प्रमुखा विकल्पसूचिः उद्घाट्यताम्
← पटलः २२ जयाख्यसंहिता
पटलः २३
[[लेखकः :|]]
पटलः २४ →
जयाख्यसंहितायाः पटलाः

पटलः - 23
अथ श्राद्धविधां नाम त्रयोविंशः पटलः। 23-1
नारद :---
विधानमादिश विभो निमित्तं श्राद्धकर्मणि।
दीक्षितैर्भगवद्भत्केः कथं कार्यं क्रियापरैः ।। 1 ।।
श्रीभगवान् ---
[दीक्षितैरपि श्राद्धस्यावश्यं कर्तव्यता] 23-2
कर्मणा मनसा श्राद्धं यत्नात्कार्यं सदैव हि।
सऋणैरऋणैः सर्वैंर्यावद्देहान्तिमं द्विज ।। 2 ।।
विविक्तं धर्ममेतावत्सिद्धानामपि देहिनाम्।
[सिद्धैरपि लोकसंग्रहार्थं धर्मस्य कर्तव्यता]
नाचरेद्योऽपि वै सिद्धो लौकिकं धर्ममग्रतः ।। 3 ।।
उपप्लवमसिद्धास्तु कुर्वन्त्यविरतं महत्।
उपप्लवाच्च धर्मस्य ग्लानिर्भवति नारद ।। 4 ।।
विवेकज्ञैरतस्तस्माल्लोकाचारो यथास्थितः।
आदेहपाताद्यत्नेन रक्षणीयः प्रयत्नतः ।। 5 ।।
[धर्मेषु श्राद्धस्य श्रैष्ठ्यम्] 23-3
आचाराणां हि सर्वेषां धर्म्माणां मुनिसत्तम।
श्राद्धं मे रोचते यादृक् तादृक् न परमं तु वै ।। 6 ।।
[श्राद्घनिमित्तभूतकालादिनिरूपणम्] 23-4
तस्य कालं विधानं च यथा तदवधारय।
सितासिते च द्वादश्यावमावास्या च पुर्णीमा ।। 7 ।।
राहुसन्दर्शनं चैव सूर्यसंक्रमणं तथा।
श्राद्धं तत्र यप्रयत्नेन काम्यं कुर्याच्च भक्तितः ।। 8 ।।
अष्टकान्वष्टकाभ्यां च श्राद्धपक्षे विशेषतः।
पितृऋक्षे त्वमावास्यात्रयोदश्योस्तथैव च ।। 9 ।।
नवान्नप्राशने चैव सुतसंस्कारकर्मणि।
गुरोर्वा वं(?) प्रवृद्धे तु तद्भ्रातरि गृहागते ।। 10 ।।
शुद्धेऽर्थे (1)पात्रतो लब्धे तीर्थे वाऽऽयतने हरेः।
प्राप्ते क्षेत्रेऽथ संसिद्धे प्रतिष्ठायां पवित्रके ।। 11 ।।
(1. पदतो A.)
वापीकूपतटाकानां वृक्षाणां परिमोक्षमे।
गोदानादौ वृषत्यागे व्रतारम्भे तदन्ततः ।। 12 ।।
शास्त्रश्रवणनिष्पत्तावारम्भे च तथैव हि।
वत्सरे वत्सरे विप्र मि(पि !)त्रादीनां कुटुम्बिनाम् ।। 13 ।।
श्राद्धं कार्यं दीक्षितेन लौकिकीषु तिथिष्वपि ।
[श्राद्धविधानप्रकारः] 23-5
पूजयित्वा पुरा देवं तर्पयित्वा हुताशनम् ।। 14 ।।
प्रागुक्तेन विधानेन ततस्त्वाहूय वैष्णवान्।
प्रक्षालिताङ्‌घ्रीन्स्वाचान्तान् प्रोक्षितानस्त्रावारिणा ।। 15 ।।
[तत्र-आमन्त्रितानां वैष्णवानामासनपरिकल्पनविधानम्] 23-6
सम्मुरवान्मन्त्रनाथस्य उत्तराभिमुखानपि।
आसनेषु विविक्तेषु परिच्छिन्नेषु नारद ।। 16 ।।
गायत्र्या भस्मरेखासु शङ्कुनाऽस्त्रान्वितेन वा।
हृदाऽस्त्रपरिजप्तानि आसनानामथोर्ध्वतः ।। 17 ।।
सतिलानि च दर्भाणि निक्षिप्याम्बुयुतानि च।
[गुरुवर्गे पितृवर्गे मातृवर्गे च तेषां स्थापनप्रकारविधानम् स्थापनीयवैष्णवसङ्‌ख्याप्रदर्शनं च] 23-7
गुरोर्वा गुरुवर्गस्य मूलमन्त्रेण नारद ।। 18 ।।
प्रतिष्ठाप्यासने पूर्वमेकमादौ तु वैष्णवम्।
हृद्युक्तेनाथ तेनैव स्वधा संभूषितेन च ।। 19 ।।
पितुः पङ्क्यवसाने तु नाम्नाऽन्यमुपवेशयेत्।
शिरसा संयुतेनाथ गृहीत्वा पाणिना द्विज ।। 20 ।।
नाम्ना पितामहीयेन प्रतिष्ठाप्यासने परम्।
