प्रमुखा विकल्पसूचिः उद्घाट्यताम्
← पटलः २६ जयाख्यसंहिता
पटलः २७
[[लेखकः :|]]
पटलः २८ →
जयाख्यसंहितायाः पटलाः

पटलः - 27
अथ शक्तिमन्त्रसाधनं नाम सप्तविंशः पटलः 27-1
श्रीभगवान् ---
अनुक्रमेणाथ मुने लक्ष्म्यादीनां च साधनम्।
विविधानि च कर्माणि मन्त्रेभ्यो ह्यवधारय ।। 1 ।।
[लक्ष्म्यादिषु अनन्ताद्यासनस्य साधारण्यम्] 27-2
अनन्तं च तदूर्ध्वे तु धर्माद्यं यच्चतुष्टयम्।
पद्मं धामत्रयोपेतं सर्वमन्त्रगणस्य च ।। 2 ।।
सामान्यमासनं विद्धि पूजाकाले तु सर्वदा।
[तत्र द्वारयागादेः साधारण्यम्]
द्वारयागो गणेशादिपूजनं मुनिसत्तम ।। 3 ।।
लोकेश्वरास्त्रयागश्च सर्वत्र विहिताः सदा।
देवीचतुष्कयागे तु षट्‌के तु हृदयादिके ।। 4 ।।
नृसिह्मकपिलक्रोडयागेषु च यजेद्द्विज।
[लक्ष्यादियागादन्यत्र विष्वक्‌सेनपूजनप्रतिषेधः] 27-3
विष्वक्सेनस्तु नान्यत्र पूजनीयः कदाचन ।। 5 ।।
[तत्तन्मन्त्राणां तत्तद्धृदयेनैवोपचारः] 27-4
यं यं प्रपूजयेन्मन्त्री मन्त्रं सिद्धिपरायणः।
तन्मन्त्रं हृदयेनैव तं तमेवोपचार्य च ।। 6 ।।
नोपचारिकमन्त्रान्वै पूर्वोक्तान्विनिवेशयेत्।
[जपसूत्रे विशेषः] 27-5
न मूलमन्त्रसंरुद्धं सूत्रं तु जपकर्मणि ।। 7 ।।
तन्मन्त्रेण तु संस्कृत्य(2) पुरा सन्धाय चापरम्।
[धूपघण्डादीनां साधारण्यम्] 27-6
सामान्यं सर्वमन्त्राणां धूपघण्टा पुरोदिता ।। 8 ।।
(2. स्तु Y.)
यागागारं तथा कुण्डं स्रुक्स्रुवौ मुनिसत्तम।
अथाङ्गषट्कं व्याख्यास्ये लक्ष्म्याद्यादौ तु लक्षणम् ।। 9 ।।
चतुर्णां तु सखीनां च बीजमन्त्रचतुष्टयम्।
चतुर्णामनुगानां तु क्रमेण च यथास्थितम् ।। 10 ।।
[लक्ष्म्या अङ्गमन्त्रः] 27-7
आदाय पुण्डरीकं तु धरेशं तदधो न्यसेत्।
अनलं तदधःस्थं च कृत्वा षोढा नियोज्य च ।। 11 ।।
क्रमेण योजयेदेषामानन्दं प्रथमस्य च।
विष्णुमूर्जमथैश्वर्यं भूधरं परमेश्वरम् ।। 12 ।।
चान्द्री व्योमेशसंयुक्तां सर्वेषामुपरि न्यसेत्।
विद्धि षड्‌हृदयादीनि
[लक्ष्म्याः सखीमन्त्रः] 27-8
सखानामधुना शृणु ।। 13 ।।
आदाय केवलं सत्यं तत्स्थितं वरुणं ततः।
मायायुक्तं ततः सोमं वरुणं रामभूषितम् ।। 14 ।।
चान्द्री व्यापी क्रमाद्योज्यौ सर्वेषां मूर्ध्नि वै ततः।
ऋद्धिः वृद्धिः समृद्धिस्च विभूतिरपि प्ता सखी ।। 15 ।।
[लक्ष्म्या अनुचरमन्त्रः] 27-9
लकारस्त्वादिदे(1)वस्थस्सोमोऽथ भुवनस्थितः।
द्विधाऽमृतं समादाय भूधरेण समन्वितम् ।। 16 ।।
(1. वारव्यः A)
पूर्ववच्चिरसंयुक्तमेतत्कुर्याच्चतुष्टयम्।
लावण्यः सुभगो नाम्ना सौभाग्यश्च तृतीयकः ।। 17 ।।
चतुर्थस्सौमनस्यश्च चत्वारोऽनुचराः स्मृताः।
सर्वेषां प्रणवं पूर्वं नामस्वाहानमोनुगम् ।। 18 ।।
[मण्डलम्] 27-10
चतुरस्रं चतुर्द्वारं कृत्वा पूर्वोदितं पुरम्।
तन्मद्येऽष्टदलं पद्मं लिखेच्छुक्लारुणप्रभम् ।। 19 ।।
सितानि चतुरालिख्य कोणेषु स्वस्तिकानि च।
[न्यासः] 27-11
व्यापकत्वेन तु पुरा मणिबन्धमुखादिगम्‌ ।। 20 ।।
विन्यस्य मूलमन्त्रं तु हस्ते देहे च केवलम्।
पश्चादादौ तु हस्ताभ्यां लक्ष्मीमन्त्रं तथा नय्सेत् ।। 21 ।।
तदङ्गानि हृदादीनि हस्ते देहे च विन्यसेत्।
तस्यानुगचतुष्कं यद्देवीनां तदनु न्यसेत् ।। 22 ।।
प्रदेशिन्यादितो हस्ते देहे तदनु विनय्सेत्।
उत्तमाङ्गेऽथ हृन्मध्ये ऊर्वोर्जानुद्वये तथा ।। 23 ।।
लावण्याद्याश्च चत्वारो ह्यनामादौ करद्वये।
अङ्गुष्ठान्तं करे न्यस्य देहे तदनु नारद ।। 24 ।।
