प्रमुखा विकल्पसूचिः उद्घाट्यताम्
← पटलः ५ जयाख्यसंहिता
पटलः ६
[[लेखकः :|]]
पटलः ७ →
जयाख्यसंहितायाः पटलाः


पटलः - 6
अथ मुक्यमन्त्रोद्धारो नाम षष्ठः पटलः।। 6-1
नारद :---
त्वत्प्रसादेन भगवन्संविल्लव्धा मया परा।
मनसश्चञ्चलत्वाच्च नहि मे स्थिरतां व्रजेत् ।। 1 ।।
अतः पूर्वोदितान्सर्वानुपायान्कथयस्व मे।
अशेषांश्च क्रमेणैव भोगमोक्षफलप्रदान् ।। 2 ।।
[मन्त्रनिरूपणारम्भः]
श्रीभगवान् ---
साधु नारद पृष्टोंऽहं सारभूतमिदं त्वया।
मन्त्रपूर्वं हि वै सर्वं यत्त्वया परिचोदितम् ।। 3 ।।
तस्मान्मन्त्रं प्रवक्ष्यामि भुक्तिमुक्तिप्रदं शुभम्।
स्थूलसूक्ष्मस्वरूपेण नानासिद्धिफलप्रदम् ।। 4 ।।
शक्त्यङ्गावरणोपेतमनेकाद्भुतदर्शनम्।
[मातृकापीठपरिकल्पनाप्रकारः] 6-2
भूमिभागे समे शुद्धे मृद्गोमयसुलेपिते ।। 5 ।।
पञ्चगव्येन संसिक्ते चन्दनाद्युपलेपिते।
निवाते च सुसंछन्ने(1) धूपैरप्यगिवासिते ।। 6 ।।
(1. सुसंप A.)
मृदुकल्हारकुसुमैः केवलैः कुसुमैः शुभैः।
प्रणवादिनमोन्तेन स्वनाम्ना पूज्य वै पुरा ।। 7 ।।
परिजप्याथ बहुशो मृदं भूमौ प्रसार्य च।
चतुरश्रं सुवृत्तं च द्विहस्तं हस्तमेव वा ।। 8 ।।
सुसमं मातृकापीठं कृत्वा प्रस्तार्य तामपि।
[अक्षरेषु विभाव्यो भगवतः स्थितिभेदः] 6-3
एकैव भिन्नवर्गा च वर्गान्तेऽप्यसमाक्षराः ।। 9 ।।
षोडशाक्षर आद्यस्तु अकाराद्यो द्विजोत्तम।
विसर्गान्तस्थितस्तस्मिन्नग्नीषोमात्मकः प्रभुः ।। 10 ।।
पञ्चार्णानां तु पञ्चानां वर्गाणां परमेश्वरः।
(1)सुस्थितः कादिमान्तानां तत्त्वात्मत्वेन सर्वदा ।। 11 ।।
(1. सं. Y)
जाग्रदादिक्रमेणैव स्थितोऽवस्थात्मनात्र वै।
यादिवान्ते चतुर्वर्णे वर्गे विप्रेन्द्र (2)सत्तमे ।। 12 ।।
(2. सप्त. Y)
तुर्यातीतात्मरूपेण शादिक्षान्तेषु संस्थितः।
आलोकस्तीक्ष्णता व्याप्तिर्ग्रहणं क्षेपणेरणे ।। 13 ।।
पाकः प्राप्तिरिति ह्यष्टौ सूर्यभागे व्यवस्थिताः।
अकारादिषु ह्वस्वेषु वर्णेष्वेतेष्वनुक्रमात् ।। 14 ।।
द्रवता शैत्यभावाश्च तृप्तिःकान्तिः प्रसन्नता।
रसताऽऽह्लाद् आनन्दो ह्यष्टौ चान्द्रास्त्विमा मताः ।। 15 ।।
आकारादिषु दीर्घेषु संस्थिता मातृकात्मना।
अविनाभावरूपेण अन्योन्येन सदैव हि ।। 16 ।।
अष्टानामपि चाष्टौ तु संस्थिता बहिरन्तरे।
क्ष्मादितत्त्वसमूहस्तु पुरुषान्तः क्रमेण तु ।। 17 ।।
जाग्रत्स्वप्नसुषुप्तं च तुर्यमूर्ध्वेऽत्र वर्तते।
संस्थितः परमालोकशब्दो नित्योदितः परः ।। 18 ।।
परानन्दश्च समता वेद्यवेदकवर्जितः।
स्वरूपमेतत्कथितं तुर्यातीतात्मनो विभोः ।। 19 ।।
[एवं भगवतः स्थितिं विभाव्योल्लिख्यमानानामक्षराणं भगवन्मातृकादेहरूपता] 6-4
इति वर्णप्रभावं च व्यापकं चानुभूतिगम्।
बुध्वा च लिपिरूपेण संलिखेद्येन केनचित् ।। 20 ।।
संवेद्योऽपि जनेनैव न लिपिर्विप्र मातृकाः।
परमः पुरुषो दिव्यो योऽनुभूतः पुरा त्वया ।। 21 ।।
तस्यायं मातृकादेहः चतुर्धा संव्यवस्थितः।
[मातृकायाः स्वविग्रहे न्यासक्रमः] 6-5
सूत्रेण मणयो यद्वत्प्रोतास्त्वेकेन नारद ।। 22 ।।
तद्वद्वर्णा मया तन्तुस्वरूपेणाव्ययात्मना।
इति चेतसि वै कृत्वा मन्त्रानुद्धरते च यः(1) ।। 23 ।।
(1. यत् CL.)
दृष्टादृष्टफलप्राप्तिस्तस्य मन्त्रात्प्रजायते।
एवं स्वविग्रहे न्यस्य मातृकां मन्त्रमात्रकाम् ।। 24 ।।
वस्तुपूर्णेषु तत्त्वेषु स्वेषु स्वेषूदितेषु च।
स्नात्वा शुक्लाम्बरधरस्स्रक्चन्दनविभूषितः ।। 25 ।।
[मन्त्रमातृकोद्धारक्रमः] 6-6
तामेव प्रस्तरेन्मन्त्री अष्टवर्गां पृथक्स्थिताम्।
अष्टारे तु महाचक्रे मध्यतः सुविभूषिते ।। 26 ।।
प्रागरादि क्षकारान्तमवर्गादिक्रमेण तु।
मघ्यतः प्रणवं लिख्य वर्णचक्रं प्रभुं परम् ।। 27 ।।
एकैकं तु स्वसंज्ञाभिश्चक्रारेष्वक्षरं लिखेत्।
यावन्निष्पद्यते वर्गस्स्थितः स्वैस्स्वैररान्तरे ।। 28 ।।
स्वख्यञ्जनसंयुक्तां मातृकामग्रतो यजेत्।
[मातृकापूजनप्रकारः] 6-7
पाद्यार्घ्यपुष्पधूपेन दीपेन च विलेपनैः ।। 29 ।।
फलमूलादिनैवेद्यैरोंनमोमन्त्रमातृके।
संपूज्यश्च ततो भक्त्या मातृकाविग्रहः पुमान् ।। 30 ।।
प्रागुक्तेन स्वनाम्ना वै प्रणत्या प्रणवेन च।
स्वाभिधाभिः क्रमेणातो ह्येकैकं चाक्षरं यजेत् ।। 31 ।।
मध्याह्नभास्काराकारं प्रस्फुरन्तं विचिन्त्य च।
[भगवद्रूपाणामक्षराणामकारादिक्रमेणाभिधाभेदः] 6-8
अकारश्चाप्रमेयश्च प्रथमो (भवो ) व्यापकः स्मृतः ।। 32 ।।
आदिदेवस्तथाऽऽकार आनन्दो गोपनः स्मृतः।
रामसंज्ञ इकारश्च इष्ट इद्धः प्रकीर्तितः ।। 33 ।।
ईकारः पञ्च बिन्दुर्वै (2)विष्णोर्माया द्विजाधिप।
उकारो भुवनाख्यश्च उद्दाम उदयस्तथा ।। 34 ।।
(2. विष्णु CL.)
