प्रमुखा विकल्पसूचिः उद्घाट्यताम्
← पटलः ७ जयाख्यसंहिता
पटलः ८
[[लेखकः :|]]
पटलः ९ →
जयाख्यसंहितायाः पटलाः

पटलः - 8
अथ जयाख्यसंहितायां मुद्राबन्धाख्यानं नाम अष्टमः पटलः।
श्री भगवानुवाच। 8-1
अस्यैव मन्त्रवृन्दस्य क्रमेण तु यथाक्रमम्।
मुद्राकोशं प्रवक्ष्यामि येन सन्निहितस्सदा ।। 1 ।।
भवेच्च साधकेन्द्राणां भुक्तिमुक्तिप्रसाधने।
आदौ तु मूलमन्त्रस्य अन्येषां तदनन्तरम् ।। 2 ।।
[मुद्राबन्धकालः तत्प्रयोजनं च] 8-2 ?
मुद्रां वै बन्धयेन्मन्त्री स्नानकाले जलान्तरे।
आत्मनो न्यासकाले तु पूजान्ते मण्डलाव(1)नौ ।। 3 ।।
(1. दि A)
अर्चासु मन्त्रविन्यासे अर्घ्यपात्रेऽम्बुभाजने।
पूर्णाहुत्यवसाने च मन्त्रे वह्न्यन्तरस्थिते ।। 4 ।।
हिंसकानां विधाताय सर्वविग्नोपशान्तये।
सर्वकार्यार्थसिध्यर्थं मुद्राकोश इहोदितः ।। 5 ।।
[जयामुद्रा] 8-3
अधोमुखाद्वामहस्तान्मध्यमां ग्राहयेन्मुने।
कनिष्ठया दक्षिणस्य तिस्रोऽन्या मुष्टिवत्स्थिताः ।। 6 ।।
अङ्गुष्ठमुभयं कृत्वा मुद्रेयं तु जया स्मृता।
अधस्ताद्गरुडं तस्या वामहस्ते विचिन्तयेत् ।। 7 ।।
पृष्ठे स्याद्दक्षिणे हस्ते ध्यायेद्विष्णुं सनातनम्।
एषा मुद्रा जया नाम सर्वकार्यार्थसाधनी ।। 8 ।।
योजयेद्देवदेवस्य तार्क्ष्येण सहितस्य च।
[शक्तिमुद्रा] 8-4
प्रसार्य वाममुत्तानमङ्गुल्यो विरलाः स्थिताः ।। 9 ।।
कार्यास्त्वाकुञ्चिताः प्रान्तादङ्गुष्ठं सेतुवद्भवेत्।
सम्मुखं तासु संलग्नं करशाखासु मध्यतः ।। 10 ।।
हृत्सम्मुखं तु बध्नीयाच्छक्तिमुद्रां सुखप्रदाम्।
शक्तियुक्तस्य देहस्य मुद्रा वै सन्निधापनी ।। 11 ।।
प्रदेशिन्या (2)ततो(?)विद्धि लक्ष्मीपूजासु शक्तिषु।
[हृदयमुद्रा] 8-5
दक्षिणेन तु हस्तेन मुष्टिबन्धं प्रकल्पयेत् ।। 12 ।।
(2. धौ A.)