दक्षिणे च तथा वामे स्कन्धे पक्षद्वये तथा।
[लक्ष्म्या मानसयागः] 27-12
न्यासं कृत्वा यथान्यायं श्रीकामोऽथ यजेद्घृदि ।। 25 ।।
लययागप्रयोगेण लक्ष्मीमन्त्रं तु केवलम्।
कृत्वाऽवलोकनाद्यं तु ततो बाह्ये तु विन्यसेत् ।। 26 ।।
[बाह्ययागार्थो मण्डले विन्यासः] 27-13
मूर्तिमन्त्रयुतं मूलं कर्णिकोपरि नारद।
सकलाकलदेहं च सर्वमन्त्रात्मकं प्रभुम् ।। 27 ।।
तदुत्सङ्गगतां लक्ष्मीं स्वमन्त्रेणावतार्य च।
पूवोक्तध्यानसंयुक्तां भोगमोक्षप्रसिद्धये ।। 28 ।।
तदाग्नेये तदीशाने वायवीये च नैऋते।
चत्वारि हृदयादीनि नेत्रं केसरसन्ततौ ।। 29 ।।
तदग्रे दक्षिणे पृष्ठे वामपत्रे क्रमान्न्यसेत्।
चतुष्टयं तु शुद्धा(ऋद्ध्या?)द्यं द्विभुजं तु तदाकृति ।। 30 ।।
पद्मगौरप्रतीकाशं श्रीवृक्षच(1)मराङ्कितम् (?)।
पद्मासने चोपविष्टं प्रेक्षमाणं तदाननम् ।। 31 ।।
(1. चरमाङ्गि V.)स्वस्तिकानां तदीशादिकोणस्थाने निवेश्यते।
लावण्याद्यचतुष्कं तु पीतवर्णं चतुर्भुजम् ।। 32 ।।
नीलकौशेयवसनं पद्मकुम्भकरान्वितम्।
नलिनीध्वजहस्तं च सफलामलवृक्षधृत ।। 33 ।।
द्वारेष्वस्त्रं चतुर्दिक्षु न्यस्य पूज्य यथा पुरा।
[जपहोमादिविधिः] 27-14
मूलमन्त्रयुतां देवीं लक्ष्मीं लक्ष्मीप्रदां द्विज ।। 34 ।।
जप्त्वा कृत्वा ततो होमं सघृतैस्तु तिलाक्षतैः।
सामलैः श्रीफलैश्चैव सक्तु(1)लाजैस्तु पङ्कजैः ।। 35 ।।
(1. तिलामेतु A तिला जतु C. L.)
यथाशक्ति ह्यसङ्ख्यैस्तु होमान्ते च ततो द्विज।
लक्ष्मीरूपधरो भूत्वा साधकः कृतनिश्चयः ।। 36 ।।
जपेल्लक्षाणि वै पञ्च शुद्धाहारो जितेन्द्रियः।
होमं कुर्याज्जपान्ते तु क्रमाद्बिल्वफलाम्बुजैः ।। 37 ।।
पयोमधुघृताक्तैस्तु अयुतायुतसंख्यया।
[लक्ष्मीमन्त्रसिद्धिजं सामर्थ्यम्] 27-15
ददाति दर्शनं विप्र होमान्ते परमेश्वरी ।। 38 ।।
पुत्र सिद्धाऽस्मि ते ब्रूहि यत्ते मनसि चेप्सितम्।
कुरु कर्माण्यभीष्टीनि मन्मन्त्रेणाखिलानि च ।। 39 ।।
अद्य प्रभृति निश्शङ्को द्वन्द्वोपद्रववर्जितः।
एवमुक्त्वा तु सा देवी याति यत्रागता तु वै ।। 40 ।।
ततः कर्माणि वै कुर्याल्लक्ष्म्योक्तानि तु साधकः।
तुष्टाऽभीष्टां श्रियं दद्यादर्थिनामर्थकामिनाम् ।। 41 ।।
संक्रुद्धो निर्धनं कुर्याद्वाङ्भात्रेण धरेश्वरम्।
शुद्धं कुर्यात्सकृद्ध्यानान्मन्त्रजापाच्च हाटकम् ।। 42 ।।
पूरयित्वाऽम्भसा कुंभं क्षीरेण मधुनाऽथवा।
निधाय दक्षिणे हस्ते वामं तदुपरि न्यसेत् ।। 43 ।।
शतमष्टाधिकं मन्त्रं जपेद्ध्यानसमन्वितम्।
रसेच्छासुनिवेशस्थो ह्येकचित्तः समाहितः ।। 44 ।।
रसेन्द्रत्वं समायाति यत्कुम्भे त्वाहृतं जलम्।
सरसो लक्षवेधी स्याच्छस्त्रादीनां भवेद्विज ।। 45 ।।
करोति कायमजरं जरारोगविवर्जितम्।
अङ्गुष्ठोदरमात्रं तु पुरा पाषाणमाहरेत् ।। 46 ।।
दक्षिणेन च हस्तेन वामे च बदरीसमम्।
अभिमन्त्र्य तु द्वौ मुष्टी द्वे शते षोडशाधिके ।। 47 ।।
दक्षिणस्थं तु पाषाणं रत्नत्वमुपयाति च।
वामे मुक्ताफलत्वं च महामूल्ये तु ते उभे ।। 48 ।।
यद्यदिच्छति जात्या वै तत्तद्रत्नं भवेत्तदा।
तथा मुक्ताफलं यद्यत्प्रतिभाति करोति तत् ।। 49 ।।
गोगजाश्वसमुद्भूतमस्थि चादाय पाणिना।
शतार्धमन्त्रितं कृत्वा प्रवालत्वं प्रयाति तत् ।। 50 ।।
शताभिमन्त्रितं कृत्वा त्रपुसीसे तथाऽयसम्।
जायते कलधैतं तु रजतं वाऽथ निर्मलम् ।। 51 ।।
यद्यद्गृहीत्वा विप्रेन्द्र यं यं वा तु समीहते।
