जयाख्यसंहिता/पटलः २५
← पटलः २४ | जयाख्यसंहिता पटलः २५ [[लेखकः :|]] |
पटलः २६ → |
जयाख्यसंहितायाः पटलाः |
---|
पटलः - 25
अथ प्रायश्चित्तविधिर्नाम पञ्चविंशः पटलः। 25-1
नारद :---
भगवन् श्रोतुमिच्छामि प्रायश्चित्तविनिर्णयम्।
कृताकृतानां सर्वेषां शान्तये वैष्णवस्य च ।। 1 ।।
श्रीभगवान् ---
मार्गस्थो मुनिशार्दूल लुप्ताचारो व्रजत्यधः।
पालनीयस्त्वतस्तस्मादाचारः साधुसेवितः ।। 2 ।।
दैवाद्रोगात्तथा मोहवशाद्दोष उपागतः।
जपेन क्षालनीयोऽसौ दानेन हवनेन च ।। 3 ।।
तपसाऽपि मुनिश्रेष्ठ ज्ञात्वा कर्मबलाबलम्।
[सन्ध्यालोपे प्रायश्चित्तम्] 25-2
आरम्भसन्ध्यालोपेषु मूलमङ्गसमन्वितम् ।। 4 ।।
सत्यादिपञ्चकोपेतं सरुजश्च सकृत्सकृत्।
अरुजः सत्यबीजं तु शतमष्टाधिकं जपेत् ।। 5 ।।
जपावसानात्तत्कुर्यात्सन्ध्याकर्म द्विजाखिलम्।
[सन्ध्यात्रयलोपे प्रायश्चित्तम्]
लुप्ते सन्ध्यात्रये चैव नीरुजस्तु जपेत्सदा ।। 6 ।।
षट्शतानि तु मूलस्य मूर्तिमन्त्रान्वि(1)तस्य च।
सरुजश्चाङ्गषट्काढ्यं मूलमूर्तियुतं त्रिधा ।। 7 ।।
(1. न्त्रोज्झित S.)
जपेद्वा नित्यशान्त्यर्थमन्येषां दोषमाप्नुयात्।
[अनेकदिनेषु सन्ध्यालोपे प्रायश्चित्तम्]
अनेकदिनशो भ्रंशः सरुजस्य यदा भवेत् ।। 8 ।।
स्नात्वा निवृत्तरोगोऽसौ पूजयित्वा जगत्प्रभुम्।
जपित्वैकसहस्रं च भूयः पूजाग्नितर्पणम् ।। 9 ।।
कुर्याच्चैव जपार्धेन नीरुजस्याथ कीर्त्यते।
द्विस्त्रिस्तथैकरात्रं वा यथाशक्त्याऽथ मन्त्रराट् ।। 10 ।।
जप्योऽयुतद्वयं पश्चात्पूजा कार्या विशेषतः।
तिलानामाज्यसिक्तानां सहस्रैकं तु होमयेत् ।। 11 ।।
वैष्णवान्भोजयेत्पश्चाच्छक्त्या त्रिद्व्येकसङ्ख्यया।
[प्रमादादशुचिसंस्पृष्टान्नभक्षणे अन्यस्त्रीसेवने च प्रायश्चित्तम्] 25-3
प्रमादाद्यदि विप्रेन्द्र अज्ञात्वा भक्षितं पुरा ।। 12 ।।
स्पृष्टमन्नादिकं चैव मदिरासेवकादिभिः।
रेतोमूत्रपुरीषैर्वा शुककाकावलीढितम् ।। 13 ।।
विड्वराहैरथो गृध्रगोमायुकपिकुक्कुटैः।
संस्पृष्टमन्त्यजेनापि शूद्राद्युच्छिष्टदूषितम् ।। 14 ।।
अभोज्यान्नं तु वा भुक्त्वा सेवित्वाऽन्यस्त्रियं तु वा।
स्नात्वा भुक्त्वा त्वहोरात्रं पञ्चगव्यं समाचरेत् ।। 15 ।।
सहस्रं प्रतिसन्ध्यं च सिह्ममन्त्रं जपेद्बुधः।
दिनत्रयं नक्तभोजी त्रिश्नायी ध्यानतत्परः ।। 16 ।।
इष्ट्वा देवं चतुर्थेऽह्नि सहस्रं होमयेत्ततः।
पूर्ववद्भोजनं दत्वा नक्ताशी शुध्यते द्विजः ।। 17 ।।
[तत्र क्षत्रियवैश्यशूद्राणां विशेषाः] 25-4
नारायणैकचित्तस्य नृपस्यैवं विनिर्दिशेत्।
द्विधा स्नानं तु वैश्यस्य सकृच्छूद्रस्य कीर्तितम् ।। 18 ।।
क्रमतो द्विगुणो जापः सर्वेषां परिकीर्तितः।
[उक्तप्रायश्चित्ताङ्गभूतपञ्चगव्यव्रिधानम्] 25-5
क्षीरं दधि घृतं चैव गोमूत्रं गोशकृत्कुशान् ।। 19 ।।
तोयं ताम्रमये पात्रे कृत्वाऽथ परिजप्य च।
एकैकं शतजापेन मूलाद्यस्त्रावसानिकैः ।। 20 ।।
स्नात्वा पीत्वा त्रिरात्रं तु कृत्वा योन्तो (न्पोऽ ?) पि तं पिबेत्।
