← पटलः ३ जयाख्यसंहिता
पटलः ४
[[लेखकः :|]]
पटलः ५ →
जयाख्यसंहितायाः पटलाः

पटलः - 4
अथ शुद्धसर्गब्रह्मतत्त्वाख्यानं नाम चुतर्थः पटलः 4-1
नारद :---
शुद्धसर्गमहं देव वेत्तुमिच्छामि तत्त्वतः।
सर्गद्वयस्य चैवास्य यः परत्वेन वर्तते ।। 1 ।।
(वासुदेवात्परब्रह्मणस्तदनन्यस्याच्युतादेराविर्भावः) 4-2
श्रीभगवान् ---
यत्सर्वव्यापकं देवं परमं ब्रह्म शाश्वतम्।
चित्सामान्यं जगत्यस्मिन्परमानन्दलक्षणम् ।। 2 ।।
वासुदेवादि(द?)भिन्नं तु वह्न्यर्केन्दुशतप्रभम्।
स वासुदेवो भगवांस्तद्धर्मा परमेश्वरः ।। 3 ।।
(1)स्वादीप्तं क्षोभयित्वा तु विद्युद्वत्स्वेन तेजसा।
प्रकाशरूपी भगवानच्युतश्चा(तं चा ?)सृजद्द्विज ।। 4 ।।
(1. स्वदीप्तं C. L.)
सोऽच्युतोऽच्युततेजाश्च स्वरूपं वितनोति च।
आश्रित्य वासुदेवं च घर्मे(र्मो) मेघदलं यथा ।। 5 ।।
क्षोभयित्वा स्वमात्मानं सत्यं भास्वरविग्रहम्।
उत्पादयामास तदा समुद्रो बुद्बुदं यथा ।। 6 ।।
स चिन्मयप्रकाशाख्य उत्पाद्यात्मानमात्मना।
पुरुषाख्यमनन्तं च प्रकाशप्रसरं महत् ।। 7 ।।
[पुरुषात्मनाऽऽविर्भूतस्य वासुदेवस्य सर्वदेवान्तर्यामित्वम्] 4-3
(2)स च वै सर्वदेवानामाश्रयः परमेश्वरः।
अन्तर्यामी स तेषां वै तारकाणां यथाऽम्बरम् ।। 8 ।।
(2.स चैव A.)
सेन्धनः पावको यद्वत्स्फुलिङ्गनिचयं द्विज।
अनिच्छतः प्रेरयति तद्वदेष परः प्रभुः ।। 9 ।।
प्राग्वासनानिबद्धा ये जीवास्तान्बन्धशान्तये।
स्वदेह . . . . . . . . . . . . .तदुभयं पुनः ।। 10 ।।
[अवताराणां तदंशत्वम्]
(3)ये स्विदाद्यावताराश्च लोकत्राणाधिकारिणः।
सर्वान्विद्धि तदंशांस्तान्सर्वेऽशास्सत्त्वजास्तथा ।। 11 ।।
(3. येस्मदा A. सर्वानपि)
[पुरुषसत्याच्युतानामुत्तरोत्तरस्वरूपादभिन्नानां वासुदेवे परे रूपेऽवस्थितिः] 4-4
स च सत्यादभिन्नस्तु तस्मात्सत्यं तथैव हि।
(4)द्वाभ्यामेकात्मरूपं यत्तदभिन्नमथोऽच्युतात् ।। 12 ।।
(4. आम्या A.)
आश्रितस्संस्थितस्ताभ्यामभेदेन सदैव हि।
पुमान्सत्योऽच्युतश्चैव चिद्रूपं त्रितयं तु तत् ।। 13 ।।
शान्तसंवित्स्वरूपे च वासुदेवेऽवतिष्ठते।
[चिद्रूपस्य वासुदेवस्य ततः प्रादुर्भूतस्याच्युतादिरूपत्रयस्य च सनिदर्शनमभिन्नतानिरूपणम्] 4-5
सोऽन्तर्यामी प्रकाशात्मा चिद्रूपस्स प्रतिष्ठितः ।। 14 ।।
त्रितये यस्तथारूपोऽनिच्छात उदितस्सदा(1)।
असङ्कल्पात्मकास्सर्वे प्रसरन्ति परस्परम् ।। 15 ।।
(1. स्तदा S. 1 स्तथा A.)