अड्गुष्ठं करमध्यस्थं कृत्वा योज्यं हृदि द्विज।
हृदयाख्या भवेन्मुद्रा सर्वमन्त्रेषु साधनी ।। 13 ।।
[शिरोमुद्रा] 8-6
प्रसृता अङ्गुलीस्सर्वा अङ्गुष्ठेन तु संस्पृशेत्।
शिरोमुद्रेति विख्याता मन्त्रसन्निधिकारिणी ।। 14 ।।
[शिखामुद्रा] 8-7
मुष्टिं बध्वा शिखास्थाने तर्जनी चोर्ध्वसंस्थिता।
शिखामुद्रेति विख्याता सर्वदुष्टक्षयङ्करी ।। 15 ।।
दोषविघ्नविनाशाय सदा ह्येषा प्रकीर्तिता।
आदौ तस्मात्प्रयत्नेन यागवेश्मनि बन्धयेत ।। 16 ।।
उत्सादं सर्वविघ्नानां कुरुते मन्त्रसंयुता।
[कवचमुद्रा] 8-8
उभयोरग्रतश्शाखा ग्रस्तास्तु करयोर्द्विज ।। 17 ।।
तयोर्मध्यं ह्यसंश्लिष्टं करबन्धादितो भवेत्।
वार्मण्येषा भवेन्मुद्रा द्वावंसावनया स्पृशेत् ।। 18 ।।
दुर्भेद्या दुष्टसङ्घस्य भूतवेताळयोगिनाम्।
कर्मकाले च बघ्नीयात्समन्त्रां च प्रयत्नतः ।। 19 ।।
[नेत्रमुद्रा] 8-9
करयोर्ग्रथिताड्गुल्यस्संवृताः पाणिपृष्ठगाः।
तर्जन्यौ प्रान्तसंलग्ने सुषिरेचोर्चि(1)ते तयोः ।। 20 ।।
(1. च्छ्रि A.)
अङ्गुष्ठौ मूलसंलग्नविपर्यस्तौ परस्परम्।
लोचनाख्या भवेन्मुद्रा दर्शयेच्चक्षुषोऽन्तिके ।। 21 ।।
[अस्त्रमुद्रा] 8-10
तर्जनीं स्फोटयेद्दिक्षु दशस्वङ्गुष्ठकेन तु।
द्रुतं करद्वयेनैव चक्षुर्भ्यां सन्निरीक्षयेत् ।। 22 ।।
अस्त्रमुद्रेति विख्याता त्रासिनी त्रिदशेष्वपि।
किं पुनर्दुष्टयोनीनां वाङ्भनःकायसंयुता ।। 23 ।।
[सिह्ममुद्रा] 8-11
उत्ताने दक्षिणे वामे कुञ्चयित्वाऽङ्गुलित्रयम्।
प्रसारयेच्च तिर्यग्वै अड्गुष्ठं तर्जनीं तथा ।। 24 ।।
ईषदूर्ध्वीकृताऽधोदृग् निष्कम्पालोकसंयुता।
पाशवन्धक्षयकरी सर्वोपद्रवनाशिनी ।। 25 ।।
सिह्ममुद्रा भवत्येषा विस्मयाख्या महाप्रभा।
[कपिलमुद्रा] 8-12
तर्जन्यङ्गुष्ठयोर्मध्ये मध्यमां तु प्रपीडयेत् ।। 26 ।।
प्रसारयेदनामां च पश्चात्तस्याः कनिष्ठिकाम्।
परस्परं च दूरस्थे मुद्रैषा कपिली स्मृता ।। 27 ।।
सर्वसिद्धिकरी ह्येषा अणिमादिषु साधनी।
[क्रोडमुद्रा] 8-13
अधोमुखे वामहस्ते मध्यमानामिके यद्गा ।। 28 ।।
अङ्गुष्ठस्य तु संसक्ते कनिष्ठा तर्जनीद्वयम्।
प्रसारितं ततः कार्यं मुद्रा क्रोडात्मिका स्मृता ।। 29 ।।
सर्वयन्त्रप्रमथनी सर्वदुष्टनिवारिणी।
स्वे स्वे स्थाने नियोक्तव्या मुद्रावक्त्रेषु या स्थिता ।। 30 ।।
[कौस्तुभमुद्रा] 8-14
मध्यमानामिकान्यूना मुष्टिवत्पाणिमध्यगाः।
उभयोर्हस्तयोर्विप्र पश्चान्मुष्टिद्वयं तु तत् ।। 31 ।।
श्लेषयेत्समरन्ध्रेण तर्जन्यौ द्वे प्रसार्य च।
ततः सं श्लेषयेदग्रादड्गुष्ठाग्रे नियोजयेत् ।। 32 ।।
मद्यत(1)स्तर्जनीभ्यां तु अन्योन्येन क्रमेण तु।
मुद्रैषा कौस्तुभस्योक्ता मालामुद्रामथो श्रृणु ।। 33 ।।
(1. म A.)