ऊकार ऊर्जो लोकेशः प्रज्ञाधारस्तथैव च।
सत्यश्च ऋत्तधामा च ऋकारस्स तु चाङ्कुशः ।। 35 ।।
ऋकारं विष्टरं विद्धि ज्वाला सैव (1)प्रसारणम्।
लिङ्गात्मा भगवान्प्रोक्तो लृकारस्तारकस्स्मृतः ।। 36 ।।
(1. प्रधा A.)
ल्टृकारो दीर्घघोणश्च देवदत्तो विराट् स तु।
त्र्यश्र एकारसंज्ञस्तु जगद्योनिरिग्रहः ।। 37 ।।
ऐश्वर्यं योगधाता च ऐ समैरावणस्स्मृतः।
ओकार ओतदेहश्च ओदनस्स च विक्रमी ।। 38 ।।
और्वोऽथ भूधाराख्यश्च औस्स्मृतो ह्यौषधात्मकः।
त्रैलोक्यैश्वर्यदो व्यापी व्योमेशोऽङ्कार एव च ।। 39 ।।
विसर्गः सृष्टिकृत्ख्यातो ह्यकारः परमेश्वरः।
कमलश्च कराळश्च ककारः प्रकृतिः परा ।। 40 ।।
खकारः खर्वदेहश्च वेदात्मा विश्वभावनः।
गदध्वंसी गकारश्च गोविन्दस्स गदाधरः ।। 41 ।।
घकारश्चैव घर्मांशुस्तेजस्वी दीप्तिमान्स्मृतः।
ङकार एकदंष्ट्रश्च भूतात्मा विश्वभावकः ।। 42 ।।
चकारश्चंचलश्चक्री चन्द्रांशुस्स च कथ्यते।
छकारः छलविध्वंसी छन्दश्छन्दःपतिः स्मृतः ।। 43 ।।
अजितो जन्महन्ता च जकारस्स च शाश्वतः।
झषो झकारः कथितः सामात्मा सामपाठकः ।। 44 ।।
उत्तमस्त्वीश्वराख्यश्च ज्ञकारस्तत्त्वधारकः।
चान्द्री टकार आह्लादो विश्वाप्यायकरः स्मृतः ।। 45 ।।
ठकारः कौस्तुभः प्रोक्तो नेमिर्धाराधरस्तथा।
डकारो दण्डधारश्च मौसलोऽखण्डविक्रमः ।। 46 ।।
ढकारो विश्वरूपश्च वृषकर्मा प्रतर्दनः।
णकारोऽभयदश्शास्ता वैकुण्ठः परिकीर्तितः ।। 47 ।।
ताललक्ष्मा तकारश्च वैराजस्स्रग्धरस्स्मृतः।
धन्वी भुवनपालश्च थकारस्सर्वरोधकः ।। 48 ।।
दत्तावकाशो दमनो दकारश्शान्तिदः स्मृतः।
धकारः शार्ङ्रधृ(1)द्धर्ता माधवश्च प्रकीर्तितः ।। 49 ।।
(1. द्धामा A)
नरो नारायणः पन्था नकारस्समुदाहृतः।
पकारः पद्मनाभश्च पवित्रः पश्चिमाननः ।। 50 ।।
फकारः फुल्लनयनो लाङ्गली श्वेतसंज्ञिकः।
बकारो वामनो ह्रस्वः पूर्णाङ्गस्स च गीयते ।। 51 ।।
भल्लायुधो भकारश्च ज्ञेयस्सिद्धिप्रदो ध्रुवः।
मकारो मर्दनः कालः प्रधानः परिपठ्यते ।। 52 ।।
चतुर्गतिर्यकारस्तु स सूक्ष्मश्शङ्ख उच्यते।
अशेषभुवनाधारो रोऽनलः कालपावकः ।। 53 ।।
लकारो विबुधाख्यस्तु धरेशः पुरुषेश्वरः।
वराहश्चामृताधारो वकारो वरुणस्स्मृतः ।। 54 ।।
शकारः शङ्करः शान्तः पुण्डरीकः प्रकीर्तितः।
नृसिह्मश्चाग्निरूपश्च षकारो भास्करस्तथा ।। 55 ।।
सकारश्चामृतं तृप्तिस्सोमस्तु परिपठ्यते।
सूर्यो हकारः प्राणस्तु परमात्मा प्रकीर्तितः ।। 56 ।।
अनन्तेशः क्षकारस्तु वर्गान्तो गरुडस्स्मृतः।
अशेषसंज्ञा वर्णानामित्येताः परिकीर्तिताः ।। 57 ।।
अनुलोमविलोमे नर्णाद्वर्णस्य वै पुनः।
संख्या संज्ञा च या सम्यक्सामान्या सा महामते ।। 58 ।।
[भगवदंशभूतानामक्षराणामङ्गाङ्गिभावेन मिथःसङ्गातानां मन्त्रोत्पत्तिहेतुता]
एते भगवदंशाश्च शब्दा भास्वरविग्रहाः।
कारणं सर्वमन्त्राणां भगवच्छक्तिबृंहिताः ।। 59 ।।
परस्पराङ्गभावेन मन्त्रोत्पत्तिं(2) व्रजन्ति च।
चराचरेऽस्मिंस्तन्नास्ति यदमीभिर्न भावितम् ।। 60 ।।
कृत्वैवं भावगां व्याप्तिं वर्णानां (3)पूजनक्रिया।
[पन्त्रोद्धारक्रमः] 6-9
स्वहृच्चक्रेऽथ भूमिष्ठे ततो मन्त्रान्समुद्धरेत् ।। 61 ।।
(3. पूजनं त्रिधा. Y)
वर्गान्तमाद्यं बीजं तु सप्तवर्गाद्विभेदितम्।
पञ्चबिन्दुयुतं मूर्ध्नि व्योमेशेन नियोजितम् ।। 62 ।।
इदं बीजवरं दिव्यं सर्वकामफलप्रदम्।
अनन्तेशात्तृतीयं तु स्वरवर्गान्तयोजितम् ।। 63 ।।
द्वितीयं तस्य तद्बीजं जरामृत्युभयापहम्।
स्वराद्यं पञ्चमं चैव पञ्चविंशेन योजितम् ।। 64 ।।
तयोराद्यं लिखेद्बीजं भोगमोक्षप्रदं शुभम्।
नमस्कारपदोपेतं सर्वशक्त्याश्रयं प्रभुम् ।। 65 ।।
एतद्वर्णत्रयं देहः स्थूलभासो मम द्विज।
भूतदे(1)हव्यपेक्षायां किञ्चित्सूक्ष्मश्च नारद ।। 66 ।।
(1. भेद A)
परमूर्त्त्यन्तरेणैव स्थूल एव विभाति च।
