प्रमुखा विकल्पसूचिः उद्घाट्यताम्
← पटलः ३१ जयाख्यसंहिता
पटलः ३२
[[लेखकः :|]]
पटलः ३३ →
जयाख्यसंहितायाः पटलाः


पटलः - 32
अथ साधनविधिर्नाम द्वात्रिशः पटलः।
[विघ्नेशमन्त्रसाधनप्रकारः] 32-1
यः पुरा कथितश्चैव मन्त्रो वैनायको मया।
तस्येदानीं समासेन साधनं शृणु नारद ।। 1 ।।
कृत्वा न्यासं षडङ्गं तु इष्ट्वा हृत्कमलान्तरे।
ततः कोणत्रयेणैव युक्तं कुर्याच्च मण्डलम् ।। 2 ।।
द्वारत्रयान्वितं चैव तन्मद्ये त्रिदलं लिखेत्।
कमलं तत्र तन्मध्ये पूर्वोक्तविधिना द्विज ।। 3 ।।
इष्ट्वा हुत्वा ततः कुर्याद्रूपं सम्यक्तयाऽऽत्मनः।
यायाद्वनप्रदेशं तु पजेल्लक्षद्वयं मुने ।। 4 ।।
लक्षमेकं तु जुहुयात्पुष्पाणां मुनिसत्तम।
अयुतं द्वे च समिधां सितार्कस्य विशेषतः ।। 5 ।।
घृतस्यायुतमेकं तु दद्यात्पूर्णाहुतिं मुने।
ततः प्रत्यक्षतामेति साक्षाद्देवो विनायकः ।। 6 ।।
सिद्धोऽस्मीति च वै ब्रूते कुरु कर्म यथेप्सितम्।
तत्र च साधकवरस्सर्वं साधये क्षणात् ।। 7 ।।
[विघ्नेशमन्त्रसिद्धिजं सामर्थ्यम्]
राजार्कमूलमादाय कृत्वा च शतमन्त्रितम्।
गणेशमन्त्रेण ततो मन्त्रयित्वा समापयेत् ।। 8 ।।
अर्धाङ्गुलप्रमाणेन विघ्नेशं पद्मसंस्थितम्।
तस्मिन्मन्त्रं सकृन्न्यस्य वेष्टयेन्मदनेन तु ।। 9 ।।
कृत्वा ताम्रपुटे चैव धारयेच्छिरसा तु तत्।
रणे राजकुले द्युते विवादेऽपि महामते ।। 10 ।।
जमाप्नोति मन्त्रज्ञो निर्विघ्नेन यथेप्सितम्।
न्यासं कृत्वा गणेशेन .... .... (1)लाग्यस्यकस्यचित् ।। 11 ।।
(1. लावण्यं च कस्यचित् Y)
तिष्ठत्यग्रे तु मन्त्रज्ञो निर्विघ्नेन तदाप्नुयात्।
शताभिमन्त्रितं कृत्वा फलं पुष्पं च वै रिपौः ।। 12 ।।
दद्यात्पाणौ तु सर्वत्र विघ्नो भवति तस्य वै।
घृष्ट्वा मनश्शिलां मन्त्री भावयेच्च निशाम्बुना ।। 13 ।।
विमृज्य कापिलेनैव पयसा पीतकर्पटे।
लिखेद्वैघ्नेश्वरीं मूर्तिं तत्र हृत्पद्ममध्यगाम् ।। 14 ।।
दद्याद्विघ्नेशमन्त्रं तु सर्वं यच्छत्य...न्वि(भीप्सि )तम्।
यत्रावतिष्ठते गेहे दिशि प्रागुत्तरे तु वै ।। 15 ।।
यावन्न चालितो भूयो दृष्टो नान्येन केनचित्।
तावत्तत्र गृहे लक्ष्मीर्धनधान्यसमाकुला ।। 16 ।।
कृषिगोरक्षवाणिज्यं फलत्यविरतं तु वा।
(2)कोष्ठागारस्तु कोशो वा न चेत्संख्यायते पुनः ।। 17 ।।
(2. गोष्ठा Y CL)
व्ययं करोति दानं वा तदक्षय्यं व्यये सति।
देशप्राप्तिं तु वा लाभमुत्तमं यदि मन्यते ।। 18 ।।
मोदकानि घृताक्तानि मन्त्रज्ञितानि विधाय यः।
हुत्वाऽऽतङ्कविनिर्मुक्तो यत्र यत्र प्रयाति च ।। 19 ।।