दीपवन्मुनिशार्दूल स्वपरालोकदास्तु वै।
सङ्कल्पेन विना तद्वदन्योऽन्यत्वेन(2) संस्थिताः ।। 16 ।।
(2. दन्यान्य A.)
गृह्णन्ति प्रतिबिम्बत्वं दर्पणेष्विव दर्पणम्।
अतीव द्विज नैर्मल्यात्सङ्कान्तानां परस्परम् ।। 17 ।।
प्रविभागो न जायेत व्योमस्फटिकयोर्यथा।
भासाद्वयस्य विप्रेन्द्र तथा तेषामभिन्नता ।। 18 ।।
एतद्रहस्यं परमं मया ते संप्रकाशितम्।
सर्ग आद्यो ह्यनन्त(न्य?)श्च अनन्तस्य महात्मनः ।। 19 ।।
नारद :---
मयैतद्विदितं सर्वं सर्वेश त्वदनुग्रहात्।
यथा ह्यस्य(सि?) त्वमव्यक्तो ह्यमूर्तो मूर्त्ततां गतः ।। 20 ।।
ज्ञातुमिच्छामि भगवन्स्वरूपं ते यथार्थतः।
स्थूलं सूक्ष्मं परं चैव अध्यात्मनि तथा बहिः ।। 21 ।।
भवत्प्रसादसामर्थ्याद्विनैतत्र्रितयं कथम्।
व्यज्यते विषयस्थानां कुरु मेऽनुग्रहं वद ।। 22 ।।
[स्थूल--सूक्ष्म--परात्मना त्रेधाऽवस्थितस्य भगवतो रूपस्य निरूपणम्] 4-6
श्रीभगवान् ---
स्रष्टा पालयिता चाहं संहर्ता पुनरेव च।
स्वकीययोगयुक्त्या तु स्थूलरूपेण नारद ।। 23 ।।
सूक्ष्मेण सर्वभूतानां निवसामि हृदन्तरे।
करोम्यनुग्रहं चापि भक्तानां भावितात्मनाम् ।। 24 ।।
परेणानन्दरूपेण व्यापकेनामलेन च।
व्यासयाम्यखिलं विप्र रसेनेव तरूत्तमम् ।। 25 ।।
मूले सिक्तं शिखाशाखापत्रपुष्पफलान्वितम्।
नारद :---
सत्यं त्वया जगत्सृष्टं विधृतं च त्वया विभो ।। 26 ।।
कालरूपी त्वमेवान्ते सत्यं संहारकृतस्मृतः।
पातालादौ च ये लोकास्त्वन्नाभेश्च समुत्थिताः ।। 27 ।।
धर्मसंस्थापनं चैव पुनरेव त्वया कृतम्।
संहृताश्च त्वया दैत्याः श्रुतं च विदितं मया ।। 28 ।।
यथा येन प्रकारेण त्वमेव प्रकरोषि च।
तद्वै वेदितुमिच्छामि त्वत्सकाशात्सुविस्तरम् ।। 29 ।।
[सकलनिष्कलात्मना द्विधा भिन्नाया मन्त्ररूपाया मूर्तेर्बन्धतद्विपर्ययहेतुत्वोपपादनम्] 4-7
श्रीभगवान् ---
योगवीर्येण विप्रेन्द मन्त्ररूपा पुरातनी।
निष्कळा सकळा चैव भोगमोक्षप्रदा शुभा ।। 30 ।।
कृता मया च लोकानां सम्यगालोकदा शुभा।
मन्त्रोत्पत्तिक्रमेणैव स्थिता शान्ततरात्मना ।। 31 ।।
तमोमयाभ्यां मूर्त्ताभ्यां दोषाभ्यां नाशनाय वै।
सैवावतिष्ठते लोके प्रकृतिर्विश्वपालिनी ।। 32 ।।
