जयाख्यसंहिता/पटलः २८
← पटलः २७ | जयाख्यसंहिता पटलः २८ [[लेखकः :|]] |
पटलः २९ → |
जयाख्यसंहितायाः पटलाः |
---|
पटलः - 28
अथाङ्गमन्त्रसाधनं नामाष्टाविंशः पटलः। 28-1
श्रीभगवान् ---
अङ्गानां शृणु विप्रेन्द्र साधनं सिद्धिदं महत्।
येन विज्ञातमात्रेण साधकः सुखमृ(1)च्छति ।। 1 ।।
(1. मश्नुते A)
[हृन्मन्त्रसाधनप्रकारः] 28-2
(2)व्यापकत्वेन हृन्मन्त्रं विन्यसेत्तु करद्वये।
(3)न्यस्य देहे च तदनु इष्ट्वा हृत्पद्ममध्यगम् ।। 2 ।।
(2. केवलं व्यापकत्वेन हृन्मन्त्रं तु करद्वये A)
(3. न्यस्येत्)
विलिख्य च ततो बाह्ये चतुरस्रस्य मध्यतः।
चतुर्द्वारस्य सुसितमष्टपत्रं कुशेशयम् ।। 3 ।।
न्यस्त तत्कर्णिकायां तु ध्यात्वा मन्त्रेण पूर्ववत्।
पूजयित्वा विधानेन जुहुयात्सुसितैस्तिलैः ।। 4 ।।
तदन्ते हार्दकं रूपं कृत्वा तु विजनं व्रजेतं।
जपेल्लक्षत्रयं तत्र लक्षषट्कं तु होमयेत् ।। 5 ।।
सितचन्दनलिप्तानामाज्याक्तानां तथैव च।
सुगन्धिजातिपुष्पाणां दद्यात्पूर्णाहुतिं ततः ।। 6 ।।
पश्येत् स्वहृद्गतं मन्त्रं प्रबुद्धोत्फुल्ललोचनम्।
इति मत्वा ममेदं वै सिद्धिं तु हृदयेश्वरम् ।। 7 ।।
ततः कर्माणि वै कुर्यात्तेन मन्त्रेण नारद।
[हृदयमन्त्रसिद्धिजं सामर्थ्यम्]
शान्तिकं पौष्टिकं चैव स्वप्नस्थोऽथ शुभाशुभम् ।। 8 ।।
आदिशत्यभियुक्तस्य तत्स्वार्थघटनोद्यतः।
स्वप्नस्थानां नृपादीनां वनितानां विशेषतः ।। 9 ।।
कृत्वा तु हृदये पादं राका (ब्रूया ?)च्चोत्तिष्ठ दुर्मते।
प्रसादयामुकं गत्वा साधकं च धनादिकैः ।। 10 ।।
स तथेति च वै मत्वा प्रबुद्धो निश्चितेन तु।
यायादभ्यर्थयेत्तस्य साधकस्यामलात्मनः ।। 11 ।।
स्नात्वा घनरसाब्यां तु नाम हृत्संपुटीकृतम्।
अम्भोजकर्णिकामध्ये सप्तम्यां सितपक्षतः ।। 12 ।।
अर्धरात्रे समुत्थाय नैशेन सलिलेन तु।
हार्दकं मूर्तिमन्त्रं तु सह नाम्ना (1)दले दले ।। 13 ।।
(1. दलोदरे A)
लिखेद्दूर्वाङ्कुरेणैव पुष्येणानशनो व्रती।
समस्तदोषशान्त्यर्थं समस्तसुखवृद्धपे ।। 14 ।।
समस्तापद्विमोक्षाय समस्तवनिताप्तये।
एतद्धृदयमन्त्रस्य साधनं कथितं मया ।। 15 ।।
[शिरोमन्त्रसाधनप्रकारः] 28-3
अधुना साधनं वक्ष्ये शिरोमन्त्रस्य नारद।
न्यस्य हस्ते तथा देहे पूजयित्वा हृदन्तरे ।। 16 ।।
लाक्षारसाक्तवर्णेन साब्जमालिख्य मण्डलम्।
तन्मध्ये तु शिरोमन्त्रं प्राग्वद्ध्यात्वा यजेत्ततः ।। 17 ।।