[मालामुद्रा] 8-15
शाखाष्टकं कराभ्यां यद्ग्रस्तमग्रानदूरतः।
संश्लक्ष्णं लम्बमानं च उपविष्टोऽथ वास्थितः ।। 34 ।।
कुर्याद्बाहुद्वयं विप्र ऊरुमद्यावलम्बितम्।
मणिबन्धावधौ सम्यङ्भालामुद्रा प्रकीर्तिता ।। 35 ।।
[पद्ममुद्रा] 8-16
अङ्गुष्ठौ सङ्गतौ लग्नौ अङ्गुल्यो विरलाः स्थिताः।
पाद्मी ङ्येषा भवेन्मुद्रा पुष्टिसौभाग्यदायिका ।। 36 ।।
[शङ्खमुद्रा] 8-17
मुष्टिना ग्राहयेद्वाममङ्गुष्ठं दक्षिणेन तु।
अङ्गुलीर्वामहस्तात्तु दक्षिणस्योपरि न्यसेत् ।। 37 ।।
वामतर्जनिकाग्रं तु अङ्गुष्ठाग्रं च दक्षिणात्।
परस्परं सम्मुखं तु सुश्लिष्टं विनियोजयेत् ।। 38 ।।
शङ्खस्यैषा भवेन्मुद्रा उत्ताना तु यदा स्थिता।
[चक्रमुद्रा] 8-18
स्पष्टौ प्रसारितौ हस्तौ परस्परनियोजितौ ।। 39 ।।
भ्रमणाच्चक्रवत्तौ तु(1) चक्रमुद्रेति कीर्तिता।
नाशिनी सर्वदुःखानां मुद्राणां भेदिनी परा ।। 40 ।।
(1. च A.)
[गदामुद्रा] 8-19
बध्वा मुष्टिं दक्षिणेन वामाङ्गुष्ठस्य मूर्धिनि।
कृत्वैवं दर्शयेदेषा कौमोदक्याः सुशोभना ।। 41 ।।
गदामुद्रेति विख्याता दोषसैन्यप्रमर्दनी।
[पक्षिराजमुद्रा] 8-20
प्रसार्य संहतं(2) कृत्वा पुरा पाणिद्वयं द्विज ।। 42 ।।
(2. हृ C. L.)
अनामा मूलदेशाभ्यामड्गुष्ठाग्रद्वयं न्यसेत्।
अधोमुखं तु पतितं मण्बन्धस्य सम्मुखमे ।। 43 ।।
सुश्लिष्टमग्रतः कृत्वा न्यसेत्तच्चाङ्गुलिद्वयम्।
तर्जनीमध्यामाभ्यां यद्वामं युग्मं करद्वयात् ।। 44 ।।
प्रोच्छ्रितं विरलं कुर्यात्कुञ्चितं चापि सम्मुखम्।
सुस्पष्टमुच्छ्रितं लग्नं पुच्छवत्कन्यसायुगम् ।। 45 ।।
पक्षिराजस्य मुद्रैषा केवलस्य महात्मनः।
[पाशमुद्रा] 8-21
प्रसार्य दक्षिणं पाणि ततोऽङ्गुष्ठकनिष्ठिके ।। 46 ।।
मेळयेदग्रदेशाच्च सेतुवत्करणेन तु।
(3)फणवत्कुञ्चितं लग्नं तर्जन्याद्यं लतात्रयम् ।। 47 ।।
(3. ल C. L.)
