प्रमुखा विकल्पसूचिः उद्घाट्यताम्
← पटलः २९ जयाख्यसंहिता
पटलः ३०
[[लेखकः :|]]
पटलः ३१ →
जयाख्यसंहितायाः पटलाः

  पटलः - 30
अथ परिकरसाधनं नाम त्रिंशः पटलः। 30-1
श्रीभगवान् ---
समासात्कौस्तुभादीनां साधनं शृणु नारद।
येन विज्ञातमात्रेण यथेष्टं साधयिष्यति ।। 1 ।।
स्वनाम्नः पूर्ववर्णं च मात्राव्यञ्जनवर्जितम्।
आङ्गिको लांछनचयः स्वस्वसंज्ञादयस्तु षट् ।। 2 ।।
साधार(सामान्य ?) मेतत्सर्वेषां नवानामङ्गसिद्धये।
विशेषः कौस्तुभादीनामधुनाऽत्रैव वक्ष्यते ।। 3 ।।
[कौस्तुभमन्त्रसाधनम्] 30-2
मण्यक्षरस्यासने तु नियोक्तव्यौ (1)रलौ क्रमात्।
कृत्वा न्यासं यजेद्देहे सूर्यवद्वर्तुलं बहिः ।। 4 ।।
(1. लरौ Y)
सपद्ममण्डलं कृत्वा इष्ट्वा तत्र महामते।
जप्त्वा हुत्वा ततो यायाद्गिरिशृड्गमपादपम् ।। 5 ।।
जपेल्लक्षद्वयं पश्चान्मन्दारकुसुमायुतम्।
जुहुयात्कुङ्कुमेनैव समद्वाज्यपरिप्लुतम् ।। 6 ।।
ततश्चम्पकपुष्पाणां जुहुयादयुतत्रयम्।
मन्त्रेशः सिध्यति क्षिप्रं सिद्धः सद्रत्नसञ्चयम् ।। 7 ।।
प्रयच्छत्यचिरेणैव आयुरारोग्यवर्धनम्।
कृत्वाऽलक्तकसूत्रेण वेष्टनाच्च यवत्रयम् ।। 8 ।।
अङ्गुलानि चतुर्दैर्घ्यात् घृताक्तं वर्तिपञ्चकम्।
सषडङ्गेन मन्त्रेण ज्वालयित्वा जपेन्मुने ।। 9 ।।
शतमेकं तु वै सार्धं लोहचक्रोपरि स्थितम्।
बिलं रसायनं वित्तं यत्राधस्तात्क्षितौ स्थितम् ।। 10 ।।
चङ्कमेज्जपमानस्तु चक्रात्प्लुत्य च भेकवत्।
वर्तयो निपतन्त्याशु मन्त्रस्यास्य प्रभावतः ।। 11 ।।
स्थानं खात्वोत्तरेद्विप्र(2) निधीन्वै सरसायनान्।
बिलं कृतं यद्विविक्तं तिष्ठत्याचन्द्रतारकम् ।। 12 ।।
(2. रे विप्र A)
नरेन्द्रमखिलं तत्र ... ... ... ... ।
रत्नानि ध्यानमात्रेण पणान्याभरणानि च ।। 13 ।।
ददाति मर्त्यलोकेऽस्मिन्दुर्लभानि सदैव हि।
यश्चैवं ... ... माद्यैस्तु(1) लिखितं धारयेद्गले ।। 14 ।।
(1. यश्चैवमादिमा A)
पद्म ... सप्रयोगेण प्रजपन्मन्त्रनायकम्।
तस्य सर्वार्थसिध्यर्थं सर्वस्मिन्निधिवस्तुनि ।। 15 ।।
इत्येतत्कौस्तुभस्योक्तं मालामन्त्रस्य कथ्यते।
[मालामन्त्रसाधनम्] 30-3
अथ स्वनामवर्णस्य क्रमाच्च...लय(यरल ?) त्रयम् ।। 16 ।।
पूर्वोपकरणेनैव युक्तमङ्गगणं तनौ।
न्यस्य कृत्वा तु हृद्यागं बहिरर्धेन्दुमण्डले ।। 17 ।।
षट्‌पत्रे पुष्करे ध्यात्वा संपूज्य जुहुयात्ततः।
वनराजिं समासाद्य लक्षमेकं जपेत्ततः ।। 18 ।।
