जयाख्यसंहिता/पटलः ५
← पटलः ४ | जयाख्यसंहिता पटलः ५ [[लेखकः :|]] |
पटलः ६ → |
जयाख्यसंहितायाः पटलाः |
---|
पटलः - 5
अथ ब्रह्मज्ञानोत्पत्त्याख्यानं नाम पञ्चमः पटलः 5-1
नारद :---
ब्रह्माभिन्नं विभो ज्ञानं श्रोतुमिच्छामि तत्त्वतः।
येन सम्प्राप्यते ज्ञेयमन्तःकरणसंस्थितम् ।। 1 ।।
[ज्ञानस्य योगाभ्यासैकलभ्यत्वम्] 5-2
श्रीभगवान् ---
सर्वोपाधिविनिर्मुक्तं ज्ञानमेकान्तनिर्मलम्।
उत्पद्यते(1) हि युक्तस्य योगाभ्यासात्क्रमेण तत् ।। 2 ।।
(1. तेऽभि A)
तेन तत्प्राप्यते विप्र अन्यथा दुर्लभं भवेत्।
नारद :---
कथमेवंविधं ज्ञानमुत्पद्येत जगत्प्रभो ।। 3 ।।
यतस्स्याज्ज्ञेयसमता एतद्विस्तरतो वद।
[भगवच्छक्तिसामर्थ्याद्गुणसाम्यापत्त्या स्वात्मस्वरूपजिज्ञासोत्पत्तिः] 5-3
श्रीभगवान् ---
संसारपादपस्थानां फलानां चैव नारद ।। 4 ।।
पव्ककर्मरसानां च भ्रान्तानां भवसागरे।
भगवच्छक्तिसामर्थ्याद्गुणसाम्यं भवेत्क्षणात् ।। 5 ।।
तत्साम्यात्कर्मसमता जायते समनन्तरम्।
तत्समत्वाद्विचारस्तु प्रवर्तेतात्मलाभदः ।। 6 ।।
कोऽहं किमात्मकश्चैव किमिदं दुःखपञ्जरम्।
यत्राहमसमाश्वस्तस्संस्थितस्सर्वदैव हि ।। 7 ।।
इति मत्त्वा ततो याति निष्पन्नस्य गुरोर्गृहम्।
[विविदिषयोपसन्नस्य शिष्यस्याधिकारानुगुणमुपाये नियोज्यत्वम्] 5-4
ज्ञात्वा तस्यातुरत्वं च सर्वज्ञो गुरुमूर्तिगः ।। 8 ।।
भाति (व?) व्यापृतिकं बृध्वा तं तथा विनियोजयेत्।
सोपलब्धे तु निर्बीजे स्वसामर्थ्यात्परे पदे ।। 9 ।।
निर्वाणे तु निरातङ्के सानन्दे चिन्मये तु वा।
मान्त्रेऽधिक्रियम्(?) वाऽपि भोगमोक्षप्रदक्षमे ।। 10 ।।
[स्वाधिकारानुगुणं मन्त्राराधने प्रवृत्तस्य ज्ञानोदयप्रकारः] 5-5
मन्त्राराधनसक्तस्तु तत्सिद्धीनामलोलुपः।
भक्तस्तद्ध्याननिष्ठश्च तत्क्रियापरमो महान् ।। 11 ।।
तदाद्यभिमुखाकांक्षी ब्रह्मचर्यव्रते स्थितः।
भवं भावयते सम्यक् दुःखशोकप्रदं महत् ।। 12 ।।
अनित्यमध्रुवं कष्टं जरामरणसङ्कुलम्।
द्वन्दयोगभयाक्रान्तमपर्याप्तमनश्वरम् ।। 13 ।।
सदैतच्चिन्तनाच्छश्वत्तथा मन्त्राद्यनुग्रहात्।
नियमाच्चापि शारीरात्परं वैराग्यमावहेत् ।। 14 ।।
वैराग्याच्च ततो विप्र विषयैः कलुषीकृतम्।
शरत्काले जलं यद्वच्चित्तमेति प्रसन्नताम् ।। 15 ।।
प्रसन्नस्थिरतां याति निस्तरङ्ग इवोदधिः।
निवाताचलदीपाभमचलं बोधसम्मुखम् ।। 16 ।।
यत्तच्चित्तमिवा(मथा)पन्नः पुमांश्चैतन्यलक्षणः।
संबोधं च तदाप्नोति तज्ज्ञानं परमं स्मृतम् ।। 17 ।।
सैव चिद्धृदयाकाशे ह्युदेत्यादित्यवत्क्रमात्।
तेनाधिगम्यते ज्ञेयं यद्वत्सूर्योदयाज्जगत् ।। 18 ।।
सम्बोधो ज्ञेयनिष्ठा सा तदाऽऽयाति शनैश्शनैः।
तदा समरसत्वं हि सह तेनैव तस्य हि ।। 19 ।।
ज्ञेयज्ञप्तिकरं ज्ञानं क्रमोपेतं च नारद।
निर्वाणदमसङ्कीर्णमिदं ते संप्रकाशितम् ।। 20 ।।
युक्तितस्तदभिन्नं च भेदवत्प्रतिभाति यत्।
तथाऽपीदं स्वभावेन विद्धि नातः परं तु वै ।। 21 ।।
विद्यते ब्रह्मशार्दूल किं वा तत्र प्रवर्तते।
यथेदं ते मया विप्र स्वालोकं प्रकटीकृतम् ।। 22 ।।
अनुभूतं न भूयस्त्वं मया वस्तुं हि शक्ष्य(1)से।
[ब्रह्ममो दुरवबोधत्वम्] 5-6
अवाच्ये वर्तते कुत्र वाग् वै संवेदनं विना ।। 23 ।।
(1. क्यते C. L.)
