← पटलः १९ जयाख्यसंहिता
पटलः २०
[[लेखकः :|]]
पटलः २१ →
जयाख्यसंहितायाः पटलाः

पटलः - 20
अथ प्रतिष्ठाविधानं नाम विंशः पटलः। 20-1
नारदः
साधकानां हितार्थाय बिम्बं यदुदितं त्वया।
तदहं ज्ञातुमिच्छामि कथं तत्क्रियते विभो ।। 1 ।।
व्क तस्यापि विधानेन स्थापनं कथयस्व मे।
यस्य संपूजनान्नाथ लिङ्गान्येतानि चाप्नुयात् ।। 2 ।।
श्रीभगवान् ---
[अथ पटे बिम्बविधानम्] 20-2
पटे बिम्बविधानं तु सांप्रतं शृणु नारद।
सर्वसिद्धिकरं रम्यं निर्दोषं नातिविस्तरम् ।। 3 ।।
[पटमानादि] 20-3
द्विहस्तं चतुरस्त्रं तु हस्तमात्रं तु वा पटम्।
कार्पासमथ वा क्षौमं नवं शुक्लमनाहतम् ।। 3 ।।
[पटस्य चित्रकरस्य च संस्कारः] 20-4
प्रक्षाल्य बहुशोऽस्त्रेण चित्रज्ञं स्नाप्य वै द्विज।
दाहोत्पादनयुक्त्याऽथ सपटं संस्मरेच्च तं ।। 4 ।।
[आसनपदम्]
संसूत्र्य कमलं तत्र अष्टपत्रं सकर्णिकम्।
[गृहार्चामानम्] 20-5
कर्णिकामध्यसंस्थं तु प्रोच्छायं द्वादशाङ्गुलम् ।। 5 ।।
त्रिविंशत्यङ्गुलान्तं च बिम्बं लिख्यं सुलक्षणम्।
[लक्ष्म्यादिपरिवारोपेतस्य ग्राह्यता]
लक्ष्म्यादिपरिवाराढ्यं लोकेशास्त्रसमावृतम् ।। 6 ।।
संगृह्याद्यजनार्थं तु
[गृहादन्यत्र मानाधिक्यम्] 20-6
तत्प्रमाणं द्विजोर्ध्वतः।
मानं कुर्याद्‌गृहाद्बाह्ये स्थाने प्रासादपूर्वके ।। 7 ।।
[गृहार्चासु लेख्यचित्रबिम्बस्य हस्ताधिकमानत्वेऽप्यदोषता] 20-7
हस्ताधिकेऽपि च कृते चित्रबिम्बे गृहस्थिते।
न दोषः साधकानां तु दारुमृच्छैलजैर्विना ।। 8 ।।
[अथ बिम्बस्यावयवमानविधानम्] 20-8
बिम्बमानं तु नवधा प्रोच्छ्रयात्संविभज्य च।
भागं भागं तु तं भूयो भजेद्द्वादशधा मुने ।। 9 ।।
तदड्गुलं तु बिम्बस्य तेनाङ्गावयवास्ततः।
दर्शनीयाश्च गुरुणा शिल्पिकस्य समासतः ।। 10 ।।
चिबुकाच्च ललाटान्तं स्याद्वक्रं द्वादशाङ्गुलम्।
ललाटादूर्ध्वतो विप्र त्र्यङ्गुलेनोन्नतं शिरः ।। 11 ।।
द्वादशाड्गुलविस्तीर्णं त्रिगुणं परिणाहतः।
विस्तारद्व्यङ्गुलौ कर्णौ तन्मानद्विगुणोच्छ्रितम् ।। 12 ।।
कनिष्ठाग्रसमं विद्धि रन्ध्रं श्रोत्रस्य चान्तरात्।
कर्णभागावधोर्ध्वस्थमानेनार्धाङ्गुलौ स्मृतौ ।। 13 ।।
कर्णछिद्रात्तु वै बाह्ये कर्णमध्येऽङ्गुलोऽवटम्।
त्र्यङ्गुलं कर्णपाशाभ्यां व्यासो वा स्यादथेच्छया ।। 14 ।।
भ्रूलता शशिलेखाय(खेव ?)आयामाच्चतुरङ्गुला।
अर्धाङ्गुलेन विस्तीर्णा मध्ये स्थूलाऽग्रतः कृशा ।। 15 ।।
भ्रूसन्धिरङ्गुलसमो नासा तु चतुरङ्गुला।
द्व्यङ्गुलाच्चाग्रतः कार्या तिलपुष्पाकृतिर्यथा ।। 16 ।।
नेत्राभ्यामन्तरं विद्धि द्व्यङ्गुलं नेत्रभूस्तथा।
दैर्घ्येण द्व्यङ्गुलं नेत्रं तदायामेन चाड्गुलम् ।। 17 ।।
त्र्यंशेन तारकं मध्ये (1)ज्योतिस्तत्र्र्यं शसम्मितम्।
घ्राणाधश्चाङ्गुलेनैव पादहीनेन कल्पयेत् ।। 18 ।।
(1. ज्योतिस्तु A.)
गोजिकां(?)मुनिशार्दूल एकांशेन ततोऽधरः।
उत्तराख्यो ह्यधस्थं तु प्रमाणेनाङ्गुलः स्मृतः ।। 19 ।।
द्व्यङ्गुलं चिबुकं विप्र उच्छ्रायेण प्रकीर्तितम्।
विस्तारद्व्यङ्गुलं विद्धि सृव्किणी चतुरङ्गुले ।। 20 ।।
ईषद्विहस्तमाने च कर्णपाल्योः परस्परम्।
कपोलमूर्ध्वे शशिवत्तन्मध्ये चतुरङ्गुलौ ।। 21 ।।
मुखगण्डौ समौ कुर्यात्सुसंपूर्णौ मनोहरौ।
कर्णोच्छायस्त्र्यङ्गुलस्याद्विस्तारात्तच्च नारद ।। 22 ।।
अष्टाङ्गुलञ्च परिधेस्त्रिगुणं परिकीर्तितम्।
कण्ठादधः स्थितं वक्षो यावत्स्पन्दावधिं द्विज ।। 23 ।।
उन्नतत्वेन विहितं सदैव द्वादशाङ्गुलम्।
द्विगुणं चैव विस्ताराद्व्यङ्गुलं स्तनमण्डलम् ।। 24 ।।
एतयोश्चूचुके कुर्यादष्टमांशं स्वकाङ्गुलात्।
परस्परं च स्तनयोरन्तरं द्वादशाङ्गुलम् ।। 25 ।।
अष्टाङ्गुलौ स्मृतौ चांसौ विस्तरेण महामते।
प्रोन्नतत्वेन वै कुर्यात्स्कन्धमूर्ध्वं षडङ्गुलम् ।। 26 ।।
उच्छ्रायेण तु नाभ्यन्तं स्पन्दाद्वै द्वादशाङ्गुलम्।
परिधिं नाभिदेशस्य चत्वारोंऽशास्तु पञ्च वै ।। 27 ।।
अङ्गुलं नाभिरन्ध्रं तु क्रमान्निम्नं द्विरङ्गुलम्।
कुर्यात्प्रदक्षिणावर्तं नाभिमेढ्रान्तरं मुने ।। 28 ।।
उच्छ्रायेण तु संपाद्यं सुसमं द्वादशाङ्‌गुलम्।
नाभ्यावधेस्तदुदरं संपाद्यं चतुरङ्गुलम् ।। 29 ।।
शेषं तत्कटिभूभागं विस्तारेणोदरं मुने।
द्विसप्ताङ्गुलमानं स्यात्परिधेस्त्रिगुणं हितत् ।। 30 ।।
त्रिषट्‌काङ्गुलविस्तीर्णं कटिमानं विधीयते।
चतुः पञ्चाशदङ्गुल्यः परिधिस्तु कटेः स्मृतः ।। 31 ।।
षट्‌त्रिंशाङ्गुलमानेन परिधिस्तु कटे स्मृतः(?)।
कुर्यात्प्रजननं विप्र उच्छ्रायेण षडङ्गुलम् ।। 32 ।।
द्व्यङ्गुलेन तु विस्तीर्णं वृषणौ चतुरङ्गुलौ।
त्रिचतुर्मुष्क(?)संपूर्णौ उरुदण्डौ ततो द्विज ।। 33 ।।
उच्छ्रायेण प्रकर्तव्यौ चतुर्विंशाङ्गुलौ समौ।
प्रथुमूलौ क्रमात्क्षामौ संलग्नौ गजपाणिवत् ।। 34 ।।
विस्तारेणाथ वा कुर्यादूरुमूलं नवाङ्गुलम्।
षट्‌त्रिंशाङ्गुलमानं स्यादूरुमद्ये तु वष्टनम् ।। 35 ।।
उरुभ्यामवसाने तु वेष्टितञ्चैकविंशतिः।
त्र्यङ्गुलं मुनिशार्दूल परितो जानुमण्डलम् ।। 36 ।।
विस्तारेणोन्नतश्वापि जानुभ्यामथ मे शृणु।
द्विद्वादशेनाङ्गुलानां जङ्घोच्छ्राय इहोच्यते ।। 37 ।।
षडङ्गुलेन विस्तीर्णं जङ्घामूलं प्रकीर्तितम्।
जङ्घामध्ये तयोर्नाहो ।। 38 ।।
जङ्घावसाने विस्तारे ज्ञेयः पञ्चाङ्गुलो मुने।
तमेव त्रिगुणीकृत्य तस्यैव परिधिर्भवेत् ।। 39 ।।
गुल्फादधस्त्र्यंगुलं स्यात्पदोच्छ्रायस्तु नारद।
तत्पर्ष्णिपृष्ठतो यावदङ्गुलाग्रं द्विजोत्तम ।। 40 ।।
भवेत्पादस्तु दैर्घ्येण अङ्गुलानां द्विसप्तकम्।
षडङ्गुलेन विततः कूर्मपृष्ठोन्नतः क्रमात् ।। 41 ।।
चतुरङ्गुलदैर्घ्येण अङ्गुष्ठं द्व्यङ्‌गुलं ततः।
त्रिगुणं वेष्टनं तस्य दैर्घ्यात्तत्पादतोऽधिका ।। 42 ।।
पादप्रदेशिनी कार्या तत्समीपस्थिताङ्‌गुलिः।
अङ्‌गुष्ठस्य समा कार्या तत्पादोना त्वनामिका ।। 43 ।।
अनामिकायाः पादेन हीना पादकनीयसी।
त्र्यंशेन विद्धि सर्वासां पर्वमानं तु नारद ।। 44 ।।
पर्वार्धेन नखाः कार्या अर्धेन्दुसदृशाः शुभाः।
षट्‌त्रिंशदङ्गुलं मानं पृष्ठमंसावधि स्मृतम् ।। 45 ।।
गोमुखं वा क्रमान्निम्नं यावद्विंशाङ्‌गुलं भवेत्।
मध्यप्रदेशाद्विततः पृष्ठवंशोन्नतः क्रमात् ।। 46 ।।
सुश्लक्ष्णश्चाविभक्तश्च विभक्तश्च्च यथा मुने।
संमीलनं मीनयुक्तं वक्षा पञ्चाङ्गुला स्मृता ।। 47 ।।
सुवर्त्तुलौ स्फिजौ कार्यौ विस्तारात्षोडशाङ्गुलौ।
सुविभक्ते च पीने च करिकुम्भोपमे शुभे ।। 48 ।।
