जयाख्यसंहिता/पटलः २६
← पटलः २५ | जयाख्यसंहिता पटलः २६ [[लेखकः :|]] |
पटलः २७ → |
जयाख्यसंहितायाः पटलाः |
---|
पटलः - 26
अथ साधकस्य मूलमन्त्रसाधनं नाम षड्विंशः पटलः। 26-1
नारद :---
(1)मुक्तिमार्गस्त्वया प्रोक्तो दीक्षा मम यथाक्रमम्।
अधुना भु(2)क्तिमार्गं तु यथावत्कथयस्व मे ।। 1 ।।
(1. मुनि A Y.)
(2. मुनि Y.)
श्रीभगवान् ---
शृणु कर्माणि दिव्यानि मन्त्रराजस्य सुव्रत।
संक्षेपात्कथयिष्यामि पातालोत्थानसाधने ।। 2 ।।
खट्फट्काञ्जनकाशंगु(3) गुलिकादिप्रसाधने।
[मन्त्रसाधने देशवैलक्षण्यादिनियमः] 26-2
साधकः संयतो भूत्वा मन्त्रव्रतपरायणः ।। 3 ।।
(3. शु. A.)
महोत्साहः शुभाचारो धीरस्सर्वगुणान्वितः।
पुण्यक्षेत्रेषु तीर्थेषु नदीनां सङ्गमेषु च ।। 4 ।।
देवताऋषिजुष्टेषु कुर्यात्स्थानपरिग्रहम्।
पवित्राहारसंपन्नः सङ्करैः परिवर्जितः ।। 5 ।।
जपेल्लक्षत्रयं धीरो मन्त्रार्पितमनाः सुधीः।
पूर्वोक्तेन विधानेन अखिलेन द्विजोत्तमः(1) ।। 6 ।।
(1. म A)
संत्यज्यानेककर्माणि सुसिद्धस्तु ददाति च।
नियोजितः करोत्याशु वश्याकर्षणमारणान् ।। 7 ।।
ग्रहज्वरविषादीनां भूतानां च प्रमर्दनम्।
डाकिनीनां च सर्वासां ह्रासने मन्त्रनायकम् ।। 8 ।।
यथा नियोजयेत्सम्यक् तथा शृणु समाहितः।
[मूलमन्त्रस्य भूतोपशमनादौ विनियोगप्रकारः] 26-3
कृत्वा तु मण्डलं दिव्यं तत्र कुंभं निवेशयेत् ।। 9 ।।
पूर्वोक्तेन विधानेन इष्ट्वा देवं जनार्दनम्।
स्थापयेत्पुरतस्तस्य शुचिमातुर(2)मासने ।। 10 ।।
(2. मानसे A)
परिजप्य तु पुष्पाणि सिद्धार्थसहितानि तु।
शताष्टपरिजप्तानि हस्ताभ्यामातुरस्य च ।। 11 ।।
स्वहस्ते मण्डलं ध्यायेत्र्रिकोणे वह्निलांछितम्।
तन्मध्ये देवदेवेशं तेजोरूपं विचिन्तयेत् ।। 12 ।।
दीप्तचक्रगदापाणिं सर्वदुष्टांश्च तर्जयेत्।
तद्धस्तं दर्शयेत्साध्ये क्षिप्रमावेशकारकम् ।। 13 ।।
तं दृष्ट्वा सर्वभूतानि आविशन्ति भयार्दिताः।
प्रविष्टमात्रं दृष्ट्वा तं शङ्खबन्धं तु कारयेत् ।। 14 ।।
मूलमन्त्रेण मन्त्रज्ञः सार्णं संपुटितेन तु।
भस्मना चास्त्रजप्तेन दिग्बन्धं चात्र कारयेत् ।। 15 ।।
अस्त्रजप्तेन मन्त्रेण भस्मना ताडयेद्भुधः।
ताडयेत्सप्तजप्तैस्तु कुशैः सिद्धार्थकैः पुनः ।। 16 ।।
त्रिजप्तं गुग्गुलं धूपं प्रदद्यादात्मनः स तु।
शीताद्भिः शरदण्डैर्वा सप्तजप्तैस्तु ताडयेत् ।। 17 ।।
जयां मुद्रां ततो बध्वा मन्त्रमस्त्रयुतं जपेत्।
