प्रमुखा विकल्पसूचिः उद्घाट्यताम्
← पटलः १६ जयाख्यसंहिता
पटलः १७
[[लेखकः :|]]
पटलः १८ →
जयाख्यसंहितायाः पटलाः

पटलः - 17
अथ शिष्यभेदाक्यानं नाम सप्तदशः पटलः। 17-1
नारद :---
साधकाचार्यसमयिपुत्रकाणां यथार्थतः।
ज्ञातुमिच्छामि भगवन् त्वत्तो लक्ष्णमुत्तमम् ।। 1 ।।
समयज्ञश्च किं कुर्यात्पुत्रकः किं समाचरेत्।
साधकः कथमास्ते वै किमाचार्यः करोति च ।। 2 ।।
श्रीभगवान् ---
[समयिलक्षणम्] 17-2
यस्य मन्त्रे पराभक्तिर्ब्रह्मचारी जितेन्द्रियः।
सत्यवाक्चतुरो धीरो ह्टीश्रद्धाबुद्धिमांश्च यः ।। 3 ।।
दृढव्रतः शुचिश्वैव गुर्वाराधनतत्परः।
समाचरेच्छुभं नित्यं प्रसन्नात्मा प्रियंवदः ।। 4 ।।
प्राप्तानुज्ञस्सवित्तोऽपि यागेन गुरुणार्चऽयेत्।
पश्येत्तथाऽन्यतो गत्वा यागं वै यत्र यत्र च ।। 5 ।।
पूजितं तर्पितं विष्णोः शास्त्रं च शृणुयात्सदा।
पालयेत्समयान्सर्वान्मन्त्रस्मरणपूर्वकान् ।। 6 ।।
शङ्खचक्रगदापद्ममूर्तिमुद्रासमन्वितः।
द्वादश्यादिषु कालेषु पूजयेद्धवनं विना ।। 7 ।।
पठनं शवणं कुर्यात्सततं चार्चनं विना।
शास्त्रार्थं विधिवद्‌ज्ञात्वा नयाचारसमन्वितः ।। 8 ।।
पालयन्गुरुगेहाच्च व्यवहारं सुदत्थितम्।
एवं लक्षणसंपूर्णो गुरुमभ्यर्थयेत्पुनः ।। 9 ।।
प्रत्यहं पूजनार्थं यस्समयज्ञस्स नारद।
ज्ञात्वा तं गुरुणा सम्यगुक्तचिह्नैस्तु सामयैः ।। 10 ।।
पूरणीयाऽस्य चाकांक्षा यदर्थमुपरोध(धि?)तः।
तापनं गुरुवेश्मार्थं व्यवहारं सहेत सः ।। 11 ।।
[पुत्रकलक्षणनिरूपणम्] 17-3
निर्वर्त्य मण्डलं स्मयक्तदीयेन धनेन च।
रजोभिः पत्रपुष्पाद्यैरभावा(र्विभवात् ?)त्प्रापणस्य च ।। 12 ।।
समयज्ञं ततः शिष्यं (पुत्रं ?) क्रमेणारचयेद्गुरुः।
ततःप्रभृति कालाच्च पूजां विष्णोः समाचरेत् ।। 13 ।।
प्राणात्ययेऽपि विप्रेन्द्र रक्षेल्लोपं( पात् ? )प्रयत्नतः।
नचास्य विहितो होमो धर्मार्थं पूजनं विना ।। 14 ।।
नित्यपूजाभियुक्तो यः पूर्वोक्तगुणभूषितः।
समुपैति तमुत्कर्षं श्रवणाच्छास्त्रचिन्तनात् ।। 15 ।।
ददात्युत्कलिकां तस्य हृदयस्थो जनार्दनः।
साधनोपरि मन्त्रस्य प्रार्थयेतं गुरुं ततः ।। 16 ।।
[साधकलक्षणनिरूपणम्] 17-4
शुश्रूषा परमा भक्त्या संक्रमो गुरुणा ततः।
क्रमोत्कृष्टगुणैर्युक्त एकरूपस्समाहितः ।। 17 ।।
नियुक्तादच्युतश्रद्धी शास्त्रार्थकृतघीर्महान्।
यजेद्यागेन वै भूयो मन्त्रं चाभीष्टसिद्धये ।। 18 ।।
अभिषिक्तोऽभ्यनुज्ञातो धैर्योत्साहसमन्वितः।
एकान्तं निर्जनं यायान्नारायणनिकेतनम् ।। 19 ।।
दूरतो बान्धवानां च दुर्जनानां विशेषतः।
