जयाख्यसंहिता/पटलः २९
← पटलः २८ | जयाख्यसंहिता पटलः २९ [[लेखकः :|]] |
पटलः ३० → |
जयाख्यसंहितायाः पटलाः |
---|
पटलः - 29
अथ वक्रमन्त्रसाधनं नामैकोनत्रिंशः पटलः ।। 29-1
श्रीभगवान् ---
एतद्विधानमङ्गानां कीर्तितं तु यथेप्सितम्।
शृणु वक्रत्रयस्पाथ कल्पं वक्ष्यामि यादृशम् ।। 1 ।।
[नृसिंहवक्त्रमन्त्रसाधनम्] 29-2
यत्तन्नृसिंहवदनं कल्पान्तार्कायुतप्रभम्।
तस्याङ्गषट्कसंयुक्तं शृणु मूर्तिचतुष्टयम् ।। 2 ।।
युक्तं शक्तिचतुष्केण कल्पान्ताग्निसमद्युति।
[नृसिंहस्याङ्गमन्त्राः]
आदाय शाश्वतं षोढा सामपाठकसंस्थितम् ।। 3 ।।
चतुर्गतिधरेशाभ्यामन्तस्स्थेनाथ योजयेत्।
उत्तराधरतः पश्चादाङ्गिकैश्चाङ्कयेत्स्वरैः ।। 4 ।।
कौस्तुभोत्तममद्येन व्योमेशेनाथ भूषयेत्।
अङ्गान्येतानि विप्रेन्द्र नृसिह्मस्य महात्मनः ।। 5 ।।
[नृसिंहस्य मूर्तिमन्त्राः]
कूटान्तश्चैव धा मात्मा(?)शाश्वतावस्थितस्ततः।
वेदात्मा परमात्मा च चतुर्णामध योजयेत् ।। 6 ।।
अथ लोकेश्वरार्णं तु सूक्ष्मान्तस्थं यदक्षरम्।
लोकश्वरोज्झितं तं वै व्योमेशाख्याद(र्ण?)संयुतम् ।। 7 ।।
चतुर्णामपि मूर्धस्थं चतस्रो मूर्तयो विभोः।
सूर्यलोकप्रदश्चाद्यो द्वितीयोऽग्निप्रभाकरः ।। 8 ।।
अत्युग्रदर्पशमनश्चतुर्थो विश्वसूकरः।
[नृसिंहानुचरमूर्तीनां ध्यानप्रकारः]
नृसिह्मभूतयः(मूर्तयः?) सर्वे ध्येयास्सर्वे चतुर्भुजाः ।। 9 ।।
नखप्रहरणाश्चैव विश्वोपप्लवहानिदाः।
विस्मयाख्यां स्मरेन्मुद्रां सर्वेषां च करद्वये ।। 10 ।।
करेण तु करं ध्यायेन्मर्दयन्तमतीव हि।
अतश्चोद्रिक्त(1)रूपाणां ध्येया मुद्रा परा मुने ।। 11 ।।
(1. वीर्याणां A)
सितरक्तसुवर्णाभं नीलपूर्वाकृतिं स्मरेत्।
[नृसिंहस्य शक्तिमन्त्राः]
आदायोत्फुल्ल (य फुल्ल ?) नयनमग्निरूपमतः परम् ।। 12 ।।
दीप्तिमद्विश्वरूपौ च तेषां मूर्धनि विनय्सेत्।
अशेषभुवनाधारं मायाव्योमेशभूषितम् ।। 13 ।।
मायान्योमेशरहितं तत्तेषामासनं न्यसेत्।
युगान्तहुतभुग्ज्वाला विश्वमूर्तिर्महाप्रभा ।। 14 ।।
जगत्संपूरणी नाम्ना चतुर्थी संप्रकीर्तिता।
[नृसिंहशक्तीनां ध्यानप्रकारः]
क्रमेण वर्णमासां तु यथास्वमवधारय ।। 15 ।।
अलिहेमारुणा...द्विभुजाश्चारुकुण्डलाः।
उन्नताङ्गा महाकायाः पिङ्गभ्रूयुग्मलोचनाः ।। 16 ।।
चतस्रश्चापि षड्घ्राणाः प्रलम्बिजठरास्तथा।
चक्रचामरहस्ताश्च बद्धपद्मासनस्थिताः ।। 17 ।।
सर्वासां प्रणवं संज्ञां नमस्कारपदं न्यसेत्।
मूलशक्तिप्रणीतेन न्यायेन न्यासमाचरेत् ।। 18 ।।
अर्चयित्वा तु हृत्पद्मे षट्कोणे मण्डले बहिः।
अष्टपत्रोदरे न्यस्य पूजयेत्परमेश्वरम् ।। 19 ।।
न्यसेद्धृदादिकं प्राग्वत्पत्रप्रान्तचतुष्टये।
प्रागाद्ये मूर्तिसंघं तु आग्ने याम्येऽथ शक्तगः ।। 20 ।।
इष्ट्वाऽथ मूर्तिमन्त्राणां स्वमुद्रां संप्रदर्शयेत्।
चक्रं कीर्तिचतुष्कस्य गुग्गुलं च तिलं ततः ।। 21 ।।