रात्रौ वा वासरे वाऽपि चोरान्तकभयाकुले।
वस्त्राभस्णयुक्तोऽपि धनवान्क्रमते हि सः ।। 20 ।।
योजनानां सहस्राणि एकाकी विघ्नवर्जितः।
मन्त्राभिमन्त्रितं सम्यक् सितं सिद्धार्थकं करे ।। 21 ।।
मीतियुक्तेन मनसा ददाति स वशं व्रजेत्।
यदि विघ्नेशमन्त्रेण होमयेदेराजसर्षपान् ।। 22 ।।
कटुतैलसमायुक्तान्विद्वेषं कुरुते क्षणात्।
परस्परं च प्रीतानामप्रीतानां तु का कथा ।। 23 ।।
जुहुयाद्यस्य नाम्ना वै वायव्याभिमुखस्थितः।
सहस्रं काकपक्षाणां सोच्चाटत्यचिरेण तु ।। 24 ।।
प्रजप्य महिषाक्षं तु सितसिद्धार्थकान्वितम्।
जुहुयादयुतार्धं तु नाम्ना यस्य महामते ।। 25 ।।
आकृष्टो दूरतोऽभ्येति होमान्तेऽपि च देवराट्।
लाक्षालक्तकसंयुक्तं करवीरायुतद्वयम् ।। 26 ।।
जुहूयाद्यस्य नाम्ना तु भवेद्वश्यो हि सोऽवशः।
मध्वाच्यं जुहुयान्मन्त्री यद्येकं च तिलायुतम् ।। 27 ।।
प्रीतिमुत्पादयत्याशु विद्विष्टानां परस्परम्।
निम्बपत्रकृतं चूर्णं छागासृग्विषभावितम् ।। 28 ।।
जुहुयाद्यस्य नाम्ना तु रात्रौ भूतदिनेऽसिते।
स याति पञ्चतामाशु होमान्ते तु महामते ।। 29 ।।
तदर्धं यदि वै कुर्याद्धोमं तु मधुसर्पिषा।
एकायुतप्रमाणेन होमे तं जीवयेत्पुनः ।। 30 ।।
शान्तिं पुष्टिं तथाऽऽरोग्यं घृतक्षीरतिलैः क्रमात्।
ददाति होमान्मन्त्रेशो निर्विग्नेन महामते ।। 31 ।।
रोचनालिखितं भूर्जे साङ्गमष्टदलाम्बुजे।
यो धारयति रक्षार्थं स दुःखैर्मुक्तिमाप्नुयात् ।। 32 ।।
नश्यन्ति हिंसकास्तस्य ब्रह्मरक्षोमुखा मुने।
(1)हन्यादपस्मृतिमयं मन्त्रसन्धारतो भवेत्() ।। 33 ।।
(1. दुपस्पृशति यं A (पाठान्तरत्वेन दृश्चते)
येऽन्ये अतिग्रहाद्याश्च तथा स्कन्दग्रहादयः।
विघ्नेशमन्त्रो हन्त्येतानं जपाद्ध्यानाच्च पूजनात् ।। 34 ।।
तस्मात्सन्धारणीयं च सर्वविग्नोपशान्तये।
मन्त्रस्समस्तभूत्यर्थं साधकैः सिद्धिलालसैः ।। 35 ।।
वैनायकस्य मन्त्रस्य संविधानमिदं मया।
उक्तं वागीश्वरीयस्य शृणुष्वावहितो मुने ।। 36 ।।
[वागीश्वरीमन्त्रसाधनप्रकारः] 32-2
न्यासं षडङ्गकं कृत्वा मूलमन्त्रादितः क्रमात्।
इष्ट्वा हृत्कमले त्वादौ बाह्ये चन्द्रार्करूपधृक् ।। 37 ।।
सपद्मं मण्डलं कृत्वा देवीं तत्रावतार्य च।
इष्ट्वा सितादिकैः सर्वैर्नैवेद्यैः कुसुमादिकैः ।। 38 ।।
होमं कृत्वा तिलैः शुक्लैर्नवनीतेन नारद।
दत्वा पूर्णाहुतिं पश्चात्कुर्याद्देहं तदाकृतिम् ।। 39 ।।
कदम्बवनमध्ये तु यायादञ्चितलोचनः।
जपेल्लक्षचतुष्कं तु होमं तदनु चाचरेत् ।। 40 ।।
लक्षसंख्याप्रमाणेन सितशर्करया मुने।
शालिभिश्च सुगन्धाभिर्नवनीतेन चैव हि ।। 41 ।।