या करोत्येवमादीनि कर्माण्यस्मिन्भवोदरे।
भक्तानां मोक्षयत्याशु कृत्वा बन्धपरिक्षयम् ।। 33 ।।
नारद :---
निश्शेषेण च तद्योगं तन्मन्त्रं वीर्यमेव च।
आदिशस्व जगत्कर्तु(र्त)र्यदि सानुग्रहोऽसि मे ।। 34 ।।
[मन्त्रतद्वीर्यादिपरिज्ञानस्य ब्रह्मज्ञानमूलत्वकथनम्] 4-8
श्रीमगवान् ---
ब्रह्मपूर्वमिदं सर्वं यत्त्वया चोदितो ह्यहम् ।। 35 ।।
तद्विना न प्रवर्तन्ते यानि सङ्कीर्तितानि ते।
नारद :---
किं तद्ब्रह्म विजानीयां येन योगेश्वरेश्वर ।। 36 ।।
विभवो मन्त्रपूर्वश्च मन्त्रोपकरणं तथा।
प्रवर्तन्ते विभो क्षिप्रं भक्तानां भक्तवत्सल ।। 37 ।।
श्रीभगवान् ---
ज्ञानेन तदभिन्नेन परिज्ञातेन नारद।
जायते ब्रह्मसंसक्तिस्तस्माज्ज्ञानं समभ्यसेत् ।। 38 ।।
नारद :---
ब्रह्मसिद्धिप्रदं ज्ञानं ब्रूहि तल्लक्षणं प्रभो।
यज्ज्ञात्वा न भवेज्जन्म मरणं भवबन्धनम् ।। 39 ।।
श्रीभगवान् ---
[ज्ञानस्य द्वैविध्यम्, तयोः क्रियाख्येन सत्ताख्यस्य निष्पत्तिः] 4-9
ज्ञानं तु द्विविधं विद्धि सत्ताख्यं च क्रियात्मकम्।
सत्ताख्यस्य क्रियाख्येन अभ्यस्तेन मवेद्धृतिः ।। 40 ।।
नारद :---
ज्ञानं क्रियात्मकं तावद्वद कीदृग्विधं प्रभो।
येनाभ्यस्तेन सत्ताख्यं ज्ञास्यामि ब्रह्मसिद्धिदम् ।। 41 ।।
[क्रियात्मकस्य यमनियमभेदेन द्वैविध्यम्] 4-10
श्रीभगवान् ---
द्विविधं च क्रियाज्ञानं पूर्वं नियमलक्षणम्।
यमाख्यं परमं चैव तच्च स्वाभाविकं स्मृतम् ।। 42 ।।
निर्वर्त्य नियमाख्यं तद्यमयुक्तं च सिद्धिदम्।
नारद :---
एतयोर्लक्षणं ब्रूहि यदायत्तं परं पदम् ।। 43 ।।
विस्तरेण जगन्नाथ भवाब्धिपतितस्य मे।
[यमनियमनिरूपणम्]
श्रीभगवान् ---
शुचिरिज्या तपश्चैव स्वाध्यायश्रुतिपूर्वकः ।। 44 ।।
अक्रूरताऽनिष्ठुरता क्षमा चैवानपायिनी।
सत्यं भूतहितं चैव यदबाधा परेष्वपि ।। 45 ।।
परस्वादेरहिंसा च चेतसो दमनं महत्।
इन्द्रियाभ्यवहार्याणां भोगानामपि चास्पृहा ।। 46 ।।
आसने शयने मार्गे असक्तिश्चापि भोजने।
हृद्गतं न त्यजेद्ध्यानमानन्दफलदं च यत् ।। 47 ।।
आत्मशक्त्या प्रदानं च सत्यं वाक्यमनिष्ठुरम्।
अमित्रेषु च मित्रेषु समा बुदिस्सदैव हि ।। 48 ।।