हृतकिंशारुकाणां तु धान्यानामरुणात्मनाम्।
तणदोषविमुक्तानामाज्याक्तानां विशेषतः ।। 22 ।।
गुग्गुलुक्षौद्रमिश्राणां दद्यात्पूर्णाहुतिं ततः।
प्रमुञ्चन्वै महानादं त्रैलोक्यजडकृन्महत् ।। 23 ।।
नृकेसरी समायाति गगनादनलान्तरात्।
तन्मन्त्रेण महानादमुत्प्लुत्य गगनं द्रुतम् ।। 24 ।।
कुर्यात्साधकमुख्यो वै तेजसा मुदितो भवेत्।
तदा स भगवान्देवः परितुष्टोऽनुभाषते ।। 25 ।।
वद साधकराजेन्द्र यत्ते चेतस्यवस्थितम्।
इत्युक्त्वाऽदर्शनं याति मन्त्रमूर्तीनृकेसरी ।। 26 ।।
[नृसिंहमन्त्रसिद्धिजं सामर्थ्यम्]
ततोऽष्टगुणमैश्वर्यं साधको यदि चेच्छति।
आत्मनो द्विज वाऽन्यस्य वाङ्भात्रेण तु साधयेत् ।। 27 ।।
दृष्ट्वा सुलक्षणं पात्रं ब्राह्मणं क्षत्रियं तु वा।
कृत्वा तु चेतसा न्यासं पुष्पैरर्घ्यैस्तथाऽम्बुना ।। 28 ।।
संपूज्य रङ्गमध्यस्थमाविष्टस्स वदेत्क्षणात्।
भूतं भव्यं भविष्यच्च यस्य यत्प्रतिभाति वै ।। 29 ।।
न्यस्य तन्मूर्तिमन्त्रांश्च तन्मन्त्रैरथ पूजयेत।
दारकं सोऽपि चेत्सर्वमतीतानागतं वदेत् ।। 30 ।।
शक्तिमन्त्रचतुष्केण समावेश्य च कन्यकाम्।
स्वल्पाऽपि बालभावस्था सा विवक्ति यथेप्सितम् ।। 31 ।।
जपमानस्तु मन्त्रेशं तन्मन्त्रेणाथ संक्षिपेत्।
सिद्धार्थकान्विशेद्ग्रामान्नगरं वा पुरं महत् ।। 32 ।।
तत्क्षणात्क्षोभमायाति सतिर्यङ्नरदैवतम्।
... ... ... ... कृत्वातः(1) सिंहविग्रहम् ।। 33 ।।
(1. तल्लिड्गविग्रहम् A)
लेपनाभरणाद्यैस्तु संरक्षे (1)खलु कण्टकम्(?)।
यायाच्छैलेन्द्रमूर्धानं जपेल्लक्षाष्टकं व्रती ।। 34 ।।
(1. लखलण्टया A)
वाऽयुतं लक्षयुग्मं तु जपान्ते जुहुयात्ततः।
न्यासं कृत्वा विशेन्मध्यमास्ते वाऽन्यस्य सम्मुखे ।। 35 ।।
क्षोभमायाति तरसा सगजाश्वायुधान्वितम्।
प्रतिष्ठितायामल्पायां यस्यां कस्यां हि नारद ।। 36 ।।
जपन्मन्त्रं कृतन्यासो यद्यग्रे तिष्ठति क्षणम्।
साऽपि च क्षोभमायाति धावेद्यत्र स साधकः ।। 37 ।।
मकरालयकूलं तु समासाद्य महामते।
एवमेव हि यस्तिष्ठेत् क्षोभयत्यचिरेण तम् ।। 38 ।।
निरीक्षमाणो गगनं यदि मन्त्रमनुस्मरेत्।
विघनं निर्मलं चैव तत्क्षणात्क्षोभमेति च ।। 39 ।।
जीमूतस्तनितैर्घोरैर्विद्युन्मालाशनीयुतैः।
वनं वनस्पतियुतं सिंहव्याघ्राकुलं महत् ।। 40 ।।
विधिनानेन विप्रेन्द्र क्षोभमायाति चाचिरात्।
यं यं क्षोभयते मन्त्री सिंहमन्त्रेण भास्वता ।। 41 ।।
स स यच्छति सर्वस्वं भयभीतश्च भक्तितः।
यं यं कृत्वा तु मनसा यक्षविद्याधरादिकम् ।। 42 ।।
जपेन्मन्त्रवरं मन्त्री स स आयाति शीघ्रतः।
आज्ञां स साधयत्याशु साधकस्य महात्मनः ।। 43 ।।
तदाज्ञया व्रजेद्भूयः स्वस्थानं भीतमानसः।
विलिख्य द्वादशारं तु नाभिनेमिसमन्वितम् ।। 44 ।।
सषट्कोणं तु नाभौ तु सपद्मं कुङ्कुमेन तु।
तरूत्थितेन पयसा वस्त्रे रोचनया सह ।। 45 ।।
