← पटलः १४ जयाख्यसंहिता
पटलः १५
[[लेखकः :|]]
पटलः १६ →
जयाख्यसंहितायाः पटलाः

पटलः - 15
[अथाग्निकार्यविधानं नाम पञ्चदशः पटलः] 15-1
श्रीभगवान्
जपं कृत्वा यथाशक्ति जपान्ते पूजयेत्प्रभुम्।
भक्तितश्चार्घ्यपुष्पाब्यां ततो धूपानुलेपनैः ।। 1 ।।
पश्चात्सन्तर्पयेद्विप्र अग्निमध्यगतं प्रभुम्।
[कुण्‍डपरिकल्पनविधानारम्भः] 15-2
देवादुत्तरदिग्भागे कुण्डं कुर्यात्सलक्षणम् ।। 2 ।।
देवागारात्तु वाऽन्यत्र भूमिभागे सहक्षणे।
धूमनिर्गमनोपेतमण्टपे सुसमे शुभे ।। 3 ।।
तत्र कुर्यात्पुरा वेदिं चुतरश्रां समन्ततः।
सर्वलक्षणसंपन्नां कुर्यात्कुण्डं तदूर्ध्वतः ।। 4 ।।
चतुरश्रं समं श्रेष्ठं वर्तुळं वा मनोरमम्।
द्विग्विदिक्संस्थितं चैव काम्यानां कर्मणां हितम् ।। 5 ।।
निष्कामो वा सकामो वा मद्यतस्सर्वदिक्षु च।
[कुण्डानां दिग्भेदेन फलभेदः] 15-3
ईशानदिग्गते कुण्डे मन्त्रात्मा तपितो हरिः ।। 6 ।।
ददाति सिद्धिं भौलोकीं तत्सिद्धीप्सोर्महात्मनः।
वियद्गतिपरः कुण्डे जुहुयात्पूर्वदिक्स्थिते ।। 7 ।।
रिपूणां निग्रहार्थाय होममाग्नेयदिग्गते।
होमं दक्षिणदिक्कुण्डे शान्तय्र्थी ह्याचरेत्सदा ।। 8 ।।
उत्सादनार्थमन्येषां कुण्डे नैऋतदिग्गते।
अपमृत्युजयार्थी च सर्वोपप्लवशान्तये ।। 9 ।।
होमं वारुणदिक्कुण्डे मन्त्रस्सन्तर्पितो यदा।
(हुत्वा वारुणदिक्कुण्डे मन्त्रं सन्तर्पयेत्सुधीः ?)
यदा वायव्यदिक्कुण्डे मन्त्रस्सन्तर्पितस्तदा ।। 10 ।।
विविधानि निधानानि प्रयश्च(च्छ)त्यचिरेण तु।
आरोग्यं संपदं पुष्टिं प्रददाति च मन्त्रराट् ।। 11 ।।
तर्पितस्सौम्यदिक्कुण्डे नात्र कार्या विचारणा।
[आहुतिसङ्ख्याभेदेन कुण्डानां मानभेदः] 15-4
शतार्धसङ्‌ख्यहोमे च कुण्डं स्याव्द्दादशाङ्गुलम् ।। 12 ।।
होमे साष्टशते चैवमुष्ट्यरत्निसमं भवेत।
होमे सार्धशते चैव सारत्निस्सकनिष्ठिका ।। 13 ।।
हस्तं सहस्रहोमे तु अयुताख्ये द्विहस्तकम्।
लक्षहोमे चतुर्हस्तं कोटिहोमेऽष्ट हस्तकम् ।। 14 ।।
[खातमानम्] 15-5
विस्तारार्धेन सर्वत्र खातस्तु परिशस्यते।
स्वीयात्प्राङ्भेखलामानादायं खाते युगं पुरः ।। 15 ।।
त्यक्त्वा तु मेखलाबन्धं ततश्चैव समारभेत्।
[कुण्डमानभेदेन मेखलानां मानभेदाः] 15-6
प्रमाणं मेखलानां च यवद्वादशसम्मितम् ।। 16 ।।
द्वादशाङ्गुलमानस्य कुण्डस्य परिकीर्तितम्।
विस्तारतुल्यमुच्छ्रायो मेखलानां महामते ।। 17 ।।
मेखलात्रितयं चैवमेकीकृत्य तु जायते।
विस्तारस्तु ततोच्छ्रायस्सार्धं तु चतुरङ्गुलम् ।। 18 ।।
रत्निमात्रस्य कुण्डस्य मेखला द्व्यङ्गुलाः स्मृताः।
अङ्गुलं सकनिष्ठस्य कुण्डस्यार्धोत्तरं द्वयम् ।। 19 ।।
त्र्यङ्गुला हस्तमात्रस्य कुण्डस्य समता स्मृता।
द्विहस्तस्य द्विजश्रेष्ठ मेखलास्चतुरङ्गुलाः ।। 20 ।।
चतुर्हस्तस्य कर्तव्यास्सर्वाश्चैव षडङ्गुलाः।
अष्टाङ्गलिश्च कुण्डस्य अष्टहस्तस्य कीर्तिताः ।। 21 ।।
[नाभिलक्षणम्] 15-7
दिङ्भध्येऽप्यथ कुण्डस्य नाभिं (?) कुर्याद्द्विजोत्तम।
अश्वत्थपत्रसदृशीं मेखलोपरि संस्थिताम् ।। 22 ।।
यदुक्तं प्राङ्भया मानं मेखालानां क्रमेण तु।
एकीकृत्य तु तत्सर्वं मध्यात्सूत्रेण लाञ्छयेत् ।। 23 ।।
अर्धमर्धेन्दुवद्बाह्यात्तत्र (1)चातिशयेन च।
मुखाद्यभ्यन्तरं यावत्क्रमेणानेन ह्रासयेत् ।। 24 ।।
(1. सूत्रचयेन च Y.)