जातिचम्पकपुष्पाणां कदम्बानां तु होमयेत्।
सर्वौषधिरसाक्तानामयुतञ्चायुतं क्रमात् ।। 19 ।।
मधुना केवलेनाथ जुहुयादयुतं द्विज।
होमान्ते मन्त्रसिद्धिस्स्याद्दैवी लोके तु मानुषे ।। 20 ।।
कृत्वाऽभिमान्त्रितां कण्ठे पुष्पमालां च साधकः।
निधायावनिसंस्थायामर्चायामात्मनोऽथवा ।। 21 ।।
न विप्रमानभावत्वं यात्यसौ यावदिच्छति।
करोति चार्चनं विष्णोः स्थाने पुष्पफलोज्झिते ।। 22 ।।
अकालकुसुमान्याशु तत्राकाशात्पतन्ति च।
पूजां (स्रजं) कृत्वा तु तैः पुष्पैस्तान्येव यदि धारयेत् ।। 23 ।।
उत्तमाङ्गे तु कण्ठे वा भूयो द्विशतमन्त्रिताम्।
यायाददर्शनं मन्त्री कगतिर्वाऽथ वायुवत् ।। 24 ।।
दिव्यगन्धवहो नित्यं दिव्याश्चर्यप्रदर्शकः।
कुसुमायुधसादृश्याद्वपुषा परिद्दश्यते ।। 25 ।।
मालाधरस्तु वै मन्त्री अखिले ललनाकुले।
मालाकारस्य वै तुष्टो यदि पुष्पवनं द्विज ।। 26 ।।
निरीक्षते जपन्मन्त्री शुष्कं तत्पुष्पितं भवेत्।
क्रुद्धोऽपि कुसुमाकीर्णं वनं दृष्ट्वा करोति च ।। 27 ।।
दावाग्निनेव निर्दग्धं भूयो वा यदि चेच्छति।
प्रावृण्माधवकालाभ्यां तुल्यत्वमुपपादयेत् ।। 28 ।।
ये केचिद्दुर्लभा गन्धाः स्वर्गपातालसंभवाः।
यत्र मालाधरस्तिष्ठेन्मन्त्री तत्र (1)वहन्ति ते ।। 29 ।।
(1. भवन्ति A)
सुभगस्सर्वभूतानां दर्शनादेव जायते।
जयादृते न चाप्नोति कुत्रचित्स पराजयम् ।। 30 ।।
शान्तिकं पौष्टिकं चैव अयत्नेनाचिरात्तु वै।
मालाधरो लभेताशु मन्त्रसन्धारणादपि ।। 31 ।।
[कमलमन्त्रसाधनप्रकारः] 30-4
मालासाधनमित्येतत्कमलस्याथ कथ्यते।
नामार्णस्यासने दद्याज्जीवं वरुणसंस्थितम् ।। 32 ।।
प्रागुक्तसंस्कृतं कृत्वा ह्यस्य ध्यात्वा यजेद्धृदि।
बहिः पद्मान्तरे पद्मं द्विषट्‌पत्रे तु षड्‌दलम् ।। 33 ।।
कर्णिकाकेसरोपेतं कृत्वा वृत्तपुरान्तरे।
तत्रावतार्य संपूज्य होमं कृत्वा तिलादिकैः ।। 34 ।।
यायात्पद्मवनोद्देशं पद्ममन्त्रं जपेत्ततः।
लक्षमेकं मुनिश्रेष्ठ अयुतं त्रितयान्वितम् ।। 35 ।।
होमयेत्कमलानां तु अयुतद्वितयं द्विज।
अयुतं स्थलपद्मानां मधुसिक्तं ततोऽयुतम् ।। 36 ।।
नागकेसरगन्धानां मन्त्रसिद्धिर्भवेत्ततः।
लभेत विपुलां लक्ष्मीं व्याधिरोगविवर्जितः ।। 37 ।।
सौभाग्यमतुलं चैव कान्तिं परमशोभनाम्।
वलीपलितनिर्मुक्तो धनधान्यसमन्वितः ।। 38 ।।
भूर्जपत्रे तु षट्‌पत्रं कमलं कुङ्कुमेन तु।
विलिख्य मन्त्रं तन्मध्ये न्यासयोगेन नारद ।। 39 ।।