यथेष्टं निग्रहं चास्य मन्त्रेणानेन कारयेत् ।। 18 ।।
गदया ताडयेन्मूर्ध्नि कर्णं करविलिप्तये।
अथ वा प्रतिमां कुर्याद्गोमयेन गृहस्य तु ।। 19 ।।
चक्रेणाङ्गानि कृन्तेत्तु यदि क्षिप्तं न मुञ्चति।
मुञ्चामीति यदा ब्रूयात् शपथं कारयेत्सदा ।। 20 ।।
विसर्जयेद्बलिं दत्वा शिखादिग्बन्धमोक्षणात्।
कर्मणा मनसा चैव तथा वाचापि मोक्षयेत् ।। 21 ।।
[विषप्रशामनप्रकारः] 26-4
ठकारोदरगं मन्त्रं कलाषोडशसंयुतम्।
स्रवन्तममृतं ध्यायेच्चन्द्रमण्डलसन्निभम् ।। 22 ।।
वामहस्ते विचिन्त्यैवं साध्यमूर्ध्नि निवेशयेत्।
तेनामृतेन संपूर्य विग्रहं त्वातुरस्य च ।। 23 ।।
हरेद्विषाण्यशेषाणि विधिनाऽनेन योजितः।
[वशीकरणप्रकारः] 26-5
सप्त जप्तानि पुष्पाणि सुगन्धाक्तानि दापयेत् ।। 24 ।।
वामहस्तेन नारीणां पाणौ तासां च दक्षिणे।
वामपाणौ तु विप्रेन्द्र नॄणां दक्षिणपाणिना ।। 25 ।।
सद्यस्तद्वशतां यान्ति मन्त्रस्यास्य प्रबावतः।
चन्द्रमण्डलमध्यस्थं मन्त्रं ध्यात्वा करोदरे ।। 26 ।।
यस्य तद्दर्शयेद्धस्तं क्षिप्तं तं वशमानयेत्।
न्यासं कृत्वा तु पूर्वोक्तं कान्तं रूपं विचिन्तयेत् ।। 27 ।।
क्रुद्धस्याप्यग्रतः स्थित्वा क्षिप्रं तं वशमानयेत्।
पत्रं पुष्पं फलं वाऽपि त्रिजप्तं यस्य दीयते ।। 28 ।।
वशमायाति स क्षिप्रं मन्त्रस्यास्य प्रभावतः।
रोचनाकुङ्कुमाभ्यां वा भस्मना चन्दनेन वा ।। 29 ।।
प्रजप्य तिलकं कृत्वा विशेद्राजकु(1)लं यदि।
प्रा यान्महतीं पूजां दर्शनान्नात्र संशयः ।। 30 ।।
(1. दंभोगसंस्म Y)
[उच्चाटनप्रकारः] 26-6
वायव्यभुवनान्तस्थं मन्त्रं नीलांबुदप्रभम्।
निराधारं तदन्तस्थं ध्यायेत्साध्यं कृशं महत् ।। 31 ।।
नीलाम्बरधरं कृष्णं शुक्लवर्णसमं लघु।
देवं (व) नासानिलेनैव पूर्यमाणं नभस्थले ।। 32 ।।
भ्राम्यमाणं निराधारे उच्चाटत्यचिराच्च सः।
[विद्वेषणविधानम्] 26-7
आग्नेयभुवनान्तस्थं चाषपक्षसमद्युतिम् ।। 33 ।।
ध्यात्वा मन्त्रेश्वरं क्षिप्रं तत्पाद(1) गो(द्वयगौ)स्मरेत्।
द्वौ साध्यौ हुतभुग्रूपौ वीक्षमाणौ परस्परम् ।। 34 ।।
(1. दंभोगसंस्म Y)
पादं पदा ताडयन्तावभीक्ष्णं चातिवेगतः।
करोति विप्र विद्वेषं ध्यानमात्रान्न संशयः ।। 35 ।।
[आकर्षणम्] 26-8
सूर्यमण्डलमद्यस्थं ध्यायेन्मन्त्रेश्वरं द्विज।
भग्नराजोपलाभं तु घ्राणाग्रस्थेन वायुना ।। 36 ।।
कर्षयन्तं सुदूराच्च साध्यं भास्वरविग्रहम्।