उभयोः पक्षयोर्विप्र गजोष्ठाकृतिवत्तथा।
पृष्ठतो मेखलमानात्किञ्चित्कार्या द्विजोन्नता ।। 25 ।।
एकमेखलमानाच्च त्र्यंशेनार्धेन वा मुने।
क्रमेण ह्रासयेत्तावत्तावद्वै मेखलोच्छृतिः ।। 26 ।।
ईषदुच्चा भवेत्सा वै मेखलोपरि संस्थिता।
एकमेखलतुर्यांशमानं कुण्डान्तरे द्विज ।। 27 ।।
योन्येषु (?) निस्सृतं कुर्यात्तमेवाधोगतं तु वै।
आक्रम्य मेखलाभूमिं यावत्खातं तु संस्पृशेत् ।। 28 ।।
इत्येतत्कथितं नाभेर्लक्षणं च यथास्थितम्।
साधनं चतुरश्रस्य विद्धि कुण्डस्य यागवत् ।। 29 ।।
चतुरश्रस्य वै मध्ये सूत्रं कृत्वा भ्रमं (?) ततः।
चतुरश्रं समं कुर्यात्सर्वदिक्कोण वर्जितम् ।। 30 ।।
[कुण्डानां विकल्पः] 15-8
नित्यनैमित्तके होमे वृत्तं वा चतुरश्रकम्।
त्रिमेखलं तु कर्तव्यमोष्ठनाभिसमन्वितम् ।। 31 ।।
द्विमेखलं वा विप्रेन्द्र सुश्लक्ष्णं च मनोरमम्।
एकमेखलकं वाऽपि कुण्डं क्षेपणि(?)णकर्मणि ।। 32 ।।
[कुण्डे हवनस्य प्राशस्त्यम्] 15-9
कुर्याच्चलं स्थिरं वाऽपि न हि कुण्डं विना शुभम्।
हवनं विप्र मन्त्राणां तस्मात्कुण्डं च साधयेत् ।। 33 ।।
[देशकालवैगुण्येन कुण्डस्यासम्भवे हवनप्रकारः] 15-10
देशकालवशाच्चैव कुण्डं न घटते यदि।
तं विना हवनच्छेदो न कार्यस्सिद्धिमिच्छता ।। 34 ।।
शोधिते ह्युपलिप्ते च स्थले चलमृदान्विते।
होमस्तु विहितस्सम्यक् मन्त्रस्यामन्त्रितस्य च ।। 35 ।।
पिण्डिका चतुरश्रा तु बहिस्सर्वत्र शस्यते।
मध्ये पद्मं प्रकुर्वीत श्रीपद्मं पद्ममध्यगम् ।। 36 ।।
एवं कृते शुभे कुण्डे अग्निकार्यं समाचरेत्।
यागगेहात्तु वाऽन्यस्मिन्यदि गेहे महामुने ।। 37 ।।
पूर्ववद्वारयागं तु कृत्वा संप्रविशेत्ततः।
तत्रैव यदि वा कुर्याद्दत्वाऽन्यच्चासनं शुभम् ।। 38 ।।
तत्र पूर्वोक्तविधिना उपविश्य समाहितः।
[कुण्डसंस्कारप्रकारः] 15-11
कुण्डस्यारम्भकाले तु संस्कारा न कृता यदि ।। 39 ।।
निष्पन्नस्य च ते सर्वे विधेयाश्च क्रमेण तु।
ताडयेदस्त्रमन्त्रेण पुष्पैर्दक्षिणपाणिना ।। 40 ।।
गृहीत्वा चैकदेशात्तु कुण्डमध्याच्च मृत्कणम्।
अङ्गुष्ठानामिकाभ्यां तु हृदयेन समुद्धरेत् ।। 41 ।।
अस्त्रेणैव समीकृत्य न स्यान्निम्नोन्नतं यथा।
सेचयेत्कवचेनैव कुट्टयेत्तदनन्तरम् ।। 42 ।।
लेपयेद्गन्धतोयेन अस्त्रेण परिशोधयेत्।
उल्लिखेदस्त्रराजेन दर्भकाण्डेन यत्नतः ।। 43 ।।
भूमावभ्यन्तरे कुण्डे दक्षिणाशादितः क्रमात्।
उत्तराशावधिर्यावद्दद्याद्रेखात्रयं समम् ।। 44 ।।
प्रत्यग्भागात्समारभ्य नयेत्पूर्वमुखं तु तत्।
तन्मध्ये त्रितयं चान्यद्रेखाणामुत्तरामुखम् ।। 45 ।।
एवमुल्लिख्य विधिना प्रोक्षयेत्कवचेन तु।
अच्छिन्नाग्रैस्ततो दर्भैरस्त्रमन्त्राभिमन्त्रितैः ।। 46 ।।
कुण्डभित्तिगणं सर्वं प्रोत्थितं परिभूषयेत्।
कृत्वैवमक्षवाटं तु कुण्डसंस्कारमुत्तमम् ।। 47 ।।
[नाभिपूजनम्] 15-12
समभ्यर्च्य ततोऽर्घ्याद्यैर्मध्यतः प्रणवेन तु।
तेनैव विधिना नाभिं पूजयेच्चन्द्रसन्निभाम् ।। 48 ।।
[मेखलापूजनम्] 15-13
मेखलात्रयपूजायां हृन्मन्त्रं तु प्रयोजयेत्।
[मेखलात्रये तत्त्वत्रयस्य पूजनम्] 15-14
ततस्तत्वत्रयं पूज्यं मेखलात्रितयोपरि ।। 49 ।।
प्रधानपुरुषेशाख्यं प्रणवत्रितयेन च।
अर्घ्यैर्विलेपनैर्धूपैरिष्ट्वा कुण्डं पुरा द्विज ।। 50 ।।
[कुण्डमध्ये आधारशक्त्याद्यासनकल्पनपूर्वकं नारायणाख्यायाः शक्तेः स्थापनप्रकारः] 15-15
चतुष्पथे तु कुण्डस्थे सपुष्पं दर्भविष्टरम्।
हृन्मन्त्रेण च विन्यस्य तत्रोपर्यथ पूजयेत् ।। 51 ।।
(1)सम्पूज्याग्निं समादाय सम्भ्राम्यायतनं त्रिधा।
योनिमार्गेण निक्षिप्य वह्निबीजमनुस्मरेत् ।। 52 ।।
(1. अयं श्लोकः S पुस्तके योजितो दृश्यते। अन्येषु पुस्तकेषु नास्ति अस्थानेऽस्य प्रक्षेप इति प्रतिभाति)
आधारशक्तिपूर्वं च आसनं वैष्णवं च यत्।
तत्र नारायणाख्यां वै शक्तिं विद्योतलक्षणाम् ।। 53 ।।
लक्ष्म्याकृतिपदं प्राप्ताममृतावृतदेहिनीम्।
सर्वातिशयरूपां च सर्वशक्तिसमन्विताम् ।। 54 ।।
सौकुमार्येण रूपेण सर्ववस्त्वन्तरस्थिताम्।
शाश्वतीं सृष्टिमार्गेण अवतार्य हृदम्बुजे ।। 55 ।।
पुरा ध्यानक्रमेणैव हृन्मन्त्रेण हृदम्बुजात्।
स्वनामपदयुक्तेन सनमःप्रणवादिना ।। 56 ।।
रेचकेन विनिक्षिप्य कुण्डहृत्पद्ममद्यतः।
संपूज्य गन्धपुष्पाद्यैः पद्ममुद्रां पदर्श्य च ।। 57 ।।
(1)चक्रमन्त्रेण संयुक्तामेवं कुर्याच्च सन्निधिम्।
[वह्नेरुत्पादनक्रमः] 15-16
आदौ च भगवच्छक्तेर्वह्नेरुत्पादनाय च ।। 58 ।।
(1. उक्त S.)
आदायारणिजं चाग्निं सूर्यकान्तोद्भवं तु वा।
लोहपाषाणजं वाऽथ अदुष्टं लौकिकं तु वा ।। 59 ।।
तैजसे ताम्रपात्रेऽथ मृण्मयेऽभिनवे तथा।
[अग्नेस्ताडनप्रोक्षणादयो बाह्याः पञ्चसंस्काराः] 15-17
सन्ताड्य चास्त्रमन्त्रेण प्रोक्षयेच्छिखया च तम् ।। 60 ।।
अर्चयेत्कवचेनैव कवचेनावकुण्ठ्य च।
प्लावयेदमृतेनैव नेत्रमन्त्रेण नारद ।। 61 ।।
[अग्नेः स्वात्मन्युपशमापादनपूर्वकं सृष्टिक्रमेण पदात्पदमवतारितस्य नाभिगतत्वचिन्तनम्] 15-18
पूरकेणोपसृत्याथ स्वात्मन्युपशमं नयेत्।
क्रमादानन्दशक्तौ तु प्राग्वदुद्धृत्य योजयेत् ।। 62 ।।
सृष्टिक्रमेण तद्भूयो ह्यवतार्य पदात्पदम्।
शब्दास्पदावधिर्यावत्स्मरेन्नाभिगतं ततः ।। 63 ।।
[नाभिकुण्डस्थतया भाविते तेजोविशेषे होमक्रमः] 15-19