ताम्रां स्वर्णं तु जुहुयात् सघृतान्वै तिलानथ।
भूत्वा रक्ताम्बरधरस्तन्मन्त्राकृतिविग्रहः ।। 18 ।।
आक्रम्य गिरिमध्यं तु जपेल्लक्षाणि पञ्च वै।
तदन्ते जुहुयान्मन्त्री लक्षत्रयमनन्यधीः ।। 19 ।।
रक्तपाटलपुष्पाणां सुगन्धानां तु नारद।
कुङ्कुमागरुलिप्तानां घृताक्तानां विशेषतः ।। 20 ।।
दद्यात्पूर्णाहुतिं पश्चात्कुङ्कृमेन घृतेन च।
साकारं तु भ्रुवोर्मद्ये पश्येन्मन्त्रं जगत्प्रभुम् ।। 21 ।।
ततः कर्माणि वै कुर्याल्लब्धसंवित् सुसाधकः।
वशीकुर्याज्जगत्सर्वमात्मना च धनेन च ।। 22 ।।
[सिद्धिजं सामर्थ्यम्]
प्रजप्य शतवारं तु बाह्लीकं हेमभूषितम्।
अङ्गुष्ठानामिकाग्रेण मर्दयित्वा निशाम्बुना ।। 23 ।।
ललाटे तिलकं कुर्याद्द्विजानामिकया परम्।
तदधोङ्गुष्ठसंस्थेन रजसा बन्धयेद्धृदि ।। 24 ।।
दिनत्रयं (2)यथासङ्ख्यं जपन्सन्ध्यात्रयं चरेत्।
चतुर्थेऽहनि संप्राप्ते मण्डलीको नराधिपः ।। 25 ।।
(2. शतं साष्टं A)
समेत्य प्रार्थयेत्तस्य प्रसादं कुरु मे प्रभो।
गृहाण मे धनं राष्ट्रं दासीदासगजादिकम् ।। 26 ।।
तस्मिन्नेव क्षणस्यान्ते समायाति रसातलात्।
शतशो नागकन्याश्च रसायनकरोद्यताः ।। 27 ।।
पिबेदं सुशुभं पानमस्माकं रमयस्व च।
याताच्चतुर्थदिवसादारभ्येदं क्षणं प्रभो ।। 28 ।।
न प्राप्नुमो धृतिं तत्र पाताले भवतो विना।
किंनर्यश्चाथ यक्षिण्यस्तथा विद्याधरस्त्रियः ।। 29 ।।
(1)साभिलाषाः समायान्ति साधकं प्रार्थयन्ति च।
क्रीडते चेच्छया तासां स्ववशः स च नारद ।। 30 ।।
(1. देवयोषाः A)
यावदात्मसमीहा च पीत्वा पानवरं च तत्।
शताभिमन्त्रितं कृत्वा निर्मलं भाजने जलम् ।। 31 ।।
अत्रानुसन्धयेन्मन्त्रमिमं संपूज्य यत्नतः।
भविष्यद्भूतभव्येषु संशयो यस्य कस्यचित् ।। 32 ।।
तत्तद्दर्शयते मन्त्रः स्वदेशोत्थैः स्फुटाक्षरैः।
नाम्न अन्तर्गतं मन्त्रं वशीकारे तु नारद ।। 33 ।।
जपेदाकर्षसिद्धौ वा साष्टं सूर्योदये शतम्।
यःकश्चित्पुरुषो विप्र नारी वा मनसेप्सिता ।। 34 ।।
जपान्ते द्रुतमायाति मन्त्रस्यास्य प्रभावतः।
लिखेन्मृगमदेनैव पयसा कुङ्कुमेन तु ।। 35 ।।
सितकर्पटखण्डे वै दूर्वाकाण्डैर्दिनोदये।
त्रिकोणपुरमध्यस्थं त्रिपत्रकमलं मुने ।। 36 ।।
हृदयाद्यं तु संयुक्तमभिधानं तदन्तिके।
तन्मूर्तिमन्त्रसंयुक्तं दद्यात्पत्रत्रये तथा ।। 37 ।।
