← पटलः ३० जयाख्यसंहिता
पटलः ३१
[[लेखकः :|]]
पटलः ३२ →
जयाख्यसंहितायाः पटलाः


पटलः - 31
अथ उपाङ्गसाधनं नाम एकत्रिंशः पटलः। 31-1
[सत्यमन्त्रसाधनप्रकारः] 31-2
श्रीभगवान् ---
कदम्बगोलकाकारं नानावर्णविभूषितम्।
सपद्मं मण्डलं कृत्वा पुरा तदनु नारद ।। 1 ।।
सत्येन सकलीकृत्य स्वमात्मानं यजेद्धृदि।
ततोऽवतार्य हृदयान्मण्डले पूर्वकल्पिते ।। 2 ।।
चित्रैः पवित्रैः सुस्वादैरिष्ट्वा मूलफलादिकैः।
हुत्वा तिलाद्यैर्विप्रेन्द्र ततो यायाच्छुभं वनम् ।। 3 ।।
तत्र लक्षचतुष्कं तु स्वस्थानावस्थितं मुने।
जप्तव्यं ध्यायमानेन द्विलक्षमथ होमयेत् ।। 4 ।।
शर्करामधुराज्यं च क्षीरं च तिलतण्डुलान्।
एकीकृत्य समासेन मुद्रां बध्वा मृगाननाम् ।। 5 ।।
[मृगीमुद्रा] 31-3
मध्यमानामिकाङ्गुष्ठत्रयाणामग्रमेलनात्।
प्रेदशिनी कनिष्ठा च प्रोन्नता विरला द्विज ।। 6 ।।
कृत्वा मुद्रां मृगीं नाम्ना सर्वत्र विहिताऽऽहुतौ।
ततः पूर्णाहुतिं दद्यान्मन्त्रेशः सिध्यति द्विज ।। 7 ।।
ददाति सिद्धिं दिव्यां च स्वेच्छया विधियोजितः।
विज्ञानभूमिकाः सर्वाः प्रकटीकुरुते प्रभुः ।। 8 ।।
[वासुदेवमन्त्रसाधनप्रकारः] 31-4
एवमेव द्विजश्रेष्ठ सकलीकृत्य विग्रहम्।
वासुदेवाख्यबीजेन केवलेन महात्मना ।। 9 ।।
पूजयित्वा तु मनसा बहिः कृत्वाऽथ मण्डलम्।
सुवृत्तं पूर्णचन्द्राभं श्वेतपत्रोदरं महत् ।। 10 ।।
तत्रावतार्य संपूज्य सितैः पुष्पानुलेपनैः।
नैवेद्यभेदैः सुसितैः जुहुयात् क्षीरतण्डुलैः ।। 11 ।।
ततो यायाद्वनं रम्यं सितपुष्पद्रुमाकुलम्।
सत्योक्तं जपहोमं तु कृत्वा क्षीराज्यतण्डुलैः ।। 12 ।।
होमान्ते वासुदेवस्तु (1)सर्वाः सिद्धीश्च शाश्वताः।
ददाति च प्रयुक्तस्तु स्वपदं मोक्षसिद्धिदम् ।। 13 ।।
(1. सिद्धीः सर्वाश्च सात्वताः Y CL)
प्रकटीकुरुते शश्वत्प्रसन्नः परमेश्वरः।
[सङ्कर्षणमन्त्रसाधनप्रकारः] 31-5
न्यस्य हस्ते पुरा देहे ... नं (2)सङ्कर्षणं मुने ।। 14 ।।
(2. नादं कर्षणं Y CL)
पूजयित्वा तु हृत्पद्मे बाह्ये कुर्याच्च मण्डलम्।
रजसा सत्त्वमिश्रेण पाण्डुरेण तु नारद ।। 15 ।।
व्यक्तं भास्वरबिंबाभं रक्ततामरसोदरम्।
तत्रारूणऐस्तु नैवेद्यैस्तथा पुष्पानुलेपनैः ।। 16 ।।
अवतार्य यजेद्भक्त्या जुहुयात्तदनन्तरम्।
तिलानाज्येन संसिक्तान् दत्वा पूर्णाहुतिं व्रजेत् ।। 17 ।।
अशोकवनमद्यं तु तत्र लक्षचतुष्टयम्।
जप्त्वाथ रक्तपुष्पाणां जुहुयाल्लक्षमेव हि ।। 18 ।।
लक्षं कुङ्‌कुमपुष्पाणां दद्यात्पूर्णाहुतिं ततः।
ततः सिध्यति मन्त्रेशः सिद्धः सिद्धिं प्रजच्छति ।। 19 ।।
स्वयमप्यप्रयुक्तस्तु यद्यन्मनसि रोचते।
विज्ञायते गतिर्मान्त्री सौषुप्ताख्या तु याखिला ।। 20 ।।
स्वयं स भगवान्देव स्वपदे निष्कलात्मना।
व्यक्तिमभ्यते भक्तानां मोक्षमार्गे नियाजयेत् ।। 21 ।।
[प्रद्युम्नमन्त्रसाधनप्रकारः] 31-6
अथ प्रद्युम्नमन्त्रेण कृत्वा स्वं मन्त्रविग्रहम्।
हृत्तामरसमध्ये तु कृत्वा यागं तु चेतसि ।। 22 ।।
बहिः कदम्बपुष्पाभं रजसा हेमरूपिणम्।
सपद्ममण्डलं कृत्वा तत्राहूय जगत्पतिम् ।। 23 ।।
उपचारेण पीतेन यजेत्पुष्पादिना तु वै।