अत्युत्कृष्टगुणैर्युक्तो ह्यदृश्यो यस्य कस्यचित् ।। 67 ।।
अपि चेत्केवलस्सर्वामर्थसिद्धिं प्रयच्छति।
किं पुनर्मूर्त्तिमन्त्रेण द्वादशार्णेन संयुतः ।। 68 ।।
पदं नारायणायेति कुर्याद्विश्वात्मने ततः।
हीं स्वाहाकारसंयुक्तो मूर्त्तिमन्त्रो ह्ययं स्मृतः ।। 69 ।।
[मन्त्रमहिमानुवर्णनम्] 6-10
सङ्कल्पाकल्परूपस्तु त्र्यर्णस्याद्योदितस्य च।
अणिमादिगुणाधारः पातालोत्थानसिद्धिदः ।। 70 ।।
मोक्षदो मोक्षकामस्य भोगकामस्य भोगदः।
राज्यदो राज्यकामस्य धनकामस्य भूतिदः ।। 71 ।।
यान्यान्प्रार्थयते कामान्सर्वान्वै साधकाय च।
द(दा)त्युच्चारमात्रेण सम्यक्तद्भावितात्मने ।। 72 ।।
[देवताध्यानम्] 6-11
अनादिनिधनं देवं जगत्स्रष्टारमीश्वरम्।
ध्यायेच्चतुर्भुज विप्र शङ्खचक्रगदाधरम् ।। 73 ।।
चतुर्वक्त्रं सुनयनं सुकान्तं पद्मपाणिनंम्।
वैकुण्ठं नरसिह्मास्यं वाराहं कपिलाननम् ।। 74 ।।
शुक्लं खगेश्वरारूढं सर्वाभग्णभूषितम्।
सर्वलक्षणसंपन्नं माल्याम्बरधरं विभुम् ।। 75 ।।
किरीटकौस्तुभधरं कर्पूरालिप्तविग्रहम्।
सूर्यायुतसहस्राभं सर्वदेवनमस्कृतम् ।। 76 ।।
[लक्ष्म्यादीनां भगवद्रूपे नित्यसान्निध्यम्] 6-12
लक्ष्मीः कीर्त्तिर्जया माया देव्यस्तस्याश्रितास्सदा।
स्वशक्तिनिचयोपेता निराकारास्तु निष्कलाः ।। 77 ।।
सूर्यस्य रश्मयो यद्वदूर्मयश्चाम्बुधेरिव।
सर्वैश्वर्यप्रभावेन कमला श्रीपतेस्तथा ।। 78 ।।
नानाविशेषलक्ष्मीभिः कोटिसङ्ख्याभिरावृता।
कीर्त्तिस्तथाविधेर्देव (नैव ) विधिना विग्रहे विभोः ।। 79 ।।
तन्नास्ति यन्न हि तया व्याप्तं सामान्यदेहया।
यस्य या च यदा कीर्तिस्स्वसामर्य्यात्प्रजायते ।। 80 ।।
सा सा विप्र स्मृता सर्वा विशेषप्रतिपत्तिभिः।
जया जयेश्वरस्यैवं व्याप्तिमावेन संस्थिता ।। 81 ।।
या काचिद्विद्यते माया जगत्यस्मिन् सुरादिषु।
भगवन्माययोद्भूतां तां विद्धि परमां तु वै ।। 82 ।।
तदीयं निष्कळं रूपं मुक्त्वा वै पारमार्थिकम्।
कोऽस्मिंस्तत्त्वोदधौ चास्ति चतुर्धा मुनिसत्तम ।। 83 ।।
भगवच्छक्तिभिस्सम्यगाभिर्योगविभागतः।
स्वालोकज्ञानसामर्थ्यात्साकारत्वमुपागताः ।। 84 ।।
[लक्ष्म्यादीनां ध्यानप्रकारः] 6-13
द्यातव्यास्साधकेन्द्रेण यस्य स्त्रीश्च(स्त्रियश्चास्य )स्वसिद्धये।
एकवक्त्रा द्विनेत्राश्च द्विभुजाश्चारुकुण्डलाः ।। 85 ।।
पद्मगर्भनिभाः कान्ता मेखलादाममण्डिताः।
श्वेतमाल्याम्बरधरा हारकेयूरभूषिताः ।। 86 ।।
सर्वलक्षणसंपन्नाः पीनोन्नतपयोधराः।
प्रबुद्धोत्पलविस्तीर्णलोचनाश्च स्मिताननाः ।। 87 ।।
चलद्द्विरेफपटलतुल्यैर्युक्तास्तथाऽलकैः।
ललाटतिलकैश्चित्रैर्विविवैः परिमण्डिताः ।। 88 ।।
आरक्ताधररक्ताश्च वंशमुक्ताफलद्विजाः।
अर्धचन्द्रललाटाश्च श्लक्ष्मकुञ्चितमूर्धजाः ।। 89 ।।
पाशाङ्कुशधरा देव्य(1): सर्वकामार्थसाधकाः।
पूर्वादिदिग्विभागस्थाः केसरारेषु नारद ।। 90 ।।
(1. व्याः CL.)
बद्धपद्मासनाश्चैव देवदेवस्य संमुखाः।
[लक्ष्म्यादिमन्त्रनिरूपणोपक्रमः]
मन्त्रांस्तासां प्रवक्ष्यामि पूजार्थं विविधानथ ।। 91 ।।
यैस्समारादिताः शश्वदभीष्टं साधयन्ति च।
मूलमन्त्राद्द्वितीयं यत्केवलं बीजनायकम् ।। 92 ।।
सामान्यं हृदयं ह्येतत्सर्वासां परिकीर्त्तितम्।
मूर्त्तिमन्त्रचतुष्कं तु क्रमेणासां पृथक्शृणु ।। 93 ।।
[लक्ष्मीमन्त्रः] 6-14
प्रणवं चोद्धरेत्पूर्वं हृद्बीजं तदनन्तरम्।
द्विरक्षरे पदं लक्ष्म्यै प्राङ्गमोन्तं निवेश्य च ।। 94 ।।
ततः परमशब्दं तु तदन्ते पुरुषेशव्रम्।
वर्गान्तमास्वरोपेतं वस्थितायै पदं न्यसेत् ।। 95 ।।
भूयस्तद्धृदयं बीजं श्रीं ह्रीं बीजद्वयं ततः।
स्वाहासमन्वितं विप्र प्रणवाद्यं च मन्त्रराट् ।। 96 ।।
मूर्त्तिमन्त्रसमेतस्तु लक्ष्म्याख्यो (2)द्विदशाक्षरः।
[कीर्त्तिमन्त्रः] 6-15
हृद्बीजं प्रणवाद्यं तु पदं कीर्त्त्यै ततो नमः ।। 97 ।।
(2. द्वा A.)