यो धारयति विप्रेन्द्र रक्तसूत्रेण वेष्टितम्।
वस्त्रैर्वा वा(र्बाहौ ?) गले वाऽथ लम्बमानं तु वा हृदि ।। 38 ।।
यत्र तत्र जयस्तस्य पूजा भवति पुष्कला।
व्यालैर्व्याधैर्गजैश्चैव तस्करैर्घोरविक्रमैः ।। 39 ।।
न शक्यतेऽभिभवितुं मन्त्रस्यास्य प्रभावतः।
एतन्मूर्धाख्यमन्त्रस्य विधानं कथितं मया ।। 40 ।।
[शिखामन्त्रसाधनप्रकारः] 28-4
वक्ष्येऽधुना शिखाकल्पं संक्षेपाच्छृणु नारद।
कृत्वा न्यासं तु हृद्यागं बहिरालिख्य मण्डलम् ।। 41 ।।
चतुरस्रं चतुर्द्वारं रेखापञ्चकभूषितम्।
द्वाराणि सितवर्णानि रक्तवर्णानि चाश्रयः ।। 42 ।।
तन्मध्ये पङ्कजं कुर्याद्भिन्नाञ्जनसमप्रमम्।
तत्रावतार्य हृदयाद्विन्यस्य च यजेत्ततः ।। 43 ।।
होमावसानं कृत्वा तु कृष्णाम्बरधरो व्रजेत्।
शिखरप्रान्तभूभागं जपेल्लक्षत्रयं ततः ।। 44 ।।
जपान्ते जुहुयात्तत्र रक्तपुष्पायुतत्रयम्।
रक्तचन्दनसंयुक्तं तदन्ते चायुतत्रयम् ।। 45 ।।
जुहुयाच्चन्दनेद्धानां मध्वाक्तानां तु नारद।
दद्यात्पूर्णाहुतिं चान्ते चन्दनेन घृतेन च ।। 46 ।।
तदन्ते मन्त्रराट् सम्यक् ब्रह्मरन्ध्रोर्ध्वगो वदेत्।
गच्छ त्वं कुरु कर्माणि विविधानि महामते ।। 47 ।।
परितुष्टाऽस्मि ते सम्यक् होमेन च जपेन च।
[मन्त्रसिद्धिजं सामर्थ्यम्]
ततस्साधकमुख्योऽसौ कुर्यात्कर्म यदीप्सितम् ।। 48 ।।
मन्त्रेणाद्यन्तरुद्धेन जपेन्नागवराभिधाम्।
समायाति फणीन्द्रोऽपि हस्ते कृत्वा रसायनम् ।। 49 ।।
दर्शयेत्स्थाननिचयं निधीनां क्ष्मातले स्थितम्।
तदाज्ञया वसेच्चैव दुर्गे तु गिरिमस्तके ।। 50 ।।
प्रददज्जलमक्षय्यं स्वादुयुक्तं सुशीतलम्।
क्षीरवृक्षलतायुग्मं स्फुटमादाय चोन्नतम् ।। 51 ।।
मन्त्रोदकेन संस्नाप्य बध्नीयात्तद्धटद्वये।
स्तंभद्वयेऽथवा विप्र मुञ्जाद्यैर्मन्त्रितैस्तृणैः ।। 52 ।।
प्रजप्य गुग्गुलुं धूपं शिखामन्त्रेण सप्तधा।
लताभ्यां मध्यतो दद्यात्प्रकंपेत शनैः शनैः ।। 53 ।।
तन्मध्ये जपमानं तु (नस्तु ?) पुष्पं संधार्य पाणिना।
गृहीत्वा मनसा चिन्तां या यस्य परिरोचते ।। 54 ।।
ऋतं तद्यदि विप्रेन्द्र कुसुमं करमध्यगम्।
समाहरेत्तत्तु बलादनृतं यदि तद्भवेत् ।। 55 ।।
प्रयाते (ति ?) दूरतो वोगाच्चालयित्वा घटद्वयम्।
प्रणष्टद्रव्यसंदेहे चोरेणापहृते तु वै ।। 56 ।।
कुर्यादेतल्लताकर्म परमर्मावघट्टने।
अथवा मुनिशार्दूल दृष्ट्वा निकटवर्तिनम् ।। 57 ।।