पाशमुद्रा भवत्येषा अङ्कुशाख्यं निषोधमे।
[अङ्कुशमुद्रा] 8-22
कनिष्ठा मध्यमा नाम वामहस्तस्य मध्यतः ।। 48 ।।
पृष्ठवन्निक्षिपेत्पृष्ठे तासामड्गुष्टकं भवेत्।
अग्रतस्तर्जनी कार्या कुञ्चिताङ्कुशवद्द्विज ।। 49 ।।
इत्येषाऽङ्कुशमुद्रैव सत्यादीनामथो श्रुणु।
[सत्यादिमुद्रापञ्चकम्] 8-23
दक्षिणस्य तु हस्तस्य अग्रतोऽङ्गुलिपञ्चकम् ।। 50 ।।
परस्परं स्पृशेत्कार्यं प्रोन्नतं मुखसम्मुखम्।
सत्यस्यैषा भवेन्मुद्रा प्रागुपाड्गोद्भवस्य च ।। 51 ।।
अङ्गुष्ठतर्जनीयोगाद्द्वितीयस्य प्रकीर्तिता।
अङ्गुष्ठमध्यमायोगात्तृतीयस्य प्रकीर्तिता ।। 52 ।।
अङ्गुष्ठानामिकायोगाच्चतुर्थस्य तु नारद।
कनिष्ठाङ्गुष्ठसंयोगात्पञ्चमस्य तु जायते ।। 53 ।।
[महाजयामुद्रा] 8-24
हृल्लग्नं वामहस्तं तु कृत्वोत्तानं प्रसारितम्।
पृष्ठे तु मुष्टिबन्धं तु दक्षिणेन करेण तु ।। 54 ।।
मुष्टेरूर्ध्वं स्थितोऽङ्गुष्ठं चक्षुर्भ्यामवलोकितम्।
दैवी ह्येषा भवेन्मुद्रा मन्त्रराजस्य सुव्रत ।। 55 ।।
महाजयेति विख्याता सर्वयोगप्रसाधनी।
सर्वसिद्धिकरी शश्वत्सर्वमुद्राप्रपूरणी ।। 56 ।।
अनया मुद्रितं विश्वमाब्रह्मभवनान्ति(1)मम्।
सर्वाङ्गशक्तियुक्तस्य सर्वमन्त्रालयस्य च ।। 57 ।।
(1. क A.)
निष्कळस्याविकारस्य ब्रह्मन्सप्ताक्षरस्य च।
इत्येष गर्भमन्त्राणामुक्तो मुद्रागणो मया ।। 58 ।।
आधारासनमन्त्राणां मुद्राणां लक्षणं श्रुणु।
[आधारशक्तिमुद्रा कूर्ममुद्रा च] 8-25
क्षिप्तमङ्गुलियुग्मं तु मुष्टिभ्यामन्तरे द्विज ।। 59 ।।
वामस्य दक्षिणो मुष्टिः पृष्ठे स्यात्स्पर्शवर्जितः।
असावाधारशक्तौ च ऊर्ध्वतः कूर्मवह्नि (द्द्वि?)ज ।। 60 ।।
[अनन्तासनमुद्रा] 8-26
अधोमुखस्य वामस्य अनामा तर्जनी उभे।
आकुंच्य पृष्ठलग्ने तु मध्यमायां तु संस्थिते ।। 61 ।।
तयोरधस्तान्मध्याख्यामृज्वीं कुर्यादधोमुखाम्।
कनिष्ठिका तु साङ्गुष्ठा कार्या सुप्रसृता मुने ।। 62 ।।
अनन्तासनमुद्रेयमनेनास्या(ख्या?)यते द्विज।
सर्वं जगदिदं ह्येषा क्रोडीकृत्य च वर्तते ।। 63 ।।
सर्वास्वाधारमुद्रासु प्राधान्येन व्यवस्थिता।
तस्यादौ मन्त्रमुच्चार्य प्लुतं च बहुमातृकम् ।। 64 ।।
शब्दशक्यविभागोत्थं भावग्राह्यमनाहतम्।
(1)ततस्तस्य विसर्गे तु अनन्तासनसंज्ञया ।। 65 ।।
(1. तस्मादस्य A.)