अधस्तात् स्कन्धशीर्षस्य बाहुः स्याद्द्वादशाङ्गुलः।
अष्टादशाङ्गुलं विद्धि उपबाहुं द्विजोत्तम ।। 49 ।।
मणिबन्धप्रदेशस्तु तत्र त्र्यङ्‌गुल उच्यते।
मध्यमाङ्गुलिपर्यन्तं मणिबन्धावसानतः ।। 50 ।।
द्वादशाङ्गुलमानं तु स्कन्धं स्यात्परिवर्त्तुलम्।
चतुरङ्गुलविस्तीर्णं परिधेस्त्रिगुणं स्मृतम् ।। 51 ।।
मूलतश्चोपबाहुर्वै पञ्चाङ्गुलमुदाहृतम्।
त्रिगुणं च तथा नाहं तं क्रमाद्ध्रासयेन्मुने ।। 52 ।।
गोपुच्छसदृशाकृत्या तथा स्यात्र्यङ्गुलं मुने।
मणिबन्धप्रदेशस्तु विस्तारेण च वेष्टनात् ।। 53 ।।
नवाङ्गुलप्रमाणेन पाणेर्मानमतः शृणु।
मणेरङ्गुलिमूलान्तं विद्धि सप्ताङ्गुलं सदा ।। 54 ।।
पञ्चाङ्गुलप्रमाणेन तिर्यग्विस्तरमुच्यते।
निम्नं करतलं कुर्याच्छुभरेखाविभूषितम् ।। 55 ।।
तत्र मद्याङ्गुलिं चिद्धि विप्र पञ्चाङ्गुलं तु वा।
तस्या द्वे पार्श्वतोऽङ्गुल्यावूने त्वर्धाङ्गुलेन वै ।। 56 ।।
तत्पञ्चमांशहीनां च नित्यं कुर्यात्कनीयसीम्।
सार्धत्र्यङ्गुलमङ्गुष्ठं द्विपर्व परिकीर्तितम् ।। 57 ।।
त्रिपर्वाङ्गुलयः शेषाः पर्वार्धेन नखाः स्मृताः।
गोपुच्छसदृशः कार्या अङ्गुल्योऽङ्गुलमानतः ।। 58 ।।
पादहीना कनिष्ठा स्यात्सपादश्चाङ्गुलोङ्गुलाः(?)।
स्वकप्रमाणविस्तारात्रिगुणं विद्धि वेष्टनम् ।। 59 ।।
कूर्मपृष्ठनखाः सर्वे अग्रतश्चार्धचन्द्रवत्।
लिङ्गाकृतिं (?) मूलदेशान्मानमेषामनिश्चितम् ।। 60 ।।
सलोमदन्तकेशानां मानं शोभाविकल्पितम्।
केशैरलकजालं तु ललाटोपरि शोभितमू ।। 61 ।।
ललाटोर्ध्वाङ्गुलच्छादि कुर्यात्रिवलिसंयुतम्।
मनोहरा ह्यवयवाः सर्वे कार्याः सुलक्षणाः ।। 62 ।।
समानविषमा विप्र सक्तासक्ता विशेषतः।
मानेनानेन वै कुर्यात् बिम्बं विप्र सुलक्षणम् ।। 63 ।।
शतमष्टोत्तरं पूर्णमङ्गुलानां स्वकाङ्गुलैः।
उच्छ्रायेण द्विजश्रेष्ठ मूर्ध्नः पादतलावधि ।। 64 ।।
हारनूपुरकेयूरमेखलामौलिशोभितम्।
पीनाङ्गमध्यदेशाच्च समानवलिशोभितम् ।। 65 ।।
शेषं ध्यानोदितं सर्वमुक्तानुक्तं प्रकल्पयेत्।
[अथ बिम्बद्रव्यविधानम्] 20-9
कुर्यादनेन मानेन सौवर्णं वाथ राजतम् ।। 66 ।।
बिम्बमाराधनार्तं तु आरकूटमयं तु वा।
शिलामृद्दारुजं वाऽथ यथा संभवतो मुने ।। 67 ।।
[सिद्ध्यमिकांक्षिणां गृहे शैलजादिप्रतिषेधः] 20-10
सम्भवे सति यः कुर्याच्छैलमृद्दारुजं गृहे।
चिरेण सिद्धयस्तस्य प्रवर्तन्ते महामते ।। 68 ।।
निर्विघ्नेन भवेन्मोक्षो ह्यतस्सिध्यभिकांक्षिभिः।
न कार्यं शैलजं गेहे दारुजं वाथ मृण्मयम् ।। 69 ।।
[अथ पीठमानम्] 20-11
बिम्बमानाद्यथा पीठं कुर्याद्देवस्य तच्छृणु।
[तत्र पीठद्वैविध्यम्] 20-12
चतुरश्रं तु तद्विद्धि चरुरश्रायतं तथा ।। 70 ।।
[चतुरश्रपीठलक्षणम्] 20-13
बिम्बोच्छ्रायसमं पीठं परितश्चैव विस्तृतम्।
तदर्धेनोच्छ्रितं कुर्यादेतत्सामान्यलक्षणम् ।। 71 ।।
चतुरश्रस्य पीठस्य कथितं च महामुने।
[चतुरश्रायतपीठलक्षणम्] 20-14
चतुरश्रायतस्याथ प्रमाणमवधारय ।। 72 ।।
बिम्बार्धेन तु विस्तीर्णं तत्प्रमाणेन चोन्नतम्।
समं देवस्य दैर्घ्येण चतुरश्रायतं तु तत् ।। 73 ।।
कुर्यात्तुङ्गालयस्थानां देवतानां सदैवहि।
[चलार्चायागृहार्चायाश्च पीठमानम्] 20-15
चलानां वेश्मसंस्थानां बिम्बानां पीठमन्यथा ।। 74 ।।
कुर्थात्स्कन्धसमं दैर्घ्यात् स्तनमानान्वितं तुवा।
आपादाज्जानुपर्यन्तं विस्तारेणोच्छ्रयेण च ।। 75 ।।
ऊ(तदू?)र्ध्वेनाथ वा कुर्यात् विस्तारं चापिचोन्नतिम्।
उक्तोन्नतेर्वा विप्रेन्द्र स्यादर्धेन तु विस्तृतिः ।। 76 ।।
तच्चतुर्भागहीनं तु त्रिभागं चार्धमेव वा।
तुङ्गत्वं विहितं पीठे चलबिम्बस्य सर्वदा ।। 77 ।।
धातुद्रव्यस्य चाभावात्स्थिराणामेवमेवहि।
[अथोपपीठलक्षणम्] 20-16
कृत्वा तु तदधः कुर्यादुपपीठं प्रमाणतः ।। 78 ।।
त्रिभागेनाथ पीठस्य प्रणाळं मध्यतो भवेत्।
तन्मानेन तु तद्दीर्घं स्वमानादग्रतः पुनः ।। 79 ।।
त्र्यंशमानेन विस्तीर्णं तस्यापि त्र्यंशमन्तरात्।
खातव्यमग्रतो मूलात्तत्कुर्यान्मकराननम् ।। 80 ।।
वराहकूर्मवक्त्रं वा सुश्लक्ष्णमथ केवलम्।
उच्छ्रायं नवधा युंज्याच्चतुरश्रं तु मण्डलम् ।। 81 ।।
भागद्वयेन भूस्पर्शं कुर्याज्जान्वंघ्रिसंज्ञितम्।
घण्टा(टा ?)कारं तदूर्ध्वे तु वृत्तं भागद्वयोन्नतम् ।। 82 ।।
वृत्तोपरि ततः कुर्यात्कण्ठभागद्वयोच्छ्रितम्।
तं च भागेन भागेन परितः संप्रवेशयेत् ।। 83 ।।
अर्धभागेन निष्क्रान्तामेकांशेन तदर्ध्वतः।
कुर्याद्वै मेखलां विप्र भागेनार्धेन कुम्भवत् ।। 84 ।।
सार्धेनोपरि भागेन चतुरश्रां तु मेखलाम्।
जलाधारः सविज्ञेयो द्विगुणञ्चोर्ध्वविस्तृतम्(तः ?) ।। 85 ।।
तल्यंशेन तुलापीठं निम्नखातेन खातयेत्।
तदूर्ध्वे कमलं कुर्यान्नातिनिम्नं च नोन्नतम् ।। 86 ।।
देवतास्तत्र कर्तव्या दलस्थाः पूर्वचोदिताः।
तासां वा पूजनार्थं तु केवलं विततच्छ्रदम् ।। 87 ।।
पीठोच्छ्रायात्तु पादेन तदूर्ध्वे कमलोच्छितम्।
संभवे सति वै भिन्ना(न्न?)मभिन्नां(न्नं?) सत्यसंभवे ।। 88 ।।
[बिम्बपीठयोः सजातीयविजातीयद्रव्यत्वविकल्पः] 20-17
सजातीयं हि यत्पीठं बिम्बस्य मुनिसत्तम।
तदनन्तफलं विद्धि क्षेमारोग्यसुभिक्षदम् ।। 89 ।।
बिम्बेन सह यत्पीठं भिन्नं तच्छोभनं भवेत्।
मोक्षदं कीर्त्तिदं चापि दद्यात्परिमितं फलम् ।। 90 ।।
राजनं(तं?) हेमबिम्बस्य पीठं भवति शोभनम्।
ताम्रजं राजतस्योक्तमीरितं तस्य शैलजम् ।। 91 ।।
शैलजं शैलजस्योक्तं दारुजस्यापि दारुजम्।
मृण्मयस्य च दारूक्तं शैलजं दारुजस्य च ।। 92 ।।
[अथ प्रासादोपपीठः] 20-18
चातुर्भागेन वै गर्भाद्भित्तिमानं विधीयते।
गर्भमानात्सभित्तीकात्प्रासादस्य तु नारद ।। 93 ।।
पादहीनं पुरा पीठं वृत्तं वा चतुरश्रकम्।
अर्घन्यूनं तु वै कुर्यात्संक्षिप्तं वा सुसम्मितम् ।। 94 ।।
सोपानपदवीयुक्तं चतुर्दिक्षु तथा मुने।
एवमेव समं पीठं संपाद्यादौ विचिन्त्य वा ।। 95 ।।
[अथ प्रासादलक्षणम्] 20-19
प्रासादं च तथा कुर्यात्तस्य लक्षणमुच्यते।
[तत्र प्रासादपीठः]
देवमानात्पुरा विप्र पीठमानाद्विचिन्तयेत् ।। 96 ।।
पीठं दैर्घ्येण वै कुर्यात्प्रासादस्य समन्ततः।
गर्भद्विगुणविस्तीर्णं गर्भागारं त(य?)थाविधम् ।। 97 ।।
सिद्धविद्याधराकीर्णं देवद्विजनृपान्वितम्।
उद्यानबूधराम्भोघिसंभवैः परिभूषितम् ।। 98 ।।
गजाश्वनृपसिह्माद्यैर्मृगयूथैश्च शोभितम्।
तस्मिन्पीठोपरि शुभं प्रासादं परिकल्पयेत् ।। 99 ।।
[प्रासादे भेदाः] 20-20
चतुरश्रं चतुर्द्वारं वृत्तमष्टाश्रमेव वा।