विधिनाऽनेन भगवान् ध्यान(त)स्त्वाकर्षणे सदा ।। 37 ।।
आकृष्य भवनं सर्वं साधकस्य ददाति च।
[ ]
सितपद्मोत्तरस्थं तु मन्त्रं ध्यात्वा खगासनम् ।। 38 ।।
वर्णतः सितरक्ताभं तत्पाणिद्वयगौ तु वै।
द्वौ तु साध्यौ तदाकारौ पतन्तौ तौ तु संस्मरेत् ।। 39 ।।
हृष्टतुष्टप्रसन्नात्मा प्रीत्यर्थं मुनिसत्तम।
नयेत्....पथञ्चैव विधिनाऽनेन मन्त्रराट् ।। 40 ।।
हुताशसलिले द्वे तु किं पुनर्मानवान्प्र(2)ति।
[मारणम्] 26-9
वायुवह्निपुराभ्यां तु मद्ये चक्रोदितं प्रभुम् ।। 41 ।।
(2. न्भुवि A)
संस्मरेत्कृष्णरक्तं तु साध्यं तत्पादतो हतम्।
निष्पीड्यमानं वेगेन चक्रक्षेप्रैर्गतासुवत् ।। 42 ।।
ध्यायेद्विलुप्तशक्तिं च निमीलितविलोचनम्।
मारयत्यचिरेणैव विपक्षो यस्य साधकः ।। 43 ।।
[स्तम्भनम्] 26-10
माहेन्द्रमण्डलान्तस्थं कुङ्कुमोदकसन्निभम्।
प्रपीडयन्तं पादाभ्यामाधारं यन्त्रसंस्थितम् ।। 44 ।।
सतम्भयत्यचिरेणैव यं यमिच्छति साधकः।
[पुष्टिविधानम्] 26-11
चन्द्रमण्डलमध्यस्थं पीतं पीताम्बरं प्रभुम् ।। 45 ।।
वमन्तममृतं वक्रात्तत्पीयूषं द्विजाधिप।
विशन्तं ब्रह्मरन्द्रेण स्मरेत्साध्यस्य हृद्गतम् ।। 46 ।।
सर्वाङ्गानि च तत्स्थेन आक्रान्तानि च भावयेत्।
पुष्टाङ्गो जायते शश्वद्विधिनानेन मानवः ।। 47 ।।
[शान्तिकविधानम्] 26-12
सितपद्मयुगान्तस्थं संपूर्णं च शशिप्रभम्।
विचिन्त्यैकमजस्योर्ध्वे द्वितीयमधरस्थितम् । 48 ।।
निशाम्बुकणसङ्काशं स्वच्छन्दं मध्यतः स्थितम्।
मुञ्चन्तं सलिलं देहाच्छीतलं क्षीरवत्स्थितम् ।। 49 ।।
सिच्यमानं स्मरेत्साध्यं तेन तं तदधःस्थितम्।
जायते शान्तिकं सम्यग्यस्य यस्य द्विजेच्छसि ।। 50 ।।
[पु(तु)ष्टिविधानम्] 26-13
कुङ्कुमोदकसङ्काशं पूर्णचन्द्रान्तरस्थितम्।
ध्यात्वा मन्त्रं पुरा विप्र वमन्तममृतं मुखात् ।। 51 ।।
वर्णतः सितपीताभं तदग्रस्थं च भावयेत्।
पिबन्तं पाणियुग्मेन आत्मानमथवातुरम् ।। 52 ।।
पु(तु)ष्टिरुत्पद्यते शश्वन्मन्त्रराजप्रभावतः।
एतत्पूर्वोक्तजापस्य फलमुक्तं समासतः ।। 53 ।।
अनुक्तान्यपि कर्माणि कुरुते चात्र योजितः।
योज्यं कर्मपदं चैव परिकर्मणि यत्नतः ।। 54 ।।
कुरु वीप्सासमेतं च ध्यानेन परिभावितम्।
पूर्वोक्ताद्द्विगुणाज्जापाच्चैव सिद्धिमवाप्नुयात् ।। 55 ।।
[वैखरीसिद्धिः] 26-14
विवरद्वारमासाद्य स्थण्डिलं चोपलेपयेत्।
इष्ट्वा तु विधिना मन्त्रं कुर्याद्धोमं समाहितः ।। 56 ।।