बद्धं प्रकल्पयेद्विप्र सद्भावध्यानसंयुतम्।
सदाधिकारयागे तु मन्त्राणां भिन्नरूपिणाम् ।। 66 ।।
क्षिप्रकर्मप्रसिध्यर्थं योजनीया प्रयत्नतः।
[पृथिवीमुद्रा] 8-27
करद्वयेन बध्नीयाल्लग्नमुष्टिद्वयं पुरा ।। 67 ।।
अङ्गुलित्रितयेनैव अङ्गुष्ठे तर्जनीद्वयम्।
प्रान्तलग्नं ततः कृत्वा तद्युगे मेलयेत्पुनः ।। 68 ।।
एषा तु पार्थिवी मुद्रा सामुद्रीमधुना शृणु।
[समुद्रमुद्रा] 8-28
मणिबद्धौ च संलग्नौ नखाग्राणि करद्वयात् ।। 69 ।।
कार्याणि साङ्गुलीकानि परस्परमुखानि तु।
अङ्गुष्ठाग्रे निराधारे तन्मध्ये चालयेद्धृतम् ।। 70 ।।
मध्यं कुर्याच्च हस्ताभ्यां गाधं तु सुषिरोपमम्।
क्षीरार्णवस्य मुद्रैषा प्रागुक्ता पङ्कजस्य तु ।। 71 ।।
मन्त्रयोगात्तथा ध्यानादन्यत्वं चैव जायते।
[धर्मादिमुद्राचतुष्टयम्] 8-29
करद्वयमसंलग्ने(ग्नं?) कृत्वा तदनु योजयेत् ।। 72 ।।
मुखे मुखं तर्जनीभ्यां तं मुञ्चेदथ मध्ययोः।
कुर्यात्ताद्दृग्विधं बन्धं तं त्यक्त्वाऽनामिकाद्वये ।। 73 ।।
उपसंहृत्य तं चापि द्वे कनिष्ठे नियोजयेत्।
प्रत्येकबन्धे संलग्नमङ्गुष्ठयुगलं न्यसेत् ।। 74 ।।
धर्माद्यस्य चतुष्कस्य विद्धि मुद्रागणं क्रमात्।
तदूर्ध्वस्थस्य पद्मस्य प्रागुक्ता मन्त्रयोगतः ।। 75 ।।
[सूर्येन्द्वग्निलक्षणधामत्रयमुद्रा] 8-30
दक्षिणस्य तु हस्तस्य तर्जन्यङ्गुष्ठमेलनम्।
कृत्वा तदनु तद्बन्धं विकास्य च शनैः शनैः ।। 76 ।।
समुत्तानं पुनः कुर्याच्छाखासङ्घं पृथक्स्थितम्।
(1)धामत्रयस्य मुद्रैषा हंसाख्यां तु निबोध मे ।। 77 ।।
(1. द्विधा मन्त्रस्य तत्रैषो A.)
[हंसमुद्रा] 8-31
स्पष्टौ प्रसारितौ हस्तौ कुर्यादञ्जलिरूपकौ।
भावासनस्य मुद्रैषा सुशुद्धा परमार्थकी ।। 78 ।।
एष आसनमन्त्राणां वीजानां मयोदितः।
क्रमात्क्षेत्रेशपूर्वाणां वीजानां मुनिसत्तम ।। 79 ।।
पद्मनिद्यधिपान्तानां मुद्रादशकमुच्यते।
[क्षेत्रेशमुद्रा] 8-32
ग्रस्तमङ्गुलिसंख्यातं कृंत्वा पाणिद्वयेन तु ।। 80 ।।
बलात्प्रपीडयेत्कुर्यादङ्गुष्ठद्वयमुच्छ्रितम्।
मुद्रेयं क्षेत्रपालस्य श्र्यादीनामथ मे शृणु ।। 81 ।।
[श्रीमुद्रा] 8-33
उत्तानौ तु करौ कृत्वा निकटस्थौ तु नारद।
तदङ्गुलीगणं सर्वं कुञ्चितं मध्यसंस्थितम् ।। 82 ।।
अङ्गुष्ठौ पतितौ कृत्वा क्रमशः स्पष्टतां नयेत्।
श्रीबीजस्य तु मुद्रैषा प्रथमं कथिता तव ।। 83 ।।