क्रुद्धो वा परितुष्टश्च तत्तत्कुर्यात्तु नान्यथा ।। 52 ।।
एवमश्ममयानां तु अन्यत्वमुपपद्यते।
या या मनसि वै यस्य विभूतिं प्रददाति च ।। 53 ।।
तां तां ददाति तस्याशु धनधान्यगवादिकम्।
लिखित्वा भूर्जपत्रे तु यागन्यासक्रमेण तु ।। 54 ।।
रोचनाकुङ्कुमाभ्यां तु सन्धारयति यः सदा।
सुवर्णवेष्टितं चाङ्गे लक्ष्मीमन्त्रं तु नारद ।। 55 ।।
तस्यायुषश्शियो वृद्धिस्सर्व(1)सत्त्वाश्रयो महान्।
प्राप्नुयान्महतीं पूजां यत्र यत्र च संविशेत् ।। 56 ।।
(1. त्रोपचयो A)
इदमाराधनं प्रोक्तं श्रीकामानां समासतः।
[कीर्तिमन्त्रसाधनप्रकारः] 27-16
कीर्तिमन्त्रविधानं तु सांप्रतं मेऽवधारय ।। 57 ।।
विलिख्य कमलं षोढा अनलासनसंस्थितम्।
अङ्कयेच्छिरसा विप्र लाक्ष्म्यमङ्गगणं यथा ।। 58 ।।
सर्वत्र चास्त्रमन्त्रस्य तच्चिह्नं परिवर्जयेत्।
[कीर्तेः सखीमन्त्राः]
शान्तिदं च ततस्सोमं (2)मर्दनं शङ्करं ततः ।। 59 ।।
(2. मन्दरं A)
क्रमेणालिख्य चतुरः कालपावकसंस्थितान्।
व्यापी चान्द्री ततो माया एकैकस्मिंस्तु मूर्धनि ।। 60 ।।
द्युतिः सरस्वती मेधा धृतिः कीर्तिः सखीगणः।
[कीर्तेरनुचरमन्त्राः]
आनन्दयुक्तं वरुणमप्रमेयं च केवलम् ।। 61 ।।
पवित्रमनलारूढं स्रग्धरं च तथाविधम्।
आनन्देनापि चाक्रान्तं चतुर्णां मूर्ध्नि योजनम् ।। 62 ।।
विश्वाप्यायकरो व्यापी क्रमादनुचरास्त्वमी।
वागीशो ह्यभयश्चैव प्रसादस्त्राणसंज्ञितः ।। 63 ।।
[पूर्ववन्मण्डलादिविधानम्]
न्यासो हृत्पद्मयागश्च सर्वं विद्धि पुरोदितम्।
पूर्वोक्तं मण्डलं कृत्वा सितपीतं तदन्तरे ।। 64 ।।
किं तु वै पङ्कजं कुर्याद्विन्यसेत्तदनन्तरम्।
विभोरुत्सङ्गगां कीर्तिं हृदादीनि यथा पुरा ।। 65 ।।
[सखीनामनुचराणां च ध्यानप्रकारः]
क्रमाद्ध्यानं सखीनां च शृणुष्वानुचरेष्वपि।
द्विभुजा हेमवर्णाश्च कीर्तिरूपाः स्मिताननाः ।। 66 ।।
सुपुस्तकं करे वामे दक्षिणे चामरं करे।
ध्यायेत्किंशुकवर्णास्ताः कान्तरूपा मनोहराः ।। 67 ।।
तदाऽनुगचतुष्कं तु चतुर्हस्तं सिताम्बरम्।
वामदक्षिणहस्ताभ्यां मुख्याभ्यां तेषु चिन्तयेत् ।। 68 ।।
शङ्खमिन्दुशताभं च कदम्बाख्यं महाद्रुमम्।
सुपुष्पं षट्‌पदोपेतं पराभ्यां च निबोध मे ।। 69 ।।
पूर्णचन्द्रोपमं वामे दर्पणं दक्षिणे द्विज।
मयूरव्यजनं शुभ्रं ध्यात्वैवं पूजयेत्ततः ।। 70 ।।
[होमजपयोर्विधिः]
अर्घ्यपुष्पादिकाः सम्यक् दत्वा शक्त्याऽथ होमयेत्।
तिलानि चाज्यसिक्तानि गन्धधूपान्वितानि च ।। 71 ।।
देवीरूपं तु होमान्ते कृत्वा पुष्पाञ्जनाम्बरैः।
एकान्ते विजने स्थित्वा मौनी मूलफलाशनः ।। 72 ।।
जपेल्लक्षत्रयं मन्त्री जपान्ते होममाचरेत्।
लक्षैकसंख्यं विप्रेन्द्र तण्डुलैस्तिलमिश्रितैः ।। 73 ।।
कापिलेन घृतेनैव क्षीरमिश्रेण नारद।
एकैकं च घृतादीनां सहस्रं चाथ होमयेत् ।। 74 ।।
दद्यात्पूर्णाहुतिं पश्चात् क्षीरेणाज्यान्वितेन च।
पतितायां तु पूर्णायामायाति परमेश्वरी ।। 75 ।।
साधु साध्विति वै ब्रूते स्थित्वाऽग्रे साधकस्य च।
एह्येहि परमं धाम त्यजेदं भौतिकं पुरम् ।। 76 ।।
उपभुङ्‌क्ष्व परान्भोगानक्षमध्यगतो महान्।
मदीयेनाखिलं कर्म मन्त्रेण कुरु साधक ।। 77 ।।
एवमुक्त्वा तु सा देवी गगनं च व्रजेत्ततः।
साधकः कीर्तिमन्त्रेण कुर्यात्कर्म यथेप्सितम् ।। 78 ।।
[कीर्तिमन्त्रसिद्धिजन्यं सामर्थ्यम्] 27-17
ददाति यस्य यत्किञ्चित्तस्य तच्चाक्षयं भवेत्।
तेनासौ लभते कीर्तिं यावच्चन्द्रार्कतारकम् ।। 79 ।।