समं घटद्वयं भूमावेकजातिं सुलक्षणम्।
स्थितं लताद्वयं ताभ्यां मनसा परिकल्प्य च ।। 58 ।।
चिन्तां कृत्वा जपेन्मन्त्री वीक्षमाणो लताद्वयम्।
प्रणष्टद्रव्यसंज्ञेन ... ... ... तत्र वै ।। 59 ।।
सत्यविज्ञापनार्थं तु समागम्य परस्परम्।
वेष्टयित्वात्मनात्मानमनृतज्ञापनाय च ।। 60 ।।
नत्वाऽवनिं शनैर्विप्र संस्पृशेत्तां पुनःपुनः।
मुसलद्वितयं वाऽथ भूमौ संरोप्य नारद ।। 61 ।।
हस्तद्वयान्तरेणैव साध्यं संपूज्य धूपयेत्।
पुरोदितं परिज्ञेयमथ विप्र शरद्वयम् ।। 62 ।।
निधाय भूमौ तन्मध्ये करणात्रं परित्यजेत्।
ताभ्यां कृत्वा तु संस्कारं प्रागुक्तपरिशुद्धये ।। 63 ।।
विलिख्य लोहकीलेन पूरयेच्च महामते।
सुस्पष्टं कुङ्कुमेनैव नाममन्त्रपुटीकृतम् ।। 64 ।।
पव्कमत्कर्पराणां तु शंकार्थं यत्रकुत्रचित्।
जलमद्ये तु निक्षिप्य ... संज्ञाप्य कर्परम् ।। 65 ।।
प्लुतमास्ते जलोर्ध्वे तु निश्शङ्कं तदधो वसेत्।
यत्स्व(द्वा ?)व्रीह्यादयश्चैव कार्यास्सप्ताभिमन्त्रिताः ।। 66 ।।
तस्कराणां तु शङ्कार्थं प्रदेया वामपाणिना।
दक्षिणे तु करे तेषां मुष्टिं संवेशयेत्ततः ।। 67 ।।
शतैकसंख्यया तिष्ठेज्जपन्मन्त्रं तु नारद।
प्रदह्यन्ते च चोराणां बीजानि करकानि च ।। 68 ।।
धारयेत्पूर्वविधिना भूर्जे वा सितकर्पटे।
ददात्यभीष्टं भक्तानां निर्विघ्नेन तु नारद ।। 69 ।।
एतच्छिखाख्यमन्त्रस्य संविधानं मयोदितम्।
[कवचमन्त्रसाधनप्रकारः] 28-5
कवचस्याधुना विप्र किंचिदुद्देशतः शृणु ।। 70 ।।
न्यस्य चेष्ट्वा च हृदये मण्डलं च ततो लिखेत्।
तन्मद्ये पंकजं कुर्यात्पीतकृष्णोज्ज्वलेन तु ।। 71 ।।
तन्मिश्रितेन रजसा तन्मध्ये चावतार्य वै।
प्रपूज्य पूर्वविधिना कुण्डस्थमथ तर्पयेत् ।। 72 ।।
सितकृष्णैस्तथा ताम्रैस्तिलैर्मध्वाज्यभावितैः।
दत्वा पूर्णाहुतिं कृत्वा रूपं कवचसंज्ञितम् ।। 73 ।।
प्रयायाद्भूगृहं विप्र गुहां वाऽप्यथ पार्वतीम्।
तत्र लक्षद्वयं जप्त्वा होमं तदनु चाचरेत् ।। 74 ।।
द्रव्यैः पूर्वोदितैः सर्वैः कृष्णागरुविभावितैः।
जपार्धसंख्यामानेन ततः पूर्णाहुतिं चरेत् ।। 75 ।।
आज्येन मधुमिश्रेण तदन्ते मन्त्रनायकम्।
दशदिक्षु स्थितं पश्येत्साधकस्योदमाह च ।। 76 ।।
गच्च सिद्धोऽसि ते कर्माण्यभीष्टानि प्रसादय।
तदाज्ञां शिरसा कृत्वा साधयेन्मनसेप्सितान् ।। 77 ।।
[मन्त्रसिद्धिजं सामर्थ्यम्]
गत्वा वन(नं?) पुरान्तं तु वामपाणिस्थितं जपेत्।