तिलेन तु घृताक्तेन महिषाक्षेण वै पुनः।
क्षीरवृक्षसमिद्भिर्वा दूर्वाकाण्डैरभावतः ।। 57 ।।
लक्षमात्रे हुते ह्याशु वैखरीं सिद्धिमाप्नुयात्।
भित्वा तु सत्वयन्त्राणि प्रविशेद्विवरोत्तमम् ।। 58 ।।
पीत्वा रसायनं दिव्यं नारायणबलो भवेत्।
क्रीडने कन्यकायुक्ते यावदाभूतसप्लवम् ।। 59 ।।
[खड्गसाधनम्] 26-15
भूमिभागे समे लिप्ते रोचनां (1)कुङ्कुमैर्युताम्।
लिखेत् त्रिंशाड्गुलं खड्गं स्पष्टं साङ्गं मनोरमम् ।। 60 ।।
(1. पुष्पं A)
पूर्वोक्तेन विधानेन इष्ट्वा तत्र जनार्दनम्।
मुष्टिस्थाने करं स्थाप्य जपेल्लक्षं समाहितः ।। 61 ।।
युक्ताहारविहारो हि युक्तस्वप्नो ह्यखेदवान्।
यावदुत्तिष्ठते खड्गो मुष्टिना ग्राहयेत्ततः ।। 62 ।।
तं गृहीत्वा तु सर्वेषां विद्यानामधिपो भवेत्।
विद्याधराणां सर्वेषां चक्रवर्तित्वमाप्नुयात् ।। 63 ।।
[अञ्जनादिसाधनम्] 26-16
पूर्वोक्तेन विधानेन पूजयेन्मन्त्रनायकम्।
रोचनां शङ्खशुक्तौ तु गृहीत्वा शङ्खमुद्रया ।। 64 ।।
तावत्परिजपेन्मन्त्रं यावज्ज्वालां प्रमुञ्चति।
तन्मद्ये दृश्यते कान्ता कन्यका कामरूपिणी ।। 65 ।।
सिद्धास्मीति वदेत्सा तु कुरु कार्यं यथेप्सितम्।
अनेनैव विधानेन अञ्जनादीनि साधयेत् ।। 66 ।।
[गुलिकासाधनम्] 26-17
रोचनां कुङ्कुमं चैव हरितालं मनश्शिलाम्।
चक्रांकां चौषधीं तत्र पञ्चमां विनियोजयेत् ।। 67 ।।
सूक्ष्मपिष्टां तु तां कृत्वा आलोड्य मधुरैस्त्रिभिः।
एकादश्यां समभ्यर्च्य मण्डले मन्त्रनायकम् ।। 68 ।।
तत्राधिवासयेत्तां तु गुलिकां यन्त्रसंपृटे।
सितार्कस्य विधानेन द्वादश्यां तु जपेत्ततः ।। 69 ।।
दशायुतं तु तन्मन्त्री ततः सिद्धा तु सा भवेत्।
तया करस्थया मन्त्री विधिवद्गगनान्तरे ।। 70 ।।
पाताले वा महीपृष्ठे लोकपालपुरेषु च।
चक्रपाणिर्यथा विष्णुरधृष्यः सर्वदैवतैः ।। 71 ।।
जायते साधकेन्द्रस्तु मन्त्रस्यास्य प्रभावतः।
[रसायनादिसाधनम्] 26-18
ब्राह्मणं क्षत्रियं वाऽपि निर्व्रणं लक्षणैर्युतम् ।। 72 ।।
युवानमेकं दिवसं संस्थितं तु समानयेत्।
शून्ये गृहे समावेश्य स्नापयेदर्चयत्तेतः ।। 73 ।।
यथा विधानतो मन्त्री मन्त्रं संपूज्य मण्डले।
उपविष्टं (1)शवं कृत्वा मन्त्रं तस्याग्रतो जपेत् ।। 74 ।।
(1. वशं A)
ताडयेत्सर्षपाणां तु शतेनाष्टोत्तरेण तु।
ततो वेगात्समुत्थाय ब्रवीति प्रणतो वचः ।। 75 ।।
किं करोमि तवाद्याहं ममाज्ञा संप्रदीयताम्।