सदोदितानन्दपदं विग्रहायै पदं त्वनु।
हीं क्ली स्वाहासमेतस्तु प्राक्संख्यं कीर्तिमन्त्रराट् ।। 98 ।।
[जयामन्त्रः] 6-16
हृद्बीजं प्रणवोपेतं जयायै त्र्यक्षरं नमः।
स्वराद्यं(3) जितशब्दश्च धामा वर्णद्वयं ततः ।। 99 ।।
(3. त्मा. A)
वस्थितायै पदं कृत्वा तद्धृद्बीजं न्यसेत्पुनः।
अशेषभुवनाधारावस्थितं च तृतीयकम् ।। 100 ।।
व्योमेशपञ्चबिन्दुस्स्यात्स्वाहा तदनु नारद (वै पदम्)।
पर्णद्विदशसंख्यश्च जयाख्यौ मन्त्र उत्तमः ।। 101 ।।
प्राग्बीजं प्रणवाद्यं च मायायै च ततो नमः।
मोहातीतपदं चाथ नान्तं तदनु योजयेत् ।। 102 ।।
द्वितीयस्वरसंयुक्तं दकारं तदनन्तरम्।
शृतायै त्र्यक्षरश्शब्दौ मायाबीजं ततो भवेत् ।। 103 ।।
प्रधानमनलारूढं चतुर्थस्वरभूषितम्।
त्रैलोक्यैश्वर्यदेनैव युक्तं स्वाहान्तमुद्धरेत् ।। 104 ।।
मायामन्त्रश्च पूर्वेषां वर्णसंख्यासमस्स्मृतः।
[हृदाद्यङ्गमन्त्रनिरूपणम्]
अङ्गानि देवदेवस्य कथयिष्यामि तत्त्वतः ।। 105 ।।
सन्नद्धः साधको यैस्तु अवध्यस्त्रिदशैरपि।
साधयेत्सर्वकार्याणि यान्यायुस्सुखदानि च ।। 106 ।।
भक्तस्तद्भावितात्मा च यदि मन्त्रक्रियापरः।
[हृन्मन्त्रः] 6-18
अनन्तपूर्वं यद्बीजं बिन्दुभूषितमुद्धरेत् ।। 107 ।।
नमोऽन्तं प्रणवाद्यं तु हृन्मन्त्रं विद्दि निष्कलम्।
अस्यैव मूर्त्तिमन्त्रो यस्तं ते वच्मि यथास्थितम् ।। 108 ।।
प्रणवो बिन्दुसंभिन्नस्सूर्यस्सोमो विसर्गधृक्।
शुचिशब्दं ततः कुर्यादग्निरूपमथोद्धरेत् ।। 109 ।।
दकारवर्णं तदनु प्रणवेनाप्यलङ्कृतम्।
हृदयाया नमस्कुर्यात् हृन्मन्त्रो मूर्तिसंयुतः ।। 110 ।।
सप्तादशाक्षरो विप्र सर्वसिद्धिप्रदायकः।
[शिरोमन्त्रः] 6-19
द्वितीयस्वरसंयुक्तं तदेव शिरसि न्यसेत् ।। 111 ।।
एवमुद्धृत्य च ततस्तस्यादौ प्रणवं न्यसेत्।
प्रणतिं चावसाने तु मूर्धानं विद्धि निष्कलम् ।। 112 ।।
मुर्त्तिमन्त्रमथो वक्ष्ये अस्यैवानुचरस्तु यः।
प्रोद्धरेत्पद्मनाभाख्यं केवलं तादृशं त्वनु ।। 113 ।।
अशेषभुवनाधारं फलं तस्यावसानगम्।
कालपावकसंस्थं वै तं च फान्तं द्विजोत्तम ।। 114 ।।
अथोद्धरेत्प्राणसंज्ञ मदनेनोपरि स्थितम्।
शिरसे च पदं पश्चात्स्वाहा शब्दस्तदन्तगः ।। 115 ।।
त्रयोदशाक्षरं विद्धि शिरोमन्त्रं तु नारद।
[शिखामन्त्रः] 6-20
प्रणवं प्रथमं दद्यात्सूर्याख्यं तदनन्तरम् ।। 116 ।।
विष्णुनाऽलङ्कृतं मूर्ध्ना त्रैलोक्यैश्वर्यदेन च।
नमश्चास्यावसाने वै शि खामन्त्रश्च निष्कलः ।। 117 ।।
मूर्त्तिमन्त्रमथास्यैव वच्मि सर्वार्थसिद्धिदम्।
पद्मनाभश्च(भं च )रारूढं(1) दकारं शङ्खमूर्ध्वगम् ।। 118 ।।
(1. ढः S)
कुर्यात्तमोतदेहेन प्रोतं यत्नेन नारद।
केवलस्ताललक्ष्मातो रामोपेतो नरस्ततः ।। 119 ।।
शिखायै वौषडन्तश्च शिखामन्त्रो ह्ययं स्मृतः।
सार्धत्रयोदशार्णश्च नानासिद्धिफलप्रदः ।। 120 ।।
[कवचमन्त्रः] 6-21
नतिप्रणवमद्ये तु प्राणं व्योमविभूषितम्।
पञ्चमस्वरसंयुक्तं कवचार्णं(2) विनिर्दिशेत् ।। 121 ।।
(2. न्तं A)
(3)कृष्णस्य मूर्त्तिमन्त्रे तु भुक्तिमुक्त्यर्थसिद्धिदम्।
प्रोद्धरेच्छङ्कराख्यं तु आनन्देनाभ्यलङ्कृतम् ।। 122 ।।
(3. उ Y)
वराहस्थं तमेवाथ वैराजं केवलं ततः।
केवलं पुण्डरीकं तु केवलं कालपावकम् ।। 123 ।।
चतुर्गतिसमारूढं वैकुण्ठं प्रोद्धरेत्ततः।
कवचाय पदं कुर्याद्धुङ्कारेण विभूषितम् ।। 124 ।।
उभयात्मैष उक्तस्तु मन्रः पञ्चदशाक्षरः।
[नेत्रमन्त्रः] 6-22
नमोन्तः प्रणवाद्यश्च प्राणो व्योमविभूषितः ।। 125 ।।
(4)औकारस्वरसंयुक्तो नेत्रमन्त्रस्तु निष्कलः।
पवित्रमनलारूढं कमलं गोपनाङ्कितम् ।। 126 ।।
(4. आं. A)
केवलं शङ्करश्चान्ते रारूढं पश्चिमाननम्।
अजितश्चामृताधारस्संस्थितं प्रोद्धरेत्ततः ।। 127 ।।
धरेशं केवलं दद्यान्नेत्राय त्र्यक्षरं पदम्।
तदन्ते च वौषट् कुर्यान्नेत्रमन्त्रो ह्ययं स्मृतः ।। 128 ।।
त्रिपञ्चवर्णसंख्यस्तु सार्द्धार्णो द्विज सिद्धिदः।
[अस्त्रमन्त्रः] 6-23
नमः प्रणवमध्यस्थः परमात्मा ह्यनन्तरम् ।। 129 ।।
सविसर्गःस एवास्त्रं(1) मूर्त्तिमन्त्रसमन्वितम्।
दत्तावकाशसंज्ञं वै मायाभूषितविग्रहम्र् ।। 130 ।।
(1. स्र A.)