सितं सिद्धार्थकं चैव प्रहरार्धमुदङ्मुख- ।। 78 ।।
निक्षिपेद्वनभूमौ तु तदधोर्ध्वं विदिक्ष्वपि।
ततो हिताः (ऽभितः ?) समायान्ति तदग्रे वनदेवताः ।। 79 ।।
ममाज्ञां देहि मन्त्रज्ञ किमर्थं तापिताऽस्मि वै।
अभीष्टान्याहरस्वेमान्यौषधानि सहस्रशः ।। 80 ।।
समस्तकर्मसिद्ध्यर्थं क्षुज्जराविनिवृत्तये।
अथौषदानि दिव्यानि सर्वकर्मकराणि च ।। 81 ।।
गृहीत्वा च वनोद्देशात्प्रयायात्साधकेश्वरः।
आदाय कदलीपत्रं तमालच्छदमेव वा ।। 82 ।।
विततं भूर्जपत्रं वा मन्त्रेशं तत्र संलिखेत्।
तत्तनुत्रत्वमायाति वेष्टितं च यदा यदा ।। 83 ।।
शत्रुशस्त्रविनाशार्थमग्निज्वालापनुत्तये।
घर्मांशुतापशान्त्यर्थं शीतानां नाशनाय च ।। 84 ।।
लोष्ठकण्डकशीकर्यः स्थूलत्वमुपयान्ति च।
यदि दत्वा च तं भूमौ स्वपेदुपविशेच्च वा ।। 85 ।।
दृष्ट्वाऽग्रस्थं चोरसैन्यं समुद्यतवरायुधम्।
भीमं मृगारिं सिंहं वा हालाहलगणं महत् ।। 86 ।।
मदोद्धतं करीन्द्रं वा आरण्यमहिषादिकम्।
नदीनदान्तरस्थं वा प्राणिग्राहादिकं महत् ।। 87 ।।
हन्तुकामं च साधूनां सदामिषजिघृक्षया।
दण्डाग्रस्थं तु तत्पत्रं कृत्वा दक्षिणपाणिना ।। 88 ।।
सार्धाग्रस्थं (स्थो?) भ्रामयेत्तु तत्समुत्थेन वायुना।
कल्पान्तसदृशेनाशु यन्ति सर्वे इतस्ततः ।। 89 ।।
अथवा साधकेन्द्रेऽसौ चेतसा चानु सन्धयेत्।
गुप्तिं प्राकारतुल्येन कवचेनानलात्मना ।। 90 ।।
चक्षुर्बन्धस्च दुष्टानां तत्क्षणा [दुपजायते]।
तन्मन्त्रेण तु नग्नस्य जप्त्वा दद्याद्वटच्छदम् ।। 91 ।।
शीतकाले निदाघे वा अम्बरत्वं प्रयाति सः।
समुत्थिते महामेघे ग्रामे वा विषयेऽखिले ।। 92 ।।
स्मरेत् सस्त्र ... .... तत्पत्रं दण्डपृष्टगम्।
शतधा साशनिर्याति तानुत्रेण तु तेजसा ।। 93 ।।
बध्वा तनुत्रमन्त्रं च लिखितं पीतकर्पटे।
क्षीरेण कुङ्कुमेनैव ...... मिश्रितेन तु ।। 94 ।।
कर्मिकामध्यगं मन्त्रं द्विधा संज्ञा तदन्तगा(?)।
युक्तं कर्मपदेनैव पत्रे पत्रे तु मन्त्रपम् ।। 95 ।।
लिखित्वा [ तच्च ] सूत्रेणावेष्ट्य ताम्रपुटान्तरे।
कृत्वा बध्वा भुजे वामे मन्त्री यद्यत्समीहते ।। 96 ।।
तत्तदेव परा(समा?)प्नोति दत्वा वाऽन्यस्य कस्यचित्।
ग्रहभूतादयः सर्वे न बाधन्ते च तं नरम् ।। 97 ।।
प्रयच्छति सदाऽऽरोग्यं मन्त्रस्यास्य प्रभावतः।
[नेत्रमन्त्रसाधनप्रकारः] 28-6
