प्रमुखा विकल्पसूचिः उद्घाट्यताम्
← पटलः १० जयाख्यसंहिता
पटलः ११
[[लेखकः :|]]
पटलः १२ →
जयाख्यसंहितायाः पटलाः

पटलः - 11
अथ मन्त्रन्यासविधिर्नाम एकादशः पटलः। 11-1
संशुद्धविग्रहो मन्त्री मन्त्रन्यासं समाचरेत्।
येन विन्यस्तमात्रेण(1) देवदेवसमो भवेत् ।। 1 ।।
(1. मन्त्रेण A.)
पूजादौ सर्वकार्याणामधिकारश्च जायते।
भवेद्वै सर्वसिद्धीनामाविर्भावस्तु येन च ।। 2 ।।
यं कृत्वा निर्भयस्तिष्ठेद्देशे दुष्टसमाकुले।
विजयश्चापमृत्यूनां स्याद्येन विहितेन च ।। 3 ।।
[आसनपरिकल्पनम्] 11-2
क्षितावुपरि विन्यासं यत्पुरा (2)फलकोदितम्।
तस्मिंश्चोपरि विन्यासं समुद्रं पद्मसंयुतम् ।। 4 ।।
(2. फलकादिकम्.)
स्वेन स्वेन तु मन्त्रेण ध्यानयुक्तेन यत्नवान्।
तार्क्ष्यं चैव ततो न्यस्य ध्यात्वा चोपविशेत्ततः ।। 5 ।।
[आसनाद्बहिः प्राकारपरिकल्पनम्] 11-3
दिशो विरेच्य चास्त्रेण पुनरेव मुहुर्मुहुः।
शरजालोपमं स्मृत्वा प्राकारं चासनाद्बहिः ।। 6 ।।
सप्राकारं तु संस्थानं कवचेनावकुण्ठयेत्।
ज्वलत्कञ्चुकरूपेण
[न्यासप्रयोजनम्] 11-4
यथा सिद्धादिषु द्विज ।। 7 ।।
गगनस्थेष्वदृश्यः स्यादाचरेन्न्यासमात्मनः।
अगुप्तस्य यतो वीर्यं मन्त्रजस्याहरन्ति ते ।। 8 ।।
तस्मादनेन विधिना त्वादौ गुप्तिं समाचरेत्।
हस्तन्यासं पुरा कृत्वा देहन्यासं समाचरेत् ।। 9 ।।
[हस्तन्यासः] 11-5
अङ्गुष्टे मूलमन्त्रं तु मूर्तिमन्त्रसमन्वितम्।
एवमेव क्रमेणैव तर्जन्यादिषु देवताः ।। 10 ।।
कनिष्ठान्तासु वै सर्वा न्यस्य चाड्गानि योजयेत्।
कनिष्ठिकाद्यासु ततो हृदयादीन्यनुक्रमात् ।। 11 ।।
अस्त्रमङ्गुष्ठके यावत्कराग्रेषु च लोचनम्।
नृसिह्मं दक्षिणे हंस्ते वामे च कपिलं न्यसेत् ।। 12 ।।
वामहस्तादि चोभाभ्यां वराहं चाङ्गुलीषु च।
कौस्तुभं दक्षिणतले वनमालां तथाऽपरे ।। 13 ।।
दक्षिणे मध्यतः पद्मं शङ्खं वामतले न्यसेत्।
अनन्तारं च तत्रैव चक्रमस्त्रं महाप्रभम् ।। 14 ।।
गदां च दक्षिणे हस्ते ज्वलन्तीं स्वेन तेजसा।
अङ्गुष्ठाद्दक्षिणादादौ वामान्तं मूलदेशतः ।। 15 ।।
गारुडं विन्यसेन्मन्त्रं दशस्वङ्गुलिषु क्रमात्।
वामहस्ततले पाशमङ्कुशं दक्षिणे तथा ।। 16 ।।
क्रमेण हृदयाद्येन उभयोर्हस्तयोर्न्यसेत्।
सत्यादि चानिरुद्धान्तमौपाङ्गं बीजपञ्चकम् ।। 17 ।।
नखाद्यामणिबन्धान्तं कृत्स्ने पाणियुगे ततः।
न्यसेत्सप्ताक्षरं मन्त्रं सर्वमन्त्रोपरि स्थितम् ।। 18 ।।
अनेन विधिना पूर्वं हस्तन्यासं समाचरेत्।
[देहन्यासाद्धस्तन्यासस्य प्राथम्ये कारणम्] 11-6
वैभवी (1)परमा शक्तिर्हृच्चक्रकुहरान्तगा ।। 19 ।।
(1. चरमा C. L.)