कर्णिकान्तर्गतां संज्ञां मन्त्राद्यन्तं निरोधिताम्।
अमृतार्णान्तरस्थां च व्यापी चान्द्रीयुतश्च सः ।। 46 ।।
स्वकोऽसौ मूर्तिमन्त्रो यः प्रत्येकस्मिन्दले दले।
रक्षामुकपदोपेताः षट्कोणे च हृदादयः ।। 47 ।।
मूर्तिद्वयं तु प्रथमं संज्ञाद्यन्तगतं द्विज।
चक्रनाभौ (1)द्विधा योज्यं द्वयमेव न (त्व ?)रान्तरे ।। 48 ।।
(1. त्रिधा A)
अरान्तरान्तयोगेन एकैकं षट्सु षट्सु च।
याऽत्र वै प्रथमा शक्ती रक्षनामपदान्विता ।। 49 ।।
अरान्तराले सा योज्या एका द्वादशधा द्विज।
नामयुक्तां त्रिधा चान्यां चक्रनेमौ नियोज्य च ।। 50 ।।
त्रिरष्टधा तृतीया च तथा चक्रप्रथिष्वपि।
वा(या?) चतुर्थी विभोस्शक्तिरेकधा चक्रबाह्यगा ।। 51 ।।
तन्मयी येन सूत्रेण चक्रं संवेष्ट्य सप्तधा।
व्रतोपवासशुद्धात्मा पूजां कृत्वा तथाऽऽहुतिम् ।। 52 ।।
द्वादश्यां सितकृष्णायां गुरोर्वारेऽथ नारद।
अथवा जीवनक्षत्रे मुहूर्ते शकुनान्विते ।। 53 ।।
विलिख्य च बहिः पक्षे सितरक्तेन वेष्टयेत्।
त्रिलोहगर्भगं कृत्वा मन्त्रं यो धारयेद्द्विज ।। 54 ।।
तस्यायुः श्रीस्तथाऽऽरोग्यं सौभाग्यमुचितं बलम्।
तृप्तिः कान्तिस्तथा कीर्तिर्विजयस्सर्वतोमुखः ।। 55 ।।
मेधाऽभिचारविघ्वंसो मन्त्रो योगकृतोऽथ वा।
स्थावरं जङ्गमं घोरं शङ्गाख्यं कृत्रिमं तथा ।। 56 ।।
विषं विनाशमायाति गृहभूतेषु का कथा।
कामयेद्वनितानां तु मद्ये भवति वल्लभः ।। 57 ।।
यं यं समीहते कामं तं तं प्राप्नोत्ययत्नतः।
एतन्नृसिंहमन्त्रस्य वक्रभूतस्य नारद ।। 58 ।।
[कपिलमन्त्रसाधनप्रकारः] 29-3
विधानं कथितं सम्यक् कापिलस्याथ कथ्यते।
[कपिलस्याङ्गमन्त्रः]
विलेख्यो दीप्तिमान्षोढा ऊर्ध्वाधोऽनलवेष्टितः ।। 59 ।।
तन्नृसिंहाङ्गवन्मूर्ध्ना क्रमात्कुर्याच्च योजितम्।
एतानि कपिलाङ्गानि चेटकानस्य वै शृणु ।। 60 ।।
[कपिलस्यानुचरमन्त्राः]
चतुष्कं वारुणान्तस्थं शाद्यं कृत्वा क्रमेण तु।
धरेशमनलारूढं सलोकेशं चतुर्ष्वधः ।। 61 ।।
विश्वाप्यायकरो व्यापी न्यस्यो ह्युपरि सर्वतः।
योगेश्वरश्च तत्त्वज्ञो ब्रह्मदत्तो महामतिः ।। 62 ।।
सितरक्तारुणः कृष्णश्शान्तदेहश्चतुर्भुजः।
[कपिलानुचरमूर्तिध्यानप्रकारः]
ब्रह्माञ्जलिकृताः सर्वे बद्धपद्मासनस्थिताः ।। 63 ।।
विज्ञानसंचयाकारा ह्यक्षसूत्रकरास्तु वै।
प्रभाकरसहस्राभा दिव्यमालाम्बरान्विताः ।। 64 ।।
दिव्यगन्धानुलिप्ताङ्गा दिव्याभरणभूषिताः।
[कपिलस्य शक्तिमन्त्राः]
आद्यवर्णचतुष्कं तु शान्तान्तं च लिखेत्क्रमात् ।। 65 ।।
अनलस्थं च स्रवेषामधः सोमं च विन्यसेत्।
व्यापी चान्द्री ततो माया चतुर्थ्यन्तं नियोजयेत् ।। 66 ।।
विमला करुणा शक्तिर्ज्ञानाख्या चेति शक्तयः।
[कपिलशक्तिध्यानप्रकारः]
पीतश्यामारुणाः शुक्लाः क्रमशो द्विभुजाः स्मृताः ।। 67 ।।
वरदाभयहस्ताश्च कपिलाकृतयस्तथा।