प्रणवेन तु नाभिस्थमग्नीषोमात्मकं यजेत्।
त्रिधा समिद्भिर्भिन्नेन अद(ह?) मादिभिरादरात् ।। 64 ।।
त्रयाणामथ बीजेन भिन्नेनाथ यजेद्द्विज।
एकाहुतिप्रदानेन तत्रस्थो बुध्यते यथा ।। 65 ।।
तेन मार्गेण जप्तव्यं ध्यात्वा चाज्यामृतं हृदि।
[तस्याग्नेः स्वमन्त्रेण नाभीकुण्डादुत्थापनम्] 15-20
ततः स्वमन्त्रेणोत्थाप्यो नाभिकुण्डाद्धुताशनः ।। 66 ।।
[अग्नेर्मन्त्रः] 15-21
कृत्वाऽऽदौ प्रणवं विप्र तदन्ते त्वजितं न्यसेत्।
अशेषभुवनाधारमथ उर्ध्वेऽस्य योजयेत् ।। 67 ।।
उर्ध्वाधोभ्यां च तस्यैव भूधरोर्जौ न्यसेत्ततः।
त्रैलोक्यैश्वर्यदं मूर्ध्नि बीजस्यास्य महामते ।। 68 ।।
ततः क्रमेण संयोज्य धरेशाद्यं च सप्तकम्।
सुपर्णसंज्ञापर्यन्तं सप्तकस्यास्य योजयेत् ।। 69 ।।
उर्ध्वाधोभ्यां च नाळं तु मायाव्योमे तथोपरि।
तेजसे पदमादाय ततः सप्तार्चिषे पदम् ।। 70 ।।
स्वाहासमन्वितश्चाग्नेर्मन्त्रो ह्यष्टादशाक्षरः।
[स्वमन्त्रेण नाभीकुण्डादुद्बोधितस्य तेजसः पात्रस्थवह्नौ प्रक्षेपः] 15-22
धूधूशब्दशरीरान्तं (?) सच्छब्दालोकबोधितम् ।। 71 ।।
विकल्पधूमनिर्मुक्तं सच्चैतन्यस्फुलिङ्गिनम्।
नादान्तेन क्षिपेद्विप्र सिद्धिमार्गेण पूर्ववत् ।। 72 ।।
पुरा हृते च पात्रस्थे वन्हौ वन्हि(ह्निं?)विशुद्धये।
करद्वयेन चादाय भ्राम्य कुण्डे विनिक्षिपेत् ।। 73 ।।
[कुण्डमद्ये प्रक्षिप्तस्याग्नेश्चिन्तविशेषः]
कुण्डमध्यस्थया चाथ शक्त्या नारायणाख्यया।
नासाग्रेण तमग्निं च घ्रातं ध्यायेत्स्वहृद्गतम् ।। 74 ।।
[वह्नेरुद्बोधनम्]
त्रिपञ्च सप्त वा दद्यात् समिधे हृदयेन च।
वह्नेरुद्बोधनार्थं तु नेत्रमन्त्रेण नारद ।। 75 ।।
[पर्यग्निकरणम्] 15-23
पर्यग्निकरणं कुर्याद्धृदयेनार्द्रपाणिना।
[परिस्तरणम्]
स्तरं ततोऽस्त्रमन्त्रेण चतुर्दिक्षु त्रिधा त्रिधा ।। 76 ।।
प्रागादौ तु यथामूलं तदग्रैश्छादितं भवेत्।
कुर्यात् स्तरसमाप्तिं तु सर्वदाऽऽत्मन उत्तरे ।। 77 ।।
स्तरोपर्यथ संस्थाप्य वन्हिकार्योपयोगि यत्।
[प्रणीतापात्रेघ्मस्रुक्स्रुवाद्युपकरणद्रव्यसादनम्] 15-24
प्रणीतापात्रयुग्मं तु तथेध्मयुगलं तु वै ।। 78 ।।
स्रस्स्रुवद्वितयं चैवमाज्यस्थालीं तथैव हि।
सर्वं संप्रोक्ष्य मूलेन निधायाथ स्तरोपरि।। 79 ।।
प्रणीतापात्रमापूर्व तोयेन तदनन्तरम्।
तत्रासनवरं ध्यात्वा विष्णुमूलेन विनय्सेत् ।। 80 ।।
याग(गे ?)यज्ञपति(ते ?)र्मन्त्रमेवं संस्थाप्य चोत्तरे।
[परिधिविधानम्] 15-25
प्रदद्याच्च ततो विप्र परिधीन्हृदयेन च ।। 81 ।।
यज्ञकाष्ठोद्भवान्स्पष्टान्सपर्णान्हस्तसम्मितान्।
चतुर्यवपरीणाहानगारे हस्तसम्मिते ।। 82 ।।
अन्येषां द्व्यङ्गुला वृद्धिः परिधीनां द्विजोत्तम।
यावदष्टकरं कुण्डमत ऊर्ध्वं न कारयेत् ।। 83 ।।
[ब्रह्मादिलोकपालार्चनम्] 15-26
विष्टराणि ततो दद्यात्तेषु पृष्ठे हृदा मुने।
तत्पृष्ठे पूजयेन्नित्यं लोकपालान्स्वदिकस्थितान् ।। 84 ।।
ब्रह्ममाहेन्द्ररुद्रादीन्गन्धपुष्पादिभिः शुभैः।
[स्रुक्‌स्रुवयोः संस्कारक्रमः] 15-27
स्रुक्सुवाभ्यां च संस्कारमुपयामाग्रगैः कुशैः ।। 85 ।।
स्रुवं द्वादशधा शोध्यं ह्यस्वेणोष्णेन वारिणा।
तथैव द्विजशार्दूल स्रुक्संशोध्या द्विधैव तु ।। 86 ।।
संक्षाल्यौ स्रुक्स्रुवौ ह्येवं शिखामन्त्रेण वै ततः।
कुण्डस्थेनाग्निना ताप्यौ
[स्रुक्‌स्रुवयोर्लक्षणम्] 15-28
तयोर्लक्षणमुच्यते ।। 87 ।।
स्वबाहुदण्डमानेन मन्त्रज्ञः कल्पयेत्पुरा।
दैवीस्रुक्सिद्धये काष्टं विस्ताराच्च षडङ्गुलम् ।। 88 ।।
दैर्ग्याद्भागद्वयेनाथ दण्डमष्टास्रमुच्यते।
सार्धद्व्यङ्गुलमानं तु कृत्वा शेषं तु शोधयेत् ।। 89 ।।
कलशं दण्डमूले तु कुर्यात्पद्माननं शुभम्।
कर्णिकास्थो यथा दण्डो भवेद्वै मुनिसत्तम ।। 90 ।।
त्रिवलिं त्वथवा शङ्खं यथा दण्डस्तदास्यगः।
कृत्वाऽग्रस्थं द्विधा भागं समांशेन प्रयत्नतः ।। 91 ।।
द्व्यङ्गुलं चाथ भागस्य वैपुल्यं चाग्रतः क्रमात्।
दण्डावस्थस्य भागस्य त्र्यह्गुलं परितः समम् ।। 92 ।।
दत्वा भ्रमं ततः कुर्यान्निम्नं खातं सलक्षणम्।
तन्मद्ये पङ्कजं कुर्यात्प्रफुल्लं चोर्घ्वपल्लवम् ।। 93 ।।
आज्यकोशं तु तं विद्धि सप्तपञ्चपलोपमम्।
पद्ममद्ये निमग्ना च कर्णिका वै सकेसरा ।। 94 ।।
द्वादशारं बहिश्चक्रं पद्मस्याष्टदलस्य च।
पद्मबाह्ये तु कर्तव्यं शङ्खं कोणचतुष्टये ।। 95 ।।
ततोऽग्रभागस्य मुने पार्श्वयोरुभयोरपि।
एकैकमङ्गुलं शोध्यं स विभाज्यस्त्रिधा ततः ।। 96 ।।
कर्णमेकेन भागेन मद्ये त्वस्यौ (त्वंसौ ?) द्वयेन तु।
विच्छिन्नं वक्त्रमंसाब्यां मध्यमेकाङ्गुलेन तु ।। 97 ।।
विस्तारं कर्णतुल्यं तु वर्जयित्वा ततः पुरा।
कर्णदेशात्समारम्य शेषं तु परिशोधयेत् ।। 98 ।।
क्रमागतेन सूत्रेण स्याद्वाराहाननं यथा।
ततः पुष्करपत्रात्तु मुखाग्रं यावदेव हि ।। 99 ।।
कुर्यादाज्यप्रणआलं तु समं न्यूनाङ्गुलं मुने।
ईषद्वै क्रमशूक्ष्मं च नाज्यं याति यथा द्रुतम् ।। 100 ।।
हस्तमात्रं ततः कुर्यात्स्रुवं विप्र मनोरमम्।
विस्तारं द्वयङ्गुलं काष्ठं वैपुल्याच्च तदर्धतः ।। 101 ।।
विस्तारमानादग्रेऽस्य वृत्तं कुर्याद्द्विरङ्गुलम्।
क्रमात्तन्निम्नखातं च गोळके चैव मुद्रितम् ।। 102 ।।
मध्ये मृगपदाकारचिन्हेन तु विराजितम्।
विस्तारस्य त्रिभागेन ग्रीवा (1)साश्रा त्रिरङ्गुला ।। 103 ।।
(1. साग्रा A.)