पवित्रं स्रग्धरारूढं तदूर्ध्वे चोदनं न्यसेत्।
मदनं(2) सत्यसंस्थं च पवित्रं ताललक्ष्मगम् ।। 131 ।।
(2. दमनं A.)
भूयस्त(3)मनलस्थ च केवलं च ध्रुवं ततः।
तदन्ते चाप्रमेयं तु सोमाख्यं चोद्धरेत्ततः ।। 132 ।।
(3. स्थ. A)
वैराजस्थं द्विजश्रेष्ठ सोऽपि चानलसंस्थितः।
गोपनेनाङ्कयेत्तं वै पिण्डोऽयं चतुरक्षरः ।। 133 ।।
केवलं च ततः सूक्ष्मं फट्‌कारपदभूषितम्।
चतुर्दशस्वरं ह्यस्त्रमर्द्धाक्षरमन्वितम्र् ।। 134 ।।
[पूर्वं चतुर्वक्त्रतयोक्तस्य देवस्य नृसिह्माद्यास्यत्रयमन्त्राः] 6-24
स्थिता नृसिह्मपूर्वेषु तान्वक्ष्यामि समासतः ।। 135 ।।
सदेहाश्च पृथग्भागे(4) साङ्गास्सपरिवारकाः।
देवस्य वक्त्रमात्रेण ध्येयाः पूज्याश्च यत्नतः ।। 136 ।।
(4. ग्या CL.)
विश्वाप्याययुतं विप्र प्रणवं पूर्वमुद्धरेत्।
अजितञ्चानलस्थं च ओदनेन समन्वितम् ।। 137 ।।
चन्द्रिणञ्चोर्ध्वतः कृत्वा व्यापनस्तस्य चोपरि।
प्रोद्धरेज्जन्महन्तारं तदधस्सामपाठकम् ।। 138 ।।
कुर्याच्चानलसंस्थं च र्उर्जं वै तदधः पुनः।
ऊर्ध्वे(5) व्यापी तथा ह्यादै भूधरश्च भवेत्क्रमात् ।। 139 ।।
(5. ऊर्ध्वस्यापि A.)
पिण्डाक्षरमिदं विप्र द्वितीयस्य नमोन्तगम्।
ज्वलनायुतशब्दं च दीप्तये त्र्यक्षरं पदम् ।। 140 ।।
नृसिह्मायेति च पदं स्वाहा तदनु योजयेत्।
ऊनविंशाक्षरो मन्त्रो मूर्तामूर्ते नृकेसरी ।। 141 ।।
पूजितस्संस्मृतो ध्यातस्सञ्जप्तश्च ततो द्विज।
निहन्यात्सामयान्दोषांस्तथा भूतग्रहानपि ।। 142 ।।
प्रोद्धरेत्प्रणवञ्चादौ सूर्य्याख्यं तदनन्तरम्।
तमेव लोकेशगतं व्योम चान्द्री(1) तदूर्ध्वतः ।। 143 ।।
(1. न्द्रं A.)
रेफबीजमथादाय घर्मांशुं तदधो न्यसेत्।
तदधो ह्यनलं भूयः प्रज्ञाधारोपरि स्थितम्र ।। 144 ।।
औषधात्माऽस्य चोर्ध्वे तु चान्द्री व्यापी क्रमाद्भवेत्।
अस्य पिण्डद्वयस्यान्ते नमस्कारं नियोजयेत् ।। 145 ।।
[कपिलमन्त्रः] 6-25
अनन्तभासाय पदं कपिलाय ततो भवेत्।
स्वाहासमन्वितं कुर्यान्मन्त्रं सप्तदशाक्षरम् ।। 146 ।।
अत्युग्रं कपिलं नाम्ना सर्वद्वन्दोपशान्तिदम्।
प्रायस्चित्तविधौ नित्यं जप्तव्यस्सिद्धहेतुकः ।। 147 ।।
[वराहमन्त्रः] 6-26
तथाऽपवर्गप्राप्त्यर्थमचिरेण तु नारद।
प्रागोङ्कारमथादाय गोविन्दाख्यमथोद्धरेत् ।। 148 ।।
पुरुषेश्वरमस्याथ ओतदेहं तदूर्ध्वगम्।
त्र्यैलोक्यैश्वर्यदोपेतं टकारस्तस्य चोपरि ।। 149 ।।
अमृताख्यं वराहस्थमूकारं तदधो द्विज।
ओकारान्तं तदूर्ध्वे तु त्र्यैलोक्यैश्वर्यदं ततः ।। 150 ।।
विश्वाप्यायसमायुक्तमस्यान्ते विन्यसेन्नमः।
कृष्णवर्णद्वयं दद्यात्पिङ्गलाय पदं ततः ।। 151 ।।
वराहाय पदं स्वाहा मन्त्रस्सप्तदशाक्षरः।
शान्तिश्रीपुष्टिमारोग्यं कुर्यादाप्यायनं स्मृतम् ।। 152 ।।
गोप्तव्यश्चैव जप्तव्यो वाराहो भुक्तिमुक्तिदः।
[अथ कौस्तुभादिमन्त्रः] 6-27
कौस्तुभाद्यङ्कुशान्तांश्च मन्त्रान्सर्वान्यथा शृणु ।। 153 ।।
येषामनन्तविभवः शश्वदाराधनाद्भवेत्।
[कौस्तुभमन्त्रः]
कौस्तुभो व्योमसंभिन्नः परमात्मा ततो द्विज ।। 154 ।।
ऊर्ध्वाधोऽनलसंभिन्नं कुर्यात्तदनु नारद।
अकारेणाङ्कितं तं वै तं तमूर्जेन कारयेत् ।। 155 ।।
ततो व्योमान्वितो नेमी नमस्कृतिरनन्तरम्।
प्रभात्मने पदं दद्यात्कौस्तुभाय पदं ततः ।। 156 ।।
स्वाहान्वितस्सप्रणवः कौस्तुभस्य प्रकीर्त्तितः।
षोडशार्णो महामन्त्रो नास्ति तद्यन्न साधयेत् ।। 157 ।।
[मालामन्त्रः] 6-28