ददाति धारणात्सर्वं साधितं कमलं पुरा।
एतद्विधानं पद्मस्य शङ्खस्याप्यधुनोच्यते ।। 40 ।।
[शङ्खमन्त्रसाधनप्रकारः] 30-5
स्वाभिनद्धा (धाना ?) द्यवर्णस्य त्वधस्थौ योजयेद्बलौ।
विग्रहं सकलीकृत्य हृद्यागे तु कृते सति ।। 41 ।।
बाह्ये शङ्खोदरं पद्मं षट्‌पत्रं मण्डलस्थितम्।
कृत्वा तत्रार्चयेन्मन्त्रं होमं कृत्वा तु नारद ।। 42 ।।
निर्झराम्बुयुतं स्थानं प्रयायाद्विजनं द्विज।
लक्षाष्टकं जपेन्मन्त्री अयुतं त्रितयोत्तरम् ।। 43 ।।
जुहुयात्कुमुदानां तु लक्षषट्‌कं समाहितः।
होमान्ते मन्त्रराट् सम्यक् सिध्यत्यस्य महामते ।। 44 ।।
दूराच्छ्रवणविज्ञानं तत्प्रभावात्प्रवर्तते।
सर्वभूतरुतं चैव द्यानजप्यपरो लभेत् ।। 45 ।।
प्रभावान्मन्त्रनाथस्य शब्दांश्चाकर्णयेद्बहून्।
देवगन्धर्वलोकोत्थान् श्रोत्रेन्द्रियमनोहरान् ।। 46 ।।
प्रयुक्तः पूर्वविधिना मन्त्रोऽयं यत्र कुत्रचित्।
स साधयति तच्छीघ्रं विघ्नेशेन महामते ।। 47 ।।
तुषारक्षीरललितां (ते ?) शुधया चन्दनेन च।
रक्तवस्त्रेऽथवा भूर्जे मन्त्रं यो धारयत्यपि ।। 48 ।।
तस्योपचयसामग्री सम्मुखत्वं प्रयाति च।
विधानमेतच्छङ्खस्य प्रोक्तं चक्रस्य कथ्यते ।। 49 ।।
[चक्रमन्त्रसाधनप्रकारः] 30-6
कृत्वोर्ध्वे मरणानां च संज्ञा प्राक् क्षयं तु यत्(?)(1)।
कुर्यात्परिकराढ्यं च चक्राङ्गगणसिद्धये ।। 50 ।।
(1. कृत्वोर्ध्वेमकृत्वोर्ध्वेमरणानां च संज्ञया। प्रागक्षयं तु यत् ... ... ... A)
न्यस्य पाणौ तथा देहे हृत्पद्मे पूजयेत्ततः।
द्विषट्कारं लिखेच्चक्रं नाभिनेमिसमन्वितम् ।। 51 ।।
तदन्तरे तु षट्‌पत्रं कमलं रक्तपांडुरम्।
चक्रं राजोपलाभेन सितधारं ज्वलत्प्रभम् ।। 52 ।।
तन्मध्ये चक्रमन्त्रं तु संपूज्य जुहुयात्ततः।
दत्वा पूर्णाहुतिं चैव समाक्रम्य वनस्थलीम् ।। 53 ।।
विलिख्य चक्रराण्मन्त्र...कं वाथ कुङ्कुमम्।
चक्रमस्मीति वै बुद्ध्या स्थितमात्मनि नारद ।। 54 ।।
समाक्रम्य तु चक्राक्षं बद्धपद्मासनो विशेत्।
जपेल्लक्षत्रयं मन्त्री चक्राङ्कां च महौषधिम् ।। 55 ।।
जुहुयाल्लक्षमानेन चक्रलक्षस्थितो व्रती।
चक्राङ्के तु शुभे कुण्डे त्रितयं जुहुयाद्धृतम् ।। 56 ।।
होमान्ते मुनिशार्दूल चक्रमाक्रम्य साधकः।
जपेद्ध्यानस्थितो लक्षं चक्रमुत्पतते ततः ।। 57 ।।
प्रयात्यर्कपदं वेगाद्गृहीत्वा साधकं तु वै।
लोकान्तरेषु सर्वेषु नयत्यविरतं बलात् ।। 58 ।।
न याति यदि वै मोहं मन्त्रसत्वक्षयान्मुने।