मूले चोभयतः कुर्यात्स्वस्थिकं द्व्यङ्गुळायतम्।
विचित्ररचनायुक्तं दण्डं श्लक्ष्णं तु वा भवेत् ।। 104 ।।
स्रुवमेवंविधं कुर्याद्धोमकर्मणि साधकः।
संस्कारार्य ततोग्नेर्वै तेन समाचरेत् ।। 105 ।।
[अग्नेः संस्कारद्वैविध्यम्] 15-29
अग्नेश्च (2)दश संस्काराः कुण्डमध्यगतस्य च।
बाह्ये तु पञ्चसंस्कारा एवं पञ्चदश स्मृताः ।। 106 ।।
(2. प्राशनभोगयोरेकसंस्कारत्वाश्रयणेन दशविध)त्वम्, एतदुत्तरत्र व्यक्तीभविष्यति।)
प्रोक्षणं ताडनं बाह्ये अर्चनं चावकुण्ठनम्।
अमृतीकरणं वन्हेः पञ्चैते कथिताः पुरा ।। 107 ।।
[अग्नेर्गर्भन्यासादिसंस्काराः]
कुण्डमद्ये तु वै विप्र प्राग्लक्ष्म्यां तु प्रयोजनम्।
गर्भन्यासं पुंसवनं ततो वै वक्त्रकल्पना ।। 108 ।।
सीमन्तं वक्त्रनिर्यासं निष्क्रामं जातकर्म च।
नामदेयं च भोगं च प्राशनाद्यं द्विजाखिलम् ।। 109 ।।
अधिकारं च सर्वान्वै हृदा कुर्याच्च नारद।
[अथाज्यसंस्काराः] 15-30
आज्यकर्मणि वै कुर्याद्दशैवं विधिपूर्वकम् ।। 110 ।।
अधिश्रयणमादौ हृन्मन्त्रेण कवचेन च।
संप्लवोत्प्लवने चैव उपाधिश्रयणं तथा ।। 111 ।।
प्रसादीकरणं चैव पवित्रीकरणं तथा।
ततो नीराजनं नाम त्रीण्येतानि च नारद ।। 112 ।।
हृन्मन्त्रेण च कार्याणि कवचेनावकुण्ठनम्।
अवलोकामृतीकारौ तैनैव तदननत्रम् ।। 113 ।।
भाण्डस्थस्य यदाज्यस्य दर्भैः प्रज्वलितैः पुरा।
स्पर्शनं विद्धि संस्कारमधियणसंज्ञकम् ।। 114 ।।
ततः पाणिद्वयेनैव अनामाङ्गुष्ठपीडितम्।
मध्यनम्रं कुशाकाण्डं गृहीत्वाऽऽज्योपरि त्रिधा ।। 115 ।।
नयेत्तच्चानयेद्विप्र तमग्नौ निक्षिपेत्कुशम्।
संप्लवोत्प्लवनावेतौ संस्कारौ परिकीर्तितौ ।। 116 ।।
उपाधिश्रयणं नाम यत्तद्द्रावणमुच्यते।
परिवर्तनमन्यस्मिन्भाण्डे दोषापनुत्तये ।। 117 ।।
प्रसादीकरणं ह्येतत्ततो दार्भं पवित्रकम्।
विनिक्षिपेच्च तन्मध्ये पवित्रीकरणं च तत् ।। 118 ।।
कुण्डादुल्मुकमादाय ज्वलन्तं धूमवर्जितम्।
तेनावर्तं सकृद्विप्र तद्वै नीराजनं स्मृतमू ।। 119 ।।
नीरजीकृत्य तत्पश्चात्कवचोदरगं स्मरेत्।
अवकुण्ठनमेतद्वि तर्जन्या यत्प्रदक्षिणम् ।। 120 ।।
तेजसा हृदयस्थेन दृग्गतेनावलोकनम्।
निरीक्षणमिदं विप्र ततस्तत्रोपरि स्मरेत् ।। 121 ।।
चन्द्रमण्डलमध्यस्थं धेनुमुद्रासमन्वितम्।
मन्त्रं वै सौरभेयं च स्फुरदिन्दुशतप्रथम् ।। 122 ।।
तदन्तरस्थं मन्त्रेशं हिमाचलनिभं स्मरेत्।
तत्स्रुतैरमृतौघैश्च शशिजैर्धेनुजैरपि ।। 123 ।।
सर्वसंस्कारसंयुक्तं स्मरेदाज्यं च भावितम्।
अमृतीकरणं नाम इदं ते संप्रकाशितम् ।। 124 ।।
अवलोक्यामृतीकृत्य दातव्ये चैव चक्षुषी।
[स्रुक्‌स्रुवाब्यां कुण्डस्य दक्षिणवामभागयोः क्रमादाज्यहोमः]
स्रुव(च ?) माज्येन संपूर्य सूर्यबीजेन चिन्तयेत् ।। 125 ।।
सहस्रांशुं च तन्मध्ये दद्यात्कुण्डस्य दक्षिणे।
अपरस्मिन्स्रुवे ध्यात्वा सोमाख्येनाक्षरेण तु ।। 126 ।।
पूर्णं शशाङ्कबीजं च प्रदद्यात्तु तदुत्तरे।
[कुण्डस्य मध्यमभागे अग्नीषोमात्मकस्य यजनप्रकारः]
ताभ्यामभ्यन्तरे पश्चादग्नीषोमात्मकं यजेत् ।। 127 ।।
यद्बीजं हि सतत्त्वस्य शरीरस्याखिलस्य च।
अविभागेन वै यत्र संस्थिता देहधातवः ।। 128 ।।
बहिः (र्हि?) कण्ठोपमं ध्यात्वा लक्ष्मीबीजान्तरस्थितम्।
उक्तं (क्त ?) बीजद्वयेनैव मन्त्रेणैकीकृतेन वै ।। 129 ।।
प्राग्वद्घृतं स्वयं दद्याद्ध्यान(त?)मस्त्रसमन्वितम्।
[तिलादिहोमद्रव्याणामाज्येन संस्कारः]
ततश्चाज्येन संस्कार्याः सर्वहोम्यास्तिलादयः ।। 130 ।।
[अग्नेर्गर्भाधानादिसंस्काराणां विवेचनम्] 15-31
अग्नेर्होमे।़थ कर्तव्यः सर्वसंस्का(1)रसिद्धये।
हृदाऽनलं पुटीकृत्य कर्मनाम समुच्चरेत् ।। 131 ।।
(1. कामार्थ S.)