आर्जवत्वमकौटिल्यं कारुण्यं सर्वजन्तुषु।
एतदङ्गान्वितो यो यो यमो यमनियामकः ।। 49 ।।
[क्रियाख्यात्सत्ताख्यनिष्पत्तेर्ब्रह्माभिन्नज्ञानोदयः, तेन ब्रह्मोपसम्पत्तिः]
एवं क्रियाख्यात्सत्ताख्यं ज्ञानं प्राप्नोति मानवः।
ब्रह्मण्यभिन्नं सत्ताख्यात् ज्ञानाज्ज्ञानं ततो भवेत् ।। 50 ।।
ब्रह्माभिन्नात्ततो ज्ञानाद्ब्रह्म संयुज्यते परम्।
[ब्रह्मसमापत्तेरपुनर्भवलक्षणमोक्षरूपता] 4-11
अनादिवासनायुक्तो यो जीव इति कथ्यते ।। 51 ।।
तस्य ब्रह्मसमापत्तिर्याऽपुनर्भवता च सा।
[ब्रह्माभिन्नत्वप्रकारोपपादनम्] 4-12
यत्सम्यग्ब्रह्मवेत्तृत्वं मनाग्या चैव भिन्नता ।। 52 ।।
ईषद्ब्रह्मसमापत्तिस्तदभिन्नं तु वै स्मृतम्।
[अविद्यायोगादात्मनो देवादिभेदः]
ज्ञानं त्वनेकभेदैर्यत्तत्त्वतामेति चात्मनः ।। 53 ।।
(1)गौण(णे ?)विद्यामये तत्त्वे सम्यग्विद्यामयस्य च।
नारद :---
का गुणाख्या ह्यविद्या च यत्र ज्ञानमयः प्रभुः ।। 54 ।।
(1. र्गोण्ये A.)
त्वयोक्तं यत्तु (तत्त्व ?)तामेति भेदैर्नानाविधैर्विभो।
[अविद्यास्वरूपनिरूपणम्] 4-13
श्रीभगवान् ---
गुणत्रयस्य यत्साम्यं साऽविद्याऽनेकरूपिणी ।। 55 ।।
रागादीनां च दोषाणामुत्पत्तिस्थानमेव च।
नारद :---
ब्रह्मप्राप्तौ तु यस्सम्यगुपायः कथितः पुरा ।। 56 ।।
स च किंलक्षणो ब्रूहि यश्चात्मेति त्वयोदितः।
[जीवात्मनोर्निरूपणम्] 4-14
श्रीभगवान् ---
यत्तत्स्थितं च चिद्रूपं स्वसंवेद्याद्यनिर्गतम् ।। 57 ।।
रञ्जितं गुणरागेण स आत्मा कथितो द्विज।
नारद :---
ज्ञानमात्मस्वरूपं च माया तद्रञ्जिका तु वै ।। 58 ।।
आचक्ष्व भगवन्ब्रह्म प्राग्व(ग्य ?)त्संचोदितं मया।
तन्मे न विदितं सम्यग्यदर्थं क्रियते क्रिया ।। 59 ।।
यत्प्राप्य न पुनर्जन्म भवेऽस्मिन्प्राप्यते बुधैः।
[परब्रह्मनिरूपणम्] 4-15
श्रीभगवान् ---
आनन्दलक्षणं ब्रह्म सर्वहेयविवर्जितम् ।। 60 ।।
स्वसंवेद्यमनौपम्यं परा काष्ठा परा गतिः।
सर्वक्रियाविनिर्मुक्तं सर्वेषामाश्रयं प्रभुः ।। 61 ।।
चिन्तामणौ यथा (1)सर्वं मूर्तं सङ्गि व्यवस्थितम्।
तथा सर्वं तु सर्वत्र विद्ते सर्वगस्य च ।। 62 ।।
(1. सर्वममूर्तं संव्यव A.)