ध्यायेज्जपेत् नृसिंहं तु पूजयेच्चापि नारद ।। 21 ।।
तस्यापि नाशमायाति महापातकसञ्चयः।
स्तेयं गुरुस्त्रीसंभोगः सुरापानादिकं च यत् ।। 22 ।।
[कामतो ब्राह्मणवधे प्रायश्चित्तम्] 25-6
कामतो ब्राह्मणं हत्वा गवां मध्यस्थितो जपेत्।
अतन्द्रितः सिंहमन्त्रमनिशं वत्सरद्वयम् ।। 23 ।।
अयाचितान्नलघ्वाशी त्रिस्नायी न्यासकृत्सदा।
वत्सरद्वितयस्यान्ते तीर्थं वाऽऽयतनं व्रजेत् ।। 24 ।।
ततः कुर्याद्व्रतं शक्त्या कृच्छ्रचान्द्रायणादिकम्।
व्रतान्ते नवनाभेन दीक्षयेत्पुनरेव हि ।। 25 ।।
सर्वस्वं च गुरोर्दद्याद्भक्तानां च तदाज्ञया।
[सुरापानप्रायश्चित्तम्] 25-7
सुरां पीत्वा तु तामन्ते जपेत्सत्यमहर्निशम् ।। 26 ।।
त्र्यहं त्वनश्नन्नन्ते तु कं पिबेत् सिह्मतापितम्।
स्थित्वा चायतने विष्णोः सहस्रैकं जपेद्बुधः ।। 27 ।।
[स्वर्णस्तेयादौ प्रायश्चित्तम्] 25-8
स्तेयं च कामतः कृत्वा हेमभूम्यादिकं तु वै।
ज्ञात्वाऽनुतापसन्तप्तो मन्त्रेशं कापिलं जपेत् ।। 28 ।।
पञ्चायुतप्रमाणेन विजनस्थः समाहितः।
पयोमूलफलाहारः शुध्यत्यन्तेऽर्चने हुतौ ।। 29 ।।
कामतः सन्त्यजेद्भूयो द्रव्यमेतत्समाहृतम्।
द्विगुणं तदभावाच्च जपं पूर्वोदिताच्चरेत् ।। 30 ।।
[गुरुपत्नीगमने प्रायश्चित्तम्] 25-9
सिह्मं गुरुस्त्रीगमने ह्यकामाज्जनवर्जिते।
भैक्षाहारो जपेन्मौनी शुद्धये त्वयुतत्र(द्व?)यम् ।। 31 ।।
प्रख्यातौ कामतो लक्षस्सकामश्च रहस्यपि।
अयुतद्वितयं सार्धं जप्त्वा शुध्यति नान्यथा ।। 32 ।।
एकान्ते कामतो गत्वा सार्धं चैवायुतद्वयम्।
अकामतः प्रकाशे तु जप्त्वाऽयुतचतुष्टयम् ।। 33 ।।
अप्रकाशे प्रकाशे वा कामतोऽकामतोऽपि वा।
जपान्ते यागहोमौ च कृत्वा शुध्यति नान्यथा ।। 34 ।।
दीक्षोपकरणादीनामभावाद्द्विजसत्तम।
गुर्वङ्गनाप्रसक्तश्च लक्षजापाच्च शुध्यति ।। 35 ।।
[रजस्वलास्पृष्टान्नभक्षणे प्रायस्चित्तम्] 25-10
अन्नं रजस्वलास्पृष्टं भुक्तं चेद्यदि कामतः।
जप्त्त्वाऽस्त्रमन्त्रं साष्टं च शतं चैवाभिशुध्यति ।। 36 ।।
कामतस्त्रिगुणं चैव जपं कुर्यादतन्द्रितः।
[लिङ्गमूर्तये विनियुक्तान्नस्य भक्षणे प्रायश्चित्तम्] 25-11
यल्लिङ्गमूर्तौ रुद्रस्य दत्तमश्नाति वैष्णवः ।। 37 ।।
तत्स्पृष्टं वा प्रमादेन सिह्मपञ्चशतं जपेत्।
कामतो द्विगुणश्चैव स्नातो होमाच्च शुध्यति ।। 38 ।।
[विष्णुनिवेदितस्यान्नस्यायोग्ये देशे पात्रे वा प्रक्षेपे प्रायश्चित्तम्]
विष्णोर्निवेदितं प्राश्यं निक्षिपेद्यत्र कुत्रचित्।
अयोग्यस्याथ वा दद्यात्सिंहस्याष्टशतं जपेत् ।। 39 ।।
[आशौचान्नभक्षणे प्रायश्चित्तम्] 25-12
मृतके मुनिशार्दूल भुक्त्वा चैवाथ सूतके।
कामतः सिंहमन्त्रं तु सहस्रं परिवर्तयेत् ।। 40 ।।
अकामतस्तदर्धं वै जपेत्तन्नियतः शुचिः।
[पतिताद्यन्नभक्षणे प्रायश्चित्तम्] 25-13
भक्तं च पतितानां तु गणिकानां च वै द्विज ।। 41 ।।
गणाननमथवा भुक्तं पञ्च षट् सप्त वै शतम्।