अधुना नेत्रमन्त्रस्य विधानं वच्मि सिद्धिदम् ।। 98 ।।
पूर्वोक्तेन विधानेन हृद्यागे तु कृते सति।
मण्डलान्तर्गतं कृत्वा पीतरक्तं तु पङ्कजम् ।। 99 ।।
आहूय तत्र मध्ये तु नेत्रं हार्दाम्बुजस्थितम्।
होमावसानं संपूज्य होममाज्येन शस्यते ।। 100 ।।
पीतैसिर्द्धाथकैश्चैव ताम्रवर्णं तिलान्वितैः।
पूर्णां हुत्वा ततः कृत्वा तद्रूपं विजनं व्रजेत् ।। 101 ।।
दिक्चक्रं भ्रममाणस्य वीक्षमाणो दिवाऽनिशम्।
सूर्यस्य मुनिशार्दूल जपेल्लक्षत्रयं व्रती ।। 102 ।।
होमं कुर्याज्जपान्ते तु केवलेन घृतेन तु।
अयुतद्वितयं मन्त्री सुरदारुरसेन च ।। 103 ।।
मधुमिश्रेण चान्ये द्वे एकं सिद्धार्थकैस्तिलैः।
ततः पूर्णां समापाद्य समांशोत्थैर्घृतादिकैः ।। 104 ।।
अवसाने तु पूर्णायाः पश्येन्मन्त्रेश्वरं तु तम्।
दीप्तलोचनमार्गस्था(मग्रस्थ?)माज्ञां दत्वाऽथ स व्रजेत् ।। 105 ।।
ततोऽखिलानि वै कुर्यान्मन्त्री कर्माणि भूतले।
[नेत्रमन्त्रसिद्धिजं सामर्थ्यम्]
स्रोतोऽञ्जनं समादाय कृत्वा द्विशतमन्त्रितम् ।। 106 ।।
सप्तवारं च सौवर्णीं शलाकामभिमन्त्र्य च।
स्वनेत्रयुगलं तेन रञ्जयेदञ्जनेन तु ।। 107 ।।
पश्पेद्भूमिगतं सर्वं यत्किञ्चिन्निघिपूर्वकम्।
समुद्रतोयमध्यस्थं नागलोकं च पश्यति ।। 108 ।।
निश्शेषं रत्ननिचयं समादातुं च तं यदि।
व्रजेट्वा नागलोकं च ददाति विवरं जलम् ।। 109 ।।
पाषाणपादपानां तु मध्यस्थं यक्षिणीगणम्।
संपश्यत्यचिरेणैतत्तदीयेन यथा मुने ।। 110 ।।
प्रविश्य क्रीडते सम्यक् तासां द्विज यथेच्छया।
अदृस्यभूतो यक्षाणां स तेषामवलोकयेत् ।। 111 ।।
सर्वदा चेष्टमानानां यक्षयोगानशेषतः।
औषधो(ध्यो?)र्थास्तु विप्रेन्द्र तत्तन्मन्त्राश्च सर्वशः ।। 112 ।।
स्वयं वा यक्षकान्तानां सकाशादाहृतानि च।
निर्याति(?) च प्रपन्नानां भक्तानां भावितात्मनाम् ।। 113 ।।
साधने ह्यसमर्थानां संप्रयच्छति साधकः।
ते यत्रयन्त्रयोगानां सामर्थ्यान्मनसीप्सितम् ।। 114 ।।
संप्राप्नुवन्ति चाकृष्टाः प्रभावात्साधकस्य च।
पुनरभ्यञ्जयन्नेत्रे पूर्वोक्तविधिना यदि ।। 115 ।।
ईक्षते गगनान्तस्थान् सिद्धसंघाननेकशः।
पूजयन्ति च ते तस्य साधकस्य महात्मनः ।। 116 ।।
अभीप्सितं प्रयच्छन्ति स्वपथं वा नयन्ति च।
उपसन्नस्य भक्तस्य वैष्णवस्य विशेषतः ।। 117 ।।
शताभिमन्त्रितं कृत्वा ह्यञ्जनं तु शलाकया।
दद्यान्नेत्रद्वये यस्य स पश्यत्यखिलं मुने ।। 118 ।।