प्रोद्धरेत्प्रणवान्ते तु धरेशं तदधो न्यसेत्।
तृप्तिसंज्ञं च तस्याधो वरुणं विनिवेश्प च ।। 158 ।।
मायाव्योमान्वितः पिण्डो नमस्कारसमन्वितः।
स्थलवर्णद्वयं दद्याज्जलोद्भूतपदं ततः ।। 159 ।।
भूषिते वनमाले स्वाहा समेतं पदं ततः।
एकानविंशवर्णस्तु मालामन्त्र उदाहृतः ।। 160 ।।
अभीष्टसिद्धिदो विप्र नित्यमाराधकस्य च।
[पद्ममन्त्रः] 6-29
प्रणवस्यावसाने तु वामनाख्यं नियोजयेत् ।। 161 ।।
सोमाक्यं तदधो योज्य उद्दामोपरि संस्थितः।
त्र्यैलोक्यैश्वर्यदोपेतः पिण्डो नतिसमन्वितः ।। 162 ।।
श्रीनिवासपदं दद्यात्पद्माय तदनन्तरम्।
स्वाहान्वितस्तु पद्मस्य मन्त्रः स्यात्त्रिदशाक्षरः ।। 163 ।।
प्रयच्छत्यतुलां भूतिं भक्तानामक्षयां द्विज।
[शंखमन्त्रः] 6-30
प्रणवं पूर्वमादाय परमात्मानमुद्धरेत् ।। 164 ।।
भेदयेद्भुवनान्तेन त्र्यैलोक्यैश्वर्यदेन तु।
नमस्कारं क्रमं कुर्यादेतदेवाक्षरं त्रिधा ।। 165 ।।
महाशङ्खाय च स्वाहा शङ्खाख्यस्त्रिदशाक्षरः।
मन्त्रश्थुभतरः प्रोक्तो धियं विद्यां प्रयच्छति ।। 166 ।।
[चक्रमन्त्रः] 6-31
शाश्वतः प्रणवान्ते तु रारूढस्सि(1)द्धिकृद्युतः।
तादृशश्चापि कमलः प्रफुल्लनयनस्ततः ।। 167 ।।
(1. सृष्टि CL.)
केवलस्स्यात्तदन्ते तु ह्लादस्स्वरविवर्जितः।
परमात्मानमुद्धृत्य अङ्कुशाद्येन संयुतम् ।। 168 ।।
और्वान्तेनाङ्कितं मूर्ध्ना तदन्तेयोजयेन्नमः
फट्‌कारत्रितयं पश्चाद्विष्णुचक्राय वै पदम् ।। 169 ।।
स्वाहार्णद्वितयं चान्ते चाक्रं सप्तदशाक्षरम्।
अर्धाक्षरचतुष्केन युक्तं सर्वमिदं जगत् ।। 170 ।।
[गदामन्त्रः] 6-32
उद्धरेत्प्रणवं त्वादौ तदन्ते च गदाधरम्।
प्रधानोपरिसंस्थं च तदधः पुरुषेश्वरम् ।। 171 ।।
जगद्योनियुतं मूर्ध्ना व्योमेशमुपरि न्यसेत्।
ततो जकारमादाय विष्टरोपरि संस्थितम् ।। 172 ।।
विसर्गाद्येन संभिन्नं नमस्कारविभूषितम्।
सहस्राश्रि(2)गदे स्वाहा गदाख्यस्त्रिदशाक्षरः ।। 173 ।।
(2. श्रिं A.)
अभीष्टदो महामन्त्रो विघ्नजालक्षयंकरः।
[गरुडमन्त्रः] 6-33
प्रणवं पूर्वमादाय अनन्तेशमतः परम् ।। 174 ।।
ऊर्ध्वाऽधोनलसंभिन्नं सत्याद्यं तदधो न्यसेत्।
त्र्यैलौक्यैश्वर्यदा दानत्रैलोक्यैश्वर्यदेन च ।। 175 ।।
शिरसा भूषितं कुर्याद्वेदात्मानमथोद्धरेत्।
सोऽप्यनन्तेशवत्कार्यस्स्वरव्यञ्जनभूषितः ।। 176 ।।
सृष्टिकृत्सहितं भूयः कूटं दद्यान्नमोन्तगम्।
पदञ्चान्तेऽनन्तगते स्वाहान्तं गरुडाय च ।। 177 ।।
सप्तदशाक्षरो मन्त्रः कीर्त्तितो गरुडस्य च।
यस्य संस्मरणात्सम्यक्समस्तापल्लयं व्रजेत् ।। 178 ।।
[पाशमन्त्रः] 6-34
आदायादौ तु वैकुण्ठं तस्यारूढं च रं न्यसेत्।
व्योमानन्दसमेतं च कढ्ढकढ्ढपदं ततः ।। 179 ।।
धाराधरद्वयोपेतं वरपाशाय वै पदम्।
स्वाहा चैव तु तस्यान्ते कुर्यात् (1)सप्तदशाक्षरः ।। 180 ।।
(1. पञ्चदशा C. L.)
स तारको ह्ययं मन्त्रः पाशाख्यः क्षिप्रसिद्धिकृत्।
[अङ्‌कुशमन्त्रः] 6-35
प्रणवान्ते ततः कुर्याद्विराट्‌संज्ञं तदूर्घ्वतः ।। 181 ।।
व्योमविप्रानलोपेतं कमलं तदनन्तरम्र्।
ऋतधामोपरिस्थं च व्योम तस्योपरि न्यसेत् ।। 182 ।।
पदं निशित(2)घोणाय अङ्कुशाय पदं ततः।
स्वाहान्वितस्त्रिपञ्चार्णो मन्त्रराडङ्कुशस्य च ।। 183 ।।
(2. को A.)
शीघ्रकर्मकरः प्रोक्तो नित्य(3)मिच्छान्तलक्षणः।
[उपाङ्गपञ्चकनिरूपणारम्भः] 6-36
उपाङ्गपञ्चकं चाथ सत्यादीनां हि वाचकम्र ।। 184 ।।
(3. विच्छा Y.)