संपादयामि स्वाहान्तः सर्वकर्मस्वयं क्रमः।
[अथ तत्र गर्भाधानसंस्कारविवेचनम्]
श्रीकुक्षिकुहरे यद्वै बहिष्ठस्य प्रवेशनम् ।। 132 ।।
गर्भाधानं तु तं विद्धि संस्कारं प्रथमं मुने।
[पुंसवनम्]
घ्राणयोगाच्च या शक्तिर्वन्हि(ह्नेः?) श्रीजठरे स्थिता ।। 133 ।।
ज्वालारूपाऽक्षया सूक्ष्मा तस्याश्चित्प्रसरो हि यः।
भगवच्छक्तिचैतन्यसंसर्गाच्च शनैः शनैः ।। 134 ।।
सत्वे (स्मृत्वै ?) तज्जुहुयादाज्यं तन्मन्त्रेणोदितेन च।
भवेत्पुंसवनं चाग्नेश्चिच्छक्तिनयनात्तु वै ।। 135 ।।
[अथ वक्त्रकल्पना]
तस्य चार्चिष्मतो वक्त्रात्प्रबुद्धस्योद्भवन्ति ताः।
आलोके दहने शक्त्या (क्ता ?) निराकारस्य सांप्रतम् ।। 136 ।।
गोळकाकृतिमात्रस्य विद्धि तां वक्त्रकल्पनाम्।
[सप्तानां वक्त्रर्चिषां नामानि]
तासां वक्त्रार्चिषां चैव शृणु नामानि नारद ।। 137 ।।
प्रभा दीप्तिः प्रखाशा च मरीचिस्तपनी तथा।
कराळा लेलिहा चैव कुण्डं व्याप्य व्यवस्थिताः ।। 138 ।।
ईशपूर्वाग्निदिग्भागे प्रभाद्यं त्रितयं स्मृतम्।
रक्षोवारुणवायव्ये मरीच्याद्यं त्रयं तु तत् ।। 139 ।।
उदग्दिङ्भध्यतो याम्ये स्थितैका लेलिहाऽभिधा।
[वक्त्रार्चिषां बीजगणः]
आसां बीजगणं विश्वं वह्निबीजावसानकम् ।। 140 ।।
पूर्वोदितक्रमेणैव प्रणवाद्यं नमोऽन्तकम्।
[अथ सीमन्तः]
अव्यक्ताश्च तदन्तस्थाः शिरःपाण्यादयोऽखिलाः ।। 141 ।।
स्वां स्वां वै कर्मसीमानं प्रबुद्धाः संश्रयन्ति ये।
विभागकल्पना तेषां सीमन्तं तदुदाहृतम् ।। 142 ।।
[अथ वक्रनिर्यासः]
नरसिह्मादयो वक्त्राः स्फुरत्तारकसन्निभाः।
शक्तिचैतन्यमध्यस्थाः सा च शक्तिस्तदात्मना ।। 143 ।।
सम्यक् परिणता विप्र तस्मात्ता निष्क्रमन्ति वै।
स्वस्वस्थाने स्ववीर्येण वक्त्रनिर्यास उच्यते ।। 144 ।।
[अथ निष्क्रामः]
मुखश्वासो (से?) न निर्यातद्यानं(1) श्रीकुक्षिगोचरात्।
निष्क्रामः सह वै वह्नेः संस्कारो जुहुयाच्च तम् ।। 145 ।।
(1. त A.)
[अथ जातकम्]
निस्सृतस्य च वै गर्भाज्जातकं तदुदाहृतम्.
[प्राशनम्]
(2)हिरण्यमधुसर्पिभ्यां स्नानं संप्राशनं द्विज ।। 146 ।।
(2. हिरण्येत्यस्यार्धस्य नामकारावसानं चेत्यस्यार्धस्यानन्तरं पाठः समुचितः प्रतिभाति।)
[नामकरणम्]
कुर्यात्तदनु वै नाम जातस्याग्नेः प्रयत्नतः।
नामकारावसानं च प्रणवं वैष्णवाग्नये ।। 147 ।।
[भोगः]
अन्नप्राशनपूर्वस्तु भोगो दारावसानिकः।
अभ्ङ्ग एकः संस्कारो होतव्यः पूर्ववद्द्विज ।। 148 ।।
[अथाधिकारः]
ततोऽधिकारसंज्ञस्तु संस्कारो बहुरूपधृत्।
[उक्तसंस्कारसंस्कृतस्याग्नेर्नारायणत्वेन ध्यानम्] 15-32
इति संस्कारसंशुद्धं वह्निं नारायणात्मकम् ।। 149 ।।
चतुर्भुजं चतुर्वक्त्रं शङ्खचक्रगदाब्जिनम्।
कुण्डमध्यस्थितं ध्यात्वा उदयार्कसमप्रभम् ।। 150 ।।
[ज्वालामार्गेण हृदये प्रविष्टत्वभावनम्]
तत्र तज्जनितं(तां ?) कुण्डाज्ज्वालामार्गेण चागताम्।
परानन्दप्रकाशाभांनासि(1)क्या(?)द्वादशावधि ।। 151 ।।
(1. धि C. L. श Y.)
ततोऽवतारयोगेन प्रविष्टां भावयेद्धृदि।
[अथ संस्कृतस्याग्नेः पूजनम्] 15-33
संस्कृतस्याथ वै वह्नेः पूजां कृत्वा तु भक्तितः ।। 152 ।।
पुष्पैर्धूपेन दध्ना च तिलैरक्षतमिश्रितैः।
अन्नैर्भक्ष्यफलोपेतैराज्येन क्रमशो द्विज ।। 153 ।।
संपूर्णहृदयेनैव स्वमन्त्रेणानलं ततः।
तर्पयेत यथाशक्ति तिलाज्याद्यैरनुक्रमात् ।। 154 ।।
अग्नेः पूर्णाहुतिं दत्वा वौषडन्तां घृतेन च।
[अग्निमद्ये देवस्य पूजनम्]
ततः पूजा प्रकर्तव्या देवस्याग्नेस्तु मध्यतः ।। 155 ।।
[तत्र प्रथमं वन्हेः स्मरणप्रकारः] 15-34
पूर्वं तं च स्मरेद्वह्निं साकारं निष्कळप्रभम्।
स्वयोगबलवीर्येण व्यापकं सर्वदिग्गतम् ।। 156 ।।
सर्वतः करवाक्पादं सर्वतोऽक्षिशिरोमुखम्।
कदम्बकुसुमाकारं स्वप्रभाभिर्विराजितम् ।। 157 ।।
कुण्डमापूरयन्सर्वं सर्वाकृत्या च सर्वतः।
एवं हि विततो व्यापी निराकारः सुदीप्तिमान् ।। 158 ।।
[व्योमवद्व्यापकतया भावितस्याग्नेर्मध्ये देवयजनम्] 15-35
बह्निं तु व्योमवद्ध्यात्वा तन्मध्ये पूजयेत्प्रभुम्।
गन्धपुष्पादिना चैव
[अस्त्रादियजनम्] 15-36
ततोऽस्त्रं कवचं यजेत् ।। 159 ।।
दक्षिणे बाहुमार्गे तु अनिरुद्धसमीपतः।
अग्नीषोमात्मकं तत्र आत्मरक्षार्थमेव च ।। 160 ।।
देवं चक्रस्थितं चक्रं
[अथ होमविधानम्]
ततो होमं समारभेत्।
तिलैर्घृतसमायुक्तैः द्रव्यैः सर्वैश्च याज्ञिकैः ।। 161 ।।
सुगन्धाज्यप्लतैश्चैव कुर्वीत विधिवत्ततः।
[लक्ष्म्यादीनां होमसङ्ख्याविधानम्] 15-37
मूलमन्त्राच्चतुर्थांशं लक्ष्म्यादीनां च होमयेत् ।। 162 ।।
अङ्गानां शक्तिहोमाच्च अर्धं तु जुहुयात्ततः।
तदर्धेन तु वक्त्राणां होमं कुर्याद्‌द्विजोत्तम ।। 163 ।।
वक्त्रेभ्यः कौस्तुभादीनामर्धं तु परिहोमयेत्।
सत्यादीनां तदर्धं तु तेभ्यश्चार्धं परेऽक्षरे ।। 164 ।।
अर्धमर्धांशसंयुक्तमधिकं चाग्रवर्तिनाम्।