प्रचण्डानां मनुष्याणां मध्यस्थो यदि बुध्यते।
वक्ति संसदि वा किंचित् प्राप्नुयाद्विपुलं यशः ।। 80 ।।
अभिभूय जनान्सर्वानुत्कृष्टत्वं प्रयाति च।
जप्त्वा सिद्धान्नभाण्डं तु स्वल्पं कालेऽन्नसङ्कटे ।। 81 ।।
यथेच्छानां जनानां तु यथेच्छमशनं द्विज।
ददाति चाक्षयं तस्मात्सप्ताहमनिशं यदि ।। 82 ।।
प्राप्नुयान्महतीं कीर्तिं यावदाभूतसंप्लवम्।
सुभिक्षे लवमात्रं तु प्रदाय कनकस्य च ।। 83 ।।
परिजप्य सहस्रं तु विधिना परिसंस्थितम्।
प्रयाति तत्प्रभूतत्वं दीयतेऽर्थिजनाय च ।। 84 ।।
अविच्छिन्नं द्विसप्ताहं संक्षयं नाधिगच्छति।
तेनासौ महतीं कीर्तिं प्राप्नुयाच्छाश्वतीं द्विज ।। 85 ।।
आदाय तोयकलशं नागेन्द्रभवनाद्द्विज।
प्रयायान्मरुभूमिं वै तत्र निम्ने तु भूतले ।। 86 ।।
निक्षिप्य पर्वताग्रे वा सहस्रपरिमन्त्रितम्।
स पन्नगेश्वरस्तत्र परिचारान्वितो द्विज ।। 87 ।।
रक्षन्नुदकमातिष्ठेद्यावत्तिष्ठति मेदिनी।
तेनासौ महतीं लोके कीर्तिं प्राप्नोति नारद ।। 88 ।।
काले तु बीजरोहीये यदि देवो न वर्षति।
आदाय मृत्कणं हस्ते तटाकाज्जलमर्दितम् ।। 89 ।।
तं मध्यस्थभ(1)यक्लिन्नं (?) परिजप्य शतत्रयम्।
(2)कख (मुख ?) श्वासैस्तु सन्तप्तं कृत्वा मन्त्रमनुस्मरेत् ।। 90 ।।
(1. भयाक्लिष्टं A)
(2. खग A)
प्रक्षिपेद्गगने तद्वन्मेघत्वमुपयाति च।
पूरयेन्मेदिनीं सर्वां जलेन जलदस्तु सः ।।। 91 ।।
तदाज्ञया वसेत्तावत् तस्मिन्देशे स मेघराट्।
वर्षं तदुपयोग्यं च यावत्संपद्यतेऽखिलम् ।। 92 ।।
तेनासौ महतीं कीर्तिं प्राप्नुयाच्च त्रिलौकिकीम्।
संपादयति विप्रेन्द्र यस्य यन्मनसेप्सितम् ।। 93 ।।
प्रभावान्मन्त्रराजस्य प्रसादादच्युतस्य च।
लिखितं पूर्वद्बध्वा वस्त्रे वा दक्षिणे भुजे ।। 94 ।।
प्राप्नुयान्महतीं वृद्धिं पूर्णां कीर्तिं सरस्वतीम्।
एतत्संक्षेपतः प्रोक्तं कीर्तिमन्त्रस्य नारद ।। 95 ।।
[जयामन्त्रसाधनप्रकारः] 27-18
संविधानमपूर्वं च सन्ततेरपि भूतिदम्।
जयाख्यमधुना विद्धि विधानं विष्णुभाविनाम् ।। 96 ।।
[जयाया अड्गमन्त्रः]
आदाय शाश्वतं षोढा कृत्वा चानलगं क्रमात्।
आक्रान्तं पूर्ववत्कुर्यादङ्गषट्‌कस्य सिद्धये ।। 97 ।।
[जयायाः सखीमन्त्रः]
अजितं विष्णुना युक्तं वाराहं रामवेष्टितम्।
व्यापकं केवलं चाऽथ सोमं रामसमन्वितम् ।। 98 ।।
शिरसा चिह्नयेत्प्राग्वच्चतुरः क्रमशो मुने।
सख्यो जयन्ती विजया तृतीया त्वपराजिता ।। 99 ।।
सिद्धिश्चतुर्थी विज्ञेया शृणुष्वानुचराननु।
[जयाया अनुचरमन्त्रः]
आरूढः पद्मनाभस्तु शाश्वतः केवलो द्विज ।। 100 ।।
प्रधानं च तथोद्दामं क्रमेणैतानि योजयेत्।
येषामुपरि वैनेयश्चान्द्री व्योमसमन्वितः ।। 101 ।।
प्रतापी जयभद्रश्च तृतीयस्तु महाबलः।
उत्साहाख्यश्चतुर्थस्तु कृत्वा न्यासं तु पूर्ववत् ।। 102 ।।
(1)इष्ट्वा भुवननाथं तु पूजयेच्च ततो बहिः।
[मण्डलादिविधानम्]
मण्डलं पूर्ववत्कृत्वा तन्मध्ये पङ्कजं लिखेत् ।। 103 ।।
(1. वननाभस्तुमध्ये तु C L, Y. `इष्ट्‌वा हृदन्तरे पूर्वम्' इति पाठश्चेत्प्रकरणसमुचितः।)
नीलोत्पलाभातुल्येन रजसा (2)च स ( चाष्ट? ) पत्रकम्।
तत्रोत्सङ्गगतां वि ष्णोर्हृदयाद्योजयेज्जयाम् ।। 104 ।।
(2. चाष्टपल्लवम् A)
शेषमन्त्रगणन्यासान्पूर्वपूर्वक्रमेण तु।
कर्तुः (कुर्यात् ?) ध्यानं च सर्वेषां समासादवधारय ।। 105 ।।
[जयायाः सखीनामनुचराणां च ध्यानप्रकारः]