अनादि तदनन्तं च न सत्तन्नासदुच्यते।
सर्वत्र करवाक्पादं सर्वतोऽक्षिशिरोमुखम् ।। 63 ।।
सर्वतःश्रुतिमद्विद्धि सर्वमावृत्य तिष्ठति।
सगुणैरिन्द्रियैस्सर्वै(2)र्भासितं चैव वर्जितम् ।। 64 ।।
(2. भावितं C. L.)
तदसक्तं हि सर्वत्र यत्तु सर्वत्र चैव हि।
निर्गुणो गुणभोक्ता च सर्वस्यान्तर्बहिः स्थितः ।। 65 ।।
चलाचलं तु तद्विद्धि सूक्ष्मत्वान्नोपलभ्यते।
दूरस्थितस्तथा हृत्स्थः परमात्मा परः प्रभुः ।। 66 ।।
भूतेभ्यश्चाविभक्तं तद्विभक्तमुपलभ्यते।
स भावभूतभृच्च स्यात्संहर्तापि सृजत्यपि ।। 67 ।।
प्रकाश्यं(3) ज्योतिषां तच्च अज्ञानात्परतः स्थितम्।
ज्ञानं तदेव ज्ञेयं च तद्ध्यानेनाधिगम्यते ।। 68 ।।
(3. शं A.)
सर्ववर्णरसैर्हीनं सर्वगन्धरसान्वितम्।
सर्वज्ञस्सर्वदर्शी च सर्वस्सर्वेश्वरः प्रभुः ।। 69 ।।
सर्वशक्तिमयश्चैव स्वाधीनः परमेश्वरः।
अनादिश्चाप्यनन्तश्च सर्वदुःखविवर्जितः ।। 70 ।।
विदित्वैवं (एवं वेत्ति ?) परं ब्रह्म ज्ञानेन परमेण च।
यदा न जायते भूयस्संसारेऽस्मिस्थदा पुमान् ।। 71 ।।
नारद :---
सर्वतः पाणिपादाद्यैर्यदुक्तं लक्षणैस्त्वया।
न चैकमुपपद्येत घटते तद्यथाऽऽदिश ।। 72 ।।
श्रीभगवान् ---
इति तस्य जगद्धातुस्सर्वज्ञत्वाच्च नारद।
महिमाऽयमनन्तस्य ईश्वरत्वाच्च विद्यते ।। 73 ।।
तस्य सर्वातिशायित्वं यथा ते न मयोदितम्।
अन्यथा विद्यते तस्य महिमाऽयं तथाऽच्युते ।। 74 ।।
अनादिस्सर्पूर्वत्वान्न सत्तन्नासदित्यपि।
अप्रत्यक्षतयाऽक्षाणां तदसद्द्विजसत्तम ।। 75 ।।
स्वसंवेद्यं तु तद्विद्धि गन्धः पुष्पादिगो यथा।
तथा समस्तमाक्षिप्तं यस्माद्वै परमात्मना ।। 76 ।।
तस्माद्वै सर्वपाणित्वं सर्वगस्यानुमीयते।
नावच्छिन्नं हि देशेन न कालेनान्तरीकृतम् ।। 77 ।।
अतस्सर्वगतत्वाद्वै सर्वतःप्रात्प्रभुः स्मृतः।
ऊर्ध्वं तिर्यगधोयातैर्यथोच्चै(स्रै?)र्भासयेद्रविः ।। 78 ।।
तद्वत्प्रकाशरूपत्वात्सर्वचक्षुस्ततो ह्यजः।
यथा सर्वेषु गात्रेषु प्रधानं गीयते शिरः ।। 79 ।।
भवेऽस्मिन्प्राकृतानां तु न तथा तस्य सत्तम।
समत्वात्पावनत्वाच्च सिद्धस्सर्वशिराः प्रभुः ।। 80 ।।
यथाऽनन्तर(1)सास्सर्वे तस्य सन्ति सदैव हि।
सर्वत्र शान्तरूपस्य अतस्सर्वमुखः स्मृतः ।। 81 ।।
(1. रताः S. & C. L.)