एकद्वारं विचित्रं वा यथाभिमतदिग्गतम् ।। 100 ।।
प्रागुक्तात्क्षेत्रमानाद्वै तत्सार्धं च(द्वि?) गुणोन्नतम्।
[प्रासादपीठरचनाविधानम्] 20-21
कृत्वा प्रासादपादार्धमंशकं भित्तिसम्मितम् ।। 101 ।।
दत्वा तस्मिंस्ततः कुर्यात्पीठोक्ता(क्तां?)रचना(नां?)मुने।
[प्रासादजङ्घा] 20-22
गर्भोक्तोन्नतिमानेन जङ्‌घामुद्धृत्य यत्नतः ।। 102 ।।
स्तम्भाष्टकसमोपेतां प्रागुक्तरचनान्विताम्।
नानापत्रलताकीर्णां पुष्पस्तवकभूषिताम् ।। 103 ।।
[जङ्‌घोर्ध्वरचना] 20-23
ततः शिष्टं तु शिखरं संविभज्य त्रिपञ्चधा।
जङ्घोर्ध्वरचना कार्या एकांशेन महामते ।। 104 ।।
सद्गृहाणि विमानानि देवतायतनानि च।
नानारूपाणि वै तत्र चतुर्दिक्षु प्रकल्पयेत् ।। 105 ।।
[अथ भूमिकापञ्चकविधानम्] 20-24
भागत्रिदशकेनाथ कुर्याद्वै भूमिकागणम्।
सङ्कोचमुन्नतिं तासां रचनामवधारय ।। 106 ।।
एकीकृत्य पुरा सर्वभूमिकाभागसञ्चयम्।
भु(भ?)ञ्जन्नवतिभिर्भागैस्समैरेकाधिकैर्मुने ।। 107 ।।
त्रयोदशभिरड्गैस्तु कपोतोपरि भूमिका।
एकापायेन तन्मानादूर्ध्वान्तं ह्रासयेत्क्रमात् ।। 108 ।।
भूमिर्वै मुनिशार्दूल यावदूर्ध्वं तु भूमिका।
भवत्येकेन चांशेन अनेन विधिना भवेत् ।। 109 ।।
उच्छ्रायह्रासौ भूमीनां पार्श्वसङ्कोच उच्यते।
कपोतपालेरूर्ध्वात्तु परितः शिखरं भवेत् ।। 110 ।।
सप्तविंशतिभिर्भागैरूर्ध्वसूत्रैस्समानतः।
कपोतपालेरर्वाक्तु भूमावेकांशमादितः ।। 111 ।।
परितश्शोधयित्वा वै एकं चोपरि भूमिषुं।
एकैकमंशं संशोध्य यावदूर्ध्वं तु भूमिका ।। 112 ।।
पञ्चधा भूमिकाः कुर्यात्क्रमाद्वै विषमांशतः।
एकस्मिन्मेखलास्तिस्रो भागे कार्याह्यघःस्थिते ।। 113 ।।
कपोतवद्द्वितीयेऽस्मिन्भागे तु रजना भवेत्।
मेखलाद्वितयं कुर्यात्तृतीये च तदूर्ध्वतः ।। 114 ।।
चतुर्थं रचयेत्पश्चात्कम्बुभिः चक्रपङ्कजैः।
एकैव मेखला कार्या ऊर्ध्वभागे तु पञ्चमे ।। 115 ।।
मेखलापत्रपुष्पाद्यै रचनीयाऽथ वा द्विज।
सुश्लक्ष्णा केवला कार्या सुवृत्ता अश्रभूषिता ।। 116 ।।
एवं तु सर्वभूमीनां कृत्वा तु रजनाः शुभाः।
ऊर्ध्वस्था ऊर्ध्वभूमौ तु भागः पञ्चदशो हि यः ।। 117 ।।
[अथामलसारकविधानम्] 20-25
तेनोष्णीषसमायुक्तं कुर्यादमलसारकम्।
संविभज्य त्रिधा तद्वै उष्णीषं प्रथमेन वै ।। 118 ।।
भूमिकाग्राच्च निष्क्रान्तमीषच्छादनवद्द्विज।
ऊर्ध्वात्तु भूमिकातुल्यः(ल्यं?)सुलक्ष्णं रचनोझ्झितम् ।। 119 ।।
तदूर्ध्वं नवभिर्भागैः सुसमैः संविभज्य च।
भागेन मध्यतः कण्ठं(1) विस्तीर्णं परिकल्पयेत् ।। 120 ।।
(1. कर्णं Y)
परितश्चार्धभागेन कण्ठं(2) तु परिवर्त्तुलम्।
कण्ठा(3)त्र्रितीयभागेन कुर्यात्तच्चापि चोन्नतम् ।। 121 ।।
(2. कर्णं Y)
(3. कर्णा Y.)
तथाविधं तु कण्ठो(4)र्ध्वे कार्यं दण्डासनं शुभम्।
शुक्तिसंपुटरूपैस्तु शृङ्गैरमलसारकम् (?) ।। 122 ।।
(4. कर्णा Y.)
[अमलसारकस्योर्ध्वमाणे चक्रविधानम्] 20-26
युक्तं कुर्याद्द्विजश्रेष्ठ चक्रं चाथ तदूर्घ्वतः।
ध्वजदण्डसमोपेतं द्वादशारं तु धातुजम् ।। 123 ।।
एवंविधानि सूक्ष्माणि प्रासादानि च नारद।
कुर्याद्वै भूमिकोणेषु द्विपञ्चाशत्कसंख्यया ।। 124 ।।
[अथ प्रासादद्वारविधानम्] 20-27
द्वारं द्वाराणि वा चास्य कुर्यान्मानयुतानि च।
सपीठात्प्रतिमानाच्च(मामानात्?)दशमांशेन चाधिकम् ।। 125 ।।
उच्छ्रितं कल्पयेद्द्वारं उच्छ्रायार्धेन विस्तृतम्।
द्वारोच्ल्रायप्रमाणं तु विहीनेन तु कल्पयेत् ।। 126 ।।
द्वारशाखाद्वयं चैव तदूर्ध्वाध उदुंबरौ।
नवशाखान्वितं कुर्याच्छाखायुग्ममुदुम्बरे ।। 127 ।।
[द्वाराग्रे मण्टपविधानम्] 20-28
द्वाराग्रे मण्डपश्चात्र कार्यो द्वारत्रयान्वितः।
प्रासादक्षेत्रविस्तीर्णं चतुरश्रं समं ततः ।। 128 ।।
कपोतभूमिपर्यन्तमुन्नतस्तत्र मध्यतः।
स्तम्भद्वादशकं दद्याद्भित्तिकाद्वादशान्वितम् ।। 129 ।।
प्रासादमानयुक्त्या तु भित्तयः स्युश्च नारद।
एवं हि कौस्तुभं नाम कृत्वा प्रासादमुत्तमम् ।। 130 ।।
तन्मध्ये संप्रतिष्ठाप्या मन्त्रमूर्तिः सनातना।
[प्रतिष्ठाकालः] 20-29
शुक्लपक्षतिथौ श्रेष्ठे सुशुभे च महाग्रहे ।। 131 ।।
स्वानुकूले च नक्षत्रे शुद्धलग्ने स्थिते(रे?)तथा।
आषाढकार्तिके चैत्रे यत्र यत्र स्थिते रवौ ।। 132 ।।
[अधिवासमण्‍डप विधानम्] 20-30
प्राग्वा ह्युदग्वा प्रासादात्त्रिंशद्धस्तैर्द्विजायतम्।
द्व्यधिकैर्मण्डपं कुर्याद(1)न्य(?)द्वादशभिः करैः ।। 133 ।।
(1. `चतुर्दशकराच्चैव यावत्त्रिंशत्करावधि' इति सात्वते प्रतिष्ठाविधिप्रकरणे 25-अ. श्लो. 5. दृश्यते, तत्समानार्थकतयाऽस्मिन् पाठः शोधनीयः प्रतिभाति।)
[मण्डपमद्ये वेदिपञ्चककल्पनम्] 20-31
स्यात्तुर्यास्रायतं मध्ये वेदीनां तत्र पञ्चकम्।
परितः पञ्चहस्तं च हस्ते हस्तेऽन्तरीकृतम् ।। 134 ।।
प्रदक्षिणगणोपेतं वितानाद्यैश्च भूपितम्।
[पञ्चानां वेदीनां विनियोगभेदः] 20-32
वेद्यामुत्तरसंस्थायां कुर्यात्कृण्डं सलक्षणम् ।। 135 ।।
होमोपकरणं सर्वं तत्रोपरि निवेश्यच।
ततोऽपरायां वेद्यां तु नेत्र उन्मील्य नारद ।। 136 ।।
मण्डलं मध्यमायां तु वेद्यामप्येकपङ्कजम्।
प्रस्तार्य चित्रं शयनं चतुर्थ्यां मुनिसत्तम ।। 137 ।।
स्नानकर्म ततः कुर्यात्पञ्चमाया तु दक्षिणे।
[प्रतिष्ठाविधानोपक्रमः] 20-33
एवं कृत्वा समानीय पीठं ब्रह्मशिलान्वितम् ।। 138 ।।
जपमान्सतु वाराहं मन्त्रमस्त्रं च देशिकः।
भूमिष्ठे भद्रपीठे तु वेदिकायां निवेश्य च ।। 139 ।।
आचार्यान्साधकान्वाथ चतुरः परिकल्प्य च।
वासुदेवादिभिर्मन्त्रैः कृतन्यासांस्तु पूजयेत् ।। 140 ।।
वस्त्राद्यैः कर्मशालाश्च यायादस्त्रोदकेन तु।
बिम्बमाकारशुध्यर्थं स्नापयित्वा समन्ततः ।। 141 ।।
उद्धृत्य मूर्तिपाद्यैस्तु शिल्पिभिर्वा रथस्थितम्।
समानीय ततो यत्नाज्जपन्वै नारसिह्मकम् ।। 142 ।।
वस्त्रेणाच्छाद्य संस्थाप्य पिण्डिकोपरि साधकः।
चक्राभिमन्त्रितान्मूर्ध्नि दद्यात्सिद्धार्थकांस्ततः ।। 143 ।।
कृत्वा स्नानं समाचम्य द्वारं संपूज्य पूर्ववत्।
संप्रविश्य च दिग्बन्धं कुर्यात्सिद्धार्थकाक्षतैः ।। 144 ।।
शिष्यस्य दीक्षाविधिना प्रागुक्तं च समापयेत्।
बिम्बादिसर्वद्रव्याणामधिवासं यथास्थितम् ।। 145 ।।
स्वार्थतो वा परार्थेन साधकः सुसमाहितः।
शिष्यवद्देवदेवस्य किं तु बिम्बं निवेदयेत् ।। 146 ।।
भगवन्भूतभव्येश त्वय्येवाराधनाय च।
इदं बिम्बं करिष्यामि संस्तुत्य(1) रजनिक्षये ।। 147 ।।
(1. संस्कृत्य A.)