हृदादीनां पुरा प्रोक्तं मूलमन्त्रप्रसङ्गतः।
नीलनीरजवर्णाश्च प्रसन्नवदनेक्षणाः ।। 106 ।।
पीताम्बरधराः सर्वाः सख्यः कनककुण्डलाः।
सितचामरहस्ताश्च चित्रपत्रफलोद्यताः ।। 107 ।।
निरीक्षमाणा वदनं जयाया अजितस्य च।
कुन्दकुड्मलवर्णाभाः प्रसन्नमुखपङ्कजाः ।। 108 ।।
रक्ताम्बरधराश्चैव चतुर्हस्ता महाबलाः।
धनुर्बाणकराश्चैव गदाचक्रधरा द्विज ।। 109 ।।
चत्वारोऽनुचरा ध्येयाः पुष्पाभरणभूषिताः।
पूजयेच्च ततो भक्त्या होमं कुर्यादनन्तरम् ।। 110 ।।
[होमादिविधिः]
तिलैः सिद्धार्थकोपेतैः हविषा गुग्गुलेन च।
होमावसाने विप्रेन्द्र कृत्वा रूपं जयात्मकम् ।। 111 ।।
जयाऽहमिति वै बुद्ध्वा चेतसोपस्थितं महत्।
वीरस्थानं समासाद्य निशशङ्को जनवर्जितम् ।। 112 ।।
वर्मणाऽस्त्रेण दिग्बन्धं कृत्वा दुष्टनिबर्हणम्।
प्रारभेत जपं पश्चात् पयोऽन्नफलभुक्सदा ।। 113 ।।
युक्तोऽन्तरसहायेन मौनी ध्यानपरायणः।
प्रणिपत्य हरिं मूर्ध्ना प्राक् स्वमन्त्रेण नारद ।। 114 ।।
जपेल्लक्षचतुष्कं तु जपान्ते होममाचरेत्।
समित्प्रादेशमात्रा तु रक्तचन्दनसंभवा ।। 115 ।।
तासामयुतहोमस्तु घृताक्तानां तु होमयेत्।
सिद्धार्थकायुते द्वे च मधुमिश्रा महामुने ।। 116 ।।
अयुतत्रितयं चाथ जुहुयादसितैस्तिलैः।
मधुत्रितयसंपृक्तैरन्ते पूर्णाहुतित्रयम् ।। 117 ।।
मधुक्षीरघृतैर्विप्र क्रमेण परिहोमयेत्।
ततो भगवती विप्र समायाति जया स्वयम् ।। 118 ।।
[जयायाः प्रसादः]
सुसिद्धाऽस्मि च ते पुत्र मन्मन्त्रेण समाचर।
यदभीष्टं तु वै कार्यं निश्शङ्को विगतज्वरः ।। 119 ।।
उक्त्वेत्यदर्शनं याति देवी नारायणात्मिका।
[जयामन्त्रसिद्धिजन्यं सामर्थ्यम्] 27-19
ततः कर्माणि कुर्वीत विविधानि त्वनेकशः ।। 120 ।।
लोकेऽस्मिन्यान्यभीष्टानि आत्मनश्च परस्य वा।
तत्राप्युद्देशतो वक्ष्ये शृणु तत्त्वेन नारद ।। 121 ।।
ज्वालाभ(1)द्रासनां ध्यायेद्देवीमन्त्रेण साधकः।
उद्ग्राहयति वै यस्य यस्मिन्यस्मिंस्तु वस्तुनि ।। 122 ।।
(1. वद्र Y C L.)
निर्जित्य न्यायतस्तं वै जयमाप्नोत्ययत्नतः।
गजाश्वशस्त्रभृत्पूर्णं परसैन्यं (2)बलान्वितम् ।। 123 ।।
(2. महाबलम् A)
दृष्ट्वाऽन्यस्य समायातं हन्तुमभ्युद्यतं रणे।
परिजप्य धनुः खड्गं खेटकं बाणपञ्चकम् ।। 124 ।।
प्रेरयेद्यस्य वै दत्वा स गत्वा च चमूमुखम्।
विदारयति चैकाकी जयमाप्नोति शाश्वतम् ।। 125 ।।
ध्यात्वा दक्षिणपाणिस्थं त्रकोणं वह्निमण्डलम्।
तन्मध्ये चिन्तयेद्देवीं परिवारसमन्विताम् ।। 126 ।।
मत्तेभसिंहसर्पाणामशनीनां च दर्शयेत्।
क्षिप्रं पराङ्‌मुखा यान्ति दृष्ट्वा हस्ततलं तु तत् ।। 127 ।।
खादिरं मुसलं स्पृ(सृ?)ष्ट्वा आदाय शतमन्त्रितम्।
कृत्वा गत्वा बिलद्वारं (1)चातुर्वर्ण्यजनान्वितम् ।। 128 ।।
(1. चतुर्वसु A)
मुसलाहननान्यष्टौ दद्यात्तत्र शनैः शनैः।
देवीमन्त्रे च (ण?) विप्रेन्द्र अस्त्रसंपुटितेन तु ।। 129 ।।
फट्‌कारान्तेन तु ततो बिलयन्त्रं व्रजेदधः।
समस्तजनसंयुक्तो विशेषात्साधकोत्तमः ।। 130 ।।
भित्वा यन्त्राण्यनेकानि जित्वा दानवपुङ्गवान्।
जनानां योजनं तत्र कृत्वा कान्तागणैः सह ।। 131 ।।
दत्वा रसात्मकं पानं स्वहस्तेन महाबलः।
स निर्याति स्वमार्गेण तेनैव स्वनिवेशनम् ।। 132 ।।
करोति यदि विप्रेन्द्र मतिं मन्त्री जगत्र्रये।
जयं प्रत्यविचारेण गदाचक्रधरोद्यतः ।। 133 ।।
पाशाङ्कुशधरो वाऽथ जयं प्राप्नोति नान्यथा।
लिख्य योजनया भूर्जे कुङ्कुमेन घनेन च ।। 134 ।।