नृसिह्मकपिलक्रोडमन्त्राणां क्रमशो जपः ।। 42 ।।
[सीमन्तादिसंस्कारान्नभक्षणे प्रायस्चित्तम्] 25-14
यः सीमन्ते प्रभुङ्क्ते तु स च नक्तागमे जपेत्।
द्वे शते अनिरुद्धाक्यबीजस्य ध्यानतत्परः ।। 43 ।।
नामधेयाख्यसंस्कारे प्रद्युम्नं द्विशतं जपेत्।
अन्नप्राशनसंस्कारे जपेत्संकर्षणं शतम् ।। 44 ।।
शेषेषु वासुदेवाख्यं बीजमावर्तयेच्छतम्।
[सद्यः श्राद्धाद्यन्नभोजने प्रायश्चित्तम्] 25-15
यः पञ्चत्वं प्रयातस्य भुङ्क्ते संवत्सरावधि ।। 45 ।।
सद्यःश्राद्धात्समारभ्य स सिंहस्यायुतं जपेत्।
[सच्छूद्रान्नभक्षणे प्रायश्चित्तम्] 25-16
कामतोऽकामतो वाऽपि सच्छूद्रान्नस्य भक्षणात् ।। 46 ।।
सहस्रमर्धं क्रमशो ह्यस्त्रमन्त्रं जपेद्बुधः।
एतच्चतुर्गुणं विद्यादशच्छूद्रान्नभक्षणात् ।। 47 ।।
वान्ते मन्त्रं तु वाराहं त्रिशतं परिवर्तयेत्।
स्नात्वा तन्मन्त्रितं पीत्वा पञ्चगव्यं तु वा द्विज ।। 48 ।।
अवैष्णवप्रतिष्ठायां यज्ञे वाऽवैष्णवे त्वपि।
भुङ्क्ते हृदयमन्त्र्रस्य जपेत्पञ्चशतं तु वै ।। 49 ।।
[आरामादौ भोजनप्रायश्चित्तम्] 25-17
आरामवृक्षकूपेषु बाह्ये वा सुगतालये।
प्रपातटाकयोर्मोक्षे गोदाने वृषमोक्षणे ।। 50 ।।
विवाहे वरणे वाऽथ भुङ्क्ते गत्वा परे गृहे।
जपेत्साष्टशतं मन्त्री सिह्ममन्त्रमतन्द्रितः ।। 51 ।।
अवैष्णवाग्रतो भुक्त्वा पथि साष्टशतं जपेत्।
[नैष्ठिकाद्यन्नभक्षणे प्रायश्चित्तम्] 25-18
कामतो नैष्ठिकान्नं तु वणिगन्नं तु वा द्विज ।। 52 ।।
भुक्त्वा जपेन्मूर्तिमन्त्रं सहस्रपरिसङ्ख्यया।
अकामतस्तद्रधं तु लिङ्गिनामेवमेव हि ।। 53 ।।
[मधुमांसयोर्दर्शने प्रायश्चित्तम्] 25-19
निषेदान्मधुमांसाभ्यां प्रमादाद्दर्शनं कृतम्।
सिह्मस्याष्टशतं जापात्स दोष- शतधा व्रजेत् ।। 54 ।।
[नियमात्प्रच्यवे प्रायश्चित्तम्] 25-20
मैथुनाहारपानादिनियमस्याप्यरक्षणात्।
अस्त्रमन्त्रशतं सार्धं जपन्यासे कृते सति ।। 55 ।।
भैक्षान्नभक्षलोभाच्च एवमेव प्रकीर्तितम्।
अधश्शयनसङ्कल्पलोपादस्त्रं जपेच्छतम् ।। 56 ।।
गहभूतपिशाचादिविच्छेदे तु कृते सति।
मूलमन्त्रं शतं साष्टं जपेद्हृत्संपुटीकृतम् ।। 57 ।।
[ज्ञानप्राप्त्यादेरन्यत्र नृत्तगीतादिकरणे प्रायश्चित्तम्] 25-21
ज्ञानप्राप्तौ प्रतिष्ठायां प्रक्रान्ते विष्णुजागरे।
प्राप्ते चायतने तीर्थे शास्त्रे सन्मार्गदर्शने ।। 58 ।।
गुरोर्विपत्तिश्रवणात्संप्राप्ते दशमे पुनः।
एभिर्विना नृत्तगीते कृत्वा सत्यशतं जपेत् ।। 59 ।।
उपरोधादथ स्नेहात्कृत्वा शान्तिकपौष्टिके।
शतत्रयं च वाराहं जप्त्वा मन्त्रेशमर्चयेत् । 60 ।।
[सूतकादौ शान्तिकादिकर्मसु पूजास्वीकारे प्रायश्चित्तम्] 25-22
सूतके मृतके चैव वर्तमाने तु नारद।
कामतःपूजितो मन्त्री शान्तिकादौ तु कुत्रचित् ।। 61 ।।
जपे(1)त्पञ्चशतं [चात्र] सिह्ममन्त्रस्य भक्तितः।
शतत्रयमकामश्च प्रायश्चित्तविधौ जपेत् ।। 62 ।।
(1. त्पञ्चशतीर्वात्रिः A त्पञ्चदशीर्वात्रिः CL.)