[शिल्पिदोषविनाशार्थस्नपनविधानम्] 20-34
ततः स्नात्वा प्रभाते तु स्नापयेत्प्रतिमां मुने।
प्रथमं कर्मशालोत्थ दोषविध्वंसनाय च ।। 148 ।।
(2)पञ्चविंश(ति?)त्तु कोष्ठानि कल्पयित्वा तु पूर्ववत्।
नृसिह्ममन्त्रजप्तेन केवलेनोदकेन च ।। 149 ।।
(2. नृसिंहमन्त्रजप्तेनेत्यर्धस्यानन्तरं पञ्जविंशतीत्यस्य पाठः समुचितः प्रतिभाति।)
ततः प्रागादितो न्यस्य साधकः कलशाष्टकम्।
पूर्वं क्षीराम्बुना पूर्णमपरं शुद्धवारिणा ।। 150 ।।
तृतीयं रत्नतोयेन होमतोयेन चापरम्।
गन्धसंमिश्रितं चान्यत्फलपुष्पोदकान्वितौ(3) ।। 151 ।।
(3. न्वितम् Y.)
शालीबीजाम्भसा पूर्णमष्टमं परिकीर्तितम्।
सत्याद्यैः पञ्चभिर्मन्त्रैस्त्रिभिः सिंहादिकैः क्रमात् ।। 152 ।।
एकैकं सप्तधाऽऽमन्त्र्य प्रागादौ कलशं द्विज।
एकैकस्मिन्विनिक्षिप्य दर्भमृद्गोमयांस्तिलान् ।। 153 ।।
ततस्तेषां बहिर्न्यस्य तथादिक्कलशाष्टकम्।
धात्रीफलोदकं पूर्वे पथ्यातोयं ततो परे ।। 154 ।।
गळूचिक्वाथमन्यस्मिन्विभीतकजलं परे।
कुमारिक्वाधितं तोयं व्याघ्रीसलिलमेव च ।। 155 ।।
नागरोदकमन्यस्मिन्तथाऽन्यस्मिन्मधूदकम्।
एतानि चक्रमन्त्रेण हृदाद्येनाभिमन्त्र्य च ।। 156 ।।
पूर्वोक्तैरथ गायत्र्या कलशैः स्नापयेत्क्रमात्।
द्वितीयावरणस्थैस्तु उपचारा हृदा मुने ।। 157 ।।
केवलेनोदकेनाथ अस्त्रजप्तेन सेचयेत्।
शिल्पिदोषविनाशार्थं स्नानमेतदुदाहृतम् ।। 158 ।।
[अधिवासस्नपनार्थकलशस्थापनाविधानम्] 20-35
विलिख्य तत्र चैशान्यां कमलं षोडशच्छदम्।
कर्णिकोपरि संस्थाप्य कलशानां चतुष्ट्यम् ।। 159 ।।
पूर्वपत्रात्समारभ्य यावदीशानगोचरम्।
षोडशान्यान्प्रतिष्ठाप्य तथैव कलशान्मुने ।। 160 ।।
परिधाय ततो विप्र वाससी अधरोत्तरे।
[अथ नेत्रोन्मीलनविधानम्] 20-36
द्वितीयवेद्यामूर्ध्वे तु शयनं परिकल्प्य च ।। 161 ।।
तत्र पूर्वशिरस्कं च बिम्बं प्रस्वापयेद्द्विज।
स्वयं शलाकां सौवर्णीं ग्रहीत्वाऽस्त्राभिमन्त्रिताम् ।। 162 ।।
उल्लिखेत्साधको नेत्रे नेत्रमन्त्रेण नारद।
स्नातः शुद्धाम्बरधरस्त्वाचार्येणावलोकितः ।। 163 ।।
अस्त्रमन्त्रितशस्त्रेण शिल्पी प्रकटतां नयेत्।
पीठिका तु यदग्रे स्याद्ब्रह्मपाषाणसंयुता ।। 164 ।।
भद्रपीठे समारोप्य तथा बिम्बं तु सुस्थिरे।
आधारादिक्रमोपेते सदा लब्धे सुपूजिते ।। 165 ।।
निरीक्षेत ततो बिम्बं प्रदीप्तं ज्ञानचक्षुषा।
ताडयेदस्त्रपुष्पेण कवचेनावकुण्ठ्य च ।। 166 ।।
[नेत्रोन्मीलनाङ्गभूतलघुस्नपनम्] 20-37
हृदा वै पञ्चगव्येन ततश्चैव मृदम्बुना।
सर्वौषध्युदकेनैव केवलेनाम्मसाऽथ वै ।। 167 ।।
संमृज्य वाससा चैव सुसितेनाहतेन च।
[कौतुकविसर्जनम्]
कौतुकं मोचयेत्पश्चात् चक्रमन्त्रेण मन्त्रवित् ।। 168 ।।
दत्वा शिरसि चार्घ्यं तु पुष्पोदकसमन्वितम्।
संशोध्य धारणाभिस्तु ध्यात्वा तीक्ष्मांशुबिम्बवत् ।। 169 ।।
संहृत्य हृदि निक्षिप्य बहिस्थं स्नापयेत्ततः।
[अधिवासस्नपनविधानम्] 20-38
पूजितैर्मन्त्रितैः शुद्धैः कलशैर्द्रव्यपूरितैः ।। 170 ।।
चन्दनार्घ्यफलोपेतैर्वृक्षपल्लवशोभितैः।
दर्भच्छदधरैः पट्टस्रग्ग्न्धपरिभूषितैः ।। 171 ।।
हृद्यैः षोडशभिर्विप्र तत्रैवेशानदिक्‌स्थितैः।
[स्नपनकलशेषु पूरणीयद्रव्याणि] 20-39
प्रथमं पञ्चगव्येन केवलेन तु पूरयेत् ।। 172 ।।
गोमूत्रेण द्वितीयं तु तृतीयं गोमयाम्बुना।
त्रेताग्निभूतिना विप्र च (तु?)र्थं सोदकेन तु ।। 173 ।।
गजगोवृषभशृङ्गवल्मीकाख्य (कोत्थ?) मृदा परम्।
शालिक्षेत्रान्नदीमध्यात्पद्मषण्डाच्च पर्वतात् ।। 174 ।।
मृद्भिः षष्ठं तु कलशं पूरणीयं ततो द्विज।
सप्तमं सर्षपाम्भोभिः सर्वौषधिभिरष्टमम् ।। 175 ।।
क्षीरेण नवमं विद्धि दध्ना दशममुच्यते।
घृतेन चैकादशकं मधुना द्वादशं द्विज ।। 176 ।।
सर्वैस्त्रयोदशं बीजैः फलैस्सर्वैश्चतुर्दशम्।
समस्तधान्यैरपरं सर्वगन्धैस्तु षोडशम् ।। 177 ।।
हृदाऽभिमन्त्रितं कृत्वा एकैकं कलशं पुरा।
स्नपयेन्मूलमन्त्रेण एकैकेन ततः क्रमात् ।। 178 ।।
उदकान्तरितेनैव सार्घ्येण मुनिसत्तम।
मसूरमाषगोधूमचूर्णैरथ विमृज्य च ।। 179 ।।
[बिम्बे मन्त्रन्यासविधानम्] 20-40
प्रक्षाल्य चार्च्य शिरसा मूर्तिमन्त्रं न्यसेत्ततः।
मूर्ध्नि वक्त्रेऽसयोः कर्णे हृदि नाभौ तु पृष्ठतः ।। 180 ।।
कटिमूले तथोर्वोश्च जानौ गुल्फे च पादयोः।
शेषं मन्त्रगणं प्राग्वद्धस्तन्यासं विना न्यसेत् ।। 181 ।।
[सकलीकरणादि विधानम्] 20-41
सकलीकरणं कुर्यान्निष्कलीकरणं तथा।
ततश्चोभयरूपात्मा(पत्वं?) सर्वं पूर्वोक्तवद्द्विज ।। 182 ।।
[कर्णिकास्थितैः कलशैः स्नपनम्] 20-42
सत्यादिमन्त्रैः संस्नाप्य कलशैः कर्णिकास्थितैः।
पुष्पोदकेन प्रथमं गन्धस्वर्णोदकेन तु ।। 183 ।।
सर्वरत्नोदकेनाथ मार्जयेदथ वाससा।
[अथार्घ्यसमर्पणप्रभृतिविज्ञापनान्तमभ्यर्चनम्] 20-43
मूलमन्त्राभिजप्तं तु दत्वाऽर्घ्यं मूर्ध्नि नारद ।। 184 ।।
समालभ्य ततो बिम्बं चन्दनाद्यैर्विलेपनैः।
वाससी परिधायाथ अलङ्कृत्य यथाविधि ।। 185 ।।
किरीटनूपुराद्यैश्च दिव्यैराभरणैर्मुने।
सुपुष्पधूपदीपादिमधुपर्केण चार्चयेत् ।। 186 ।।
नैवेद्यैर्विविधैश्चाथ मात्राताम्बूलदर्पणैः।
मुद्रां बध्वा प्रणम्याथ विज्ञाप्य परमेश्वरम् ।। 187 ।।
[अथ बिंबसहिते पीठे समस्ताध्वमयत्वध्यानम्] 20-44
विधिनाऽनेन संपूज्य पीठं ब्रह्मशिलान्वितम्।
स्नापितं सह बिम्बेन यत्पुरा मुनिसत्तम ।। 188 ।।
समस्ताध्वमयीं ध्यायेत्पीठिकां विग्रहान्विताम्।
[पीठे आधारशक्त्यादिध्यानम्] 20-45
आधारशक्तिभूतान्तं स्मरेद्ब्रह्मशिलान्वितम् ।। 189 ।।
[पीठस्याच्छादनम्] 20-46
शिलां सपिण्डिकां पश्चादाच्छाद्य शुभवाससा।
[अथ नीराजनम्] 20-47
निवेद्याचमनं चार्घ्यं कुर्यान्नीराजनं ततः ।। 190 ।।
[अथ रथयात्राविधानम्] 20-48
पुण्याहजयघोषेण वेदध्वनियुतेन च।
शङ्खवादित्रनिर्घोषपटहैर्गीतिभिस्सह ।। 191 ।।
सुशुभैरतुलैर्विप्र समारोप्याचलं यथा(रथे?)।