संपुटीकृत्य वै नाम निधाय जनमध्यगम्।
सदाऽसौ जयमाप्नोति दिव्यैः सर्वैस्तु लीलया ।। 135 ।।
विलिख्य चन्दनेनैव पयसा कुङ्कुमेन च।
धारयेद्यो गले वस्त्रे भुजे वामेऽथ दक्षिणे ।। 136 ।।
स सर्वत्र जयं विप्र संप्राप्नोत्यविचारतः।
जयार्थं मुनिशार्दूल मन्त्रं वै यत्र कुत्रचित् ।। 137 ।।
मन्त्री प्रयोजयेच्छश्वत्तत्र तत्राप्नुयाज्जयम्।
जयाविधानमित्येतत्समासात्परिकीर्तितम् ।। 138 ।।
[मायामन्त्रसाधनप्रकारः] 27-20
मायाख्यमधुना वच्मि संविधानं यथास्थितम्।
[मायाया अङ्गमन्त्रः]
षोढा प्रधानमादाय कालपावकसंस्थितम् ।। 139 ।।
ततस्तचाङ्कयेत्प्राग्वत्स्वरैः प्राक् शिरसा तदा।
षडेतान् हृदयादीन्वै विद्धि शेषं महामुने ।। 140 ।।
[सखीमन्त्राः]
प्रधानोऽथ ध्रुवो रस्थो मद(दम(1) ?)नो पोऽनलोर्ध्वगः।
आदेयास्त्वथ सर्वेषामोदनानन्दकौ क्रमात् ।। 141 ।।
(1. दमनो वै नलो A)
भुवनो योगधाता च व्यापी चान्द्री चतुर्ष्वपि।
मोहिनी भ्रामणी दुर्गा प्रेरणी च महामुने ।। 142 ।।
मायासख्यः स्मृता ह्येताश्चत्वारो रक्तभासुराः।
[सखीनां ध्यानप्रकारः]
लावण्येन तु वीर्येण सौन्दर्येण च तेजसा ।। 143 ।।
मायाक्येन तु संयुक्ताः सितवस्त्रानुलेपनाः।
चामराङ्कुशहस्ताश्च बद्धपद्मासनस्थिताः ।। 144 ।।
[मायाया अनुचरमन्त्राः]
प्रधानं गोपनोपेतं तं तु वै कैवलं त्वतः।
शङ्करं कमलं चैव क्रमाद्दद्याच्च केवलौ ।। 145 ।।
सर्वेषामुपरि ब्रह्मन् व्यापीं चान्द्रीं च विनय्सेत्।
प्रागेकैकस्य चोङ्कारमन्ते संज्ञानमोयुतम् ।। 146 ।।
मायामयो महामोहः शम्बरश्च कलीश्वरः।
चत्वारोऽनुचरा ह्येते ध्येयास्त्वलिकुलप्रभाः ।। 147 ।।
[मायानुचराणां घ्यानप्रकारः]
चतुर्भुजा महाकायाः सौम्यवक्राः स्मिताननाः।
केयूराभरणोपेताः पीताम्बरधरास्तु वै ।। 148 ।।
हारनूपुरसंयुक्ता नानाकुसुमभूषिताः।
तुषारधूलिधवलाः खड्गपाशसमुद्यताः ।। 149 ।।
बाणं कार्मुकमन्यस्मिन्नातपत्रं करद्वये।
एवमुद्धृत्य विधिवन्मायीयां मन्त्रसन्ततिम् ।। 150 ।।
[न्यासविधिः]
स्वहस्ते पूर्ववन्न्यस्य विग्रहे तदनन्तरम्।
हृदयान्तर्गतं चेष्ट्वा बाह्यतस्चावतार्य च ।। 151 ।।
[बाह्ययागविधिः]
मन्त्रोत्सङ्गगता न्यस्याः प्राग्वच्चाङ्गादयोऽखिलाः।
[मुद्रविदानम्]
प्रपूज्य विधिवद्देवीं स्वां मुद्रां दर्शयेत्ततः ।। 152 ।।
प्रागुक्तानां चतुर्णां तु भिन्नानामपि (1)सा स्मृता।
सर्वासां देवतानां च (2)मुद्रासंघर्षसङ्गिकम् ।। 153 ।।
(1. ताः A)
(2. सङ्कार्पसङ्गतिम् A)
मूलमन्त्रोदितं विद्धि देवताङ्गैः समन्वितम्।
साधारणं सखीनां च षोडशानां तु नारद ।। 154 ।।
स्वमन्त्रयोजितामेकां मुद्रामप्यवधारय।
[महायोनिमुद्रा] 27-21
संमुखौ तु करौ कृत्वा तथा वै संप्रसारितौ ।। 155 ।।
कनिष्ठानामिकाभ्यां वै युगलं युगलं द्विज।
मेलयेन्नखदेशाच्च यथा स्यादेकपिण्डवत् ।। 156 ।।
अङ्गुलीभिश्च तिसृभिः पाणिमध्ये निराश्रयम्।
अङ्गुष्ठौ दण्डवत्कृत्वा प्रान्तलग्नौ प्रसारितौ ।। 157 ।।
अङ्गलीनां चतसृणां विश्रान्तौ चोदरावधि।
सर्पकुण्डलवत्कृत्वा प्रयत्नात्तर्जनीद्वयम् ।। 158 ।।
प्रसार्य चाग्रतो लग्ने मध्यमे द्वे महामुने।
नीता सा जन्मभूमेस्तु समारभ्य करद्वयम् ।। 159 ।।
कुर्याच्चैवातिसंलग्नं मणिबन्धावसानतः।
ईषदस्पृष्टमूलेन मणिबन्धं करद्वयात् ।। 160 ।।
कुर्याद्विकसितं चैव मुद्रैषा मुनिसत्तम।
महायोन्यभिधाना च त्रिलोकजननी पुरा ।। 161 ।।