[उच्चाटनादिकरणे प्रायश्चित्तम्] 25-23
उच्चाटनादीन्कृत्वा वै इच्छयाऽस्त्रं द्विजोत्तम।
अयुतार्धं पुरावर्त्यं तदर्धं चाप्यकामतः ।। 63 ।।
न मारणं तु मन्त्रेण कुर्यान्मन्त्री कदाचन।
[चैत्यादिषु देवप्रतिष्ठाकरणे प्रायश्चित्तम्] 25-24
देवप्रतिष्ठां दीक्षां च कृत्वा चैत्यादिषु त्रिषु ।। 64 ।।
सङ्कर्षणादिकांस्त्रीन्वै क्रमशः परिवर्तयेत्।
एकद्वित्रिशतैः साष्टैः कुर्याद्धवनपूजने ।। 65 ।।
[पट्टादिप्रतिग्रहे प्रायश्चित्तम्] 25-25
पट्टः कार्पासकौर्णश्च क्षौममार्जं तु वेष्टनम्।
चर्म प्रतिग्रहेणैव गृहीत्वा यत्र कुत्रचित् ।। 66 ।।
हृदाद्यस्त्रावसानं षट् जपेद्वै षट्शतादितः।
क्रमशस्त्वेकहान्या तु एकैकस्मिंस्तु नारद ।। 67 ।।
कामतोऽकामतश्चैव अर्धमर्धं पुरोदितात्।
[क्षीरादिप्रतिग्रहे प्रायश्चित्तम्] 25-26
क्षीरं दधि घृतं चैव तदुत्थमपि यद्द्विज ।। 68 ।।
लवणं मधु तैलं च सर्वमिक्षुसमुद्भवम्।
गृहीत्वाऽस्त्रसमायुक्तं वराहं त्रिशतं जपेत् ।। 69 ।।
[रत्नादिपरिग्रहे प्रायश्चित्तम्] 25-27
रत्नानि रजतं हेम विद्रुमं मौक्तिकं तथा।
गृहीत्वा कापिलं मन्त्रं जपेत्कामाच्छतत्रयम् ।। 70 ।।
अकामाच्च तमेकं तु जपेद्ध्यानपरायणः।
ताम्रादिलोहमादाय नृपशैलादिधातुकान् ।। 71 ।।
कामतोऽकामतो जप्यो नृसिह्मो द्वे शते शतम्।
[गवादिप्रतिग्रहे प्रायश्चित्तम्] 25-28
(1)गामश्वं वृषभं हस्तिं स्त्रियोऽवाश्वतरं तु वा ।। 72 ।।
(1. गवाश्वं Y. CL.)