[चण्डमुद्रा] 8-34
समुत्थाप्य कराद्वामात्तर्जनीं चण्डबीजजा।
[प्रचण्डमुद्रा] 8-35
तामेव दक्षिणाद्धस्तात्प्रचण्डाख्यस्य विद्धि वै ।। 84 ।।
[चयमुद्रा] 8-36
मध्यमाद्वामहस्ताद्वै समुत्थाप्य जयस्य च।
[विजयमुद्रा] 8-37
दक्षिणाद्विजयाख्यस्य बीजस्य परिकीर्तिता ।। 85 ।।
[गांगमुद्रा] 8-38
वामाच्चानामिका प्राग्वत्कृत्वा गाङ्गस्य विद्धि ताम्।
[यामुनमुद्रा] 8-39
दक्षिणाद्यामुनस्योक्ता मुद्रा बीजस् नारद ।। 86 ।।
[शङ्खमुद्रा] 8-40
निधीस्वरस्य शङ्खस्य वामहस्तात्कनिष्ठिका।
[पद्मनिधिमुद्रा] 8-41
पद्माक्यस्यापराद्धस्तात्सैव चोर्ध्वीकृता यदा ।। 87 ।।
[गणेशमुद्रा] 8-42
दक्षिणेन तु हस्तेन साङ्गुष्ठेन च मुष्टिना।
प्रदेशिनीं ह्यनामां च वामहस्तस्य पीडयेत् ।। 88 ।।
प्रयत्नकृतशङ्खानां पृष्ठे योज्या च मध्यमा।
लम्बमानकराकारा यथा संदृश्यते च सा ।। 89 ।।
मुष्टेर्नातिसमीपस्थां वामहस्तात्कनिष्ठिकाम्।
दक्षिणाङ्गुष्ठबाह्ये च दंष्ट्रावत्परिभावयेत् ।। 90 ।।
ईषत्तिर्यक्ततस्स्पष्टो वामाङ्गुष्ठस्तथा परः।
यथा तौ परिदृश्येते गजकर्णोपमौ द्विज ।। 91 ।।
गणेश्वरस्य मुद्रेयं सर्वविघ्नक्षयङ्करी।
[वागीश्वरीमुद्रा] 8-43
सुश्लिष्टौ मणिबन्धौ तु कृत्वा पाणिद्वये पुरा ।। 92 ।।
संलग्नमग्रदेशात्तु प्रोन्नतं मध्यमायुतम्।
प्रदेशिनीद्वयं तद्वत्कृत्वाऽनामायुगं तथा ।। 93 ।।
अचलं द्विगुणीकृत्य नमयेत्तदधोमुखम्।
शनैः शनैः स्पृशेद्यावत्स्वं स्वं पाणितलं द्विज ।। 94 ।।
स्पष्टं सुविरलं कुर्यादङ्गुष्ठद्वितयं द्विज।
तद्वत्कनीयसीयुग्मं समेन धरणेन तु ।। 95 ।।
मुद्रैषा वाग्विभूत्यर्थी यो बध्नाति दिने दिने।
जपमानस्तु तद्भावी तस्य चावतरेत्तु धीः ।। 96 ।।
[गुरुमुद्रा] 8-44
सम्मुखौ संपुटीकृत्य द्वौ हस्तौ संप्रसारितौ।
विनियोज्यौ ललाटोर्ध्वे शिरसाऽवनतेन तु ।। 97 ।।
गुरोर्गुरुतरस्यापि मुद्रा ह्येषा पितुः पितुः।
[पितृगणमुद्राः] 8-45
प्रोत्तानं दक्षिणं पाणिं कृत्वाङ्‌गुलिगणं ततः ।। 98 ।।
संलग्नं कुञ्चयेत्किञ्चिदङ्गुष्ठं संप्रसार्य च।
तिर्यग्भवैः शनैः किञ्चित्कुर्याद्वाऽधोमुखं ततः ।। 99 ।।
मुद्रा पितृगणस्यैषा नित्यतृप्तिकरी स्मृता।
पूजाकाले तु वै तस्माद्दर्शनीया प्रयत्नतः ।। 100 ।।
यो वै नैमित्तिकाच्छ्राद्धात्परितोषस्तु जायते।