वशीकुर्याज्जगत्सर्वं कामतो यदि योजयेत्।
अत्रानुष्ठानसक्ता स्त्री बध्वा दूरात्प्रदर्शयेत् ।। 162 ।।
मुनीनां गतसङ्गानां क्षोभमायान्ति ते क्षणात्।
पुरुषोऽत्राभियुक्तो वा दर्शयेद्वनितासु च ।। 163 ।।
निवृत्तकामधर्मासु अबलास्वथवा मुने।
क्षुभ्यन्ति मदनार्ताश्च सकामासु च का कथा ।। 164 ।।
[अनुचरमुद्रा] 27-22
वक्ष्येऽथानुचराणां तु षोडशानां समासतः।
द्विजैरमुद्रां(?)सामान्यां सन्निधीकरणे शुभाम् ।। 165 ।।
पृष्ठलग्नौ करौ कृत्वा मोक्षयेत्तदनन्तरम्।
प्रादेशिनीयुगं चैव कन्यासायुगलं तथा ।। 166 ।।
अधोमुखं तु सुस्पष्टं ताभ्यां मध्यान्महामुने।
कनिष्ठिकाद्वयं लग्नं विरलं तर्जनीद्वयम् ।। 167 ।।
मध्यमानामिकानां तु युग्मं युग्मं तु धारयेत्।
एकलग्नं नखोद्देशाद्यावत्पर्व तु मध्यमम् ।। 168 ।।
ऊर्ध्ववक्रं मुनिश्रेष्ठ समेन धरणेन तु।
सुस्पष्टौ लम्बमानौ च अङ्गुष्ठौ चाप्यधोमुखौ ।। 169 ।।
परस्परं तु दूरस्थौ मुद्रैषा सर्वकामदा।
स्वमन्त्रसंयुतां चैव पूजाकाले प्रदर्शयेत् ।। 170 ।।
चतुर्भुजानुकारा(1) च (?) सर्वेषां सिद्धिकामदा।
एवं मुद्रागणं दत्वा जप्त्वा च तदनन्तरम् ।। 171 ।।
(1. रां च A)
[होमादिविधानम्]
होमं तदनु वै कुर्यात्तिलैः सिद्धार्थकान्वितैः।
सकुङ्कुमघृतक्षीरसंप्लुतैस्तण्डुलादिभिः ।। 172 ।।
ततो नियममाश्रित्य कृत्वा तदनु नारद।
देवीरूपं स्वमात्मानं भावनाप्यु (द्यु ?) पचारतः ।। 173 ।।
प्रयायाद्विजनस्थानं (2)प्रौढयुक् स्वासनान्वितः।
जपेल्लक्षाणि वै सप्त पूर्वोक्तविधिना व्रती ।। 174 ।।
(2. प्रोड A)
क्षीरमूलफलाहारो देशकालवशात्तथा।
अयाचितैकभिक्षाशी तदभावाच्च नारद ।। 175 ।।
स्वशिष्यसाधितं चान्नं मन्त्रपूतमसैन्धवम्।
तैलमांसविनिर्मुक्तं सन्ध्याकालेऽप्युपस्थिते ।। 176 ।।
अतृप्तमपि भुञ्जीत भावितं मधुसर्पिषा।
जपान्ते विधिवन्मन्त्री होमं कुर्यात्प्रयत्नतः ।। 177 ।।
बलां मोदां तथा मांसीं चक्राङ्गीं नागकेसरम्।
कुंकुमं चन्दनं क्षोदं रजनीचूर्णमेव तु ।। 178 ।।
मेलयेत्सुस्थि(सि?)तानां च तिलानां मधुना तथा।
भावयेत्सघृतेनैवं त्रिलक्षं जुहुयात्ततः ।। 179 ।।
मध्यमानामिकाभ्यां च अंगुष्ठाग्रेण नारद।
अन्तेऽयुतत्रयं चैव समिधां परिहोमयेत् ।। 180 ।।
प्राग्राजाकतरूत्थानां खादिराणां ततोऽपरम्।
सुरदारुमयीनां च तृतीयमयुतं ततः ।। 181 ।।
दद्यात्पूर्णाहुतिं चैव विशुद्धेनान्तरात्मना।
पतितायां तु पूर्णायामायाति परमेश्वरी ।। 182 ।।
परिवारान्विता देवी भाषते साधु साध्विति।
कुरु कार्यमभीष्टं च मन्त्रेण त्वधुना व्रज ।। 183 ।।
इदमुक्त्वा व्रजेत्तूर्णं देवी विष्णुनिकेतनम्।
[सिद्धिज सामर्थ्यम्] 27-23
ततः स साधकवरः कर्माणि विविधानि च ।। 184 ।।
प्रारभेन्मनसा विप् यान्यभीष्टानि सर्वदा।
आत्मार्थे वा परार्थे वा लेशतः शृणु नारद ।। 185 ।।
प्रजप्यामलकं बिम्वं सकृन्नृपगृहं विशेत्।
कोशस्याग्रे विनिक्षिप्य यत्र कुत्र स्थितस्य च ।। 186 ।।
गगनात्पतिते (तति?) तूर्णं यद्यदुक्तं समीहते।
यद्यच्चाभरणं विप्र यद्यद्वा वसनं शुभम् ।। 187 ।।
(1)एवं वै व्रीहिगुलिकं तथैव तिलतण्डुलम्।
क्षिपेद्धान्यखले पूर्णे कोष्ठागारेऽथ खातके ।। 188 ।।
(1. एतं A)
राजकीये तथा स्वर्णं (?) यत्र यत्र स्थितस्ततः।
यद्यत्समीहते धान्यं सस्यं वा तण्डुलान्वितम् ।। 189 ।।
तत्तदग्रेऽथ गगनात्पतत्यथ यथेप्सितम्।