घृतक्षीरविमिश्रेण तथा गुग्गुलुना मुने।
एकैकमयुतं मन्त्री एकैकस्य क्रमान्मने ।। 42 ।।
जुहुयाद्वितरेत्पूर्णां ततो वागीश्वरी स्वयम्।
समेत्य वदने तस्य प्रविशत्यचिरेण तु ।। 43 ।।
अशीतोदकधारेव देद्यते त्वंगना त्वसौ।
[वागीश्वरीमन्त्रसिद्धिजं सामर्थ्यम्]
तदा शीघ्रतरेणैव कालेन तु महाकविः ।। 44 ।।
जायते साधकेन्द्रस्तु शास्त्रार्थं वेत्ययन्त्रितः।
संस्कृतं प्राकृतं वाऽपि अपभ्रंशानुनासिकम् ।। 45 ।।
नानादेशविभागोत्थं त ... .... .. ....बलात्।
अतीतानागतं वेत्ति सकृद्गृह्णाति चाश्रुतम् ।। 46 ।।
क्रग्यजुस्सामशब्दांश्च निस्सृताश्च द्विजाननात्।
तुल्यकालत्रयाणां च पृथग्भेदे तु का कथा ।। 47 ।।
बहूनां वा यथायोगं वागीशेष्वधिका(1)खात्मनाम्।
विपक्षपदसंस्थानामुद्ग्राहयति लीलया ।। 48 ।।
(1. मताम् CL नया A)
एकैकस्य पृथग्रूपं यदि वर्षशतं मुने।
क्षयं न वाक्‌प्रमेयाभ्यां स संयाति द्विजोत्तम ।। 49 ।।
अथ्वा प्रतिपक्षोत्थभूतानां भावितात्मनाम्।
ध्यायेज्जिह्वादिसंस्थां च वागीशीं रक्तभास्वराम् ।। 50 ।।
वज्रपंजरमध्यस्थां वाक्स्तम्भमुपपादयेत्।
ध्यायेत्संप्रतिपन्नस्य जिह्वामध्यगतां यदा ।। 51 ।।
चन्द्रमण्डलमध्यस्थां तुषारनिचयप्रभाम्।
स्रवन्तीममृतं वक्रात्तेन तस्य च विग्रहम् ।। 52 ।।
संसिंक्तं तु स्मरेद्विप्र तत्क्षणात्स कविर्भवेत्।
पुष्पमण्डलमध्ये तु कृत्वा कुंभं तु राजतम् ।। 53 ।।
मध्वम्मःपयसा पूर्णं तन्मध्ये परमेश्वरीम्।
पूजयित्वा तु सप्ताहं सितपुष्पानुलेपनैः ।। 54 ।।
अष्टमेऽहनि वै यस्य दद्यात्तोयाञ्जलित्रयम्।
स्वहस्तेन तु पानार्थं पीत्वाऽसौ बुद्धिमान्भवात् ।। 55 ।।
शन्तिकं पौष्टिकं वाऽ पि तत्स्नानादवगाहनात्।
जायते जडबुद्धीनामस्वस्थानां विशेषतः ।। 56 ।।
शताभिमन्त्रितं कृत्वा वचां यः प्रत्यहं द्विज।
भक्षयेत्तत्र सप्तहा स वाग्मी मतिमान्भवेत् ।। 57 ।।
इष्ट्वा देवीं त्रिसप्ताहं सिततामरसोदरे।
निवेद्य सघृतं भक्त्या परमान्नं चरुस्थितम् ।। 58 ।।
तच्चोष्मणा युतं तृप्तं भुङ्के निश्शोषतस्तु यः।
बालो बालाऽथवा कन्या निनासाक्रार्थविद्भिवेत् ।। 59 ।।
वक्रादविस्त चप् शास्त्राण्यद्गिरते (1)महत्।
भवत्योजः क्षयो दूरात्पण्डितानां महामते ।। 60 ।।
(1. महान् A)
कृत्वाऽभ्यासं तु गनसा सबाह्याभ्यन्तरं तु वै।
उदासीनस्य मूर्खस्य अपूर्वस्य च संसदि ।। 61 ।।
सोऽपि वेदाहरेच्छास्तां तदाज्ञापरिचोदितः।
सर्वोर्थसिद्धिदा देवी सिद्धा(2) वागीश्वरी भवेत् ।। 62 ।।
(2. सद्यो A)