पादमूले रसं सिद्धं रसायनमपि द्विज ।। 76 ।।
यच्चान्यन्मनसोऽभीष्टं तद्ददात्यविकल्पतः।
[यक्षिणीसाधनम्] 26-19
कौशेयवस्त्रमानीय लिखेत्तत्र च यक्षिणीम् ।। 77 ।।
सर्वाभरणसंयुक्तां सुरूपां मनसेप्सिताम्।
यथोक्तेन विधानेन मन्त्रं संपूज्य पूर्ववत् ।। 78 ।।
उपोषितश्चार्धरात्रे दद्याद्धूपं सगुग्गुलुम्।
सप्ताहमेवं कुर्वीत जपेच्चाप्ययुतं सदा ।। 79 ।।
सप्तमे ह्यर्धरात्रे तु सशद्बः कम्पते पटः।
प्रत्यक्षमास्ते विप्रेन्द्र रूपैश्वर्येण संयुता ।। 80 ।।
यदा तु नक्षुभेन्मन्त्री तदा सिद्धाऽस्य सा भवेत्।
माता वा भगिनी भार्या का भवामीति भाषते ।। 81 ।।
तस्या यथेष्टं वक्तव्यं निर्विकल्पेन चेतसा।
सा सिद्धा सर्वकार्याणि साधयत्याशु मन्त्रिणः ।। 82 ।।
कामं ददाति विविधं नानारूपैर्यथेप्सितम्।
जायात्वेन द्विजश्रेष्ठ यदा चाङ्गीकृता पुरा ।। 83 ।।
निधीनथाक्षयान् शश्वद्भगिनीत्वे प्रयच्छति।
लोकालोकान्तरालोकं दर्शयत्यविचारतः ।। 84 ।।
औषधीश्च तदा दिव्या रसांश्च विविधानपि।
शास्त्राणि विविधान्याशु साधयेच्छान्तिसिद्धये ।। 85 ।।
ददाति सम्यक् सिद्धा सा सुसिद्धीर्जननी यथा।
[परसैनिकप्रणाशनम्] 26-20
संग्रामकाले संप्राप्ते आयुधान्यभिमन्त्रयेत् ।। 86 ।।
परसैनिक()पूर्वोक्तमभिमन्त्र्य च सर्षपान्।
अस्त्रसंपुटितेनैव तेनैव त्र्यक्षरेण तु ।। 87 ।।
मन्त्रेणाग्निप्रभावेन ज्वालामालाकुलेन तु।
गत्वा परबलास्त्रं तु क्रोधसंरक्तलोचनः ।। 88 ।।
प्रक्षिपेत्सैन्यमध्ये च नाशयेत्परसैनिकम्।
[दिव्यानां स्तम्भनम्] 26-21
रोचनाकुङ्कुमैर्युक्तो नाममन्त्रविदर्भितम् () ।। 89 ।।
लिखेत्कौस्तुभमध्ये तु कलाषोडशसंयुते।
एकैका तु कला विप्र पुरा युक्ताऽमृतेन तु ।। 90 ।।
साऽमृतानां कलानां च योजयेच्च तथोपरि।
विश्वाप्यायस्थितं वापि चन्द्ररश्मिसमप्रभम् ।। 91 ।।
तद्बाह्येऽष्टदलं पद्मं विलिखेच्च सकर्णिकम्।
देव्योऽङ्गानि यथार्चायां दलेष्वभ्यन्तरे लिखेत् ।। 92 ।।
स्तम्भयेत्सर्वदिव्यानि (1)खात्केशां(खेचरां)श्च निवारयेत्।
पूजनाद्धवनाद्ध्यानाच्चन्दनोदकसेचनात् ।। 93 ।।
(1. खट्केशां Y)
[उत्पातप्रशमनम्] 26-22
लिखितं भूर्जपत्रे तु क्षीराम्भोविनिवेशितम्।
उत्पातानि महाग्राणि साभिचाराणि नाशयेत् ।। 94 ।।
[विषशस्त्रादिभयप्रशमनम्] 26-23
त्रिलोहवेष्टितं कृत्वा पुष्यर्क्षे लिखितं तु वै।
द्वादश्यां शुक्लपक्षे वा मध्यंदिनगते रवौ ।। 95 ।।