गृहीत्वा नृहरिर्जप्यः कामतोऽष्टशतं मुने।
शतत्रयमकामेन सोपवासस्त्वसौ जपेत् ।। 73 ।।
[शाल्यादिप्रतिग्रहे प्रायश्चित्तम्] 25-29
सस्यानि शालयः सर्वे गृहीताश्च प्रतिग्रहाः।
शतत्रयं द्वयं चैव कामाकामे ह्युदङ्मुखः ।। 74 ।।
[भूदानप्रतिग्रहे प्रायश्चित्तम्] 25-30
केवलाल्पावनिं चैव गृहीत्वा नृहरिं जपेत्।
सहस्रसंख्यया चैव संपन्नां फलशालिभिः ।। 75 ।।
कुर्याद्द्विगुणमेतं वै कामतोऽकामतो जपम्।
मठप्रतिग्रहेऽप्येवमर्धं वेश्मप्रतिग्रहे ।। 76 ।।
[पापसंकरे प्रायश्चित्तम्] 25-31
पापानामप्यनेकानां सङ्करे सति नारद।
मूलमन्त्रं जपेत्साङ्गं शतमष्टाधिकं तु वै ।। 77 ।।
ततः सत्यादिकाः पञ्च परावृत्या शतं शतम्।
जपेत्सप्ताक्षरं मन्त्रं शतमष्टाधिकं द्विज ।। 78 ।।
अन्नसङ्करदोषाच्च शुद्धिमायाति तत्क्षणात्।
एवमेव जपं कुर्यादुत्पन्ने भाण्डसंकरे ।। 79 ।।
योनिसङ्करशुध्यर्थं जपेत्सत्यं शतत्रयम्।
[काष्ठादिहरणे प्रायश्चित्तम्] 25-32
काष्ठोपलतृणादीनां हरणे सति नारद ।। 80 ।।
कामतोऽकामतश्चैव शिखामन्त्रं जपेच्छतम्।
[शास्त्रादिहरणे प्रायश्चित्तम्] 25-33
परतश्छद्मना ज्ञानं हृतं शास्त्रं तु वा मुने ।। 81 ।।
मूर्तिमन्त्रायुतं मूलं जपेदयुतसंख्यया।
[गुरुदारादिनिन्दने प्रायश्चित्तम्] 25-34
गुरोः स्त्रियं सुतां वाऽपि निन्दन्वै यस्तु मोहितः ।। 82 ।।
शतं शतं च देवानां जप्यमस्त्रं यथाक्रमम्।
[प्राणिघाते प्रायश्चित्तम्] 25-35
सतेजःप्राणिघाते तु निरस्थिनि हते सति ।। 83 ।।
कामतोऽकामतो द्विर्वा सत्यमन्त्रं सकृत्स्मरेत्।
आखुघाते च दशधा मार्जारे शतधा तु वै ।। 84 ।।
श्वशृगालवधे चैव द्विगुणं कपिकुक्कुटे।
सर्पाद्यण्डजघाते तु हंसादिशकुनिष्वपि ।। 85 ।।
सिंहादिमगघाते च अजादिपशुघातने।
शताच्चतुश्शतान्तं तु नृसिह्मं वै जपेत्क्रमात् ।। 86 ।।
[श्वशृगालादिदंशे प्रायश्चित्तम्] 25-36
श्वशऋगालादिसर्वेषां यदि दंशः प्रमादतः।
स्नात्वा शीताप्सुमध्यस्थो गारुडं द्विशतं जपेत् ।। 87 ।।
[असत्प्रतिग्रहे प्रायश्चित्तम्] 25-37
कामतोऽकामतो वापि असक्त(त?)श्च प्रतिग्रहम्।
गृहीतं मुनिशार्दूल सिह्मजापी विशुध्यति ।। 88 ।।
शतत्रयाच्चाचिरेण स्नानद्यानेन नारद।
[श्वपाकादिस्पर्शे प्रायश्चित्तम्] 25-38
श्वपाकम्लेच्छचण्डालकरङ्कनृकपालिभिः ।। 89 ।।
स्पर्शने सोमकृद्यूपश्मशानद्रुमपुल्कसैः।
कृत्वा स्नानं सचेलं तु सिह्ममन्त्रं शतं जपेत् ।। 90 ।।
[वैष्णवादिनिन्दादौ प्रायश्चित्तम्] 25-39
निन्दनाद्वैष्णवानां च दीक्षितानां विशेषतः।
गुर्वाज्ञालङ्घनाच्चैव गुरुद्रव्य उपेक्षणात् ।। 91 ।।
सत्यं बीजं जपेत्साष्टशतं वै मुनिसत्तम।
[अपशकुने प्रायश्चित्तम्] 25-40
वामाङ्गस्पन्दने चैव तथा दुःस्वप्नदर्शने ।। 92 ।।
वासुदेवं जपेन्मन्त्रं पञ्चविंशतिसंख्यया।
[अरिष्टचिन्तनादौ प्रायश्चित्तम्] 25-41
अरिष्टचिन्तनाच्चैव भाषणादनृतस्य च ।। 93 ।।
कर्मणा वाङ्भनोभ्यां तु सत्यं चाष्टशतं जपेत्।
[रेतःस्पन्दने प्रायश्चित्तम्] 25-42
अकामतः प्रसुप्तस्य शुक्रादेः स्पन्दने सति ।। 94 ।।
स्नात्वा पुरा सचेलं तु अस्त्रमन्त्रशतं जपेत्।
[गर्भपाते प्रायश्चित्तम्] 25-43
कामतो गर्भपाताच्च नृसिह्मस्यायुतं जपेत् ।। 95 ।।
[धेनुवधे प्रायश्चित्तम्] 25-44
धेनुं प्रमादतो हत्वा अयुतं त्रियुतं जपेत्।
त्रिः स्नायाद्द्विगुणं कामात्तज्जपे मुनिसत्तम ।। 96 ।।
यागं कृत्वा तथा होमं दद्याद्धेनुद्वयं गुरोः।
[वृक्षच्छेदे प्रायश्चित्तम्] 25-45
निश्शेषपादपच्छेदे पञ्च सत्यादयः क्रमात् ।। 97 ।।
जप्याः शतं शतं चैव त्वल्पतश्छेदने द्विज।
द्वे शते चास्त्रमन्त्रस्य परावर्तेत्प्रयत्नतः ।। 98 ।।
वामे वा दक्षिणे वाऽपि विच्छिन्ने सति मण्डले।
भुक्त्वा (1)पदेस्तु शूद्रस्य कामतोऽकामतो द्विज (?) ।। 99 ।।
(1. पदै CL.)