वायव्यं रूपमास्थाय दशधा संव्यवस्थिता।
इच्छया स्वप्रवाहेण पाणिमार्गेण निर्गताः ।। 20 ।।
नाडीदशकमाश्रित्य ता एवाङ्गुलयो मताः।
अत एव द्विजश्रेष्ठ शक्त्याख्ये प्रभुविग्रहे ।। 21 ।।
पूर्वं मन्त्रगणं न्यस्य ततो भूतमये न्यसेत्।
[देहन्यासः] 11-7
विग्रहे मन्त्रसङ्घातं यथावदवधारय ।। 22 ।।
आमूर्ध्नश्चरणान्तं च मूलमन्त्रं पुरा तनौ।
व्यापकत्वेन विन्यस्य पादाद्भूयश्शिरोऽन्तिमम् ।। 23 ।।
मूर्तिमन्त्रेण वै कुर्यान्न्यासं सर्वाङ्गकं ततः।
मूर्ध्नि वक्त्रेंऽसयुग्मे च क्रमात्सव्येतरे हृदि ।। 24 ।।
पृष्ठे नाभौ तथा कठ्यां जानुनोरथ पादयोः।
क्रमेण हावसानं च नाद्यं द्वादशवर्णकम् ।। 25 ।।
मूर्तिमन्त्रं तु विन्यस्य देवतां तु ततो न्यसेत्।
वामस्कन्धे तथा लक्ष्मीं कीर्तिं दक्षिणतो न्यसेत् ।। 26 ।।
जयां दक्षिणपाणिस्थां मायां वामे तथा न्यसेत्।
हृदयादीनि चाङ्गानि विन्यसेत्तदनन्तरम् ।। 27 ।।
स्तनान्तरे तु हृन्मन्त्रं शिरोमन्त्रं च मूर्घनि।
चूडिकां च शिखास्थाने स्कन्धयोः कवचं ततः ।। 28 ।।
नेत्राभ्यां विन्यसेन्नेत्रमस्त्रं पाणितले द्विज।
नृसिह्मं दक्षिणे श्रोत्रे कपिलञ्च कृवाटिके ।। 29 ।।
वामश्रोत्रावधौ न्यस्य वाराहं मन्त्रनायकम्।
वक्षसः कौस्तुभं मध्ये कण्ठे च वनमालिकाम् ।। 30 ।।
पद्मादींश्च ततः प्राग्वदूरुभ्यामन्तरे द्विज।
गरुडाख्यं महामन्त्रमथोपाङ्गं गणं न्यसेत् ।। 31 ।।
क्रमेण वाऽनिरुद्धेन प्रथमं द्विंजसत्तम।
पादयोर्वस्तिशीर्ष च नाभौ हृदि शिखावधौ ।। 32 ।।
सत्याद्येन क्रमेणैव भूयस्तत्पञ्चकं न्यसेत्।
ब्रह्मरंध्रान्तरे चैव हृन्मध्ये नाभिपुष्करे ।। 33 ।।
नाभिमेढ्रान्तरे चैव पादयोः क्रमयोगतः।
योजयेच्च ततो देहे आमूर्ध्नश्च तनुत्रवत् ।। 34 ।।
सप्ताक्षरं महामन्त्रं विष्णुं नारायणं प्रभुम्।
सर्वे मन्त्रास्तदन्तस्था(1)स्तेषामन्तगर्तश्च सः ।। 35 ।।
(1. सर्वेष्व A.)
अस्यैव मन्त्रसङ्घस्य परमं करणञ्च सः।
सर्वेषां वर्तते मूर्ध्नि तस्मात्सर्वोपरि न्यसेत् ।। 36 ।।
शक्तिचक्रं(2) हृदन्नाभिं(?)नाना तु मुनिसत्तम।
न्यस्तमात्रेण वै तेन सन्धानमुपपद्यते ।। 37 ।।
(2. शक्तिश्च Y.)
एवं न्यासं पुरा कृत्वा करयोर्विग्रहे ततः।
[तत्तन्मुद्राप्रदर्शनम्] 11-8
मूलमन्त्रादिसर्वस्य न्यस्तमन्त्रगणस्य च ।। 38 ।।
मुद्रां प्रदर्शयेत्स्वां स्वां मन्त्रन्याससमन्विताम्।
[साधकेन कर्तव्यध्यानप्रकारः] 11-9
ततस्सविग्रहं ध्यायेदात्मानं विष्णुरूपिणम् ।। 39 ।।
पूर्वोक्तध्यानयोगेन षाड्गुण्यमहिमावृतम्।
स्वरूपं विश्वरूपं वा यथाभिमतरूपकम् ।। 40 ।।
अहं स भगवान्विष्णुरहं नारायणो हरिः।
वासुदेवो ह्यहं व्यापी भूतावासो निरञ्जनः ।। 41 ।।
एवं रूपमहङ्कारमासाद्य सुदृढं मुने।
तन्मयश्चाचिरेणैव जायते साधकोत्तमः ।। 42 ।।
न्यासाद्ध्यानात्तथा भावान्मध्यमाच्चापि योगजात्।
इति संक्षेपतः प्रोक्तं न्यासकर्म मया च ते ।। 43 ।।
समाचर यथान्यायं गोपयस्व च यत्नतः।
इति श्रीपाञ्चरात्रे जयाख्यसंहितायां मन्त्रन्यासविधिर्नाम एकादशः पटलः।
* * * * *