रजनीपूर्णसंमिश्रं सतिलं जुहुयाद्घृतम् ।। 24 ।।
दत्वा पूर्णाहुतिं यायात्कदलीकाननान्तरम्।
जपं पूर्वोक्तसंख्यातं तत्र कृत्वा तु नारद ।। 25 ।।
मिश्रितं कुङ्‌कुमेनैव प्राक्कृत्वा निस्तुषं तिलम्।
सुगन्धिशालिसंमिश्रं लक्षमानेन होमयेत् ।। 26 ।।
भावितं कुंकुमेनाथ व्कथितं च पुरा मुने।
अयुतत्रयमानेन पयो गव्यं तु होमयेत् ।। 27 ।।
बदराण्डप्रमाणानां घृताक्तानामनन्तरम्।
अयुतं गुलिकानां तु गुग्गुलोरथ होमयेत् ।। 28 ।।
ततस्त्वाज्यस्य जुहुयादयुतं केवलस्य च।
दद्यात्पूर्णाहुतिं पश्चान्मन्त्रेशस्सिधयते ततः ।। 29 ।।
सप्तलोकगतान्भावानप्रयुक्तो ददाति च।
योजयेत्सिद्धिमार्गे तु ततो मोक्षपथेन वै ।। 30 ।।
[अनिरुद्धमन्त्रसाधनप्रकारः] 31-7
पुराऽनिरुद्धमन्त्रेण सकलीकृत्य विग्रहम्।
हृद्यागं विधिवत्कृत्वा मण्डलं निर्वपेद्बहिः ।। 31 ।।
अतसीपुष्पसंकाशं वर्णेन रजसा शुभम्।
वृत्तं कदम्बगोलाभं पद्मगं मधुशोभनम् ।। 32 ।।
तत्राहूय जगन्नाथमुद्यत्सूर्यसमप्रभम्।
पुष्पोपलेपनाद्यैस्तु सुसितैः पावनैर्यजेत् ।। 33 ।।
होमं कृष्णतिलैः कृत्वा होमान्ते विजनं वनम्।
यायात्तत्र पजं कुर्यात् प्राक्प्रमाणेन नारद ।। 34 ।।
होमं कुर्यात्तदर्धेन अतसीपुष्पसन्निभैः।
तिलैरप्यसितैर्विप्र कृष्णागरुसमन्वितैः ।। 35 ।।
दद्यात्पूर्णाहुतिं पश्चात्ततः स परमेश्वरः।
तोषमायाति विप्रेन्द्र तुष्टः सर्वं ददाति च ।। 36 ।।
स्वयमेवानिरुद्धात्मा योजयेच्छाश्वते पदे।
स बाह्याभ्यन्तरं सर्वं दर्शयेत्साधकस्य च ।। 37 ।।
येनासौ कृतकृत्यः स्यादनन्तफलभागपि।
बहुनाऽत्र किमुक्तेन पञ्चकृत्यकसंयुतम् ।। 38 ।।
[सप्ताक्षरमन्त्रसाधनप्रकाः] 31-8
कृत्वा सप्ताक्षरं मन्त्रं विप्रहस्तेन वै पुरा।
सकलीकृत्य विप्रेन्द्र प्राग्वद्ध्यात्वा च निष्कलम् ।। 39 ।।
हृत्पुण्डरीकमध्ये तु पूजयित्वा जपेत्ततः।
एकान्ते निर्जने रम्ये वने पादपसंकुले ।। 40 ।।
सप्तलक्षाणि विप्रेन्द्र आयामत्रितयान्वितः।
विना बाह्यीपचारेण होमपूजादिकेन तु ।। 41 ।।
जपान्ते मुनिशार्दूल सर्वकामानवाप्नुयात्।
अणि माद्यास्तथा सिद्धीर्गुणषट्कं बलादिकम् ।। 42 ।।
वाचा ददाति सर्वं च यस्य यन्मनसेप्सितम्।
तृष्टः साधकमुखयोऽसौ क्रुद्धो लोकत्रयं दहेते ।। 43 ।।
देवासुरास्तथा नागाः सिद्धाश्चेन्मुक्तिभाजनाः।
किंङ्करत्वेन वर्तन्ते योगसिद्धाश्च देवताः ।। 44 ।।
सप्ताक्षराभियुक्त.... ... सत्यस्य महात्मनः।
आचन्द्रतारकं कालं वलीपलितवर्जितः ।। 45 ।।
मन्त्री तिष्ठति देहे स्वे स्वयमन्ते कलेवरम्।
त्यक्त्वा तु मुनिशार्दूल यायाद्विष्णोः परं पदम् ।। 46 ।।
यद्गत्वा न निवर्तन्ते पुनरस्मिन्भवार्णवे।
सत्यादिपंचकं विप्र पिण्डस्सप्ताक्षरस्तथा ।। 47 ।।
आराधितस्तदर्धेन जपहोमादिकैः शुभैः।
न हि सामान्यसिद्धीनां योक्तव्यं मन्त्रवादिना ।। 48 ।।
आराधितस्तु विधिना स्वयमेव ददाति च।
अभीप्सितं साधकानामन्ते मोक्षं च शाश्वतम् ।। 49 ।।
इति श्रीपांचरात्रे जयाख्यसंहितायां उपाङ्गसाधनं नाम एकत्रिंशः पटलः।
* * * * *

"https://sa.wikisource.org/w/index.php?title=जयाख्यसंहिता/पटलः_३१&oldid=206765" इत्यस्माद् प्रतिप्राप्तम्