ततः प्रदक्षणीकृत्य ग्रामं प्रासादपूर्वकम् ।। 192 ।।
तं रथं रथमार्गेण राजवेश्म प्रवेशयेत्।
भक्त्याऽर्घ्यपाद्ये दत्वादौ द्वाराग्रस्थस्य वै ततः ।। 193 ।।
[अथ शयनाधिवासविधानम्] 20-49
श्वोभूतायां चतुर्थायां कुर्यात्स्वस्तिकमण्डलम्।
रजसा वाऽथ कुसुमैः चतुर्वर्णैर्महोज्वलैः ।। 194 ।।
तत्र दर्भस्तरं दत्वालाजादीन्मध्यतः क्षिपेत्।
सखट्ठालिप्तकां(?) न्यस्य सर्वोपकरणान्वितम् ।। 195 ।।
पीठन्यासक्रमेणाथ मूर्ध्नो देशेऽथ नारद।
पूर्वलक्षणसंयुक्तं पूजितं कलशं न्यसेत् ।। 196 ।।
तस्मिन्निद्रां तथा रात्रिमनन्तं पूजयेच्छ्रियम्।
ततः पीठस्थितं देवमवतार्य शनैः शनैः ।। 197 ।।
शय्यायामुपरि न्यस्य प्राक्‌शिरो हृदयेन तु।
वर्मणाऽऽच्छादनपटं दत्वा धूपादिवासितम् ।। 198 ।।
मूलेन शयनस्थस्य कुर्यादाप्यायनं ततः।
वैभवं देवताचक्रं व्यूहाख्यं तदनन्तरम् ।। 199 ।।
सूक्ष्मं चापि मुनिश्रेष्ठ पादयेर्हृदि मूर्धनि।
प्रपूज्य पुष्पधूपार्व्यमुद्राभिः प्रणमेदथ ।। 200 ।।
[स्नपननेत्रोन्मीलनादितत्तत्क्तियाङ्गभूतहोमविधानम्] 20-50
गत्वा कुण्डसमीपं तु व्यापारेष्वखिलेषु च।
होमं कुर्याद्यथाशक्ति तिलाज्यैः शतपूर्वकम् ।। 201 ।।
स्मृत्वैकैकं तु वै कर्म कर्ता मन्त्रोद्नितेन च।
हृन्मन्त्रेण समूलेन दत्वा पूर्णाहुतिं ततः ।। 202 ।।
आप्रभाताच्च तत्कालं कर्मणां पूरणाय च।
[शान्त्युदकेन बिम्बशिरसि प्रोक्षणम्] 20-51
ततः शान्त्युदकं मूर्ध्नि होमान्ते स्वात्मनो(?)द्विज ।। 203 ।।
दत्वाऽथ बिम्बशिरसि मूलेनाष्टकमेव तत्।
[कर्ममन्त्राणां जपो बलिदानं च] 20-52
जपं च कर्ममन्त्राणां यथाशक्ति समाचरेत् ।। 204 ।।
भूतानां बलिदानं च कृत्वाऽस्त्रेण तु पूर्ववत्।
[चतुर्दिक्षु होमः] 20-53
प्रासादस्य चतुर्दिक्षु कुण्डेषु सुशुभेषु च ।। 205 ।।
मण्डपस्याथवा कुर्याद्धोमं प्रागादि मूर्तिपः।
स्वैस्वैर्मन्त्रैः सहस्रं तु शतं वाऽष्टाधिकं मुने ।। 206 ।।
(1)तैश्च शान्त्युदकं मूर्ध्नि बिम्बे वै दापयेद्गुरुः।
(1. तैः---मूर्तिपैः)
[अथ ध्यानाधिवासनम्] 20-54
अथाधिवासनं कुर्याद्विधिदृष्टेन कर्मणा ।। 207 ।।
ध्यानाख्यं निष्कलं शुद्धं येन सन्निहितः सदा।
मन्त्रोह्यर्चागतो विप्र स्यात्पटस्थोऽथवा पुनः ।। 208 ।।
न चोपसंहृतो यावद्गुरुणा तच्ववेदिना।
प्राक्सर्वमुपसंहृत्य संहारक्रमयोगतः ।। 209 ।।
स्वरूपे(ऽ)विकृते शुद्धे गुरुरास्ते च नारद।
स्वहृद्रश्मिमये पद्भे स्थितिं कृत्वा पुराऽत्मनः ।। 210 ।।
एवमेवाविनाशां च निरस्तावयवामथ।
बोधिविज्ञानदेहं च बिम्बं सम्भाव्य वै तथा ।। 211 ।।
द्वौ सुषुम्नात्मकौ मार्गौ प्रज्वलद्भास्वराकृती।
हृत्पद्मगोलकापूर्वमेकैकं तौ व्यवस्थितौ ।। 212 ।।
मणिप्रभेवचोद्बुद्धौ (र्ध्वाधो ?) व्यापकत्वेन संस्थितौ।
यथाऽत्मनि तथा देवे यथा देवे तथाऽत्मनि ।। 213 ।।
विभाव्य च ततो यायाद्दक्षिणेन पथा मुने।
स्वदेहाद्धृदयं दे(दै?)वं वाममार्गेण संविशेत् ।। 214 ।।
यथात्मात्महृदये ह्यनुभूतो ह्यनूपमः।
तदा तद्धृदयान्तस्थं स्मरेद्विज्ञानगोळकम् ।। 215 ।।
दृष्ट्वा स्वरस्मिखचितमानन्दापूरितं महत्।
गमागमैकनिष्ठं तु शक्तौ ब्रह्मण्यथात्मनि ।। 216 ।।
देवदेहस्थितेनैव विज्ञानेन सहैकता।
निष्पाद्या यावदस्पन्दकालमानं स्वदेहगम् ।। 217 ।।
पदं यदात्मना विप्र केवलेनानुभूयते।
स्पन्दप्रवर्तितेनाथ कालेनैकात्मना द्विधा ।। 218 ।।
कृत्वाऽऽत्मनि तथा देवे निष्क्रामेदथ साधकः।
देवदक्षिणमार्गेण विशेद्वामेन चात्मनः ।। 219 ।।
हृदयं भासुराकारं जन्मा(ज्ञाना ?)मृतपरिप्लुतम्।
योगोऽयं मुनिशार्दूल बिम्बस्य द्रव्यजस्य च(?) ।। 220 ।।
आपादान्मर्धपर्यन्तं नाडीबृन्दस्य व्यञ्जकम्(कः ?)।
[ईश्वरसन्धानम्] 20-55
येन सर्वेशता विप्र बिम्बस्यास्य प्रजायते ।। 221 ।।
तं योगमधुना वच्मि एकाग्रमवधारय।
हृत्पुण्डरीकमध्यस्थः साधको वृत्तिवर्जितः ।। 222 ।।
स्वमन्त्रोच्चारयोगेन प्राग्वत्पदमनामयम्।
यायादूर्ध्वं प्रवाहेण तावद्भूयः प्रवर्तते ।। 223 ।।
(1)अनिच्छन्नव्यथोऽक्षुब्धः स्वेच्छया क्षोभमेति च।
यथाऽऽसन्नतरो दीपो ह्यकम्पः कम्पमेति च ।। 224 ।।
(1. अग्निच्चन्नो C.L.)
कोशकारो यथा तन्तुं गृहीत्वा संप्रवर्तते।
विज्ञानशक्तिमालम्ब्य एवं भूयो हृदम्बुजम् ।। 225 ।।
स्वकीयं माययाऽऽचार्यः पूर्ववत्संविशेत्ततः।
देवस्य हृदयाम्भोजं विलोक्य सह तेन वै ।। 226 ।।
भावयित्वाऽथ विज्ञानं बोधशक्त्या ततो व्रजेत्।
तद्द्वादशान्तमागत्य ज्ञेयाख्यं नच नान्तरम् ।। 227 ।।
तत्पदात्पूर्वयुक्त्याऽथ दैवं हृदयमाश्रयेत्।
ततो वै देवहृदयात्प्रविश्य हृदयं स्वकम् ।। 228 ।।
सह मार्गेण हृदयादेत्य स्वं नेत्रगोलकम्।
एवं देवेऽनुसन्धाय निरीक्ष्य च परस्परम् ।। 229 ।।
देवालोकेन चात्मानमनुसिद्धिं च संस्मरेत्।
आत्मालोकेन देवेशं भिन्नं सर्वत्र भावयेत् ।। 230 ।।
एतदीश्वरसन्धानं भिन्नमेकान्तलक्षणम्।
सर्वैश्वर्यप्रदं विद्धि सर्वदा प्रतिमासु वै ।। 231 ।।
[शब्दानुसन्धानम्] 20-56
अथशब्दानुसन्धानमनेकाद्भुतदर्शनम्।
वक्ष्यामि चैव मन्त्रात्मा बिम्बेनैकाङ्गतां व्रजेत् ।। 232 ।।
निष्कम्पबोधसामानय्रूपो भूत्वा पुनःस्वयम्।
ये शब्दजनिता भावाः सूक्ष्मैः(क्ष्माः ?)सूक्ष्मतराखिलाः ।। 233 ।।
(2)सामान्याबोधशब्देन तान्पश्येदेकतां गतान्।
सङ्कल्पपूर्वपूर्वोत्थशब्दमात्रेण वर्जितान् ।। 234 ।।
(2. सामान्य A)
सचाभिमुखमायाति संकल्पादुत्थितस्य च।
शब्दरूपपदार्थस्य शब्दः स परमो द्विज ।। 235 ।।
सङ्कल्पपदवीरूढः स्फुरत्यन्तस्थितः स्फुटम्।
पदार्थोपरि यः शब्दो मध्यमं विद्धि तं मुने ।। 236 ।।
हृत्पद्मकर्णिकासंस्थः प्रयत्नपदवीषु च।
विज्ञानकरणोत्थासु यश्चाभिव्यक्तिमेति च ।। 237 ।।
वाच्यवाचकरूपेण स शब्दः स्थूल उच्यते।
अतिस्थूलपरत्वेन स च वाग्विषये पुनः ।। 238 ।।