शतत्रयं सिंहमन्त्रं परावर्त्त्यं द्वयं तथा।
[गुरोः खेदावहवादाद्याचरणे प्रायश्चित्तम्] 25-46
कर्मणा मनसा वाचा यो गुरुं परिखेदयेत् ।। 100 ।।
समाचरेच्च वादं वा निर्वेदजनकं तथा।
कृत्वा पुरा त्रिरात्रं तु वासुदेवं जपेद्हृदि ।। 101 ।।
प्रत्यहं मुनिशार्दूल त्रैकाल्यात्तु शतत्रयम्।
[देवालयादौ मूत्रोत्सर्गादिकरणे प्रायश्चित्तम्] 25-47
देवालये तु यः कुर्यात्पुरीषं मूत्रमेव वा ।। 102 ।।
देवतायतनारामे वैष्णवे तु विशेषतः।
[वैष्णवारामतः क्रीडार्थं फलपुष्पादिहरणे प्रायश्चित्तम] 25-48
क्रीडार्थं तु तदारामात्पत्रपुष्पफलाहृतिम् ।। 103 ।।
यः कुर्यात्स द्विजश्रेष्ठ सिंहस्याष्टशतं जपेत्।
[नग्नीभूय स्नानाचरणे प्रायश्चित्तम्] 25-49
वीक्षमाणो (1)दिवि दिशोऽक्रमे स्नायाद्दिगम्बरः ।। 104 ।।
(1. वा विदिशो मूत्रे A. CL.)
हृन्मन्त्रं तु शतं साष्टं जपेत्स मुनिसत्तम।
[वृद्ध-गुर्वपचारे प्रायश्चित्तम्] 25-50
वृद्धानां च गुरूणां च सन्निधौ वा तदाऽऽसने ।। 105 ।।
उपविष्टः शतं साष्टं प्रद्युम्नं च जपेद्हृदि।
गुरूणामपहासे तु कृते वाऽश्लीलभाषणे ।। 106 ।।
[दुष्टेन मनसा गुरुभार्या-सुतयोर्दर्शने प्रायश्चित्तम्] 25-51
दुष्टेन मनसा दृष्ट्वा गुरोर्भार्यां सुतामथ।
सिंहमन्त्रं जपेन्मन्त्री स्नातः पञ्च शतानि वै ।। 107 ।।
[स्त्रीशूद्रादिवधे प्रायश्चित्तम्] 25-52
स्त्रीशूद्रबालकान्हत्वा कामतोऽकामतोऽपि वा।
द्वेऽयुते ह्ययुतं साष्टं जप्त्वा यागेन शुध्यति ।। 108 ।।
सच्छूद्रघातनाच्चैव पूर्वोक्तद्विगुणं क्रमात्।
[आलये चण्डालप्रवेशे प्रायश्चित्तम्] 25-53
चण्डालपूर्वकः कश्चित्प्रविष्टो यदि मन्दिरम् ।। 109 ।।
सन्त्यजेन्मृण्मयान्सर्वान् भाण्डानप्यस्त्रवारिणा।
प्रोक्षणीयकृतस्नानस्तत्रस्थः कपिलं जपेत् ।। 110 ।।
शतानि द्वादश मुने तत्र सर्वं च शुध्यति।
[रजकादीनां गृहे प्रवेशे प्रायश्चित्तम्] 25-54
रजकर्शचर्मकारश्च कामतोऽकामतो गृहे ।। 111 ।।
संविशेदस्त्रतोयेन प्रोक्षयेच्च शतं जपेत्।
[नियतानुष्ठानस्य विष्णुमयस्य सिद्धस्य सद्यःशुद्ध्यादिविशेषकथनम्] 25-55
सूतके मृतके चैव नित्यं विष्णुमयस्य च ।। 112 ।।
सानुष्ठानस्य विप्रेन्द्र सद्यः शुद्धिः प्रजायते।
तत्रापि वासुदेवाख्यमन्त्रं पञ्चशतं जपेत् ।। 113 ।।
स्पर्शनं भोजनं दानं दशाहं तस्य वर्जयेत्।
तत्संपर्काद्भवेद्दोषः सिद्धस्यापि माहमुने ।। 114 ।।
[ब्राह्मणादीनां सूतकमृतकयोर्जपाद्यनुष्ठानानर्हता] 25-56
नाधिकारो(री?) ह्यनुष्ठाने सदशाहं भवेद्द्विज(:?)।
द्वादशाहं नृपश्चैव वैश्यः पञ्चदशान्तिकम् ।। 115 ।।
निवर्तन्ते जपध्यानात् शूद्रो मासं प्रयत्नतः।
[उच्छिष्टसङ्करे प्रायश्चित्तम्] 25-57
स्वजातिदीक्षि(1)तस्यापि उच्छिष्टोच्छिष्टसङ्करात् ।। 116 ।।
(1. क्षत्रियस्यापि A. CL)