कृत्वा न्यासं यजेत्पश्चात् वितते हृत्कुशेशये ।। 68 ।।
ततः पूर्णेन्दुसङ्काशमेकद्वारं तु वर्तुलम्।
सपद्मं मण्डलं कृत्वा तन्मध्ये ह्यवतार्य च ।। 69 ।।
शेषमंगादिकं प्राग्वन्न्यस्य लीला(द्दले न्यस्य?)तदन्तरे।
इष्ट्वा ब्रह्माञ्जलिं मुद्रां योगेशादिषु दर्शयेत् ।। 70 ।।
वराभयौ तु शक्तीनां मुख्यस्थाङ्गेषु पूर्ववत्।
कृत्वा होमं यथाशक्ति तिलैराज्यपरिप्रुतैः ।। 71 ।।
दत्वा पूर्णाहुतिं पश्चात् स्थानमासाद्य निर्जनम्।
जपेल्लक्षचतुष्कं तु हृदादीनां तु नारद ।। 72 ।।
क्रमात्सहस्रमेकैकं ततो होमं समाचरेत्।
पयसा मधुमिश्रेण जुहुयादयुतद्वयम् ।। 73 ।।
निरम्बुनाऽथ वै दध्ना जुहुयादयुतं ततः।
मालतीकुसुमानां तु ततश्चायुतपञ्चकम् ।। 74 ।।
एकमाज्यस्य जुहुयात्केवलस्य स्रुवेण तु।
शतं शतं च सर्वेषां सर्वमेकीकृतं जुहेत् ।। 75 ।।
ततः पूर्णाहुतिं दद्याद्दधिमध्वाज्यपूरिताम्।
एत्यादित्यपथादग्रे साक्षात्तिष्ठेदधोक्षजः ।। 76 ।।
गच्छ साधक सिद्धोऽसि मन्मन्त्रेणाखिलं कुरु।
एवमुक्त्वा स भगवान्याति सूर्यपथादतः ।। 77 ।।
[कपिलमन्त्रसिद्धिजं सामर्थ्यम्]
तन्मन्त्रेणाथ वै मन्त्री कुर्यात्कर्म यथेप्सितम्।
जडानां योजयन्मन्त्रं मुहूर्तं हृत्कुशेशये ।। 78 ।।
प्राप्नुवन्ति प्रबोधं च अष्टाक्षरपदान्वितम्।
मन्त्रेणाद्यन्तसंरुद्धं यस्य नाम तु नारद ।। 79 ।।
जपेच्छतद्वयं मन्त्री स संबाधपथं व्रजेत्।
मन्त्रेशं जपमानस्तु यदि तिष्ठेत्तपोवने ।। 80 ।।
लब्धविज्ञानसन्तोषाः पादयोर्निपतन्ति ते।
तपस्विनः शान्तचित्ता मन्त्रज्ञस्य महात्मनः ।। 81 ।।
महानृपालयाग्रे तु ध्यायेद्वै मन्त्रनायकम्।
क्षणमास्ते यदा मन्त्री तदा नृपवरस्तु तम् ।। 82 ।।
समेत्य पादमूलं तु निखिलं विनिवेदयेत्।
यान्यांश्चेतसि कृत्वा वै जपेन्मन्त्रवरं व्रती ।। 83 ।।
समेत्य तेन विप्रेन्द्र मन्त्रज्ञस्य महात्मनः।
स्वं स्वं चैव तु विज्ञानं कथयन्ति प्रयत्नतः ।। 84 ।।
नागा विद्याधरा यक्षा ये वै गगनगामिनः।
विज्ञानसिद्धिं वै सर्वां विशेषेण महात्मनः ।। 85 ।।
दत्वा साधकमुख्यस्य यान्ति यत्रागताः पुनः।
विज्ञानविषये सिद्धौ सन्दिग्धार्थे तु नारद ।। 86 ।।
मन्त्रं ध्यायेज्जपेन्मन्त्री निस्सन्देहपदं व्रजेत्।
ध्यात्वा नाभौ तु मन्त्रेशं जपेद्यद्ययुतं प्रति ।। 87 ।।
भूतं भव्यं भविष्यच्च वेत्ति सर्वं न संशयः।
साष्टं शतद्वयं जप्त्वा सर्षपान्करसंपुटे ।। 88 ।।
निक्षिपेद्भूमिमध्ये तु ते स्वयं संघटन्त्यधः।
निधिस्थाने तु विप्रेन्द्र स्थाने रासायने तु वा ।। 89 ।।
तत्प्राणि(प्ति?)सूचनार्थं तु तत्रावर्तं ददत्यथ।
प्राप्तिर्न विद्यते यस्मिन्निधावथ रसायने ।। 90 ।।
दूरतश्च तदुद्देशात्प्रयान्तीतस्ततो द्विज।
बद्धपद्मासनो मन्त्री शून्यधारणया स्थितः ।। 91 ।।
जपेद्दशसहस्राणि खेचरत्वमवाप्नुयात्।