[जपानुगुण्येन होमस्य कर्तव्यता] 15-38
जपकाले यथा होमे कर्तव्यं सिद्धिमिच्छता ।। 165 ।।
एवं ज्ञात्वा ततः कुर्यात्कोटिहोमाच्छतावधि।
यस्मादतर्पितो मन्त्रो न कदाचित्फलप्रदः ।। 166 ।।
कामैरवश्यफलदैर्देशकालसमुद्भवैः।
[होमद्रव्यनिरूपणम्] 15-39
तिलैर्घृतेन पयसा दध्ना वा पायसेन तु ।। 167 ।।
सिद्धान्नैः साधितैर्भक्ष्यैर्बीजलाजैश्च तण्डुलैः।
मूलैः फलैः पल्लवैर्वा सुप्रशस्तैश्च कोमलैः ।। 168 ।।
सुगन्धैः स्थलपद्माद्यैः पुष्पैर्विप्र सितादिकैः।
गुग्गुलेनाज्यमिश्रेण साज्यश्रीवेष्टकेन वा ।। 169 ।।
धात्रीफलैर्वा सरसैरुत्पलैश्च शुभैस्तथा।
सुसितैः सितररक्तैश्च पद्मैर्बिल्वैः सुशोभनैः ।। 170 ।।
दूर्वाकाण्डैरभग्नाग्रैः दन्तिसद्दन्तनिर्मलैः।
एधौंभिर्ब्रह्मवृक्षोत्थैः क्षीरद्रुममयैस्तथा ।। 171 ।।
अमृता क्षीरसंयुक्ता औदुम्बर्यो मधुप्लुताः।
अच्छिन्नाग्रा ह्यभग्नाश्च कण्टकैः परिवर्जिताः ।। 172 ।।
सर्वास्त्रिमधुरक्ताश्च घृतयुक्तास्तु वा पुनः।
[होमद्रव्यभेदेन फलभेदः] 15-40
आज्ययुक्तैस्तिलैः शान्तिः सिद्धयः सकलास्तथा ।। 173 ।।
घृतेन पयसा दध्ना होमस्तृप्ति प्रयच्छति।
पायसेन तु सिद्धान्नैर्भक्ष्यैः पुष्टिः सदा भवेत् ।। 174 ।।
बीजैर्धान्यैस्तण्डुलैश्च तर्पितो मन्त्रराड्‌ भवेत्।
प्रयच्छति सदा श्रेयः प्रसन्नः परमेश्वरः ।। 175 ।।
पल्लवैः फलमूलैश्च होमस्तुष्टिं प्रयच्छति।
जहाति चापमृत्युं च रोगांश्चोपशमं नयेत् ।। 176 ।।
तर्पितः स्थलपद्माद्यैः पुष्पैश्चान्यैः सितादिकैः।
सौभाग्यमतुलं विप्र अचिरात्संप्रयच्छति ।। 177 ।।
गुग्गुल्वाद्यैर्द्विजारोग्यं शुभैर्धात्रीफलैस्तथा।
आज्याक्तैः पद्मबीजैश्च लक्ष्मीं शीघ्रं प्रयच्छति ।। 178 ।।
उत्पलैर्वश्यकामस्तु भोगकामश्च होमयेत्।
दूर्वामृताभिर्होमेन आयुषो वृद्धिमाप्नुयात् ।। 179 ।।
एधोभिश्च शुभैर्होमाद्दोषशान्तिप्रदः प्रभुः।
[आहुतिप्रमाणभेदः] 15-41
तिलानां शस्यते होमः सततं मृगमुद्रया ।। 180 ।
घृतस्य काषि(र्ष ?)को होमः क्षीरस्य च विशेषतः।
शुक्तिमात्राहुतिर्दध्नः प्रसृतिः पायसस्य च ।। 181 ।।
ग्रासार्धमात्रमन्नानां भक्ष्याणां स्वप्रमाणतः।
सर्वेषामेव बीजानां मुष्टिना होममाचरेत् ।। 182 ।।
अग्राङ्गुलिस्तु लाजानां शालीनां पञ्चकं हुनेत्(?)।
फलानां स्वप्रमाणं च पल्लवानां तथैव च ।। 183 ।।
त्रितीयं मूलखण्डानां पुष्पाणां स्वप्रमाणतः।
कर्कन्धुमात्रगुळिका होतव्या गुग्गुलैस्सदा ।। 184 ।।
धात्रीफलप्रमाणां वा संभवे सति होमयेत्।
दूर्वाकाण्डानि विप्रेन्द्र चतुरष्टाङ्गुलानि वा ।। 185 ।।
समित्प्रदेशमानेन समच्छेदा त्वगन्विता।
[स्वाहाकार वषट्‌कार--वौषट्‌कारादिप्रयोगे निमित्तभेदनिरूपणम्] 15-42
स्वाहाकारं सदा होमे पूर्णायां वौपडेव च ।। 186 ।।
तमेव शान्तिके कुर्याद्वषड्वाऽऽप्ययने सदा।
स्वधा पितृक्रियायां च फट्‌कारः क्षयकर्मणि ।। 187 ।।
विद्वेषे हुं वशे हीं च नमो मोक्षप्रसिद्धये।
[पूर्माहुतिप्रकारः] 15-43
कर्महोमावसाने च घृतेनापूर्य च स्रुव(च)म् ।। 188 ।।
अभावात्तु प्रभूतस्य(?) होमद्रव्येन पूरयेत्।
तत्रोपरि घृतं दद्यात्ततोर्घ्यकुसुमादिभिः ।। 189 ।।
मूलदेशात्समारभ्य स्रुक्संपूज्या स्रुवान्विता।
घृतयुक्तं तु तद्द्रव्यं स्रुचः पुष्करकुक्षिगम् ।। 190 ।।
द्रवच्चन्द्रोपमं ध्यायेत्ततः पूर्णं समुद्धरेत्।
स्रुग्दण्डं देहनाभौ तु मूले संरोध्य संस्मरेत् ।। 191 ।।
निष्कळं मन्त्रनाथं तु पूर्णशीतांशुसन्निभम्।
आमूलाच्च मरुच्छक्त्या प्रोद्धरेच्च स्वविग्रहात् ।। 192 ।।
विधाय चेश्वराधारे तस्माद्धारामृतं महत्।
नासिकासन्दिमार्गेण स्रुक्पद्मे पतितं स्मरेत् ।। 193 ।।
सामृतामाज्यधारां च वसुधारामिव क्षिपेत्।
मुखमध्ये तु मन्त्रस्य तद्ब्रह्मविवरेऽथवा ।। 194 ।।
हृत्पद्मान्तर्गतां सम्यक्प्रविष्टामनुभावयेत्।
तया वै बृंहितं मन्त्रं भाबयेद्ब्रह्मधारया ।। 195 ।।
तृप्तं हृष्टं च पुष्टं च तुष्टं वै साधकोपरि।
मन्त्रोच्चारसमेता वै शरीरकारणान्विता ।। 196 ।।
ध्यानोपेता द्विजश्रेष्ठ पूर्णेयं परिपातिता।
सर्वसिद्धिकरी शश्वन्मोक्षलक्ष्मीविवर्धनी ।। 197 ।।
[अग्नेर्वर्णादिभेदैः कर्मसिद्धेर्ज्ञातव्यता] 15-44
बहुशुष्केन्धनेऽग्नौ च होतव्यं कर्मसिद्धये।
अग्नेर्वर्णास्च गंधाश्च शब्दाश्चाकृतयस्तथा ।। 198 ।।
विकाराश्च शिखाश्चैव संवेद्याः कर्मसिद्धये।
पद्मरागद्युतिः श्रेष्ठो लाक्षालक्तकसन्निभः ।। 199 ।।
बालार्कवर्णो हुतभुक् जयार्थं शस्यते द्विज।
इन्द्रकोपकवर्णाभः शोणाभो वाऽथ पावकः ।। 200 ।।
शक्रचापनिभः श्रेष्ठः कुङ्कुमाभस्तथैव च।
रक्तानां पुष्पजातीनां वर्णेनाग्निरिहेष्यते ।। 201 ।।
सुगन्ध(1) द्रव्यगन्धोऽग्निर्घृतगन्धश्च शोभनः।
आयुर्दः पद्मगन्धः स्याद्बहुगन्धश्च सुव्रत ।। 202 ।।
(1. दिव्य C. L.)