क्षेत्रमायतनं चैव निर्द्वन्द्वं चाथ पर्वतम् ।। 20 ।।
सोदकं च फलाकीर्णं रम्यमासन्नगह्वरम्।
वनञ्चोपवनं वाऽथ प्रसिद्धं सिद्धसेवितम् ।। 21 ।।
वितृष्णो बन्धुवर्गाच्च संविसृज्य पुरान्वितम्।
स्वाध्यायशौचसन्तोषसंपूर्णे स्वगृहेऽथवा ।। 22 ।।
सधायेदीप्सितं मन्त्रं भावशुद्धिसमन्वितः।
यथा सुखेनासनेन आसने व्याप्तिभाविते ।। 23 ।।
प्रसन्नास्यः कृतन्यासो लक्षं लक्ष्यस्थितो जपेत्।
क्षेत्रीकृतो भवेन्मन्त्रो यत्र तत्र स्थितस्य च ।। 24 ।।
निर्वर्तनेन जिह्राग्रात्परित्यक्तोऽपि वै जपेत्।
समाराधनसिध्यर्थं मन्त्रस्यार्घ्यकृतो मुने ।। 25 ।।
दद्याद्धृदयमन्त्रेण ततः प्रभृति नारद।
चरुभुग्वा फलाहारो भिक्षाशी वा पयोभुजः ।। 26 ।।
शाकमूलं तथा कन्दमश्नीयाद्द्वर्तते यथा।
शुद्धान्तसर्पिषश्शालीन् प्रत्यक्षलवणोज्झितान् ।। 27 ।।
हृष्टस्स्तुष्टः प्रसन्नात्मा कालोक्तजपमारभेत्।
इदमाचरमाणस्तु प्रत्यहं मुनिसत्तम ।। 28 ।।
निशाक्षये तु शयनात्स्मृत्वा नारायणं विभुम्।
उत्थाय दक्षिणांसेन वामपादं न्यसेद्भुवि ।। 29 ।।
पदे पदे स्मरंश्चास्त्रं दूरं यायाद्द्विजालयात्।
कृत्वा मलच्युतिं तत्र वाससा कं विवेष्ट्य च ।। 30 ।।
दिङ्‌नभो न निरीक्षेत ततो यायाज्जलाशयम्।
शौचं कृत्वा यथापूर्वं विधिनाऽऽचमनं ततः ।। 31 ।।
दन्तकाष्ठं तु वै भुक्त्वा स्नायात्तदनु नारद।
सामान्यविघिनाऽस्त्रेण गायत्रीं वैष्णवीं जपेत् ।। 32 ।।
सकृत्र्रिःपञ्चवारान्वा सप्त वाऽथ स्वशक्तितः।
ततः स्वमाश्रमं गत्वा मन्त्रं पुष्पैश्च पूजयेत् ।। 33 ।।
केवलं शास्त्रपीठस्थं स्वदेहस्थं तु वा मुने।
संपूज्य च जपं कुर्याद्यावद्वै प्रहरद्वयम् ।। 34 ।।
तदूर्ध्वे पूर्ववत्स्नात्वा विशेषेण विधानवत्।
न्यासावसानं निखिलं सर्वं कुर्यात्पुरोदितम् ।। 35 ।।
पूजाग्निहोत्रपर्यन्तं ततस्तु जपमारभेत्।
यावद्दिनावसानं तु भूयः स्नायाद्द्विजोत्तम ।। 36 ।।
उपास्य विधिवत्संध्यां देवं संपूजयेत्ततः।
विसर्ज्य भोजनं कुर्यात्सततं तारकोदये ।। 37 ।।
भुक्त्वा शयीत शयने मृदुस्निग्धे च भूतले।
अर्धरात्रे समुत्थाय पादशेषेऽथ वा द्विज ।। 38 ।।
आचम्य देवं संस्मृत्य शीघ्रं संपूज्य पूर्ववत्।
जपं कुर्याद्यथाशक्ति अर्चयेच्च विभोस्ततः ।। 39 ।।
येन संरक्षितो विप्र भवेद्वै नापहीयते।
सिद्धैरदृश्यभूतैस्तु मन्त्रिसिध्यभिकांक्षिभिः ।। 40 ।।
सपर्प्य चैवं शयने श्रमं वै सन्त्यजेत्पुनः।
अनेन विधिना यो वै मन्त्राराधनतत्परः ।। 41 ।।
उच्यते मुनिशार्द्‌ल विज्ञेयस्सतु साधकः।