दृश्यादृश्येपु भावेषु अभिव्यक्तिं प्रयाति च।
ततः स्थूलतरः शब्दो व्यवहारेऽखिलः स्थितः ।। 239 ।।
तस्माच्छब्दमयो देह इति चेतसि वै पुरा।
निष्कम्पं साधकैः कृत्वा बिम्बं भाव्य तदात्मकम् ।। 240 ।।
शब्दसंहारयोगेन स्वपिण्डं बिम्बसंयुतम्।
निष्कम्पबोधशब्दात्मा यो गुरुः सप्रपश्यति ।। 241 ।।
पूर्वोक्तक्रमयोगेन शब्दब्रह्मात्मना (1)तु तम्।
पश्येत्परिणतं विप्र क्रमाद्बिम्बात्मना तु वै ।। 242 ।।
(1. कृतम् Y)
तेन संस्थापितं बिम्बं भुक्तिमुक्तिफलप्रदम्।
एवं शब्दानुसन्धानं कृत्वा बिम्बस्य नारद ।। 243 ।।
[अथ मन्त्रसन्धानम्] 20-57
ततो वै मन्त्रसन्धानमारभेत प्रयत्नतः।
अशब्दभेदं शव्दात्म नित्योदितमनाहतम् ।। 244 ।।
स्वहृत्पद्मस्थितं मन्त्रमुदितं नादसूत्रवत्।
निस्सृतं मध्यमार्गेण बिम्बान्तः संविशन् स्मरेत् ।। 245 ।।
स्फुरत्तारकरूपं च मन्त्रैर्व्याप्तं तथाऽखिलैः।
मन्त्रात्मानं जगन्नाथं बिम्बं तत्पद्ममद्यगम् ।। 246 ।।
संस्मरेत्सृष्टिसंहारौ कुर्वन्तं साधकोत्तमः।
परः सएव बोद्धव्यः सुसूक्ष्मः स च निष्कलः ।। 247 ।।
सकलं निष्कलं चैव बोद्धव्यमुभयात्मकम्।
[भगवतो निद्रानुसन्धानप्रकारः]
विज्ञानरजनीमध्ये ज्ञेयं निद्रारसान्वितम् ।। 248 ।।
[अथ प्रबोधप्रकारानुसन्धानम्]
तत्त्वग्रामप्रभातेऽथ सम्भोगदिवसोदये।
प्रबुद्धं संस्मरेद्देवमवतीर्णं परात्पदात् ।। 249 ।।
[बिम्बस्य पीठेन सहैकीकृतत्वभावनम्]
सर्वाध्वभोगभूपीठं तेनाक्रान्तं च भावयेत्।
स्थितिराधारशक्तिर्वै विभोर्मन्त्रात्मकस्य च ।। 250 ।।
तस्माद्ब्रह्मशिलापीठं बिम्बमेकीकृतं स्मरेत्।
[अथ मन्त्रन्यासपूर्वकमभ्यर्चनम्] 20-58
ध्यानाधिवासयोगेन पूजयेत्तदनन्तरम् ।। 251 ।।
मन्त्रन्यासं पुरा कृत्वा त्रिधा पूर्वक्रमेण तु।
हस्तन्यासं विना विप्र लययुक्ततयाऽखिलम् ।। 252 ।।
पाद्येनार्घ्येण पुष्पेण धपेन च विलेपनैः।
मधुपर्केण चान्नेन भक्ष्यैरुच्चावचैस्तथा ।। 253 ।।
पवित्रैः पानकै हृद्यैस्तै रसालादिभिः फलैः।
मवुराम्बुरसैः सर्वैर्मूर्त्तैर्भोगैरनेकशः ।। 254 ।।
समस्तधातुभिर्बीजैर्वाद्यैर्गेयैस्तथाऽखिलैः।
वसनच्छत्रवस्त्रैस्तु दर्पणाञ्जनवाहनैः ।। 255 ।।
उपानट्‌पादुकाभ्यां च चामरैः पादपीठकैः।
प्रतिग्रहेण ताम्बूलैर्वासोभिर्ध्वजभूषणैः ।। 256 ।।
उद्यानवेश्मप्रासादरचनारचितैः शुभैः।
शयनैरासनैः सर्वैः गृहोपकरणैस्तथा ।। 257 ।।
पताकाभिर्वितानैश्च शस्त्रैश्शास्त्रैस्तथाऽखिलैः।
मात्रागोभिस्तथा ग्रामैः पशुभिः पक्षिभिस्तथा ।। 258 ।।
अन्तर्मानैरनन्तैश्च संपूर्णैरप्यकृत्रिमैः।
वध्वा कामदुधां मुद्रां स्वमन्त्राभोगरूपिणीम् ।। 259 ।।
भोगमन्त्रेण चैकैकं गायत्र्र्या विनिवेद्य च।
ततो जितंते स्तोतव्यो दत्वा धूपं मुहूर्मुहूः ।। 260 ।।
[पूर्वादिषु चतुर्षु दिक्षु पश्चिमाद्यभिमुखमवस्थितैर्ब्राह्मणैः क्रमादृगादिमन्त्रपठनम्] 20-59
पूर्वे प्रत्यङ्‌मुखं कृत्वा आसनस्थं द्विजोत्तमम्।
पुष्पमाल्यैस्तथोष्णीषैर्भूषणैस्त्वङ्गुलीयकैः ।। 261 ।।
ऋङ्‌मन्त्रान्पाठयेत्पूर्वं वीक्ष्यमाणमुदग्दिशम्।
यजुर्बृन्दं वैष्णवं यत्पाठयेद्देशिकस्तु तत् ।। 262 ।।
गायेत्सामानि शुद्धानि सामज्ञः पश्चिमस्थितः।
भक्तश्चोदक्‌स्थितो ब्रूयाद्दक्षिणस्थो(णास्यो?) ह्यथर्वणम् ।। 263 ।।
स्वशाखोक्तांस्तथा मन्त्रान् (1)ज्ञातलिङ्गानशेषतः।
एकैकं शिष्यवर्गेण वृतो याज्यक्रमेण तु ।। 264 ।।
(1. ज्ञान Y.)
[आप्ताद्यनुयायिभिः सह ईशादिविदिक्षु स्थितैः यत्यादिभिः एकायनीयशाखामन्त्रपठनम्] 20-60
भगवद्भाविनो ये च (2)यतयः पाञ्चरात्रिकाः।
चतुर्भिराप्तैर्विप्राद्यैर्युक्तांस्त्वीशदिशि न्यसेत् ।। 265 ।।
(2. यत्यादीनां लक्षणं द्वाविंशे पटले बोव्यम्)
एकान्तिनस्तथाऽऽप्तैश्च(ऽनाप्तैः?)युक्तानाग्नेयदिग्गतान्।
निवेश्य विप्र नैऋत्यां भक्तान्वैखानसैः(सान् ?)सह ।। 266 ।।
चतुर्भिरञ्जलीकैस्तु ततो वायव्यगोचरे।
सारम्भिणस्सात्वतांश्च तत्काले भगवन्मयान् ।। 267 ।।
चत्वारोऽथ चतुर्दिक्षु योज्याश्च शिखिनो मुने।
तेषां चैवानुयायित्वाच्चत्वारस्तु प्रवर्तिनः ।। 268 ।।
ब्राह्मणाः क्षत्रिया वैश्याः शूद्राश्च मुनिसत्तम।
एकायनीयशाखोत्थान्मन्त्रान्परमपावनान् ।। 269 ।।
पाठयेच्च यतीनाप्तान् पूर्वान्वै पाञ्चरात्रिकान्।
स्वानुष्ठानैः स्वकान्मन्त्रान्जपतः संशितव्रतान् ।। 270 ।।
[प्रागादिषु चतुर्षु दिक्षु गुर्वादीनां स्थितिः] 20-61
प्रागादौ चोन्तरान्तं च चत्वारो (3)गुरुपूर्वकाः।
बहवः समयज्ञान्ताः द्वावेको वा स्वशक्तितः ।। 271 ।।
(3. गुर्वादीनां लक्षणामष्टादशे पठले प्रोक्तम्.)
कृतन्यासास्तथा ध्यानमुद्रालङ्‌कृतपाणयः।
स्ववाससि स्वकां मुद्रां छन्नां कुर्युः परस्परम् ।। 272 ।।
[स्तोत्रपाठकानां बहिः स्थितः] 20-62 ?
गीतनृत्तपरीश्चान्ये अग्रतः स्तोत्रपाठकाः।
वन्दिबृन्दयुता बाह्ये तथा दुन्दुभिवादिनः ।। 273 ।।
प्रतिकर्म ततः कुर्याद्धोमं शक्त्या तु साधकः।
[ब्रह्मशिलापीठयोस्तत्त्वसंशोधनादि] 20-63
दीक्षाविधिक्रमेणैवं सकलां तत्त्वपद्धतिम् ।। 274 ।।
संशोध्य परभावस्थ आचार्यः सुसमाहितः।
आधारशक्तिमन्त्रेण जुहुयाद्ब्रह्मसंज्ञितमाम् ।। 275 ।।
सन्तर्प्य पीठिकां शक्त्याधारमन्त्रेण नारद।
लयात्मरूपी भगवानाज्येन बहुना ततः ।। 276 ।।
[शान्त्युदकप्रोक्षणम्] 20-64
दद्याच्छान्त्युदकं मूर्ध्नि क्रमेणैव तु त्रिष्वपि।
मूलमन्त्रेण विधिवद्धृदयाद्रेचितेन तु ।। 277 ।।
भगवन्तं कृते त्त्वेवं बिम्बस्थं श्रावयेद्गुरूः।
मनसा सुविशुद्धेन इमं मन्त्रमुपस्थितम् ।। 278 ।।
[सान्निघ्यप्रार्थनम्] 20-65
त्वया सन्निहितेनात्र भवितव्यमथोक्षज।
मत्पूर्वाणां हि भक्तानां सिद्धिहेतोर्निरञ्जन ।। 279 ।।
ततः स भगवान्मन्त्रप्रबुद्धः (1)कमलेक्षणः।
[उत्थापनसंमुखीकरणादि] 20-66
विम्बमुत्थाप्य तु ध्येय आचार्येण तु सम्मुखम् ।। 280 ।।
(1. सकले A.)