एकदेशस्थितश्चैव निखिलं विषयं तु तत्।
नगाद्यैरपि विच्छिन्नं योगयोगेश्वरान्वितम् ।। 119 ।।
डाकिनीभूतवेतालगणं चादर्शनस्थितम्।
प्रहृष्टा दृष्टमात्रास्ते प्रभावात्साधकस्य च ।। 120 ।।
धनाधिकं प्रयच्छन्ति उदासीनस्थितस्य च।
सप्ताभिमन्त्रितं कृत्वा नेत्रमन्त्रेण चाञ्जनम् ।। 121 ।।
प्रदद्यान्नेत्रयुग्मे स्वे अरिमध्यगतो नरः।
स यायाद्दर्शनं शश्वद्यत्र यत्र विशेच्च वा ।। 122 ।।
शताभिमन्त्रितं कृत्वा अदृष्टेच्छापथस्थितः।
अन्यस्य यदि युञ्जीयात्सोऽपि यायाददर्शनम् ।। 123 ।।
अदर्शनगतो मन्त्री किं न कुर्याच्च भूतले।
घृष्ट्वा निशाम्बुतोयेन अञ्जनं रोचनान्वितम् ।। 124 ।।
विलिख्य बर्हिपत्रेण नामयुक्तं च पूर्ववत्।
कर्णिकामध्यगं मन्त्रं दलस्थं विधिपूर्वकम् ।। 125 ।।
दशाङ्गुले नेत्रखण्डे चतुरश्रेऽथ वर्तुले।
बध्बा सन्धारयेन्मन्त्री सर्वस्मिन्जायते प्रियः ।। 126 ।।
सर्वसंपत्करो मन्त्रो घ्याय्यन्यस्य वारणात्(?)।
नेत्रस्यैतत्समाख्यातं विधानमतिशोभनम् ।। 127 ।।
[अस्त्रमन्त्रसाधनप्रकारः] 28-7
अथेदानीं समासेन अस्त्रराजस्य मे श्रुणु।
कृत्वा न्यासं पुरा सम्यक् हृद्यागं तदनन्तरम् ।। 128 ।।
चतुरश्रं चतुर्द्वारं कृत्वा यागं महामुने।
तन्मध्ये राजपाषाणतुल्येन रजसाम्बुजम् ।। 129 ।।
केसराणि सुरक्तेन तस्य पीतेन कर्णिकाम्।
तत्रावतार्थ संपूज्य ततो होमं समाचरेत् ।। 130 ।।
हविषा गुग्गुलेनैव तिलैः सह सितासितैः।
दत्वा पूर्णाहुतिं पश्चात् कृत्वाऽस्त्रसदृशीं तनुम् ।। 131 ।।
प्रयायान्निर्जनं स्थानं जपेल्लक्षत्रयं सुधीः।
जपान्ते होमयेन्मन्त्री गुग्गुलैरयुतद्वयम् ।। 132 ।।
बदराण्डप्रमाणेन एकं सिद्धार्थकस्य च।
रक्तचन्दनवृक्षोत्थमिद्मानमयुतद्वयम् ।। 133 ।।
घृतस्यायुतमेकं तु दद्यात्पूर्णाहुतिं तु वै।
ततः सहस्रसूर्याभं द्वादशान्तेऽस्त्रनायकम् ।। 134 ।।
पश्यत्यमलवदूदृष्ट्या इदमाह च सोऽस्त्रराट्।
गच्छ त्वं साधकश्रेष्ठ विचरेह यथासुखम् ।। 135 ।।
कुर्वन् कर्माण्यशेषाणि दिव्यमर्त्यान्यनेकशः।
तदाज्ञया स विप्रेन्द्र सिद्धिं चाप्यनुसाधयेत् ।। 136 ।।
प्रजप्योपलखण्डं तु कालं तु घटिकाभिधम्।
क्ष्मातलं वीक्षमाणस्तु तेन संताडयेत्क्षितिम् ।। 137 ।।
सा पीताङ्गी स्वरूपेण स्थित्वाऽग्रे साधकस्य तु।
प्रयच्छत्यचिरात्सर्वं यदभीप्सितमस्य तु ।। 138 ।।