स्नात्वा जपेन्मूलमन्त्रं शतमष्टाधिकं द्विज।
(2)विजातेश्चोपवासस्तु विहितस्त्वीदृशो जपः ।। 117 ।।
(2. द्विजाते A)
[अदीक्षितावलोकने प्रायश्चित्तम्] 25-58
यदि चादीक्षितः पश्येत्पूज्यमानं प्रभुं द्विज।
अक्षसूत्रं तु वा मुद्रां जपेदथ (अस्त्र?) शतं जपेत् ।। 118 ।।
[गुरु-देवनाम्ना शपथाचरणे प्रायश्चित्तम्] 25-59
आपत्तावथ जातायं शपथं गुरुसंज्ञितम्।
न कुर्याद्भगवत्संज्ञं प्रमादाच्च कृतं यदि ।। 119 ।।
तदर्थं निर्वहेद्यन्तादन्ते पूजाजपाहुतीः।
अनिर्वाहाच्च कार्यस्य यदर्थं शपथं कृतम् ।। 120 ।।
प्रायश्चित्तं जपेद्विप्र सहस्रं त्र्यक्षरस्य तु।
होमं कुर्यात्तदर्धेन सोपवासश्च पूजनम् ।। 121 ।।
यो मोहाच्चापि वा पृष्टो गुरुणा शपथं भजेत्।
ददाति वान्यो दुष्टात्मा व्रजेतां नरकं तु तौ ।। 122 ।।
[सङ्करप्रायश्चित्तम्] 25-60
सङ्करेषु च सर्वेषु चेतसश्शुद्धिकारणम्।
सिंहमन्त्रं जपेन्मन्त्री यावच्चित्तं प्रसीदति ।। 123 ।।
[स्तेयादौ प्रायश्चित्तम्] 25-61
स्तेयेष्वेवं मूलमन्त्रमुपघातेषु नारद।
सिंहमन्त्रमशेषासु शुद्धिष्वस्त्रं तथैव च ।। 124 ।।
शपथेषु च हृद्बीजं भोज्याभोज्येषु चास्त्रकम्।
सर्वद्रोहेषु वारांह सर्वशान्तिषु नारद ।। 125 ।।
देवीमन्त्रचतुष्कं तु चित्तशुध्यर्थकारणम्।
येन येन कृते चेह विपरीतेन कर्मणा ।। 126 ।।
मालिन्यमात्मनो विप्र जायते तत्प्रशान्तये।
जपेद्ध्यायेच्च जुहुयान्मूलं भावः प्रसीदति ।। 127 ।।
यावल्लोकापवादस्तु तच्छुद्धौ विनिवर्तते।
किल्बिषेणआपवादेन मोहतामेति नारद ।। 128 ।।
सामर्थ्यान्मन्त्रजापस्य शतधा किल्बिषं व्रजेत्।
विनिवृत्तोऽशुभाज्जन्तुर्ध्यानेन तपसा तु वा ।। 129 ।।
तीर्थेन मन्त्रजापाच्च पूजया हवनेन च।
मेघरिक्तो यथा भानुस्तद्वल्लोके प्रकाशते ।। 130 ।।
तस्मादघनिवृत्त्यर्थं प्रायश्चित्तं समाचरेत्।
सर्वथाऽकीर्तिशान्त्यर्थं लोके धर्मव्यवस्थितेः ।। 131 ।।
नारद :---
[मन्त्रोपघाते प्रायश्चित्तप्रश्नः]
मन्त्रोपघाते चोत्पन्ने ह्यर्चादौ गृहमेधिनाम्।
नृपारितोयलोकानां सकाशात्तस्करस्य च ।। 132 ।।
किं कार्यं वद देवेश भक्तैर्भवभयाकुलैः।
यस्मात्त्वयोक्तमन्यत्र मन्त्रः शास्त्राक्षसूचितः ।। 133 ।।
प्रतिमाकिंकणीसंस्थो यागोपकरणे परे(?)।
अपूजितश्च विधिना कल्पोक्तेन दिने दिने ।। 134 ।।
संक्रुद्धः शापयन्त्या तु (त्याशु?)शश्वत्सिद्धिं न गच्छति।
रोगशोकावघातांश्चोद्वेगां[श्च]जनयेद्बहून ।। 135 ।।
श्रीभगवान् ---
अर्चाद्याधारका मन्त्रा न्यस्तास्ते सन्निधिं सदा।
सानुष्ठानस्य कुर्वन्ति विशेषाद्भावितात्मनः ।। 136 ।।
आधारस्थास्तु ये मन्त्राः पुराऽऽचार्यैर्निबोधिताः।
उपप्लवे समुत्पन्ने विसर्जनविधि सदा (विना ?) ।। 137 ।।
सामर्थ्यात्स्वप्रभावाच्च आश्रयन्ति स्वकारणम्।