राजोपलद्युतिमुषं ध्यात्वा मन्त्रं जपेद्यदि ।। 92 ।।
तुर्यांशमयुतं ... .... तालुरन्ध्रपथस्थितम्।
स्वयमन्यस्य वा विप्र पलितं नाशयेद्यतः ।। 93 ।।
पुरन्दरपुरान्तस्थं मन्त्रं मन्त्री जपेद्यदि।
ज्वलनाभं तु जिह्वाग्रे रक्षावानीश्वरस्य तु ।। 94 ।।
सोऽपि मूकत्वमाप्नोति किं पुनर्मनुजोऽल्पधीः।
निशाम्बुना च क्षीरेण सघनेन रसेन च ।। 95 ।।
विलिख्य कुङ्कुमाढ्येन भूर्जे वा सितकर्पटे।
षट्पत्रं तु महापद्मं तद्बहिर्द्वादशच्छदम् ।। 96 ।।
सनाभिनेमि तद्बाह्ये षोडशारश्च हेतिराट्।
प्राग्वन्नामसमायुक्तं मन्त्रेशं कर्णिकान्तरे ।। 97 ।।
पत्रषट्के षडङ्गं तु नामाक्षरपदान्वितम्।
अङ्गानि मूर्तयश्चैव शक्तयोऽथ दलत्रये ।। 98 ।।
तान्येवान्येषु पत्रेषु भूयो भूयो विलिख्य च।
पद्मं समाप्यते यावन्नाभौ मूलं न्यसेत्पुनः ।। 99 ।।
अरान्तराल हृद्बीजमस्त्रबीजमरेषु च।
शेषमङ्गचतुष्कं तु मूर्तयश्शक्तयस्तथा ।। 100 ।।
चक्रनेमौ तु विनय्स्य चक्रबाह्यं तु वै ततः।
नवधा शक्तिबीजेन वेष्टनीयं महामते ।। 101 ।।
आश्रमावरुणासङ्घ(1)शान्तिमन्त्रान्विनिक्षिपेत्(?)।
अथवाऽनेन तु व्योम्नि तत्र सूत्रेण वेष्टयेत् ।। 102 ।।
(1. सङ्घं)
जाम्बूनदपुटे कृत्वा धारयेद्भक्तिमान्हि यः।
तस्य ज्ञानं सविज्ञानमाविर्भवति नारद ।। 103 ।।
नदीः सन्तरतस्तस्य अथवोदधिलङ्घने।
तोयोत्था दोषसंघाश्च ऊर्मयः प्रशमन्ति च ।। 104 ।।
यन्त्रसंधारको यत्र निवसत्यम्बुजन्म च।
ज्वलितं (1)वाचकं तत्र गमयत्यचिरेण तु (?) ।। 105 ।।
(1. पातकं A)
कृत्वा स्थानं तु निर्बाधं मन्त्रस्यास्य प्रभावतः।
प्रविशन्ति च घोराणि भौमाद्यानि सहस्रशः ।। 106 ।।
न तत्र दैविको बाधः कुतो राजकुलोद्यतः।
उदेति पूर्णमतुलं धैर्यं लक्ष्मीः प्रगल्भता ।। 107 ।।
विपरीतमतो यद्वै तत्सर्वं नाशमेति च।
किमस्य मन्त्रनाथस्य अप्राप्यं भुवनत्रयम् ।। 108 ।।
स्यात्समाराधितस्यैवं विधिदृष्टेन कर्मणा।
यत्र यत्र च मन्त्रेशं यं यं मन्त्री नियोजयेत् ।। 109 ।।
तत्राङ्गशक्तिमूर्तिं चाप्यर्चयेज्जुहुयाज्जपेत्।
इत्येतत्कापिलस्योक्तं वाराहस्याधुनोच्यते ।। 110 ।।
[वराहमन्त्रसाधनप्रकारः तत्र वराहस्याङ्गमन्त्रः] 29-4
षोढाऽनन्तेशमादाय प्रधानोपरि संस्थितम्।
धरेशं तदधो दद्यात्संयोज्याङ्गोदितस्वरैः ।। 111 ।।
[वराहस्यानुचरमन्त्राः]
गोविन्दो विबुधाद्यश्च वराहश्च चतुर्गतिः।
क्रमाच्चतुष्टयं दद्यात्तेषां चाधो नियोज्य च ।। 112 ।।
धरेशश्च गदध्वंसी सूक्ष्मं वरुणमेव च।
तदूर्ध्वमनंल पश्चाच्चतुर्णां क्रमशो न्यसेत् ।। 113 ।।
[वराहस्य शक्तिमन्त्राः]
अथ शक्तिचतुष्कार्थमादायार्णचतुष्टयम्।
ध्रुवो वराहस्त्वनलः परमात्मा महामतेः ।। 114 ।।
आरूढं सोमबीजं च चतुर्णामासने न्यसेत्।
विष्णुनाऽलंकृतास्सर्वे ततः स्वहृदयान्मुने ।। 115 ।।
सर्वस्मिन्मन्त्रचक्रे तु चान्द्री व्यापी तु मूर्धनि।