[अस्त्रमन्त्रसिद्धिजं सामर्थ्यम्]
अकालशालयस्सर्वे तथाऽकालफलानि च।
सर्वाण्यकालपुष्पाणि गन्धाश्च विविधा अपि ।। 139 ।।
बिलद्वाराण्यसंखायनि विविधानि सहस्रशः।
रसायनानि दिव्यानि स्वयंग्राहाणि सर्वशः ।। 140 ।।
सप्तपातालसंस्थानि भावा नानाविधास्तथा।
ये स्वर्गे ये च भूलोके दुर्लभास्तु सहस्रशः ।। 141 ।।
सर्वाणि तानि विप्रेन्द्र प्रकटीकुरुते तथा।
आदाय खादिरं हस्ते लगुडं शतमन्त्रितम् ।। 142 ।।
चतुष्पथस्थितं वृक्षं तेन सन्ताडयेद्बलात्।
निर्यान्ति विह्वलीभूताः शाकिन्यो भूतमातरः ।। 143 ।।
किं किं साधकराजेन्द्र आज्ञां देहि यथेप्मिताम्।
अशक्येषु च कार्येषु भूतानां प्रेरयेत्तदा ।। 144 ।।
विदेशवृत्तकं सर्वं गूढं सुप्रकटं तथा।
गत्वा ज्ञात्वा यथाभूतमागत्य ह्यचिरेण तु ।। 145 ।।
निवेदयन्ति तत्सर्वं डाकिन्यो मन्त्रपीडिताः।
प्रयान्ति मातरोभताः क्षणेन गगनान्तरम् ।। 146 ।।
चेष्टितं च कृतं वृत्तं यत्तद्गगनचारिणाम्।
ज्ञात्वा निवेदयन्त्याशु साधकस्य यथास्थितम् ।। 147 ।।
भूतैर्गृहीतमनुजं ताडयेच्च लतादिना।
समानयेन्नयेच्चाथ तदग्रस्थस्य तां लताम् ।। 148 ।।
यायादभीप्सितं वेगाद् द्रुतमायाति तत्क्षणात्।
कृत्वा तु मातरं तस्माद्दूरदेशं व्रजन्ति च ।। 149 ।।
यत्र यत्र क्षिपेन्मन्त्री जप्त्वा सिद्धार्थकानि तु।
सन्निधिं तत्र कुर्वन्ति देवयोन्युषि(दि?)ता ग्रहाः ।। 150 ।।
अभीप्सितं चानयन्ति पानान्नवतनादिकम्।
अस्त्रेण मन्त्रितं कृत्वा शस्त्रं परबलं व्रजेत् ।। 151 ।।
ध्वस्तायुधं करोत्याशु तन्मध्ये तत्क्षिपेद्यदि।
अभेद्यमपि चेद्वज्रमस्त्रजप्तबलेन तु ।। 152 ।।
बहुधा भेदमायाति एवमन्ये नगादयः।
क्ष्मामण्डलस्थितं ध्यायेदस्त्रज्वालावलीवृतम् ।। 153 ।।
यत्र यत्र नियुक्तं तु स्तंभं तत्र करोति च।
अस्त्राभिमन्त्रितं कृत्वा लोहकाण्डं तु नारद ।। 154 ।।
भ्रामयन्गगनस्थं च स्तंभयेदभिवर्षणम्।
यत्र यत्र नियुंजीयात्क्रोधसंरक्तलोचनः ।। 155 ।।
अस्त्रजप्तं तृणाग्रं तु बकवत्तत्र तत्पतेत्।
मनःशिलायुतेनैव कुङ्कुमेन विलिख्य च ।। 156 ।।
कर्णिकादौ स्थितं प्राग्वद्दिक्षु वज्राष्टकान्वितम्।
धारयेद्यस्तु युक्तात्मा सर्वत्राप्यपराजितः ।। 157 ।।
पूजामाप्नोति विपुलां सौभाग्यं चाखिलं तथा।
इति श्रीपाञ्चरात्रे जयाख्यसंहितायां अंगमन्त्रसाधनं नामाष्टाविंशः पटलः
* * * * *