एवमेव तु सिद्धान्नं गुलिकां परिजप्य च ।। 190 ।।
क्षिप्त्वा महानसोद्देशे सिद्धान्नं वर्षयेत्क्षणात्।
गुलिकां गोमयेनैव कृत्वा बदरसंमिताम् ।। 191 ।।
निक्षिप्य गोव्रजस्यान्तस्सप्तवाराभिमन्त्रिताम्।
ध्यानमात्रात्क्षणस्यान्ते दधिक्षीराज्यपूरिताः ।। 192 ।।
भाण्डाश्च पृष्ठतः पश्येद्यत्र तत्र स्थितो व्रती।
प्रजप्य बदरं विप्र फलमन्यत्तु वा व्कचित् ।। 193 ।।
क्षिपेन्मधुवने राज्ञः फलाकृष्टिं करोति च।
प्रपुष्पवाटिकायां तु पुष्पमेकं विनिक्षिपेत् ।। 194 ।।
जप्त्वा वारत्रयं मन्त्री पुष्पाण्याकर्षयेत्क्षणात्।
यत्र यत्र तदङ्गोत्थं सप्तजप्तं विनिक्षिपेत् ।। 195 ।।
तत्र तत्र च तत्तिष्ठेत्संकल्पे तु कृते सति।
यथेच्छं तु समाकृष्टं तत्र तत्र च तद्व्रजेत् ।। 196 ।।
न चापि साधकवरस्संविण्णो (ग्नो?) जायते व्कचित्।
कृत्वाऽङ्गारकणं चैव शतजप्तं तु नारद ।। 197 ।।
क्षिपेत्सलिलमध्ये तु ज्वलन्तं (प्रज्वलत्?) तत्प्रदृश्यते।
कुशाग्रस्थं जलकणं शतवाराभिमन्त्रितम् ।। 198 ।।
कृत्वा हुताशराशौ तु ज्वलमाने विनिक्षिपेत्।
भवेत्पानीयमिव च स वह्निर्दृश्यते क्षणात् ।। 199 ।।
वालुकापरिपूर्णं तु अरण्यं च तृणोज्झितम्।
दृष्ट्वा तत्र विनिक्षिप्य तृणं च शतमन्त्रितम् ।। 200 ।।
पुष्पपत्रसमाकीर्णं पत्रपल्लवसंकुलम्।
कुर्यान्नन्दनतुल्यं तं तोयशालिसमावृतम् ।। 201 ।।
नानाविहगसंपूर्णं पत्तनोपवनान्वितम्।
पुरप्राकारसंपूर्णं देवतायतनान्वितम् ।। 202 ।।
गेयदेवध्वनियुतं ललनाभिश्च शोभितम्।
नृपाणामेतदाश्चर्यं दर्शनीयं सदैव हि ।। 203 ।।
अनोकहेष्वरण्येषु नीरसेषु सदैव हि।
इच्छयाऽऽपस्तथाऽन्नानि भोगांश्च विविधानि च ।। 204 ।।
करोति मन्त्रितैर्लोष्ठैर्गोमयेनाष्टसङ्ख्यया।
अरिवर्गे मुनिश्रेष्ठ संमुखे संस्थिते सति ।। 205 ।।
क्रोधाच्चैव वधोद्युक्ते एकाकी यदि तिष्ठति।
जपमानस्तु वै सम्यक् संकल्प्य मनसा महत् ।। 206 ।।
आत्मीयं च बलं विप्र सैनिकायुधसङ्कुलम्।
तस्य संपद्यते क्षिप्रं चमूः घोरपराक्रमा ।। 207 ।।
स(1) तन्त्रं तु गजाश्वं च नानाशस्त्रविभासितम्।
दृष्ट्वा पराङ्मुखं याति हतौजस्कं रिपोर्बलम् ।। 208 ।।
(1. स तत्र तु A)
करोति विप्र यत्किञ्चिन्मनसा मन्त्रमुच्चरन्।
व्यलीकं सत्यभूतं च तत्तथा परिदृश्यते ।। 209 ।।
सुशुष्कं पादपं दृष्ट्वा ताडयेच्चरणेन तु।
जपमानो महामन्त्रं तस्य पुष्पफलान्वितम् ।। 210 ।।
रसपुष्पफलोपेतं पाणिभ्यां मन्त्रमुच्चरन्।
पीडयेत्पादपं मन्त्री (2)शोषितं सोऽधिगच्छति ।। 211 ।।
(2. शोभितं A)
पर्वताग्रस्थितो मन्त्रं नाशार्थं संजपेद्यदि।
व्रजेदधस्तात्तद्विप्र यावदिच्छति साधकः ।। 212 ।।
तुष्टः प्रोत्थापयेत्पश्चात्पातालात्पर्वतं पुनः।
चन्दनेन रसेनैव मन्त्रं पद्मोदरे लिखेत् ।। 213 ।।
पत्रेष्वङ्गानि चालिख्य सुशोभनदिने ततः।
पूजयित्वाऽर्घ्यपुष्पाद्यैर्वेष्टयेदथ पूर्ववत् ।। 214 ।।
धारयेद्यो महामन्त्रं तस्य सर्वा विभूतयः।
सम्यगाविर्भवन्त्यत्र लोके निष्कण्टकः स च ।। 215 ।।
सुशोभनश्च दीर्घायुः परत्र शुभमाप्नुयात्।
देवीचतुष्टयस्यैष सिद्धिसङ्घस्समासतः ।। 216 ।।
किञ्चिदुद्देशतः प्रोक्तः साधकानां हिताय च।
नानाविधानि दिव्यानि प्रयच्छन्ति शुभानि च ।। 217 ।।
कर्माण्यतुलवीर्याणि अन्ते तु परमं पदम्।
प्रकाशयति भक्तानां वैष्णवानां विशेषतः ।। 218 ।
इति जयाख्यसंहितायं शक्तिमन्त्रसाधनं नाम सप्तविंशः पटलः।
* * * * *