ब्रह्मस्वरूपममलं व्यापकं सर्वसिद्धिदम्।
सम्यक्‌शृणुष्व देवर्षे सरहस्यं वदामि ते ।। 185 ।।
यद्विन्यासात्साधकस्य सिद्धो वै यत्र कुत्रचित्।
फलदो मन्त्रमूर्तिस्स्यादचिरात्तन्मयस्य च ।। 186 ।।
स्याद्देवेशसमो मन्त्री तन्न्यासाद्व्याप्तिभावनात्।
यागाहुतस्य मन्त्रस्य शक्त्यङ्गाद्यावृतस्य च ।। 187 ।।
सम्यङ्‌निरोधसिद्ध्र्थं योजनीयं सदैव हि।
तथात्मनः कृते न्यासे न्यस्ते चोपाङ्गपञ्चके ।। 188 ।।
शश्वत्स्याच्चित्तवृत्तीनां विक्षिप्तानां च संयमः।
[सत्याद्युपाङ्गपञ्चकबीजमन्त्रः]
तुर्यातीतात्मसंज्ञो यो वर्गः पञ्चार्णभूषितः ।। 189 ।।
विलोमेन सुपर्णाद्यं स्थापयित्वा नियोज्य च।
आद्यं वै भूधराख्येन ऊर्जसंज्ञेन चापरम् ।। 190 ।।
लोकेशेन तृतीयं तु तुर्यं साक्षाच्च विष्णुना।
पञ्चमं त्वादिदेवेन व्यापी सर्वत्र मूर्धनि ।। 191 ।।
समस्तेन द्विजोङ्कारे एकैकं मध्यतः क्षिपेत्।
पञ्चकं पञ्चसंज्ञस्य बीजभूतमिदं स्मृतम् ।। 192 ।।
संस्थितं तु परत्वेन एतस्मात्प्रभवन्ति ते।
सौक्ष्म्येन(1) व्यापकत्वेन धातृत्वेन तु नारद ।। 193 ।।
(1. श CL.)
एकैकस्मिन्समूहेन पञ्चैते संव्यवस्थिताः।
प्रशान्तहुतभुग्रूपाः परमन्त्रसहोदिताः ।। 194 ।।
आदिदेवस्य वै विष्णोः सत्याख्यस्य महात्मनः।
महाविभवसंज्ञस्य प्रथमो मन्त्रराट् स्मृतः ।। 195 ।।
वासुदेवस्य च विभोर्द्वितीयः परिकीर्तितः।
सङ्कर्षणस्य च ततो बीजमुक्तं तृतीयकम् ।। 196 ।।
चतुर्थं विप्रशार्दूल प्रद्युम्नस्य महात्मनः।
उपाङ्गं पञ्चमं विद्धि अनिरुद्धात्मनो विभोः ।। 197 ।।
सत्याद्यमनिरुद्धान्तं पवित्रं मन्त्रपञ्चकम्।
उपाङ्गसंज्ञं यो वेत्ति स सत्यं वेत्ति नान्यथा ।। 198 ।।
इति सूक्ष्मस्वरूपस्य विभोर्मन्त्रवरस्य च।
त्र्यक्षरस्य द्विबीजाद्यं व्यापकस्यामलस्य च ।। 199 ।।
मूर्त्तिमन्त्रादितः प्रोक्तो मन्त्रसंज्ञो( घो ) यथाक्रमम्।
अभीप्सितप्रदस्सम्यग्भक्तानां भावितात्मनाम् ।। 200 ।।
अत्रासक्तो भव मुने यजैतत्पूजयस्व च।
विधिना शास्त्रदृष्टेन वाञ्छितं यत्प्रयछति ।। 201 ।।
नारद :---
[मूलमन्त्रपूर्वावयवभूतनिष्कलांशस्य परमन्त्रत्वोपपादनम्] 6-37
स्थूलसूक्ष्मविभागेन एष मन्त्रः परो मया।
ज्ञातः परस्वरूपेण न ज्ञातः परमेश्वर ।। 202 ।।
पुराऽस्यैव परा मूर्तिर्मान्त्री संसूचिता त्वया।
समाचक्ष्व समासेन यदि सानुग्रहोऽसि मे ।। 203 ।।
[मन्त्रस्य परस्वरूपनिरूपणम्]
श्रीभगवान्
मूर्तिमन्त्रं विना विप्र यो मन्त्रः प्रागुदीरितः।
प्रभवाद्यो विसर्गान्तस्सुधासन्दोहविग्रहः ।। 204 ।।
सर्वदेवमयश्थुद्धस्सर्वाध्वात्मा परः प्रभुः।
समस्तशक्तिदेहस्तु भारूपस्सूक्ष्मरूपधृत् ।। 205 ।।
संसारार्णवमग्नानामिच्छया स्थूलतां गतः।
अधिष्ठितस्स विभुना परेणालोकरूपिणा ।। 206 ।।
सुसूक्ष्मेणाविग्रहेण सदालोकरसात्मना।
अणीयांसमणोर्विद्धि मन्त्रशक्तिः परा हि सा ।। 207 ।।
उपाधिरहितं शुद्धं मत्सामीप्यफलप्रदम्।
तच्छरीरं हि मे मन्त्रं परं परफलप्रदम् ।। 208 ।।
[परसूक्ष्मस्थूलरूपेण सतां मन्त्राणां संविन्मयात् सर्वतः परतरात्प्रादुर्भावनिरूपणम्] 6-38
निर्विकारशरीरं च यागाख्यं परमं स्मृतम्।
तुर्यात्परं पदादस्मात् ज्ञेयाख्यं परमं मम ।। 209 ।।
ग्राह्यग्राहकनिर्मुक्तं संविदानन्दलक्षणम्।
तन्मयास्तं प्रपश्यन्ति विशुद्धेनान्तरात्मना ।। 210 ।।
यतः परः प्रभवति भाः(1)शब्दाख्यस्च मन्त्रराट्।
यत्र सप्तपदार्थं तु विज्ञातं व्यक्तिमेति च ।। 211 ।।
(1. शक्त्या CL.)