शब्दराशिर्यतो विद्धि स एव परमेश्वरः।
सर्वतः श्रुतिमांश्चातो यथा दृक्श्रावकोरगः ।। 82 ।।
अयःपिण्डे यथा वह्निर्भिन्नस्थिष्ठत्यभिन्नवत्।
तद्वत्सर्वमिदं देवो व्यावृ(पृ?)त्य परितिष्ठति ।। 83 ।।
निर्मले दर्पणे यद्वत्किञ्चिद्वस्त्वभितिष्ठति।
न च तद्दर्पणस्यास्ति अस्ति तस्य च तद्द्विज ।। 84 ।।
सेन्द्रियैस्तु गुणैरेवं संयुक्तश्चापि वर्जितः।
अस्मिन्मायामये विश्वे व्यापी सर्वेश्वरः प्रभुः ।। 85 ।।
सर्वदा विद्ध्यसक्तश्च यथाऽम्भः पुष्करच्छदे।
सर्वभृद्वैश्वरूप्याच्च अमोघत्वाच्च निर्गुणः ।। 86 ।।
उदासीनवदासीनो गुणानां गुणभुक् ततः।
सर्वदाऽन्तर्गतस्यैव कुम्भस्य च यथोदकम् ।। 87 ।।
तथा सर्वस्य जगतो बहिरन्तर्व्यवस्थितः।
घटसंस्थं यथाऽऽकाशं नीयमानं विभाव्यते ।। 88 ।।
नाकाशं कुत्रचिद्याति नयनात्तु घटस्य च।
चलाचलत्वमेवं हि विभोश्चैवानुमीयते ।। 89 ।।
बहुष्वम्बुजपत्रेषु वेधं कुर्वन्क्रमात्क्रमात्।
कालवच्चातिसूक्ष्मत्वान्न सदाऽप्युपलभ्यते ।। 90 ।।
अज्ञानाच्चातिदूरस्थं ज्ञानात्सम्भाव्यते हृदि।
यदा तदा समीपस्थं स्वसंवेद्यश्चिदात्मकः ।। 91 ।।
आकाश्सय (शःस ?) च यो वायुस्तद्द्वयोरप्यभेदतः (दिता ?)
तथा तस्य(स्या ?) विभक्त्यैक्यं भूतानां हि परस्य च ।। 92 ।।
चेतनाचेतनास्सर्वे भूताः स्थावरजङ्गमाः।
पूरिताः परमेशेन रसेनौषधयो यथा ।। 93 ।।
एकेनाभिन्नरूपेण भूतभृत्त्वेन हेतुना।
यथैव सूर्याधीने तु प्रकाशतमसी द्विज ।। 94 ।।
तद्वत्सृष्टि ससंहारां स्वतन्त्रः प्रकरोति च।
प्रकाशो ज्योतिषां तच्च श्रोत्रादीनां यथा मनः ।। 95 ।।
शब्दादिके न संदृष्टे (1)तथाऽपि श्रुणुतेऽन्यथा।
तमसोऽन्यो यथाऽलोकश्चाज्ञानात्तत्परस्तथा ।। 96 ।।
(1. ततोपि C. L.)