धनकामस्य धनदा पुत्रकामस्य पुत्रदा।
राज्यदा राज्यकामस्य भोगकामस्य भोगदा ।। 63 ।।
जयदा जयवस्मस्य शान्तिकामस्य शान्तिदा।
पुष्टिदा पुष्टिकामस्य तृष्टिमकामस्य तुष्टिदा ।। 64 ।।
ज्ञानदा ज्ञानकामस्य मोक्षकामस्य मोक्षदा।
...............स कामानां च कामदा ।। 65 ।।
[वागीश्वरीयन्त्रविधानम्] 32-3
पद्ममष्टदलं कृत्वा तदन्ते नामसंयुता।
देवीषडङ्गषट्‌कं तु बहिस्संस्थं यदा पुरा ।। 66 ।।
तद्बहिश्वापरं पद्मं द्विरष्टदळभूषितम्।
दळे दळे त्रिधा दद्यात् हृद्भीजं खेसरावधौ ।। 67 ।।
तदस्त्रबीजं पत्राणां षोडशानां नियोजयेत्।
लिखेत्षौडशपत्रस्य बाह्येऽब्जं द्वादशच्छदम् ।। 68 ।।
शिरश्शिरवा च कवचं केसरार्धदले दले।
नेत्रमन्त्रदलान्तस्य दद्याद्द्वादशधा मुने ।। 69 ।।
अकारादिक्षकारान्तं पद्मबाह्ये तु मातृकाम्।
लिखेत्कुण्डलयोगेन शिरसा चाथ वेष्टयेत् ।। 70 ।।
सप्तधा मुनिशार्दूल परमात्माऽथ तद्बहिः।
व्योमेशाह्लादसंयुत्को ह्यष्टदिक्षु महामते ।। 71 ।।
ततो वायव्यभवनं (1)यकाराष्टकभूषितम्।
परस्परं यकाराभ्यामन्तरं परिपूरयेत् ।। 72 ।।
(1. शकारा A)
त्रैलोक्यैश्वर्यदेनैव संख्याहीनेन नारद।
ततस्त्रिकोणभवने शिखामन्त्रेण दीपितम् ।। 73 ।।
कुर्यात्कोण्द्वायाद्विप्र दिक्‌त्रयात्स्वस्तिकान्वितम्।
अशेषभुवनाधारं व्योमेशेन समन्वितम् ।। 74 ।।
मरीचिपदसंख्यं तु त्रिकोमस्य बहिर्लिकेत्।
तद्बाह्य वारुणं दद्यान्मण्डलं चार्धचन्द्रवत् ।। 75 ।।
चतुष्पत्रैश्चतुष्पद्मैस्संयुतं तेषु संलिखेत्।
कर्णिकामध्यसंस्थं तु कवचं पत्रगं शिखा ।। 76 ।।
अन्तरालानि पद्मानां वराहार्णेन पूरयेत्।
चान्द्री व्योमेशयुक्तेन तद्बहिः पार्थिवं पुरम् ।। 77 ।।
युक्तं वज्राष्टकेनैव चतुरङ्गुलभूषितम्।
वज्रोदरगतं चाश्त्रं भूयश्वाश्त्रण भूयश्चास्त्रेण रस्मियत्() ।। 78 ।।
पूरयेत्सकलं बाह्याच्चतुरस्रं पुरं तु तत्।
रजनीरसमादाय पद्मषण्डमथोदकम् ।। 79 ।।
रोचनारसकर्पूरैर्नैशं चोदकमेव च।
सुदिने पूजयित्वाऽऽदौ वागीशं विलिखेत्ततः ।। 80 ।।
भूर्जे नेत्रेऽथ वा वस्त्रे सौवर्णोत्थशलाकया।
त्रिलोहवेष्टितं कृत्वा यन्त्रं यो धारयेद्द्विज ।। 81 ।।
तस्याशु वाचि भूतिश्च धनमानौ रिपुक्षयः।
अक्षयश्च महाघोरे संग्रामे स भवेद्द्विज ।। 82 ।।
न भयं विद्यते तस्य विषाडिज्वलनादितः।
पूरयेदखिलान्कामान् धारणस्मरणादिभिः ।। 83 ।।
तस्मादेतत्प्रयत्नेन कुर्याद्वाब्वोर्गलेऽथ वा।
सर्वकालजयार्थी वै पुमान्सद्वैष्णवः सदा ।। 84 ।।
इति श्रीपाञ्चरात्रे जयाख्यसंहितायां साधनविधिर्नाम द्वात्रिशः पटलः।
* * * * *