चक्रमस्मीति वै बुद्ध्या वासना यदि वर्तते ।। 59 ।।
मन्त्र्यस्मिन्मानुषे लोके नास्ति तद्यन्न साधयेत्।
कर्मणा मनसा वाचा ध्यानात्संस्मरणात्तु वै ।। 60 ।।
इत्येतच्चक्रमन्त्रस्य विधानमथ नारद।
[गदामन्त्रसाधनप्रकारः] 30-7
वक्ष्ये गदाख्यमन्त्रस्य तद्वर्णस्यासने न्यसेत् ।। 61 ।।
(1)लरौ पूर्वोदितं सर्वमूर्ध्वेऽङ्गनिचयो भवेत्।
न्यासं कृत्वाऽर्चनं सम्यङ्भनसाऽथ बहिर्द्विज ।। 62 ।।
(1. रलौ A)
गदाष्टकावृतं कुर्यात्स्फुरन्तं मध्यतोऽम्बुजम्।
हेमाभं षड्‌दलं तत्र गदामन्त्रं तु पूजयेत् ।। 63 ।।
होमं कृत्वा ततो यायाद्गुहां विप्र मनोरमाम्।
तत्रायुताष्टकं मन्त्रं जपेत्तदनु होमयेत् ।। 64 ।।
घृताप्लुतं समिल्लक्षं रक्तचन्दनसंभवम्।
होमान्ते तु गदामन्त्रः सुसिद्धिं संप्रयच्छति ।। 65 ।।
यान्यभीष्टानि मनसो ह्यात्मनश्च परस्य वा।
कृत्वादौ तु गदां मन्त्री द्विहस्तां चन्दनोत्थिताम् ।। 66 ।।
प्रपूज्य तां समादाय कृत्वाष्टशतमन्त्रिताम्।
घोरान्दुष्टग्रहान्हन्यान्मन्त्री शिरसि ताडनात् ।। 67 ।।
यत्रेन्द्रजालरोगादीन् (दि ?) स्तम्भा नानाविधाश्च ये।
पाणिना भ्राम्यमाणायां गदायां यान्ति हस्तसात् ।। 68 ।।
नस्यन्ति करिणो मत्तास्तथान्ये कुक्कुरादयः।
घोरा विषधरा क्षुद्रा येऽप्यन्ये दुष्टचेतसः ।। 69 ।।
प्रहारैर्भूतलं हन्याद्दशभिर्मन्त्रसंस्कृतैः।
पातालवीथीः सर्वाश्च निर्भयः संचरेद्व्रती ।। 70 ।।
चक्रवल्लिखितं भूर्जे गदामन्त्रं च यो वहेत्।
त्रिलोहवेष्टितां कृत्वा स सर्वसुखभाग्भवेत् ।। 71 ।।
उक्तमेतद्गदाख्यस्य कर्म मन्त्रस्य नारद।
[गरुडमन्त्रसाधनप्रकारः] 30-8
गरुडस्याधुना शीग्रमेकाग्रमवधारय ।। 72 ।।
वर्णेऽभिधानपूर्वे तु वेदात्मानं नियोजयेत्।
ऊर्ध्वाधो ह्यनलं भूयो युक्तं तत्पूर्ववत्स्वरैः ।। 73 ।।
कृत्वा न्यासं तु हृद्यागं चतुरस्रे तु मण्डले।
षट्‌पत्रं वज्रमध्ये तु कुर्यात्पद्मं सुपीतलम् ।। 74 ।।
संपूज्य तत्र गरुडं होमं कृत्वा यथाविधि।
यायाद्व(1)रगिरेः शृङ्‌गं जपेल्लक्षचतुष्टयम् ।। 75 ।।
(1. च्चैव A)
त्रिलक्षं जुहुयात्पश्चाद्धृताक्तानां महामते।
श्यामातण्डुलयुक्तानां तिलानामेकमानसः ।। 76 ।।
ततोऽस्य खगराट् सम्यक् परितोषं प्रयच्छ(2)ति।
अभीष्टमापादयति साधकस्य कृतात्मनः ।। 77 ।।
(2. प्रयाति च A)
निरीक्षमाणो दिक्चक्रं प्रदक्षिणमुपक्रमन्।