न्यासं पुरोदितं कृत्वा इष्ट्वा हृदयगोचरे ।। 116 ।।
अष्टास्रं तु पुरं कृत्वा द्वाराद्यवयवान्वितम्।
तन्मध्ये कमलं शुक्लमष्टपद्मं सकर्णिकम् ।। 117 ।।
तत्रावतार्य मन्त्रेशं पूजयेद्भक्तिपूर्वकम्।
पूर्ववद्धृदयादीनि ततोऽनुगचतुष्टयम् ।। 118 ।।
ध्यात्वा पद्मदलान्तस्थं न्यसेद्ध्यानं निबोध मे।
[वराहानुचरध्यानप्रकारः]
अतसीपुष्पसंकाशं प्रथमं धरणीधरम् ।। 119 ।।
धराधरं द्वितीयं तु नवमेघसमप्रभम्।
प्रियङ्गुमञ्चरीश्यामं तृतीयं पृथिवीधरम् ।। 120 ।।
चतुर्थं विश्वधृङ्नाम ध्यायेदलिकुलद्युतिम्।
वराहवदनाः सर्वे शंखपद्मकरोद्यताः ।। 121 ।।
बद्धपद्मासनासीना वरदाभयकास्तु वै।
पुष्पाभरणदिग्धाङ्गास्तुषारनिकरान्विताः ।। 122 ।।
[वराहशक्तिद्यानप्रकारः]
ततः शक्तिचतुष्कं तु ध्यात्वा ध्यात्वा निवेशयेत्।
नवचम्पकवर्णाभां प्रथमां विश्वपूरकीम् ।। 123 ।।
राजोपलप्रभामन्यां विस्वसन्धारणीति या।
ध्यायेद्बन्धूकपुष्पाभामोजाख्यां तु महाबलाम् ।। 124 ।।
चतुर्थीं स्थितिसंज्ञां च तुहिनाचलसन्निभाम्।
वराहवदनास्सर्वे द्विभुजाश्चारुकुण्डलाः ।। 125 ।।
गदाचक्रकराश्चैव नानापुष्पाम्बरान्विताः।
पूजयित्वा ततो दद्यान्मुद्रां मन्त्रगणस्य च ।। 126 ।।
मूलस्य हृदयादीनां पूर्वलक्षणलक्षिताम्।
वराभयाख्यां मूर्तीनां गदामुद्राङ्गनासु च ।। 127 ।।
ततस्तु जुहुयान्मन्त्री मध्वक्तानसितांस्तिलान्।
दत्वा पूर्णाहुतिं कृत्वा वाराहं रूपमात्मनः ।। 128 ।।
यायाज्जलाशयोद्देशमेकान्तं विजनं महत्।
तत्र लक्षाष्टकं जप्त्वा जुहुयाद्द्वे च सप्त च ।। 129 ।।
तिलानां त्वयुतं चापि अयुतद्वितयं तथा।
गव्यस्याज्यस्य जुहुयात् गुल्गुलोरयुतं पुनः ।। 130 ।।
दद्यात्पूर्णाहुतिं मन्त्री ततो दृष्टिपथं व्रजेत्।
स्तूयमानस्सुरैः सर्वैर्वराहो वरदः प्रभुः ।। 131 ।।
गच्छ तुष्टोऽस्मि ते शीघ्रमभीष्टं परिसाधय।
ततः साधकमुख्योऽसौ साधयेत्प्रभुणोदितम् ।। 132 ।।
[वराहमन्त्रसिद्धिजं सामर्थ्यम्]
आरुह्य शिखराग्रे तु दक्षिणाशां निरीक्षयन्।
जपेन्मन्त्रवरं रात्रौ निशान्ते चान्तकः स्वयम् ।। 133 ।।
विह्वलीभूत आयाति किं मया ते प्रयोजनम्।
ब्रूहि वैरिगणः कस्ते यस्याद्य प्रभवाम्यहम् ।। 134 ।।
(1)प्रसन्नस्त्ववसन्नो वा यस्यासौ कालमृत्युना।
न बाध्यतेऽद्यप्रभृति त्वदीयं शपथं हि मे ।। 135 ।।
(1. प्रपन्न Y CL)
त्वमिदानीं व्रतधरो गतमृत्युर्न संशयः।
यास्यामि देहि चाज्ञां मे याहीत्यस्य ततो वदेत् ।। 136 ।।
ध्यात्वा तोयं घटान्तस्थं जप्त्वा सार्धशतं तथा।
गर्दभाद्याश्च ये रोगाः प्रशमन्ति च तज्जलात् ।। 137 ।।
स्नानात्पानात्तथा सेकात् क्षणेन तु महामुने।
निशाम्बुना चन्दनेन नाममन्त्रपुटीकृतम् ।। 138 ।।
परिवारयुतं पद्मे लिखित्वा शीतले जले।
निधाय तत्क्षणाद्याति ज्वरश्चैकाह्निकादिकः ।। 139 ।।