बाह्वोः कण्ठे तथा मूर्ध्नि यस्तु धारयते सदा।
विषशस्त्राग्निभूतेभ्यो भयं तस्य न जायते ।। 96 ।।
[चक्रयन्त्रसाधनम्] 26-24
रोचनाचन्दनेनैव भूर्जे वा सितकर्पटे।
चक्रं कुर्याद्द्विषट्कारं नाभिनेमिसमन्वितम् ।। 97 ।।
तन्मध्ये कमलं कुर्यात् षोडशच्छदभूषितम्।
त्र्यर्णेन मूलमन्त्रेण नामसंपुटयोगतः ।। 98 ।।
विलिख्य तद्बहिर्दद्यान्मन्त्रं यो द्वादशाक्षरम्।
परिवेषप्रयोगेण पत्रे पत्रे लिखेत्ततः ।। 99 ।।
देवीनां हार्दकं बीजं चतुर्धा केसरावधौ।
अष्टाष्टकं तु बीजानां यावदेकत्र सङ्ख्यया ।। 100 ।।
ततः सर्वदलाग्रस्थः प्रणवो लिख्यते द्विज।
पुष्पपत्रात्समारभ्य हकाराद्यं च विन्यसेत् ।। 101 ।।
क्रमान्मकारपर्यन्तं ततः पद्मस्य बाह्यतः।
शिरः शिखां च कवचं नाभित्रितयगं लिखेत् ।। 102 ।।
परिवेषप्रयोगेण चक्रारेषु लिखेत्ततः।
अस्त्रा द्वादशधा विप्र एकैकस्यान्तरे ततः ।। 103 ।।
नेत्रमन्त्रं त्रिधा दद्यान्नाभिवन्नेमिमण्डले।
यन्त्रोऽयं मुनिशार्दूल सर्वोपद्रवनाशनः ।। 104 ।।
धारणात्स्मरणाद्ध्यानान्नास्ति तद्यन्न साधयेत्।
[सङ्खयन्त्रम्] 26-25
शङ्खोदरगतं पद्मं लिखित्वा (1)द्वादशच्छदम् ।। 105 ।।
(1. द्विदश C L)
समदेन तुषारेण कुङ्कुमेन तथैव च।
विलिख्य कर्णिकामद्ये त्र्यक्षरं मूर्तिसंयुतम् ।। 106 ।।
वलयाकृतियोगेन नाम तन्मध्यतो लिखेत्।
नारसिह्मादयो मन्त्रास्त्रयो लेख्या दलत्रये ।। 107 ।।
भूयो भूयश्चतुर्वारं बाह्यपद्मं च वेष्टयेत्।
क्रमात्पद्मादिकैर्मन्त्रैस्सर्पकुण्डलयोगतः ।। 108 ।।
वक्रदेशेऽथ शङ्खस्य क्रमाल्लोकेश्वरा दश।
अस्त्रमन्त्रास्तथा सख्यः शङ्खस्याथो निवेशयेत् ।। 109 ।।
इदं यन्त्रं मुनिश्रेष्ठ सर्वमन्त्रैरधिष्ठितम्।
सर्वकर्मकरं प्रोक्तं सर्वोपप्लवनाशकम् ।। 110 ।।
सर्वरोगविघातं च सर्वामयविनाशनम्।
[तिथिनक्षत्रविशेषात्फलभेदः] 26-26
सर्वमङ्गलकृत्सम्यक् पुष्यर्क्षलिखितं भवेत् ।। 111 ।।
द्वादश्यामथ शुक्लायां पूजयित्वा यथाविधि।
अभिषेकविधानेन शान्तिके पौष्टिके लिखेत् ।। 112 ।।
रक्षार्थं सर्वभूतेभ्यो योज्यं सर्वत्र सर्वदा।
[आहुतिद्रव्यभेदात् आहुतिसङ्ख्याभेदाच्च फलमेदः] 26-27
लक्षाहुतिप्रदानेन तिलानां कृष्णवर्चसाम् ।। 113 ।।
पूजयेद्वत्सरं यत्तु होमान्तेऽथ घृताहुतीः।
आपाद्य द्वादशशतं स्रुचा सम्यङ्भहामुने ।। 114 ।।
ददाति तस्य भगवान् यत्किञ्चिनमनसेप्सितम्।
एकादश सहस्राणि कमलानां तु नारद ।। 115 ।।