जपेन्मन्त्रं यदा मन्त्री आस्ते रात्रौ सिताष्टमीम् ।। 78 ।।
तदाऽष्टौ कुलनागा ये नागवृन्दायुतान्विताः।
प्रधानान्वै मणींस्चैव प्रधानं च रसायनम् ।। 79 ।।
गृहीत्वा भयभीताश्च तस्य तिष्ठन्ति चाग्रतः।
निस्सर्पः स भवेद्देशो यत्र मन्त्र्यवतिष्ठते ।। 80 ।।
स्थावराणि विषाणां चाभ्यन्तराणां तु का कथा।
लूताविस्फोटकानां तु गर्दभानां महामते ।। 81 ।।
नामनाशो भवेत्तत्र यावत्तत्सन्तते (त?) स्थितिः।
लीलया (1)याहि याहीति दष्टमेघस्य(?)भाषते ।। 82 ।।
(1. साहि या भीतिदुष्ट Y C L)
स याति च तथा ननमरणेषूषरेषु च।
विषभारसहस्रं च योऽत्ति वै कालिकोदये ।। 83 ।।
भक्त्या स्मृत्वा मन्त्रिणं तं तत्तन्नामग्रहेण वा।
यश्च धारयते मन्त्रं ललाटे कुंकुमेन तु ।। 84 ।।
स सर्वदोषनिर्मुक्तः ख आस्ते पक्षिराजवत्।
गरुडस्य च मन्त्रस्य उक्तमुद्देशतो मया ।। 85 ।।
[पाशमन्त्रसाधनप्रकारः] 30-9
माहात्म्यमथ पाशाख्यमन्त्रस्य शृणु नारद।
विनियोगं तदाद्यर्णे विश्वरूपानलौ त्वधः ।। 86 ।।
तदङ्कयेच्च शिरसि षोढा कृत्वा तु पूर्ववत्।
न्यस्य हस्ते तथा देहे हृत्पध्मे पूजयेत्ततः ।। 87 ।।
कृत्वा पाशोदरे पद्मं षट्‌पत्रं वह्विमण्डले।
तत्र संपूज्य तन्मन्त्रं होमं कुर्यात्तिलाक्षतैः ।। 88 ।।
जप्त्वा मन्त्रायुतान्यष्टौ जुहुयाद्वाजसर्षपान्।
सितसर्षपतैलाक्तान् जपार्धेन महामते ।। 89 ।।
तदन्ते तु घृतैः कुर्यात्तिलैर्होमं तु नारद।
एकायुतप्रमाणेन ततः सिद्याति मन्त्रराट् ।। 90 ।।
मर्त्यलोकस्थितो मन्त्री पातालस्थांश्च कर्षयेत्।
पातालसंस्थितो मन्त्री स्वर्व्यान्वै निखिलान्मुने ।। 91 ।।
वश्याकर्षणशो(2)षांश्च प्रयुक्तस्चैव मन्त्रराट्
करो नात्र संदेहे ध्यातश्च लिखितस्य वा ।। 92 ।।
(2. शेषां A)
वरपाशयुतं मन्त्रं नियुञ्जीयान्महामते।
विधिनाऽऽराधितं प्राग्वत्तत्तदाप्नोत्ययत्नतः ।। 93 ।।
रोचनाकुंकुमेनैव लिखितं च निशाम्बुना।
संवेष्ट्य पीतसूत्रेण यो धारयति नारद ।। 94 ।।
यां यां निरीक्षते सौम्य तां तां (कान्तां ?)सुस्निग्धया दृशा।
सकृच्चामरणान्तं तु सा सा तस्यानुगा भवेत् ।। 95 ।।
यया दृष्टोऽथ वा मन्त्री दूराद्विप्र श्रुतोऽपि वा।
सा स्वस्थानं परित्यज्य धावेद्यत्र स तिष्ठति ।। 96 ।।
अपि चेत्किन्नरी नारी यक्षिणी देवकन्यका।
नारी विद्याधरी चैव गन्धर्वी सिद्धसंज्ञिता ।। 97 ।।
तां चेतसाऽनुसन्धाय रात्रौ मन्त्रवरं जपेत्।
निशान्ते विह्वलीभूता पाशाकृष्टेव तिष्ठते ।। 98 ।।