षण्णां यद्वद्रसानां च स्वादुत्वं नानुभूयते।
प्राकृतैः सरणैस्तद्वन्नाभिव्यक्तिं(2) बहिर्व्रजेत् ।। 24 ।।
(2. क्तं C. L.)
केवलं ह्युपमानेन तत्प्रत्यक्षं प्रकाश्यते।
प्रवर्तनार्थं मन्दानां नामन्दानां तु वै पुनः ।। 25 ।।
योगी समरसत्वेन वेदय त्वं विचारतः।
(3)तस्मात्त्वमेव विप्रेन्द्र अनुभूतं स्थिरीकुरु ।। 26 ।।
(3. समत्वमेतत् A.)
लयमेष्यसि येनात्र (4)निजानन्दे ह्यनूपमे।
भूतानन्दस्वरूपेण त्यक्त्वा सम्यक्परिग्रहम् ।। 27 ।।
(4. निरा A.)
निवेदितं मया यत्ते तत्त्द्वाच्यं न जातु वै।
त्वया यदनुभूतं च तदानीं मयि मन्यसे ।। 28 ।।
सर्वोपमानरहितं वागतीतं स्ववेदनम्।
अस्तीति परमं वस्तु निरालम्बमतीन्द्रियम् ।। 29 ।।
आत्मन्यानन्दसंस्थस्य व्यज्यते करणैर्विना।
करणाः प्राकृतास्सर्वे चित्तजाश्च विशेषतः ।। 30 ।।
[मन्त्रसमाघ्योर्मन्त्रस्य सुकरोपायत्वम्] 5-7
उपायमत्र मन्त्रौघास्समन्त्रास्ते च सिद्धिदाः।
तस्मान्मुद्रादिकरणा भावजाश्च समाधयः ।। 31 ।।
क्रियोपेतास्तथा मन्त्राः सर्वे सद्वस्तु(5)साधकाः।
विघ्नायुतसहस्रं तु परोत्साहसमन्वितम् ।। 32 ।।
(5. वाचकाः C. 1.)
प्रहरन्त्यनिशं तच्च सर्व(स्या)भिमुखस्य च।
मन्त्रपूर्वं हि यत्किञ्चित्स्थूलं ब्रह्मव्यपेक्षया ।। 33 ।।
विघ्नजालस्य सर्वस्य वीर्यध्वंसकरं स्मृतम्।
यथाग्नेर्दाहसामर्थ्यमुदकेन निपात्यते ।। 34 ।।
मायारूपस्तु विघ्नौघो मन्त्राद्यैरुपहन्यते।
निकटस्था यथा राज्ञस्त्वन्येषां साधयन्ति च ।। 35 ।।
सिद्धिं राजोपगां शीघ्रमेवं मन्त्रादयः परम्।
ज्ञात्वैवं सर्वदा विप्र य आस्ते मत्परायणः ।। 36 ।।
अभीप्सितेन मार्गेण निष्पद्येताचिरात्तु सः।
इति श्रीपाञ्चरात्रे जयाख्यसंहितायां ब्रह्मज्ञानोत्पत्त्याख्यानं नाम पञ्चमः पटलः।।
* * * * *