यत्र वै वर्णरूपेण सर्वे लोकाः प्रतिष्ठिताः।
प्रधानकारणानां यद्द्वाब्यां यत्परतस्स्थितम् ।। 212 ।।
[व्यापकमन्त्रनिरूपणम्] 6-39
मन्त्रोत्पत्तिक्रमेणैव यादृक्संस्थं तथा शृणु।
अनुक्रमेण संयोज्य सृष्टिन्यायेन नारद ।। 213 ।।
सप्तकञ्चैव वर्णानां संविभक्तिविभावितम्।
सूर्यसोमाग्निरूपं तु प्रधानपुरुषेश्वरम् ।। 214 ।।
अशेषभुवनाधारं त्र्यैलोक्यैश्वर्यदायकम्।
एष वर्णमयः पिण्डः परो मे मन्त्रविग्रहः ।। 215 ।।
भावग्राह्यमनौपम्यमप्रकाश्यमिदं मुने।
प्रकाशितो मया तेऽद्य जीवभूतो हि मन्त्रराट् ।। 216 ।।
समस्तमन्त्रचक्रस्य सामर्थ्यजनको हि यः।
मन्त्रेण तेन विधिना ओतप्रोतव्यवस्थया ।। 217 ।।
अधिष्ठितोऽपि बीजो वै निर्मलस्फटिको यथा।
निर्मलेनाम्बरेणैव दृश्यादृश्येन वै तथा ।। 218 ।।
व्याप्तास्तेनापरे मन्त्रास्तथैव परिभाविताः।
नारद :---
[अविकारस्य व्यापकस्य परस्य ब्रह्मणो मन्त्रदेहत्वानुपपत्त्याशङ्कापरिहरणम्] 6-40
मन्त्र(: )सृष्टिक्रमेणैव यथावन्नोदितस्त्वया ।। 219 ।।
तमादिशंस्व येनाद्य कृतकृत्यो भवाम्यहम्।
योऽविकारः परश्शुद्धस्स्थितस्संवेदनात्परे ।। 220 ।।
स कथं व्यापकं ब्रह्म मन्त्रमूर्त्तित्वमागतः।
[मन्त्रसृष्टिकमविवेचनम्]
श्रीभगवान् ---
तस्यैकां परमां शक्तिं विद्धि तद्धर्मचारिणीम्र् ।। 221 ।।
ययोपचर्यते विप्र सृष्टिकृत्परमेश्वरः।
बृह्मितो यद्बृहत्वेन नित्यानन्दोदितस्तथा ।। 222 ।।
सर्वदा नित्यशुद्धो यस्तस्यैतन्नोपपद्यते।
शक्त्यात्मकस्स भगवान्सर्वशक्त्युपबृंहितः ।। 223 ।।
अग्नीषोमात्मकेतं मे (कत्वेन ) तुल्यकालं हि मूर्च्छति।
प्रकाशस्तु भवेत्सूर्य आह्लादस्सोम उच्यते ।। 224 ।।
द्वयोरन्तर्गता संवित्ताभ्यामस्तोदयावपि।
पुमान्स एव चिन्मूर्त्तिरग्नीषोममयो द्विज ।। 225 ।।
यदग्निरूपं त्रैगुण्यं तंच्च विद्यामयं तु वै।
चिदात्मा शलभो यद्वत्तमधिष्ठाय तिष्ठति ।। 226 ।।
ततः प्रधानिकीं भूमिं तत्रस्थो गमयेत्प्रभुः।
पुरुषेश्वरतां याति क्ष्मातत्त्वेऽधिष्ठिते सति ।। 227 ।।
ममेति वासनाविद्धस्तेजसा परिपूरयेत्।
तत्त्वबृन्दं च सकलं त्रैलोक्यैश्वर्यतां व्रजेत् ।। 228 ।।
तैजसादभिमानात्तु ततस्तस्मान्निवर्तते।
स्वां स्थितिं समवाप्नोति परावस्थास्थितिं पुनः ।। 229 ।।
गमयेत्स्थूलरूपं वा सूक्ष्मं वा शक्तिवेष्टितम्।
द्वयमेतत्समाश्रित्य लोकानुग्रहकृद्भवेत् ।। 230 ।।
संप्रयच्छति मोक्षं च भोगं राज्यादिकं तु वा।
यत्तस्मात्तदुपास्यो वै स्थूलसूक्ष्मोभयात्मकः ।। 231 ।।
[स्थूलसूक्ष्मोभयात्मकस्य त्र्यक्षरस्य परमन्त्रस्य प्रभाववर्णनम्] 6-41
त्र्यक्षरः परमो मन्त्रस्तेन संदीक्षयेत्क्रमात्।
भवाब्धिपतितान्भक्तानपरेण तु ( )कर्हिचित् ।। 232 ।।
दीक्षितः पाशमुक्तो वै त्यक्तसर्वपरिग्रहः।
पिण्डपाताभिलाषी वा योगैकगतमानसः ।। 233 ।।
भक्तः परो योजनीयस्सर्वो निर्वाणभागथ।
तत्स्थः परं पदं याति स्थूलसूक्ष्मोभयेन तत् ।। 234 ।।
व्यक्तिमेत्यचिराद्विप्र भविनां भावितात्मनाम्र्।
उपलब्धो तु सत्यां वै संयुक्तं चैव विष्णुना ।। 235 ।।
जपमानस्तु यो ध्यायेत्पञ्चस्थानविनिर्गतम्।
सृष्टिक्रमेण तस्याशु सिध्यते मनसेप्सितम् ।। 236 ।।
विग्रहादुदितं वाऽथ व्याप्तिसत्तासमन्वितम्र्।
यत्पदादवतीर्णं च तदाक्रम्य पुनर्बहिः ।। 237 ।।
वर्तते विग्रहं त्यक्त्वा संस्मृतो मोक्षमृच्छति।
दश्याद्वायोर्गतिपथाद्व्यापाराच्च क्रमेण तु ।। 238 ।।
संहृत्य हृदयात्सर्वं स्थाना(1)न्यूर्ध्वे तथैव च।
तत्सेवामृतसंभिन्नान्नित्याभ्यासाच्च नारद ।। 239 ।।
(1. द्.)
स्यात्स्थिरत्वं शरीरस्य भोगमोक्षबलं तथा।
तस्मादस्य सदा पूजा ध्यानजप्यमयी भवेत् ।। 240 ।।
नोपचारमयी कार्यो पुष्पधूपादिकैर्बहिः।
यतस्सकलदेहस्य पूजनं विहितं मुने ।। 241 ।।
भावना निष्कळाख्यस्य नैतदस्ति द्वयोज्झिते।
यदस्याविकृतं रूपं तदनेन त्वधिष्ठितम् ।। 242 ।।
भाव्योदयेन योगेन सोऽस्य वै जनको यतः।
अस्मात्सिंह्मादिवच्चान्यदेवमेव विभावयेत् ।। 243 ।।
पृथग्यागे समस्ते वा निर्विघ्नफलसिद्धये।
ब्रह्मप्रात्तौ तथा भोगे दीक्षाद्ये कर्मसंग्रहे ।। 244 ।।
एतदीयं हि सामर्थ्यं मन्त्रस्य त्र्यक्षरस्य तु।
बोद्धव्यस्स त्रिधैवात्मा गुणत्रयमयस्तथा ।। 245 ।।
सदा विप्र त्रिलोकात्मा त्रिवेदात्मा स उच्यते।
त्रेताग्निं तं विजानीयात्कर्म वाङ्मनसे असौ ।। 246 ।।
मनोबुद्धिरहङ्कारो बुद्धिकर्माक्षभूतवान्।
सोमसूर्याग्निरूपेण त्रिधा सोऽपि (1)त्रयोऽक्षरः (राः ) ।। 247 ।।
(1. त्र्यक्षरः A.)
प्रकृतिः पुरुषश्चैव तृतीयश्चेश्वरश्च सः।
स च नाडीत्रयं देहे स्थानत्रयसमन्वितम् ।। 248 ।।
एवमेवास्य मन्त्रस्य वैश्वरूप्यं च नारद।
व्यापकत्वं च यो वेत्ति तत्सत्यं वेत्ति नान्यथा ।। 249 ।।
इति मन्त्रगणो मुख्यस्सर्वोपप्लवशान्तिकृत्।
प्रकाशितो यथा तथ्यं नाख्येयो यस्य कस्यचित् ।। 250 ।।
इति श्रीपाञ्चरात्रे जयाख्यसंहितायां मुख्यमन्त्रोद्धारो नाम षष्ठः पटलः।
* * * * *

"https://sa.wikisource.org/w/index.php?title=जयाख्यसंहिता/पटलः_६&oldid=206735" इत्यस्माद् पुनः प्राप्तिः