जुहुयाच्च घृताक्तानामेकान्ते विजने तु यः।
समुद्धृत्योदकात्सद्यस्तस्य लक्ष्मीं प्रयच्छति ।। 116 ।।
योऽयुतं चाथ बिल्वानां घृताक्तानां तु होमयेत्।
तस्य क्षिप्रं ददात्येष मन्त्रेशो विपुलं धनम् ।। 117 ।।
ग्रामानश्वान्सुवर्णं च दर्शयेत्तु कृताकृतम्।
आयुः पुत्रानथारोग्यं सौभाग्यं सर्वतोमुखम् ।। 118 ।।
यस्या अग्रे देवताया इमं मन्त्रेश्वरं जपेत्।
सा तस्मै सकलान्कामान्प्रसन्ना संप्रयच्छति ।। 119 ।।
साधितो मन्त्रसिद्धिर्हि(द्ध्या हि) मन्त्रराजः करोति च।
प्रसादितश्च पूजाद्यैः कर्मणा चाग्निकेन तु ।। 120 ।।
सामान्यमपि यत्किंचिद्भूतले कर्म विद्यते।
स्मरणात्सर्वमेवाशु साधकानां प्रयच्छति ।। 121 ।।
[मन्त्रराजस्य महिमाविशेषः] 26-28
इदमन्यत्प्रवक्ष्यामि मुनिश्रेष्ठ निबोधमे।
मन्त्रराजस्य यद्वीर्यं याहात्म्यं प्रभविष्णुता ।। 122 ।।
येनायं पूजितः सम्यक् ज्ञातो ध्यातः सकृ(1)त्स्मृतः।
तस्य सिद्धिः परा दिव्या मानुषी संप्रवर्तते ।। 123 ।।
(1. त्सकृत A.)
न चास्य सदृशो मन्त्रो मन्त्रराजस्य विद्यते।
सुखसौभाग्यसंपत्तेरपवर्गप्रसिद्धये ।। 124 ।।
इमं मन्त्रेश्वरं जप्त्वा भक्तिश्रद्धापरस्तु यः।
तच्चित्तो विजने स्थाने स्रवान्कामानवाप्नुयात् ।। 125 ।।
किमन्यैस्तस्य विप्रेन्द्र मन्त्रकोटिशतैरपि।
स तु चिन्तामणिप्रख्यो यस्यायं हृदि वर्तते ।। 126 ।।
सर्वकामप्रदः सद्यो देहान्तेऽपि च मोक्षदः।
इमं मन्त्रेश्वरं जप्त्वा सर्वान्कामानवाप्नुयात् ।। 127 ।।
नचास्य सदृशो मन्त्रो मन्त्रैः कोटिशतैरपि।
एवं मन्त्रवरं लब्ध्वा धुनेत्सर्वं फलाफलम् ।। 128 ।।
चिन्तामणिर्यथा लोके स(2)र्वाभीष्टं प्रयच्छति।
एवं (3)मन्त्रेश्वरो ह्येष साधकाय प्रयच्छति ।। 129 ।।
(2. मनो A.)
(3. न्त्रवरो A.)
ऐहिकामुष्मिकं सर्वं सम्यगाराधितः सदा।
लक्षायुतायुते जप्ते पूजाहोमादिकैर्विना ।। 130 ।।
प्रयच्छत्यणिमादीनि जपान्ते मन्त्रराड् द्विज।
प्राणायामादिसंयुक्तो धारणाद्यानतत्परः ।। 131 ।।
विना हवनपूजाभ्यां लक्षं लक्षं स्थितो जपेत्।
साक्षात्पश्यति देवेशं विष्णुं परमरूपिणम् ।। 132 ।।
एतदुद्देशतो विप्र कर्म मन्त्रेश्वरस्य तु।
भक्त्यर्थं साधकेन्द्राणां कथितं नातिविस्तृतम् ।। 133 ।।
तन्नास्ति यन्न मन्त्रेशः साधयेत्परितोषितः।
इति श्रीपांचरात्रे जयाख्यसंहितायां साधकस्य मूलमन्त्रसाधनं नाम षड्विंशः पटलः।
* * * * *