स पितॄणां शतगुणो मुद्राबन्धाच्च पूजनात् ।। 101 ।।
[सिद्धमुद्रा] 8-46
करद्वयं समुत्तानं नाभिदेशे नियोजयेत्।
वामस्य दक्षिणे(?) पृष्ठे मुद्रैषा सिद्धसन्ततेः ।। 102 ।।
[वराभयमुद्रे] 8-47
सुस्पष्टं दक्षिणं हस्त स्वात्मनस्तु पराङ्मुखम्।
पराङ्मुखं लम्बमानं वामपाणिं प्रकल्पयेत् ।। 103 ।।
क्रमाद्वराभयाख्यं तु इदं मुद्राद्वयं द्विज।
विज्ञेयं लोकपालानामिन्द्रादीनां समासतः ।। 104 ।।
एकैकेन तु मन्त्रेण वज्राद्येन क्रमाद्युताम्।
अस्त्राख्यां शक्तिसंयुक्तां प्रागुक्तां संप्रदर्शयेत् ।। 105 ।।
लोकपालायुधानां तु पूजितानां क्रमेण वै।
[विष्वक्सेनमुद्रा] 8-48
कनिष्ठाऽनामिका मद्या वामाच्च करमध्यगाः ।। 106 ।।
तासामङ्‌गुष्ठकः पृष्ठे तर्जनी प्रोन्नता भवेत्।
नासावंशप्रदेशस्था ततो दक्षिणपाणिना ।। 107 ।।
अङ्गुलीत्रितयेनैवं मुष्टिं बध्वा तु पूर्ववत्।
तर्जनीद्विगुणं कृत्वा अङ्गुष्ठाग्रे निरोधयेत् ।। 108 ।।
प्रोद्यतो बाहुदण्डः स्याच्चक्रक्षेपे यथोद्यतः।
विष्वक्सेनस्य मुद्रेयं विश्वकर्मनिकर्तनी ।। 109 ।।
[आवाहनमुद्रा] 8-49
किञ्चिदाकुञ्चयेद्धस्तं दक्षिणं हृदयोपगम्।
अङ्गुष्ठो विरलस्पष्टो मुद्रा ह्यावाहने स्मृता ।। 110 ।।
[विसर्जनमुद्रा] 8-50
खङ्गधारासमाकारा विरलाङ्गुलिकावुभौ।
अङ्गुष्ठौ दण्डवत्कृत्वा मुष्टिबन्धं शनैश्शनैः ।। 111 ।।
कुर्यात्कनिष्ठिकादिभ्यो मुद्रैषा स्याद्विसर्जने।
[सुरभिमुद्रा] 8-51
ग्रथितौ [द्वौ] करौ कृत्वा सुश्लिष्टौ चाप्यधोमुखौ ।। 112 ।।
कनीयसौ तदाङ्गुष्ठौ सुश्लेषेण नियोज्य च।
मध्यमाङ्गुलियुग्मं तु अन्योन्यकरपृष्ठगम् ।। 113 ।।
विक्षिप्तानामिकायुग्मं तर्जनीयुगलं तथा।
मुद्रैषा कामधेन्वाख्या सर्वेच्छापरिपूरणी ।। 114 ।।
द्विप्रकारं तु (1)मुद्राणां प्रयोगं नित्यमाचरेत्।
संविन्मयं तु चाद्यात्मरूपं भास्वरसंपुटम् ।। 115 ।।
(1. विप्राणां C L.)
बाह्यान्तस्त्रिविधं विप्र कर्मवाक्चित्तजं तु यत्।
अनेन विधिना मुद्रां यो बध्नाति विधानवित् ।। 116 ।।
तेनेदं मुद्रितं विश्वमपुनर्भवसिद्धिदम्।
इति श्रीपाञ्चरात्रे जयाक्यसंहितायां मुद्राबन्धाख्यानं नाम अष्टमः पटलः।
* * * * *

"https://sa.wikisource.org/w/index.php?title=जयाख्यसंहिता/पटलः_८&oldid=206737" इत्यस्माद् पुनः प्राप्तिः