उग्रगन्धोऽभिचारे तु विहितः सर्वदाऽनलः।
जीमूतवल्लकीशङ्खमृदङ्गध्वनितुल्यकः ।। 203 ।।
शब्दोऽग्नेः सिद्धये हेतुरतोऽन्यः स्यादसिद्धिदः।
छत्राकारो भ्रमः श्रेष्ठो ध्वजचामररूपकः ।। 204 ।।
विमानादिवितानानां प्रासादानां वृषस्य वा।
आकारेणाथ हंसानां मयूराणां च सिद्धिदः ।। 205 ।।
रक्ताभस्तु यदा वह्निर्लक्षणात्परिदृश्यते।
भग्नराजोपलाभश्च स्फटिकाभस्तथा शुभः ।। 206 ।।
यद्रूपं कथितं पूर्वं यदि तस्य प्रदक्षिणम्।
अन्योन्यत्वं प्रपद्येत तथा सिद्धिकरोऽनलः ।। 207 ।।
तर्हितेन तु तर्णेन यदि कापोतिकादिना।
परिवर्तं करोत्यग्निस्तदा विप्र विपर्ययम् ।। 208 ।।
होमान्ते तन्निमित्तं वै होमं कुर्याच्छताधिकम्।
विषमाश्च शिखा वह्नेस्त्रयादयश्च शुभावहाः ।। 209 ।।
हस्वा ह्रस्वोन्नता दीर्घा ज्वालाः सिद्धिप्रदाः स्मृताः।
स्निग्धः प्रदक्षिणावर्तः श्रुतिप्रच्छादितध्वनिः ।। 210 ।।
स नित्यमेव शुभकृद्यदन्यैर्वर्जितो गुणैः।
[होमे प्रशस्तोऽग्निः] 15-45
प्रदीप्ते लेलिहानेऽग्नै निर्धूमे सगुणे तथा ।। 211 ।।
हृद्ये तुष्टिप्रदे चैव होतव्याः श्रियमिच्छता।
[होममे वर्ज्योऽग्निः] 15-46
अल्पतेजोऽल्परूपश्च विष्फुलिङ्गसमन्वितः ।। 212 ।।
ज्वालाभ्रमविहीनश्च कृशानुर्मैव सिद्धिदः।
अप्रबुद्धे सधूमे च जुहयाद्यो हुताशने ।। 213 ।।
कर्महानिर्भवेत्तस्य त्वाभिचारार्थमश्रुते।
दुर्गन्धश्चावलीढश्च पीतः कृष्णश्च यो भवेत् ।। 214 ।।
असकृत्कुं लिखेद्यस्तु स तु दद्यात्पराभवम्।
[तिथिभेदेन फलभेदाः] 15-47
शुभे ग्रहे सुनक्षत्रे शुक्लपक्षे तिथिष्वपि ।। 215 ।।
द्वादश्यां धर्मकामार्थानग्निस्थः कुरुते विभुः।
सौभाग्यं तु त्रयोदश्यामेकादश्यां ध्रुवं जयः (यं ?) ।। 216 ।।
पञ्चम्यां द्रव्यसिद्धिं च नवम्यां कीर्तिदः प्रभुः।
तिथयः शुक्लपक्षे तु प्रोक्ताः सौभाग्यकर्मणि ।। 217 ।।
यथाकामं तु मोक्षार्थी पक्षयोरुभयोरपि।
[प्रभाद्यर्चिःसप्तके क्रमादेकैकस्मिंस्तर्पितस्य मन्त्रस्य फलभेदः] 15-48
प्रभामूर्तिगतो मन्त्रस्तर्पितो यदि नारद ।। 218 ।।
विद्यां प्रयच्छत्यचिरात् दीप्तिस्थो भूप्रदः प्रभुः।
तापयत्याशु शत्रूणां प्रकाशोपर्यवस्थितः ।। 219 ।।
शत्रुक्षयं ददात्याशु मरीच्यामूर्ध्वगो विभुः।
तपन्यामूर्ध्वगो मन्त्रः सर्वतापोपशान्तिदः ।। 220 ।।
विपक्षोच्चाटनं कुर्यात्कराळासंस्थितो विभुः।
लेलिहावस्थितो मन्त्रो यदि सन्तर्पितो मुने ।। 221 ।।
दद्यादभीप्सितं चैव देहान्ते परमं पदम्।
इदमुक्तं मया विप्र होमकर्म समासतः ।। 222 ।।
[होमान्ते कर्तव्यस्य तदुत्तराङ्गस्य विधानम्]
होमान्ते सानलं मन्त्रं भूयः पुष्पादिभिर्यजेत्।
मुद्राः प्रदर्शयेत्सर्वा मूलमन्त्रादितः क्रमात् ।। 223 ।।
सन्दर्शयेत्ततो वह्नेर्मुद्रां मन्त्रसमन्विताम्।
[अग्निमुद्रा] 15-49
पद्माकारौ करौ कृत्वा अङ्गुष्ठौ च कनिष्ठिके ।। 224 ।।
संमील्य चाग्रदेशात्तु कर्णिकेव यथा द्विज।
तर्जन्यादित्रयं शेषमूर्ध्वगं च करद्वयात् ।। 225 ।।
असंलग्नं तु निक्षिप्तं मुद्राऽग्नेः संप्रकीर्तिता।
[मण्डले विन्यस्तस्य मन्त्ररूपस्य भगवतो मूर्धनि पुष्पाञ्जलिसमर्पणप्रकारः] 15-50
मण्डलाग्रं ततो यायाद्धोमं विष्णोः समर्प्य च ।। 226 ।।
आपूर्य पाणियुगलं पुष्पैस्तत्रोपरि स्थितम्।
संस्मरेन्निष्कलं मन्त्रममृतेनोपबृंहितम् ।। 227 ।।
प्रभूतदीप्तिच्छुरितं निक्षिपेन्मन्त्रमूर्धनि।
[अथ प्रार्थना]
तर्पितोऽसि विभोर्भ(भ ?)क्त्या होमेनानलमध्यगम्(1)(ग ?) ।। 228 ।।
(1. गः C. L.; Y.)
होमद्रव्येषु यद्वीर्यं तदिदं चात्मसात्कुरु।
गृहीतं भावयेत्तेन प्रसन्नेनान्तरात्मना ।। 229 ।।
[अथ मण्डलस्थस्य विसर्जनप्रकारः] 15-51
विसर्जनं ततः कुर्याद्दत्वाऽर्घ्यं धूपसंयुतम्।
[अथ प्रसादस्य शिरसि धारणम्]
प्रसादार्घ्यं सपुष्पं च कर्णिकोर्ध्वात्परिच्युतम् ।। 230 ।।
गृहीत्वा स्वात्मनो मूर्ध्नि दत्वा
[मण्डलादुद्धृतरजसा तिलकधारणम्]
ऽथ रजसा मुने।
ललाटे तिलकं कुर्यात्पीतरक्तेन मण्डलात् ।। 231 ।।
[अर्ध्यपात्रे न्यस्तस्य मन्त्रस्य पूरकेण स्वदेहे व्याप्तत्वभावनम्]
द्विधा यश्चार्ध्यपात्राभ्यां मन्त्रो न्यस्तः (2)पुरा द्विज।
मन्त्रमुद्रासमेतेन पूरकेण तु नारद ।। 232 ।।
(2. पुरा---बाह्ययागाख्याने 112 पत्रे व्यक्तमेतत्.)