ज्ञानं तदेव ज्ञेयं च वह्नेर्ज्वाला यथैव हि।
वर्णऐर्विरहितं सर्वैर्नीरूपत्वात्सितादिकैः ।। 97 ।।
मधुरादिरसैस्तद्वत्कल्पनारहितं यतः।
मयूरकण्ठवत्सर्वैर्वर्णैस्तदुपचर्यते ।। 98 ।।
अनुभावाद्रसानां च तथा सर्वरसात्मकः।
सर्ववर्णरसैर्हीनो युक्तस्चातस्स्मृतोऽच्युतः ।। 99 ।।
सर्वज्ञस्सर्ववेत्तृत्वाद्दर्शस्सर्वत्र दर्शनात्।
साम्यात्सर्वेश्वरश्चैव यतस्सर्वज्ञतादिभिः ।। 100 ।।
युक्तश्चान्तस्सर्वशक्तिः षाङ्गुण्यमहिमान्वितः।
स्वाधीनश्च स्वतन्त्रत्वात्पुराणत्वादनादि तत् ।। 101 ।।
न ह्यस्यान्तोस्त्यतोऽनन्तस्तृप्तत्वाद्दुः खवर्जितः।
अमूर्त एव सर्वेशो ह्यभ्यासादुपलभ्यते ।। 102 ।।
यथा काष्ठान्तराद्वह्निर्घृतं क्षीरान्तराद्यथा।
स्वानुभावाद्विना नैव वक्तुं संयुज्यते यथा ।। 103 ।।
माधुर्यमिक्षुसंस्थं च अमूर्तमुपलभ्यते।
एवं स्वदेहगं देवं परमात्मानमव्ययम् ।। 104 ।।
हेयोपादेयरहितं सुसितानन्दविग्रहम्।
प्रमाणैरपरिच्छैद्यं यतस्संविन्मयं महत् ।। 105 ।।
विभाति हृदयाकाशे येषां मायाविवर्जितम्।
एष नारायणो देवस्सर्व्रोपाधिविवर्जितः ।। 106 ।।
स्वात्मसंवेदनत्वाद्द्यो विना लक्ष्यः परः प्रभुः।
तमाश्रयस्वानिर्देश्यं ज्ञानेन परमेण च ।। 107 ।।
यच्चोपमानै रहितं व्यवहारैर्धियोऽक्षगैः।
कारणं तदनौपम्यं ये विदन्त्यभयास्तु ते ।। 108 ।।
भावातीतं परं ब्रह्म स्फटिकामलसन्निभम्।
मोक्षं यान्ति च ते मुक्ताः स्थितिस्तेषां परे पदे ।। 109 ।।
नानाभेदेन भेदानां निवसत्येक एव हि।
न तस्य विद्यते मानं न च रूपं महात्मनः ।। 110 ।।
तेजोवाय्विन्दुभावेन, पद्मसूत्रायुतायुतात्।
कोठ्यंशेन तु मानेन सुसूक्ष्मेषु स्थितोऽणुषु ।। 111 ।।
किञ्चिच्च तेभ्यः स्थूलेषु (1)स्थूलज्योतिः पुरोदितात्।
प्रमाणात्संस्थितो व्यापी परमात्मा ह्यधोक्षजः ।। 112 ।।
(1. स्थूलत्वेन C. L. 1 स्थूलवच्च A.)
वाय्वात्मना स भूतानां स्थितः कुटिलभाविनाम्।
सर्गो रूपेण धातूनां पार्थिवानामशेषतः ।। 113 ।।
स्थितःषड्रसरूपेण सर्वौषधिषु सर्वगः।
अनेकाबिस्च संज्ञाभिस्तमव्ययमुपासते ।। 114 ।।
ईश्वरत्वेन विप्रेन्द्र पुरुषत्वेन चैव हि।
शिवसूर्यात्मकत्वेन सोमत्वेन तथैव च ।। 115 ।।
अग्नीषोमात्मकत्वेन शब्दत्वेनापि वै पुनः।
ज्योतिर्ज्ञानात्मकत्वेन कालत्वेन च नारद ।। 116 ।।
जीवक्षे(1)त्रात्मकत्वेन भूतात्मत्वेन वै तथा।
एवमेकः परो देवो नानाशक्त्यात्मरूपधृत् ।। 117 ।।
(1. क्षेत्रज्ञकत्वेन C. L.)