कृत्वा तु पादपतनमष्टाङ्गेन तु साधकः।
[लयभोगविधानेन यजनम्] 20-67
अत्यौत्सुक्याच्च यागस्थमवतार्य यजेत्ततः । 281 ।।
लयभोगात्मना सम्यक् पूर्वोक्तविधिना ततः।
[वह्निस्थस्य पूजनम्] 20-68
तथा क्रमेण वह्निस्थं पूजयित्वा प्रतर्प्य च ।। 282 ।।
[शान्तिहोमविधानम्] 20-69
चतुर्द्रव्यमयं होमं ततः साधक आचरेत्।
तत्त्वानां च समस्तानां विभवस्याखिलस्य च ।। 283 ।।
व्यूहस्य सूक्ष्मसंज्ञस्य मन्त्रस्यानेकरूपिणः।
मन्त्रातिरिक्तशक्तेस्तु शक्तीशस्यायुतस्य च ।। 284 ।।
एकसन्धानकरणं विन्यस्यापि(स्तानां ?) ततो मुने।
संहारस्थितियोगेन यथा तदवधारय ।। 285 ।।
बिम्बात्मनो विभोः स्पृष्ट्वा घृतेन चरणद्वयम्।
तद्धृतं होमयेद्विप्र शतसंख्याष्टसंयुतम् ।। 286 ।।
अन्ते निक्षिप्य पादाभ्यां दर्भकूर्चेन चोपरि।
तथैव दध्ना होमं च स्पृष्ट्वा नाभिं समाचरेत् ।। 287 ।।
क्षीरहोमं ततः कुर्याद्धृद्देशे स्पर्शने सति।
अथोत्तमाङ्गं संस्पृश्य होमयेत्केवलं मधु ।। 288 ।।
एकीकृत्याथ वै सर्वं समभागेन नारद।
सर्वगात्राणि संस्पृश्य होमयेत्तदनन्तरम् ।। 289 ।।
अनिरुद्धादिसत्यान्तैर्मन्त्रैः पादादि होमयेत्।
दत्वा घृतेन वै पश्चात्पूर्णां मूलेन नारद ।। 290 ।।
[शान्तिहोमान्ते मद्वादिचतुर्द्रव्यैर्भोजनविधानं दक्षिणादानं च]
भोजयेन्मूर्त्तिमन्त्रेण मध्वाज्यघृतपायसैः।
दक्षिणां च यथाशक्ति दद्याद्धेमादिकं ततः ।। 291 ।।
[अथ लग्नकालप्रतीक्षायां कालापनोदनक्रमः] 20-70
प्रतीक्षेल्लग्नकालं तु यावन्नायाति स द्विज।
तावद्विनौदैर्होमैश्च हासैः पाठैश्च संक्षिपेत् ।। 292 ।।
[अथ प्रतिष्ठासमये सन्निहिते प्रथमं कर्तव्यः प्रार्थनाप्रकारः]
प्राप्ते लग्नोदये विप्र सन्निरोध्य जगत्प्रभुम्।
क्षणं क्षमस्व भगवन्सर्वज्ञ करुणास्पद ।। 293 ।।
निवेशयामि ते यावत्प्रासादे ब्रह्मपीठिकाम्।
[शयनस्थस्य भगवतो निद्रायमाणत्वेन स्मरणम्]
स्मरेन्निद्रायमाणं तु शयनस्थं जगद्गुरुम् ।। 294 ।।
[प्रासादप्रवेशविघ्नप्रशमनादिविधानम्]
ततो मूर्तिधरैः सार्धं प्रासादं संव्रजेद्गुरुः।
हन्याच्चक्रेण तत्रस्थान् विघ्नान्सास्त्रेण नारद ।। 295 ।।
प्रक्षाल्य च तमस्त्रेण स्मरेद्बह्मशिलां ततः।
[ब्रह्मशिलास्थापनविधानम्] 20-71
किञ्चित्पीठतलन्यूनां समां श्लक्ष्मां दृढां द्विज ।। 296 ।।
कृत्वा नवपदां पूर्वं पद्मं तस्यां पदे पदे।
विलिख्य रेखया सम्यक् खनेत्सर्वेषु कर्णिकाम् ।। 297 ।।
सप्तधा तु ततः कुर्यात्प्रासादं सुसमैः पदैः।
द्वारात्पश्चिमभित्यन्तमेकद्वारेण नारद ।। 298 ।।
द्वारदेशात्समारभ्य त्यक्त्वा भागचतुष्टयम्।
द्वाभ्यां पदाभ्यां मद्ये तु न्यसेद्ब्रह्मशिलां मुने ।। 299 ।।
द्वारान्मध्यं न सन्त्याज्यं देवस्थापनकर्मणि।
चतुर्द्वारे तु भवने मद्येऽथ विनिवेस्य च ।। 300 ।।
त्रिधा कृते चतुर्दिक्षु तत्र ब्रह्मशिलां दृढाम्।
ब्रह्मशीलाक्षेपादौ सति गर्भे लभेर्चनम्(?) ।। 301 ।।
ततो ब्रह्मशिलामानं बाहुव्यायामयोः खनेत्।
तत्पूर्वं सूत्रमार्गेण सञ्चाल्योत्तरदिङ्नयेत् ।। 302 ।।
श्वभ्रं तत्रापि मध्ये तु शुभं कुर्यात्षडङ्गुलम्।
तस्मिंस्तु रत्नसंपूर्ण हेमजं वाऽथ ताम्रजम् ।। 303 ।।
चतुरङ्गुलमात्रं तु कलशं कम्बुरूपिणम्।
हृन्मन्त्रेण तु सम्मन्त्र्य गायत्र्या च निवेश्य च ।। 304 ।।
सपिधानं तु तत्कृत्वा सुधालेपं तथोपरि।
दत्वा ब्रह्मशिलां न्यस्येत्प्राङ्‌मन्त्रपरिभाविताम् ।। 304 ।।
व्यापकत्वं समालम्ब्य स्वयमेव तदा गुरुः।
तां शिलां व्यापिकां ध्यायेदाधाराधेयविग्रहाम् ।। 305 ।।
तत्र सर्वोर्ध्वगं न्यासं मूलमन्त्रेण भावयेत्।
एवं तत्सन्निधिं कृत्वा पश्चात्तत्रोपरि द्विज ।। 306 ।।
[रत्नादिन्यासः] 20-72
न्यासं रत्नादिकं कुर्याद्यथा तदवधारय।
हैममग्निं तथाऽनन्तं राजतं हेमजां धराम् ।। 307 ।।
अष्टलोहमयं पद्मं मध्ये ब्रह्मशिलोपरि।
प्राच्यादौ पद्मगर्भेषु क्रमादीशानगोचरम् ।। 308 ।।
वज्रं च सूर्यकान्तं च इन्द्रनीलं तथैव च।
महानीलं मुनिश्रेष्ठ मुक्ताफलमतः परम् ।। 309 ।।
पुष्यरागमतश्चैव पद्मरागमतः परम्।
ऐशान्ये न्यस्य वैडूर्यं मध्यतः स्फटिकं न्यसेत् ।। 310 ।।
प्रागादौ रजतं ताम्रं त्रपु वंगमतीरुतम्।
लोहं तथायसं कांस्यं मध्ये हेम निवेश्य च ।। 311 ।।
तालं मनश्शिलां चापि रजनीं कुष्ठमेव च।
स्त्रोतोऽञ्जनं तु दरदं सौराष्ट्रं हेमगैरिकम् ।। 312 ।।
मध्ये तु राजपाषाणं पारदं चाथ सर्वतः।
गोधूमांश्च यवान्वन्यान्मुद्गमाषांस्तथैव च ।। 313 ।।
चणकान्मुनिशार्दूल कुलुत्थं च मसूरकम्।
क्रमादष्टसु विन्यस्य मध्ये सिद्धार्थकांस्तिलान् ।। 314 ।।
हीबेरं रजनीं मांसीं सहदेवीं वचां ततः।
विष्णुक्रान्तां वलां मोटां श्यामाकं शङ्खपुष्पकम् ।। 315 ।।
प्रागादौ मध्यपर्यन्तं विन्यसेन्मूलसन्ततिम्।
अभावात्सर्ववस्तूनां हेमं सर्वत्र विन्यसेत् ।। 316 ।।
तदभावात्तु तारं तु न्यसेन्मुक्ताफलानि च।
घृतेन पयसा वाथ प्रापितेन पुरैव तु ।। 317 ।।
प्रदद्याल्लेपनं विप्र सर्वगर्तेषु चैव हि।
अहतं सुसितं पस्चात्तत्रोपरि दुकूलकम् ।। 318 ।।
[ब्रह्मशिलोपरि पीठन्यासविदानम्] 20-73
ततः श्लक्ष्णं सुधालेपं दत्वा पीठं तु विन्यसेत्।
सन्धाय पूर्ववत्तच्च शिलया सह नारद ।। 319 ।।
पीठश्वभ्रेऽथ विन्यस्य सौवर्णं गरुडं मम(मुने)।
क्षीरं दधि धृतं लानं मधुपुष्पफलानि च ।। 320 ।।
सर्वगन्धानि विप्रेन्द्र सर्वौषदियुतानि च।
भावयेत्पूर्ववत्पीठे धर्माद्यैरखिलैर्युतम् ।। 321 ।।
चिदासनमयीं व्याप्तिं पुनस्तत्रोपरि न्यसेत्।
हृदाऽथ विष्णुगायत्त्र्या एकैकमभिमन्त्र्य च ।। 322 ।।
विन्यस्य कुर्याद्धवनं यस्मिन्यस्मिंस्तु कर्मणि।
पीठन्यासविधिं यावत्ततः पूर्णाहुतिं जुहेत् ।। 323 ।।
[अथ प्रबोधनम्] 20-74
प्राप्ते लग्नोदये विप्र शयनस्थं प्रबोधयेत्।
मन्त्रात्मन् रूपमात्मीयमाग्नेयमुपसंहर ।। 324 ।।
समाश्रयस्व सौम्यत्वं स्थित्यर्थं परमेश्वर।
नमस्तेऽस्तु हृषीकेश उत्तिष्ठ परमेश्वर ।। 325 ।।
मदनुग्रहहेत्वर्थं पीठभूमिं समाक्रम।
[देवस्य प्रासादे प्रवेशनम्] 20-75
उहृत्य मूर्त्तिपैः सम्यक् पृष्ठे वा साधकोऽग्रतः ।। 326 ।।
यायात्प्रक्षिपमाणस्तु सार्द्यार्थं(?)रत्नकं बहु।
प्रदक्षिणं ततः कुर्यात्प्रासादस्य च नारद ।। 327 ।।
शनैः प्रवेशयेद्देवं यतोर्ध्वं तु न संस्पृशेत्।
पार्श्वदूयं तु द्वारीयं
[अथ पीठे देवस्य स्थापनम्] 20-76
पीठमध्येऽथ विनय्सेत् ।। 328 ।।
हृदा संपुटयोगेन मूलमन्त्रेण नारद।
तत्र तं चाग्रतः स्थाप्य तत्पार्श्वे पृष्ठतोऽपि च ।। 329 ।।
वज्रलेपेन गायत्र्या पीठस्यैकात्म्यतां नयेत्।
तारकं पूर्वमुच्चार्य गुरुः प्रणतमस्तकः ।। 330 ।।
[विज्ञापनम्] 20-77
आराधितोऽसि भगवन्साधकानां हिताय च।
त्वयाऽप्यनुग्रहार्थं च वस्तव्यमिह सर्वदा ।। 331 ।।
त्वं तिष्ठसि प्रभो यत्र तत्र सिद्धिर्न दूरतः।
भवेद्वै साधकेन्द्राणामित्युक्तं च पुरा त्वया ।। 332 ।।
तस्माध्रुवं सदा तुष्टस्सानुकम्पापरो महान्।
सदा ह्यनुग्रहपरस्तिष्ठस्वाचन्द्रतारकम् ।। 333 ।।
एवमुक्त्वा ततो दद्यादर्घ्यं शिरसि पादयोः।
[अथ तत्त्वसंस्थापनम्] 20-78
तत्त्वसंस्थापनं कुर्यात्प्रकृतिस्थापनादनु ।। 334 ।।
विज्ञानानन्दकल्लोलज्ञेयभासां तथा रवैः।
अनेकाह्लादजनितैराचारादिभिरा(राजाधाराच्छिरो ?)वधि ।। 335 ।।
पश्येन्मन्त्रमयं बिम्बमनेकाद्भुतविग्रहम्।
एवं सर्वसमुत्पत्तिस्थाने संकल्पसिद्धिदम् ।। 336 ।।
[बिम्बस्य मन्त्रमयवृक्षत्वेन भावनं] 20-79