भासितं भावयेद्देहं तेनापादाच्छिरोऽवधि।
[भोगस्थानगतानां मन्त्राणां मुक्यमन्त्रशरिरे प्रविष्टत्वभावनम्]
भोगस्थानगता मन्त्राः पूजिता ये यथा क्रमात् ।। 233 ।।
मुख्यमन्त्रशरीरं तु संप्रविष्टांश्च संस्मरेत्।
ज्वाला ज्वालान्तरे यद्वत्समुद्रस्येव निम्नगाः ।। 234 ।।
[सर्वमन्त्रास्पदस्य तस्य स्थूलमन्त्रशरीरस्य स्वकारणसूक्ष्मादिक्रमेण पररूपे प्रविष्टत्वभावनम्]
तं मन्त्रविग्रहं स्थूलं सर्वमन्त्रास्पदं द्विज।
प्रविष्टं भावयेत्सूक्ष्मे बुध्यक्षे ह्युभयात्मके ।। 235 ।।
परे प्रागुक्तरूपे तु तं सूक्ष्ममुभयात्मकम्।
[पररूपस्य तस्य स्वहृदये प्रविष्टत्वभावनम्]
तं परं प्रस्फुरद्रूपं निराधारपदाश्रितम् ।। 236 ।।
सिद्धिमार्गणहृत्पद्मे संप्रविष्टं तु भावयेत्।
[स्वहृदयं प्रविष्टस्य परस्वरूपस्य भासाऽऽपादमस्तकं स्वदेहस्य व्याप्तत्वभावनम्]
मन्त्रमुद्रासमेतेन पूरकेण तु नारद ।। 237 ।।
भासितं भावेयेद्देहं तेनापादाच्छिरोवधि।
प्रविष्टेन तु मन्त्रेण प्रयत्नेन विना द्विज ।। 238 ।।
विग्रहः कम्पते यस्य मन्त्रस्तस्य प्रसीदति।
[विसर्जनानन्तरं दीक्षितेभ्यो नैवेद्यप्रदानम्] 15-52
एवं विसृज्य मन्त्रेशं लोकपालास्त्रवर्जितम् ।। 239 ।।
दीक्षितानां द्विजानां च श्रद्धासंयमसेविनाम्।
प्रदद्याद्द्विज नैवेद्यं शिष्याणां भावितात्मनाम् ।। 240 ।।
[मूलमन्त्राभ्यर्चने विनियुक्तानां पुष्पादीनां समाहरणम्] 15-53
वलमानस्य(?) मन्त्रस्य तुल्यकालं समाहरेत्।
पुष्पाण्यस्त्रं च नैवेद्यं मूलमन्त्रोपयोजितम् ।। 241 ।।
[समाहतेन तेन द्रव्येण विष्वक्सेनाभ्यर्चनम्]
तेन भाण्डस्थितेनापि समाहूयाम्बरान्तरात्।
विष्वक्सेनं यजेद्भक्त्या ध्वात्वा वै मण्डलान्तरे ।। 242 ।।
चतुर्भुजमुदाराङ्गं गदाशङ्खधरं विभुम्।
नवाम्रपत्रसङ्काशं पिङ्गलश्मश्रुलोचनम् ।। 243 ।।
पीतवस्त्रं चतुर्दष्ट्रं स्वमुद्राद्वितयान्वितम्।
समभ्यर्च्य क्रमात्साङ्गं मुद्रामस्याथ दर्शयेत् ।। 244 ।।
[अथ कुण्डे विन्यस्तस्य मन्त्रस्य पुष्पैः पूजनम्]
गत्वा कुण्डसमीपं तु मन्त्रं पुष्पैः प्रपूज्य च।
[भस्मना तिलकधारणम्]
भस्मनाऽस्त्राभितप्तेन ललाटे तिलकं शुभम् ।। 245 ।।
[मण्डलस्थस्येव कुण्डस्थस्य मन्त्रस्योपसंहरणम्]
कृत्वा मण्ड(ल)वत्पश्चादुपसंहृत्य चात्मनि।
[अथ विष्वक्सेनस्य कुण्डे सन्तर्पणक्रमः] 15-54
विष्वक्सेनस्ततो भक्त्या तर्पणीयस्तिलाक्षतैः ।। 246 ।।
वौषडन्तेन मन्त्रेण दद्यात्पूर्णाहुतिं द्विज।
मण्डले पूजयित्वाऽथ कुर्यात्तस्य विसर्जनम् ।। 247 ।।
[विष्वक्सेनविसर्जनम्] 15-55
स्वमन्त्रेण द्विजश्रेष्ठ क्षमस्वेति पदेन च।
मुद्रासमन्वितेनाथ नभस्युत्पतितं स्मरेत् ।। 248 ।।
पूर्णेन कलशेनाथ अस्त्रजप्तेन नारद।
क्षीराम्बुमधुराज्येन प्रापयेन्मण्डलं तु तत्(?) ।। 249 ।।
ततः कुण्डात्समुत्थाप्य विष्वक्सेन यथा पुरा।
[लोकपालादीनां विसर्जनप्रकारः] 15-56
पूजयेल्लोकपालांश्र्च पुष्पाद्यैस्तर्पयेत्ततः ।। 250 ।।
एकाहुतिप्रदानेन शक्त्या वा बहुभिः पुनः।
यथाविधि स्वमन्त्रेण पूजयित्वा विसर्जयेत् ।। 251 ।।
सास्त्रान्सपरिवारांश्च स्वं स्वं स्थानं क्रमेण तु।
[अथ क्षेत्रपालादीनां घृतादिभिस्तर्पणक्रमः] 15-57
गत्वा कुण्डसमीपेऽथ क्षेत्रपालादयः क्रमात् ।। 252 ।।
आधारशक्तेरारभ्य पीठमन्त्राश्च सर्वशः।
गणेशाद्याश्च सिद्धान्तास्तर्पणीया घृतादिकैः ।। 253 ।।
सकृत्सकृत्स्वशक्त्या वा पूर्णां सर्वेष्वथ क्षिपेत्।
पात्रस्थं कलशस्थं च मन्त्रतन्त्रावतारितम् ।। 254 ।।
क्रमेण चोपसंहृत्य घ्राणाग्रेण तु पूर्ववत्।
[अथ वह्नेस्तर्पणप्रकारः] 15-58
स्वमन्त्रेण ततो वह्निं शक्तितस्तर्पयेद्द्विज ।। 255 ।।
अच्छिद्रकरणीं पूर्णां पूर्णामन्त्रेण पातयेत्।
कुण्डे पुष्पाञ्जलिं कृत्वा वह्निमन्त्रमनुस्मरन् ।। 256 ।।
समाघ्राय न्यसेत्कोष्ठे ह्यवतारक्रमेण तु।
[अथाग्नेः परिषेचनम्] 15-59
स्रुवन्तु तोयेनापूर्य कुण्डं बाह्ये प्रदक्षिणम् ।। 257 ।।
कुर्यादीशानकोणाद्वै अच्छिद्रोदकधारया।
[नैवेद्यादीनां तोये प्रक्षेपविधानम्] 15-60
नैवेद्यमुपसंहृत्य वस्त्रालङ्कारवर्जितम् ।। 258 ।।
अगाधोदकमध्ये तु वहत्यधिविनिक्षिपेत्।
[निमाष्टर्युपलेपनपूर्वकं सिद्धार्थकादीनामुत्किरणम्] 15-61
सम्यक्कृत्वा निमार्ष्टिं वै उपलिप्याथ चोत्किरेत् ।। 259 ।।
सिद्धार्थकादिलाजांश्च तिलं सुमनसोऽक्षतान्।
[रक्षार्थं स्थापितयोः कवचास्त्रयोरुपसंहारः]
वर्मास्त्रे ह्युपसंहृत्य रक्षार्थं योजिते पुरा ।। 260 ।।
[स्वविग्रहे कृतस्य न्यासस्योपसंहारः]
यागस्थानाच्च तिलकं कृत्वा न्यासं स्वविग्रहात।
उपसंहृत्य मेधावी कुर्याद्वै भोजनादिकम् ।। 261 ।।
इदमुक्तं समासेन मन्त्रसन्तर्पणं द्विज।
[अपात्रेऽस्य मन्त्रसन्तर्पणक्रमस्यावाच्यत्वकथनम्] 15-62
वाच्यं नादीक्षितानां च नाभक्तानां कदाचन ।। 262 ।।
नान्यदर्शनसंस्थानां नोपहासरतात्मनाम्।
[पात्रे वक्तव्यता]
सद्भावज्ञे तु वक्तव्यं समयज्ञेऽथ पुत्रेक ।। 263 ।।
साधके तु गुरोर्वापि भक्ते स्निग्धे विमत्सरे।
सत्यधर्मपरे वापि साचारे समयस्थिते ।। 264 ।।
इति श्रीपञ्चरात्रे जयाख्यसंहितायामग्निकार्यविधानं नाम पञ्चदशः पटलः।
* * * * *

"https://sa.wikisource.org/w/index.php?title=जयाख्यसंहिता/पटलः_१५&oldid=206744" इत्यस्माद् प्रतिप्राप्तम्