प्रजप्य गुग्गुलुं धूपं सिद्धार्थकसमन्वितम्।
ज्वरान्ते धूपितः सम्यक् सुखी भवति तत्क्षणात् ।। 140 ।।
मृदमादाय संमन्त्र्य कृत्वा वामकरस्थिताम्।
जलेनालोड्य तदनु लूताक्तं परिलेपयेत् ।। 141 ।।
नश्यत्याशु द्विजश्रेष्ठ मन्त्रस्यास्य प्रभावतः।
शताभिमन्त्रितं कृत्वा तिलतैलं घृतान्वितम् ।। 142 ।।
सर्वव्याधिविघातं च अभ्यङ्गात्परिजायते।
इच्छासंख्यं करे कृत्वा नीलं दर्भगणं द्विज ।। 143 ।।
शताभिमन्त्रितं कृत्वा निक्षिपेत्पृष्ठदेशतः।
व्रजमानो महारण्ये चोरातङ्कभयाकुले ।। 144 ।।
आस्ते चानुगता तस्य पैशाची यक्षसन्ततिः।
निपातयति दोषाणां पथि सर्वसुखप्रदा ।। 145 ।।
यं यं समीहते मन्त्री पथि तीर्थान्तरे स्थितः।
तं तं यक्षादयश्शश्वत् प्रददन्ते यथेप्सितम् ।। 146 ।।
तृप्त्यर्थं तस्य सार्थस्य न श्रमं चाप्यसौ व्रजेत्।
यक्षरक्षःपिशाचाश्च तिष्ठन्त्यन्येऽग्रतोऽस्य वै ।। 147 ।।
अन्रुगन्धानमात्रेण तदाज्ञासंप्रतीक्षकाः।
यदा गगनगामित्वमिच्छत्यद्भुतकृद्व्रती ।। 148 ।।
तदादाय च माक्षीकं सुभगां च महौषधीम्।
तुषारं सूतसहितं कृत्वा ताम्रपुटे त्वमून् ।। 149 ।।
गूहयेन्मर्दनेनाथ भूयो हेमपुटे क्षिपेत।
सहस्रं परिजप्याथ कृत्वा च गुलिकां च ताम् ।। 150 ।।
निक्षिप्य मुखमद्ये तु ततो नभसि चेत्पतेत्।
सिद्धविद्याधराः सर्वे आयान्ति भयविह्वलाः ।। 151 ।।
किङ्करत्वेन वर्तन्ते मन्त्रज्ञस्य महात्मनः।
सप्तद्वीपसमुद्रान्तां यद्यगादवनिं द्विज ।। 152 ।।
अन्तरिक्षेण वै मन्त्री न मोहमुपगच्छति।
भ्रमत्यविरतं मन्त्री मेरुपृष्ठे गतो यदि ।। 153 ।।
दिवौकसां पुराणां तु तत्र चेद्विबुधाङ्गनाः।
पूजयन्ति च वै तस्य विबुधाः प्रणमन्ति च ।। 154 ।।
आदाय गुटिकां मन्त्री कृत्वा द्वादशमन्त्रिताम्।
सप्तलोकोद्भवाः कन्याः सप्तपातालसम्भवाः ।। 155 ।।
संलिख्य चेतसा कृत्वा स्वपरार्थकरो यदि।
दृश्यन्ते च ततः क्षिप्तं मदाघूर्णितलोचनाः ।। 156 ।।
नागाश्च महिषा दान्ता मृगास्सिंहोरगादयः।
नरा वा[कि]न्नराश्चान्ये तान् लिखेद्यदि साधकः ।। 157 ।।
क्षणेन सत्यंकारास्ते प्रोत्तिष्ठन्ते न संशयः।
मधुना तिलकं कृत्वा युक्तं मृगमदेन तु ।। 158 ।।
शताभिमन्त्रितं समयक् ललाटे मुनिसत्तम।
सान्तःपुरयुतो राजा क्षोभमायाति तत्क्षणात् ।। 159 ।।
अभिमन्त्र्य गदां मन्त्री खादिरीमायसीं तु वा।
बिलं विना तु भूभागं केवलं ताडयेद्यदि ।। 160 ।।
सप्तानां तु तलानां वै निर्यन्त्रो(यन्त्रा ?) भूयते गतेः।
या या चेतसि वै सिद्धिरभीष्टा साधकस्य तु ।। 161 ।।
सा सा मन्त्रबलात्सम्यक् सिध्यति ह्यचिरात्ततः।
अष्टयोन्युत्थिता देवी तथा चैवाणिमादयः ।। 162 ।।
सामर्थ्यान्मन्त्रनाथस्य साधकानां च नारद।
पयसा कापिलेनैव रोचनाकुङ्कुमेन च ।। 163 ।।
भूर्जपत्रेऽथवा वस्त्रे अष्टास्रं च लिखेत्परम्।
तन्मद्येऽष्टदलं पध्मं षट्कोणं तद्बहिःपुरम् ।। 164 ।।