तदाधारोपघाताच्च भ्रंशत्यायुर्जनस्य हि ।। 138 ।।
[मन्त्राधारभूतार्चोपघातजनितदोषशान्त्यर्थप्रायश्चित्तविधानम्] 25-62
सुमहद्दोषशान्त्यर्थमाचर्तव्यमिदं मुने।
यदि सन्निहितस्यैतदक्लिष्टस्य भवेत्तदा ।। 139 ।।
प्रयत्नेन दिनात्तस्माद्यमाचरणमारभेत्।
ज्ञातं वाऽथ दिने यस्मिंस्तदादौ संप्रवर्तते ।। 140 ।।
अथ सामर्थ्यविरहात् स्वतन्त्रत्वं च वा विना।
प्रत्यहं तु यथाशक्ति स्वमन्त्रं भक्तितो जपेत् ।। 141 ।।
प्राप्तः प्रतिपदं यावत्तद्दिनादौ समाचरेत्।
दरैकाहमभुञ्जानो ह्यश्नन्वा क्षीरसर्पिषी ।। 142 ।।
ईषद्वा फलमूलानि भूशायी न्यस्तविग्रहः।
ध्यानं तु मण्डलं पूजां जपहोममतन्द्रितः ।। 143 ।।
एकादशाहेऽतिक्रान्ते दश द्वौ भगवन्मयान्।
आचार्यान्पूजयेद्भक्त्या दानं द्वादशकं ततः ।। 144 ।।
प्रदद्याच्छक्तिपूर्वं च सर्वमूलं पृथक् पृथक्।
गवान्नहेमरत्नानि ग्रामाणि रजतं तिलान् ।। 145 ।।
धान्यं गजाश्ववासांसि मधुरादीन्रसानपि।
अभावाच्च गजाश्वाभ्यां कार्यौ सौवर्णराजतौ ।। 146 ।।
समर्थानां सवित्तानां भक्तानां कथितं त्विदम्।
अल्पार्थानामशक्तानामतृप्तं नक्तभोजनम् ।। 147 ।।
दधिक्षीरघृताक्तं च युक्तं गोवैष्णवादिकम्(?)।
हिरण्यतिलदानं च तेष्वपि द्वादशे दिने ।। 148 ।।
दत्वा तत्सन्निधौ भूयो मात्राग्रहणमाचरेत्।
पूर्वोक्तेन विधानेन लब्धानुज्ञस्ततस्तदा ।। 149 ।।
ब्रह्मचारीवनस्थानां यतीनां केवलात्तु वै।
स्नानाद्ध्यानात्तथा शौचाज्जपस्याप्ययुतत्रयात् ।। 150 ।।
शुद्धिः स्यादन्यथा याति पातित्यं पातकात्स तु।
न पातकं विना यस्मान्मात्राहिनिः प्रजायते ।। 151 ।।
पूर्वजन्मार्जितस्यैव पापस्योत्पद्यते क्षयः।
यत्प्रभावान्मनस्तापो भक्तानां जायते महान् ।। 152 ।।
समकालमृतस्या(1)न्ते विधिका क्षेत्रजन्मनः (?)।
पूजनीयास्तथाऽचार्या वैश्येन त्रयि(त्र्यधि?)कौ(2) तु सः ।। 153 ।।
(1. स्यान्ने विधिः कक्षत्र C L. स्यान्ते विधिः का क्षत्र A.)
(2. को नु सः A.)
चतुर्हरन्तिकान्तेन द्विगुणं द्विगुणं जपेत्।
यस्य वै प्रकटा लोके क्यातिर्यात्वार्यसंसदि ।। 154 ।।
तस्यैतत्कथितं चैव अकीर्त्यशुभशान्तये।
यस्माल्लोकापवादो वै संयतानां विगर्हितः ।। 155 ।।
सम्यक्सिद्धस्य किं लोकैः कारणं मुनिसत्तम।
न लोके प्रथितो यस्य मात्राभ्रंशो मनागपि ।। 156 ।।
जप्तव्यं तेन रहसि स्वमन्त्रस्यायुतत्रयम्।
ब्रह्मचार्युदितेनैव विधिना पुनरेव तु ।। 157 ।।
मात्रासङ्घट्टनं कुर्याद्येन शान्तिमवाप्नुयात्।
प्रणष्टायां तु मात्रायां यदि लाभो भवेत्पुनः ।। 158 ।।
प्रायश्चित्तादियत्नार्थं...वासमाचरेत्।
सर्वनाशात्तु यद्येको मन्त्रांशः प्राप्यते पुनः ।। 159 ।।
संस्कृत्य प्राप्य भुक्त्वा च जप्त्वा मन्त्रं तदाहरेत्।
इति श्रीपाञ्चरात्रे जयाख्यसंहितायां प्रायश्चित्तविधिर्नाम पञ्चविंशः पटलः।
* * * * *