एतत्पाशस्य कथितमङ्कुशस्याधुनोच्यते।
[अह्कशमन्त्रसाधनप्रकारः] 30-10
अकरालमधश्चोर्ध्वे अनलार्षेन योजयेत् ।। 99 ।।
युक्तं कुर्यात्स्वरैः प्राग्वन्न्यस्य संपूज्य हृद्गतम्।
 कृत्वा शशिकलाकारं पुरं तन्मध्यतोऽम्बुजम् ।। 100 ।।
सिन्दूरपुञ्जवर्णाभं तन्मध्ये हृदयं न्यसेत्।
पूजयित्वा विदानेन जुहुयात्तदनन्तरम् ।। 101 ।।
प्रियङ्गुना यथाशक्ति श्यामाकेन तिलेन च।
ततोऽङ्कुशोऽहं भाव्यं च प्रवेत्पर्वतमस्तकम् ।। 102 ।।
जपेल्लक्षत्रयं तत्र ततो लक्षं तु होमयेत्।
(1)रक्तानामरपुष्पाणां(?)कृष्णानामपरं तु वै ।। 103 ।।
(1. रक्ताश्वमार A)
अयुते द्वे च समिधां खदिराणां महामते।
कटुतैलाप्लुतानां च दद्यात्पूर्णाहुतिं ततः ।। 104 ।।
आज्येन च सुघन्धेन ततो मन्त्रं प्रसिध्यति।
ततः प्रभृति कालाच्च कुर्यात्कर्माण्यशेशतः ।। 105 ।।
साधकोऽङ्कुशमन्त्रेण लीलय चाप्रयत्नतः।
वश्याकर्षणविद्वेषौ मारणोच्चाटन् तथा ।।। 106 ।।
ध्यात्वाऽऽकृष्टश्च वित्तेशो मन्त्रेणानेन वै यदि।
प्र(2)यच्छत्यखिलं वित्तमभयं चान्तकस्तु वै ।। 107 ।।
(2. स यच्छत्य A)
शक्रः प्रयच्छते राजयं मारुतः शीघ्रगामिताम्।
निःशेषविद्याकथनमीशस्तेजो हुताशनः ।। 108 ।।
वरुणः शान्तिपुष्टी च समाकृष्ट करोति च।
वक्षेश- किन्नरत्वं च पन्नगेशो रसायनम् ।। 109 ।।
आकृष्टः खगतिं दद्याद्घ्रुवो ब्राह्मणविग्रहम्।
विद्याधराश्च गुलिकां सिद्धाश्चैवाञ्जनं महत् ।। 110 ।।
प्रयच्छन्ति सदाऽऽकृष्टा मन्त्रस्यास्य प्रभावतः।
प्रागुक्ता गुलिका कार्या राज्ञा च सपरिच्छदा (?) ।। 111 ।।
मन्त्री चाङ्कुशमन्त्रेण ध्यानयुक्तेन साधयेत्।
ध्यानाज्जपात्तभालेख्याद्धवनात्पूजनान्मुने ।। 112 ।।
करोत्यङ्‌कुशमन्त्रस्तु अभीष्टमपरे तथा।
कौस्तुभाद्याश्च वै प्रोक्तास्त्वखण्डविधिसाधिताः ।। 113 ।।
निखिलं संप्रयच्छन्ति भावशउद्धिसमन्विता।
युगशकत्यनुसारेण सुसहायगुणेन च ।। 114 ।।
कृते एतच्च मन्त्राणामुक्तं स्साधनं मया।
त्रेतायां द्विगुणं विद्धि त्रिगुणं द्वापरे स्मृतम् ।। 115 ।।
कलौ चतुर्गणं चैव भावज्ञस्य च वै पुनः।
प्रीभिक्तसमायस्य श्रद्धानिष्य तत्त्वतः ।। 116 ।।
सदा सदा .... .... विद्धि जपहोमादिकं तु यत्।
तस्माद्भावं तता भक्तिमेकत्र कुरु नारद।। 117 ।।
साधनं सर्वमेखत्र समं तत्रापि वा न वा।
इति श्रीपांचरात्रे जयाख्यसंहितायां परिकरसाधनं नाम त्रिशः पटलः।
* * * * *