द्वादशारं तु तद्बाह्ये नाभिनेमि(1)प्रथीयुतम्।
मध्ये मन्त्रयुतं ... ... नामबीजान्तरस्थितम् ।। 165 ।।
(1. प्रकाशते Y)
पूजान्यासप्रयोगेण दलानां च हृदादयः।
भूयोऽस्त्रबीजं विप्रेन्द्र अष्टास्रास्रिषु चाष्टधा ।। 166 ।।
तदाशास्वष्टधा भूयो हृन्मत्रं योजयेत्ततः।
षोढा वै षट्सु कोणेषु बहिरष्टास्रकस्य तु ।। 167 ।।
शिखाबीजं तु विन्यस्य तनुत्रं योजयेत्ततः।
प्रपूरणार्थं नाभौ तु असंख्यं बहुशो लिखेत् ।। 168 ।।
षट्परावर्तयोगेन चतस्रोऽरेषु मूर्तयः।
याऽत्र वै प्रथमा शक्तिश्चतुर्विंशतिधा च ताम् ।। 169 ।।
दद्यादरान्तरालेषु द्वितीया नेमिमण्डले।
नाभिस्थबीजयुक्ता तु योजनीया निरन्तरम् ।। 170 ।।
अन्तरान्तरयोगेन शेषं शक्तिद्वयं तु तत्।
प्रथिषु न्यसनीयं च बाह्यचक्रे ततो द्विज ।। 171 ।।
द्विषट्कधा च शिरसा वेष्टयित्वा त्रयं नयेत्।
विष्णुं व्योमेशवर्णेन तद्यन्त्रं परिवेष्टयेत् ।। 172 ।।
पञ्चरङ्गेण सूत्रेण क्षिपेत्कनकसंपुटे।
दोर्दण्डे दक्षिणे कुर्यात् स्त्री वा स्तनयुगान्तरे ।। 173 ।।
प्रियत्वं सततं याति वैरिष्वपि च साधकः।
नदीनदान्समुद्रान्वा लीलया परिलङ्घयेत् ।। 174 ।।
बह्वर्थं तत्प्रभावाच्च नो मज्जति जलान्तरे।
नारण्यवनजानां तु सकाशाद्विद्यते भयम् ।। 175 ।।
भजन्ति सानुकूलं च विपरीतस्थिता ग्रहाः।
न बाधते विषं घोरमनेकं चातिभीषणम् ।। 176 ।।
चोरादिशस्त्रसंघातो गात्रसन्धिषु नो विशेत्।
यत्रोपलानि गगनात्पतन्ति यदि वै ततः ।। 177 ।।
तुल्यानि पुष्पवृष्टीनां वैध(स्युः?)न्यूनानय्थ द्विज।
बालग्रहादयो दूरं त्यक्त्वा बालं प्रयान्ति च ।। 178 ।।
यत्रेदं तिष्ठते यन्त्रं किं तु तद्देहगं तु वै।
लग्नगर्भा च या नारी सुखं सूते च धारणात् ।। 179 ।।
भवेत्पुत्रवती वन्ध्या मृतवत्साऽथ पुत्रिणी।
सपत्नी गणमध्ये तु पूजामाप्नोति शाश्वतीम् ।। 180 ।।
रणे राजकुले द्यूते विवादे चातिसंकटे।
धारको जयमाप्नोति मन्त्रस्यास्य प्रभावतः ।। 181 ।।
तस्मात्संसाधिते मन्त्रे यन्त्रं वै मुनिसत्तम।
इह तन्त्रोत्थितं वान्यत्सर्वकर्मकरं भवेत् ।। 182 ।।
सर्वसिद्धिप्रदं चैव सर्वसंपत्समृद्धिकृत।
इदं ते विप्र मन्त्राणां सरहस्यं च कीर्तितम् ।। 183 ।।
साधनं भोगकामानां साधकानां महात्मनाम्।
नेदं शठानां पापानामभक्तानां प्रकाशयेत् ।। 184 ।।
नान्यदर्शनभक्तानां नाशिष्याणां कदाचन।
नान्यायमार्गसंस्थानामधर्मनिरतात्मनाम् ।। 185 ।।
लीलया चोदकानां च मार्गे वा यत्र कुत्रचित्।
यो धर्मं चार्थलाभेन प्रब्रूते ह्युन्नतिं विना ।। 186 ।।
धनाभिमानसक्तानां स सिद्धोऽपि व्रजत्यधः।
तस्मादिदं रहस्यं च दृष्टादृष्टद्वयार्थिषु ।। 187 ।।
न्यायतः प्रतिपन्नेषु वक्तव्य श्रेय इच्छता।
इति श्रीपांचरात्रे जयाख्यसंहितायां वक्रमन्त्रसाधनं नाम एकोनत्रिंशः पटलः।
* * * * *