न तेन कुत्रचित्कार्ये शापानुग्रहकर्मणि ।। 42 ।।
न तेन मन्त्रो वक्तव्यो मुद्रा वा समयास्तु वा।
स्वानुष्ठानेऽपि यत्कर्म सर्वं सर्वस्य गोपयेत् ।। 43 ।।
मन्त्रगुप्तिस्तु कर्तव्या सततं मन्त्रसिद्धये।
ताद्व्याप्तिभावनोपेता ज्ञातव्या मन्त्रवादिना ।। 44 ।।
गुरुं प्रसाद्य देवं च शास्त्रं चालोक्य यत्नतः।
तन्त्रज्ञो मन्त्रवद्धीरो द्वाभ्यां चैव द्विजोत्तमः ।। 45 ।।
[अथाचार्यलक्षणम्] 17-5
मन्त्रसिद्धिस्तु वै तस्य विज्ञाता गुरुणआ यदा।
गुरुणा वै सोऽभिषिक्तः(षेच्यः ?)ततः शिष्यः प्रसादतः ।। 46 ।।
कृत्वा यागं चतुर्थं तु तद्वित्तेन तु पूर्ववत्।
पूजयित्वा समाहूय साधकं लक्षणान्वितम् ।। 47 ।।
पूजा कार्या विधानेन लययागोदितेन वै।
स बाह्याभ्यन्तरोक्तेन निश्शेषेण यथा पुरा ।। 48 ।।
अग्नौ तु पूर्ववद्दीक्षां निर्वाणाख्यां समापयेत्।
ततोऽभिषिच्य विधिना स्वाधिकारं निवेदयेत् ।। 49 ।।
गृहीत्वा तेन कर्तव्यं गुरुत्वमितरेषु च।
पूजाग्निहवनं चैव जपध्यानान्वितं सदा ।। 50 ।।
भक्तानां संशयच्छेदं कुर्याच्छास्त्रं विना तु वै।
अनुग्रहं च शापं च मन्त्रारंभणमर्पणम् ।। 51 ।।
न लोभेन न रागेण न स्वार्थेन न नामतः।
कुर्यादनुग्रहं जन्तोः कस्यचिद्वा शठस्य च ।। 52 ।।
भीतस्य च विनीतस्य भक्तस्यार्त्तस्य कारयेत्।
प्रायश्चित्तैः सदा शान्तिं कुर्यान्नीतिच्युतस्य च ।। 53 ।।
विभागो लिंगिनां चैव वेदनीयः सदैव हि।
वैखानसादि सर्वेषां वैष्णवानां च नारद ।। 54 ।।
प्रसन्नश्चाभिषिञ्चेत भक्तं भव्यमनेकधा।
मोक्षार्थमाधिपत्यार्थं दुःखोपशमनाय च ।। 55 ।।
कुण्डमण्डलपद्मादीन्सूत्रयेत्प्रतिमादिकान्।
शिष्याणामुपकारार्थं दर्शयेत्शिल्पिनस्तथा ।। 56 ।।
कुर्यात्सम्यक्प्रतिष्ठानं देवदेवस्य वै विभोः।
समदृष्ट्या तथाऽन्येषां देवानां स्थापनं द्विज ।। 57 ।।
अवैष्णवेषु मर्त्येषु भक्तेष्वन्यत्र सर्वदा।
तच्छासनं गुरूणां च अभयात्प्रार्थितोऽपि तैः ।। 58 ।।
स्वकल्पोक्तविधानेन कुर्यात्सर्वेष्वनुग्रहम्।
अभ्यर्थितस्तदा विप्र यजनं च पवित्रकम् ।। 59 ।।
स्वशिष्यपरशिष्याणां लोभनिर्मुक्त आचरेत्।
अशास्त्रज्ञे(षु ?) चान्येषु गुरुभावस्थितेन च ।। 60 ।।
चुम्बुकत्वं न कुर्याद्वै तर्केणागमतोऽपि वा।
नातीव संग्रहं कुर्यान्मात्रावित्तस्य नारद ।। 61 ।।
नित्यमभ्यस्यति त्यागमनित्यं भावयेद्भवम्।
एवं लक्षणसंपन्नो यस्स आचार्य उच्यते ।। 62 ।।
इति श्रीपाञ्चरात्रे जयाक्यसंहितायां शिष्यभेदाख्यानं नाम सप्तदशः पटलः।
* * * * *