बिम्बं मन्त्रमयं वृक्षं प्रतिष्ठाप्यामलात्मना।
तद्विज्ञानमयीं शाखां प्रवरायाति चो(मायतो?)न्नताम् ।। 337 ।।
अनन्तगगनाक्रान्तां भावयेत्साधको द्विज।
प्रभूतेन तु वै तस्मादनौपम्यामृतेन तु ।। 338 ।।
मन्त्रबिम्बमयं वृक्षं सरसं भावयेत्सदा।
यथा भौमेन तोयेन गगनोत्थेन नारद ।। 339 ।।
मन्दारपुष्पविटपी तद्वदेव हि नान्यथा।
[बिंबपीठादिषु न्यस्तस्य मन्त्रचक्रस्य लयभोगादिविधानेन पूजनविदानम्]
ततः संपूजयेत्तत्र लययागेन चाखिलम् ।। 340 ।।
पीठस्थं भोगयागेन मन्त्रचक्रं यजेत्पुनः।
पीठमूलं समाश्रित्य लोकेशान्सायुधान्यजेत् ।। 341 ।।
पीठीयमन्त्रसङ्घं च विलोमेनाथ पूजयेत्।
आधारशक्तिपर्यन्तं सृष्टिन्यासेन नारद ।। 342 ।।
[प्रतिष्ठादिवसे कर्तव्यं प्रतिष्ठानन्तरं स्नपनम्] 20-80
पूजयित्वा ततो देवं स्नापयेत्
[चतुःस्थानार्चनम्]
मण्डले पुनः।
प्रपूज्य पूर्वविधिना मण्डलानुक्रमेण तु ।। 343 ।।
होमान्तं निखिलं कृत्वा दद्यात्पूर्णाहुतिं ततः।
[सुप्रतिष्ठितत्वाभिशंसनम्] 20-81
स्वामीति च स्वनामान्तं रूढिशब्दं प्रकल्प्य च ।। 344 ।।
ताल(र ?)शब्दयुतं सर्वैरेवमस्त्विति चोच्चरन्।
पुष्पाक्षताञ्जलिं पूर्णं क्षिपमाणाश्च नारद ।। 345 ।।
सर्वे वदेयुस्तत्रस्था भगवान्सुप्रतिष्ठितः।
[स्तुतिजयोद्घोषः] 20-82
ततः सर्वैस्स भगवास्तोतव्यो जगतः पतिः ।। 346 ।।
जितन्तेनोच्चया वाचा ततो जयजयेति च।
जीवभूतेन वैतेन विभुना मन्त्रमूर्त्तिना ।। 347 ।।
प्रतिष्ठितेन विप्रेन्द्र विद्धि सर्वं प्रतिष्ठितम्।
[प्रदक्षिणप्रणामौ]
आमूलाद्ध्वजपर्यन्तं प्रासादे यः पुराकृतः ।। 348 ।।
देवं प्रदक्षणीकृत्य अष्टाङ्गेन प्रणम्य च।
[बलिदानम्] 20-83
ग्रहीत्वा चार्घ्यपात्रं तु यायाद्देवगृहाद्बहिः ।। 349 ।।
प्रभूतानां च भूतानां बलिदानं समापयेत्।
गृह्णन्तु भगवद्भक्ता भूताः प्रासादबाह्यगाः ।। 350 ।।
बलिं मन्त्रपवित्रास्च(त्रं च ?) तेषामनुचराश्च ये।
सोदकेन तु पात्रेण दत्वा देवं प्रणम्य च ।। 351 ।।
[न्यूनाधिकशान्त्यर्थपूर्णाहुतिः] 20-84
व्रजेद्यागगृहं पश्चात्पूर्णहोमं समाचरेत्।
ऊनाधिकनिमित्तं च दद्यात्पूर्णाहुतिं ततः ।। 352 ।।
[अथ फलश्रुतिः] 20-85
आदेवालयभूयागाद्ध्वजान्ताच्चापि मण्डपात्।
सर्वोपकरणोपेतात्परमाणुषु नारद ।। 353 ।।
यावती जायते सङ्ख्या तावत्कर्ता समावसेत्।
भोगभुग्विष्णुलोके च यात्यन्ते परमं पदम् ।। 354 ।।
[प्रतिष्ठाकर्मणि वृतानां पूजनम्] 20-86
ततः संपूज्य विधिवत्क्रमात्सर्वान्पुरोदितान्।
गन्धार्घ्यपुष्पधूपेन माल्यैश्चैवानुलेपनैः ।। 355 ।।
भोजनैर्विविधैश्शक्त्या दक्षिणाभिर्महामुने।
[अथ रात्रौ जागरणम्] 20-87
रात्रौ जागरणं कुर्यान्नृत्तगीतैर्महोत्सवम् ।। 356 ।।
[प्रतिष्ठादिनाद्यावद्दिनचतुष्टयं होमस्य कर्तव्यता] 20-88
अव्युच्छिन्नोदितं होमं कुर्याद्दिनचतुष्टयम्।
क्षणवारानुसारेण(?)बहिः कुण्डेषु चान्तरे ।। 357 ।।
यथा दिनचतुष्कं तु धूमच्छेदो न तत्र वै।
[प्रतिष्ठादिनाच्चतुर्थदिने स्नपनादिविधानम्] 20-89
चतुर्थेऽहनि संप्राप्ते संस्नाप्य परमेश्वरम् ।। 358 ।।
प्रपूज्य पूर्वविधिना होमं कुर्याच्च शक्तितः।
समग्रमन्त्रजालस्य दत्वा पूर्णाहुतिं ततः ।। 359 ।।
[अथ विष्वक्सेनपूजनम्] 20-90
प्रागुक्तेन विधानेन प्रासादाभ्यन्तरे द्विज।
ऐशान्यां चलपीठस्थं कुम्भे वा तोयपूरिते ।। 360 ।।
प्रपूज्य विष्वक्सेनं च पूजितव्याश्च मूर्तिपाः।
[शिष्टद्रव्यविनियागप्रकारः] 20-91
निर्वर्त्य सर्वसंभारं स्वगुरोर्विनिवेद्य च ।। 361 ।।
स्वयं वा यः प्रतिष्ठानमाचार्यस्त्वाचरेद्द्विज।
यत्नाद्विभजनीयं तन्मूर्त्तिपादिष्वनुक्रमात् ।। 362 ।।
[अवभृथः] 20-92
सिद्धिमुक्त्योरभीप्सार्थं स्नायादवभृथेन च।
इत्येतत्साधकस्योक्तं मन्त्राराधनकांक्षिणः ।। 363 ।।
मन्त्रमूर्त्तिप्रतिष्ठानं यत्रस्थः सिद्धिमाप्नुयात्।
[चित्रप्रतिष्ठायां विशेषः] 20-93
लेपभित्तिपटस्थानां स्नानाद्यं दर्पणे मुने ।। 364 ।।
कुर्यान्निरवशेषं च पुष्पैः पूजां जलोज्झितैः।
[तत्र रत्नन्यासप्रतिषेधः] 20-94
भित्तिगानां पटस्थानां बिम्बानां स्थापने द्विज ।। 365 ।।
पीठब्रह्मशिलारत्नन्यासाख्यो न भवेद्विधिः।
[अन्यत्र धातुजादिषु तद्विधानम्] 20-95
समानयोनिपीठानां धातुजानां तु नारद ।। 366 ।।
चलानां लघुदेहानां बिम्बानां तु समाचरेत्।
शैलमृद्दारुजानां तु एवमेवहि नान्यथा ।। 367 ।।
निस्सारे सति वै पीठे अन्तस्सारे स्मरेद्धिया।
[अथ जीर्णोद्धारविधानम् तत्र जीर्णबिम्बस्याभ्यर्चनप्रतिषेधः] 20-96
पटे कुड्ये परिक्षीणे भग्ने बिम्बे प्रमादतः ।। 368 ।।
नार्चनं विहितं विप्र न सुशोभनमर्चनम्।
तस्मात्कृत्वाऽर्चनं होमविशेषेण महामते ।। 369 ।।
दानपूजा यतीनां च भगवत्तत्ववेदिनाम्।
अवतारक्रमेणैव निखिलं हृदि चारभेत् ।। 370 ।।
आधारनिचयं न्यस्तं पूर्वोक्तविधिना मुने।
[धातुद्रव्योद्भवादन्यस्य भग्नबिम्बस्य जलाशये प्रक्षेपविधानम्] 20-97
विष्वक्सेनस्य मन्त्रेण न्यासपूजामिव क्षिपेत् ।। 371 ।।
जलाशये ह्यगाधे च धातुद्रव्योद्भवं विना।
यस्मात्त .... .... .... बिम्बकर्मणि संस्कृतिम् ।। 372 ।।
इत्येतदेकदेहानां बिम्बानां परिकीर्तितम्।
[पीठेन सहसन्धिंगभितेषु बिंबेषु विशेषाः]
अन्योन्यैकीकृतानां तु वज्रबन्धेन मे श्रुणु ।। 373 ।।
[तत्र किञ्चित्पीठभङ्गे निर्दोषत्वम्] 20-98
किञ्चित्पीठविभङ्गे तु न दोष उपजायते।
[ईषदङ्गक्षते सन्धानम्]
ईषदङ्गक्षते कुर्याद्बिम्बस्य स्वर्णघर्षणम् ।। 374 ।।
[पीठस्य भङ्गाधिक्ये तत्त्यागः]
बृहद्भङ्गे समुत्थाप्य पीठाद्बिम्बं तु तं क्षिपेत्।
कृत्वा चाभिनवं पीठं तत्र संस्थापयेत्पुनः ।। 375 ।।
[बिंबस्य भड्गाधिक्ये तत्त्यागः]
भग्ने बिम्बे शुभे पीठे सति बिम्बं नवं स्मृतम्।
[अविज्ञाते बीजन्यासे प्रणवेन विधानम्] 20-99
बीजन्यासे ह्यविज्ञाते ब्रह्मतत्त्वं हि तद्गतम् ।। 376 ।।
तत्त्ववित्प्रोद्धरेद्यत्नात्प्रणवेनात्र कर्मणि।
सर्वज्ञानानि तत्स्थाने मन्त्राश्च प्रणवे स्थिताः ।। 377 ।।
वाच्यवाचकसंबन्धस्ताभ्यां नान्यस्य वै यतः।
अनेन विधिना विप्र कृतमायतनस्य यत् ।। 378 ।।
तिष्ठत्यविषयं कालं नान्तर्धानं व्रजेत्पुनः।
[देशभङ्गाद्युपद्रवे अवधानेन संरक्ष्यता] 20-100
देशभङ्गे तु मरणे दुर्भिक्षे चतिसङ्कटे ।। 379 ।।
अनावृष्टिभयात्स्थानं निरीक्ष्यं यदि तद्भवेत्।
प्राधान्यात्सबिधानस्य नाशुद्धिं बिम्बमाप्नुयात् ।। 380 ।।
तस्करादिषु संस्पर्शात्तस्मिन्वेशाभिषेवणात्। (?)
यो यो मन्त्र(न्त्रि?)वरो भक्तः साधकः कृतनिश्चयः ।। 381 ।।
स सोऽत्र सिद्धिमचिरात्प्राप्नुयान्मानसेप्सिताम्।
[महोत्सवस्य कर्तव्यताविधानम्] 20-101
सनक्षत्रं दिनं शुभ्रं सौम्यग्रहसमन्वितम् ।। 382 ।।
देशकर्त्तृनृपादीनामनुकूलं च मन्त्रिणः।
समाश्रित्य नृपः कुर्यात्कर्त्ता धन्योऽपि वैष्णवः ।। 383 ।।
महानिमित्तमुद्दिश्य त्रीन्वारान्वत्सरं प्रति।
स्वदेशविहितेनैव विधिना च महोत्सवम् ।। 384 ।।
कर्मबिम्बं विमानस्थं हित्वा चक्रादिकं तु वा।
नृत्तगीतस्वनैर्गीतैर्वाद्यदानपुरस्सरम् ।। 385 ।।
बलिकर्मसमोपेतं भ्रमणीयं सुशान्तये।
सर्वग्रामादिवीधीनां कीर्तिपुण्यफलाप्तये ।। 386 ।।
इति श्रीपाञ्चरात्रे जयाक्यसंहितायां प्रतिष्ठाविधिर्नाम विंशः पटलः।
* * * * *

"https://sa.wikisource.org/w/index.php?title=जयाख्यसंहिता/पटलः_२०&oldid=206751" इत्यस्माद् प्रतिप्राप्तम्