो घण्टाख्यस्सर्वसिद्धिकृत्।
विन्यासकाले यस्या वै प्लुतमुच्चारयेत्ततः ।। 214 ।।
[घण्टाध्यानप्रकारः] 13-40
ध्यानयुक्तं द्विजश्रेष्ठ तद्ध्यानमवधारय।
अधोमुखं तु ब्रह्माण्डं ध्यायेज्जनरवाकुलम् ।। 215 ।।
सनाळं च तदूर्ध्वे तु पद्ममष्टदळं तथा।
प्रकीर्णपत्रं सुसितं (त) केसराळं (ळिं) सुकर्णिकम् ।। 216 ।।
तन्मध्ये चिन्तयेद्देवीं वर्गाष्टक भुजान्विताम्।
मुख्यहस्तचतुष्के तु लाञ्छनं कमलादिकम् ।। 217 ।।
कमलं च ततः शङ्खं पाशं चैवाङ्कुशं क्रमात्।
स्फटिकं चाक्षसूत्रं च तथा विज्ञानपुस्तकम् ।। 218 ।।
अभयं वरदं चैव हस्तद्विद्वितये परे।
पद्मासने चोपविष्ठां पद्मपत्रायतेक्षणाम् ।। 219 ।।
पद्मगर्भप्रतीकाशां पद्मालाविभूषिताम्।
विद्याभरणसंछन्नां पीतवस्त्रविवेष्टिताम् ।। 220 ।।
दर्शयेद्देवदेवस्य मुद्रां नारायणात्मनः।
[लक्ष्म्यादिमन्त्राणामभ्यर्चनम्] 13-41
लक्ष्म्यादीनां ततो भक्त्या मन्त्राणांच महामुने ।। 221 ।।
भूयोऽर्घ्यपुष्पगन्धेन धूपान्तेन समर्चयेत्।
[अथ स्तुतिः] 13-42
ततः स्तुवीत देवेशं स्तोत्रेणानेन नारद ।। 222 ।।
सम्यक्प्रणवपूर्वेण नमोऽन्तेन तु वै त्रिधा।
जितन्ते पुण्डरीकाक्ष नमस्ते विश्वभावन ।। 223 ।।
नमस्तेऽस्तु हृषीकेश महापुरुषपूर्वज।
[मधुपर्कादिसमर्पणप्रकारः] 13-43
जपन्वै दधिसंपूर्णं मधुना सर्पिषाऽन्वितम् ।। 224 ।।
पात्रं करतले कृत्वा तन्मध्यस्थं प्रभुं स्मरेत्।
मूलमन्त्रेण तद्वस्तु स्वरूपादुदितेन च ।। 225 ।।
लसत्पीयूषकल्लोलसत्तरङ्गेण नारद।
तन्निवेद्य पुनर्भक्त्या भूयः पुष्पाञ्जलिं क्षिपेत् ।। 226 ।।
ततो निवेदयेद्विष्णोर्हिरण्यकटकादिकम्।
अनन्तरं निमित्तार्थं ताम्बुलं तदनन्तरम् ।। 227 ।।
प्रक्षाल्य गन्धतोयेन अर्घ्यपात्रोद्धृतेन वै।
पाणियुग्मं यथा वै स्यात्सार्धमत्यन्तनिर्मलम् ।। 228 ।।
नैवेद्यधूपपात्राद्यैः पात्रैश्च निर्मलीकृतम्।
कृत्वा तद्गन्धदिग्धौ दौ अर्घ्येणार्च्य परस्परम् ।। 229 ।।
तन्निवेद्य विभोः पश्चाद्वाक्कर्ममनसाऽन्वितः।
[बाह्ययागपरिसमापनक्रमः] 13-44
पुण्डरीकाक्ष विश्वात्मन्मन्त्रमूर्ते जनार्दन ।। 230 ।।
गृहाणेदं जगन्नाथ मम दीनस्य शाश्वत।
इत्युक्त्वा सोदकं पुष्पं कृत्वा दक्षिणपाणिगम् ।। 231 ।।
अग्रतो निक्षिपेद्विष्णोर्मूलमन्त्रेण नारद।
भावयेच्च ततस्सम्यक्स्फुरन्तीं तारकावलीम् ।। 232 ।।
प्रविष्टां भवगद्वक्रे वक्रान्ताद्धृद्गतां पुनः।
हृदयाद्द्विजशार्दूल संहाराख्यक्रमेण तु ।। 233 ।।
पूर्ववद्ब्रह्मरन्ध्रेण परेण सह योजयेत्।
भगवन्तं ततो नत्त्वा अष्टांगेन तु भक्तितः ।। 234 ।।
समुत्थायासनात्तस्मिन्नर्घ्यपुष्पे विनिक्षिपेत्।
यस्मात्तत्क्षणमन्त्रं() तुन शून्यं संपरित्यजेत् ।। 235 ।।
अज्ञानात्ज्ञानतो वाऽपि यातमूनाधिकं च यत्।
दासस्य मम दीनस्य क्षन्तव्यं लोकलोचन ।। 236 ।।
इति श्रीपाञ्चरात्रे जयाख्यंसहितायां बाह्ययागाख्यानं नाम त्रयोदशः पटलः।।
* * * * *