नारायणः परं ब्रह्म निष्ठा सन्ब्रह्मवेदिनाम्।
[सनिदर्शनमुपासकानां ब्रह्मसम्पत्तिनिरूपणम्] 4-16
यद्वन्महापुरस्यान्तर्यायिनः प्रविशन्ति च ।। 118 ।।
सर्वदिग्बहुनिर्माण(?)स्तद्वद्विष्णोरुपासकाः।
ध्येयेष्वीश्वरभूतेषु ध्यायिनस्तु सदैव हि ।। 119 ।।
विशन्ति क्षीणमोहाश्च यथा क्षीणामृता द्विज।
कला या ऐन्दवास्सूर्ये तद्वद्विष्णौ च योगिनः ।। 120 ।।
मेघाद्धारागणेनैव पृथगम्बुगतं क्षितौ।
प्राप्नोत्यैक्यं तथा सर्वे भगवत्यपि योगिनः ।। 121 ।।
यथाऽनेकेन्धनादीनि संप्रविष्टानि पावके।
अलक्ष्याणि च दग्धानि तद्बद्ब्रह्मण्युपासकाः ।। 122 ।।
सरित्सङ्घाद्यथा तोयं संप्रविष्टं महोदधौ।
अलक्ष्यश्चोदके भेदः परस्मिन् योगिनां तथा ।। 123 ।।
उपासते यमात्मज्ञा यतस्सूर्यो विराजते।
तमाश्रय मुने शश्वद्यस्य कोठ्यंशजा वयम् ।। 124 ।।
तथा सहस्रमूर्धा यः सहस्राक्षस्सहस्रपात्।
सहस्रबाहुभिः पूर्णस्सहस्रात्मधरः प्रभुः ।। 125 ।।
सहस्रदीप्तिभिः स्फीतः श्रीनिवासः किरीटवान्।
श्रीवत्सवक्षा विप्रेन्द्र कौस्तुभाद्यैरलङ्खृतः ।। 126 ।।
चन्द्रार्कौ नयनोद्देशे जिह्वासङ्घे(स्थाने?)सरस्वती।
यस्योच्छ्वासश्च पवनस्तस्मादूर्ध्वस्तु कावधौ (?) ।। 127 ।।
श्रोत्रोद्देशे दिशो यस्य विदिशो यस्य बाहवः।
पातालादौ तलं यस्य विज्ञेयं पादसन्ततौ ।। 128 ।।
प्रभा यस्य च कालाग्निर्जीमूताः (2)केशसन्ततिः।
रोमाणि यस्य विबुधा ऋषयो रोमकूपगाः ।। 129 ।।
(2. कच.)
मुखेऽग्निरापस्स्वेदो वै ग्रहा ऋक्षादयो मलम्।
मलमस्योपचारत्वान्नत्वेवं परमार्थतः ।। 130 ।।
इदमुक्तं मया ब्रह्मन् ब्रह्मतत्त्वं यथार्थतः।
यज्ज्ञात्वा न पुनर्भूयो भवमेष्यसि सङ्कुलम् ।। 131 ।।
खवत्सर्वगतं चैव यद्यप्यस्मिंश्चराचरे।
स्थितं ज्ञानं विना विप्र तथाऽपि हि सुदुर्लभः ।। 132 ।।
इति श्री पाञ्चरात्रे जयाख्यसंहितायां शुद्धसर्गब्रह्मतत्त्वाख्यानं नाम चतुर्थः पटलः।
* * * * *

"https://sa.wikisource.org/w/index.php?title=जयाख्यसंहिता/पटलः_४&oldid=206733" इत्यस्माद् प्रतिप्राप्तम्