नेत्रे [ण] स्वावसानेन त्र्यक्षेरेण समूर्त्तिना ।। 21 ।।
प्रपितामहनाम्ना तु वैष्णवं चापरं न्यसेत्।
चत्वार एव वै पूर्वं मन्त्रपीठस्य सन्मुखाः ।। 22 ।।
देवीमन्त्रचतुष्केण मातुर्वास्य कुलस्य वा।
अस्त्रेण पितृवर्गस्य उत्तराभिमुखं द्वयम्? ।। 23 ।।
[पित्रादौ जीवति तत्स्थाने पितामहादीनां नियोज्यता] 23-8
विद्यमाने तु पितरि पितुर्योज्यः पितामहः।
सत्यां मातर्यपि मुने तत्पितर्यपि तेन वै ।। 24 ।।
मातुः पितामहो योज्यो मातुर्मन्त्रेण सर्वदा।
[वैष्णवानामलाभे सङ्कोचविधानम्] 23-9
पितृमातृकुलाभ्यां द्वौ वंशकैकमथोभयोः ।। 25 ।।
[पित्रादिस्थाने वृतानां तेपां देहन्यासविधानं] 23-10
मनसा मुनिशार्दुल द्वादशार्णेन कल्पयेत्।
देहन्यासं च सर्वेषां न्यस्यो हस्ततलेऽस्त्रराट् ।। 26 ।।
[तेषां ध्यानप्रकारः] 23-11
सर्वे चतुर्भुजा ज्ञेयाः शङ्खचक्रगदाधराः।
किरीटकौस्तुभधरा वैनतेयासने स्थिताः ।। 27 ।।
प्रोद्यता इव चोद्धर्तुं प्रेतीभूतस्य नारद।
[पितणां पाद्यार्ध्यदानविधानम्] 23-12
ततो हृयदमन्त्रेण अर्घ्यपात्रोदकेन तु ।। 28 ।।
सिञ्चेत्क्रमेणाङ्घियुग्ममेकैकस्मिन्महामते।
मूलमन्त्रेण तदनु पाणिभ्यां तु तिलोदकम् ।। 29 ।।
[अर्ध्यसंस्रावस्य पितृपात्रेण ग्रहणविधानम्] 23-13
दत्वा दत्वा समाहृत्य पात्रे ह्यस्त्राभिमन्त्रिते।
एकैकस्यापिधायाथ पूज्यत्र्यर्णेन नारद ।। 30 ।।
[तन्मध्ये पितॄणां विष्णुरूपाणां ध्यानम्] 23-14
संस्थाप्य (1)भगवदग्रे तन्मध्ये मनसा स्मरेत्।
तान्पितॄन् विष्णुरूपांश्च भासा भास्वरविग्रहान् ।। 31 ।।
(1. भगवत्य Y भगवन्य CL.)
पितृमन्त्रेण तदनु पितृमातृमयान्पितॄन्।
त्रिस्सप्तकुलसंस्थापनोक्तानत्रैव भावयेत् ।। 32 ।।
अर्थयित्वा ततोऽनुज्ञां गृहीत्वा शिरसा ततः।
पात्रासनस्थितेभ्यस्तु पित्रर्थं यागमाचरेत् ।। 33 ।।
[मन्त्रेशसन्निधावभ्यर्थनम्] 23-15
भगवन्पितृयागार्थं यजामि त्वां विशेषतः।
तेषामनुग्रहार्थं तु यागमाहर मेऽच्युत ।। 34 ।।
एवं विज्ञाप्य मन्त्रेशं
[चरुसाधनम्] 23-16
चरुं क्षीरेण साधयेत्।
संस्कृतेऽग्नौ पुरा यद्यत्सिद्धं तच्चावलोकयेत् ।। 35 ।।
प्रोक्षयेदस्त्रमन्त्रेण भक्तं सव्यञ्जनादिकम्।
संस्कृतेनाग्निना ताप्य कृत्वा मधुघृताप्लुतम् ।। 36 ।।
तिलदर्भान्वितं पश्चात्प्राग्वदाप्याय्य निर्दहेत्।
सर्वं यत्साघितं किञ्चित् भक्ष्यपानादिभोजनम् ।। 37 ।।
चेतसा कल्पयेत्सर्वं पितॄणां तर्पयेत्तु तत्।
[साधितेन भक्ष्यभोज्यादिना देवस्य यजनम्] 23-17
ततस्तेन यजेद्देवमर्घ्यपुष्पादिकेन तु ।। 38 ।।
यथा निवेशिताः पूर्वं मण्डलेष्वथ नारद।
तेषां तृप्त्यर्थमुद्धृत्य संपूर्णं तु फलादिकैः ।। 39 ।।
दधिक्षीरान्नपात्रं तु क्रमादस्योद्धृतं च यत्।
अर्घ्यपुष्पैस्तथा धूपलेपनाञ्जनदीपिकैः ।। 40 ।।
तद्वीर्यमूष्मणा सार्धं तस्मिन्परिणतं स्मरेत्।
तेन तं भावयेत्तृप्तमतीव मुनिसत्तम ।। 41 ।।
सर्वेषामन्नवीर्यं हि एवं परिणतं नयेत्।
[पितृसन्तर्पणमंत्रः] 23-18
प्रणवेनामृतेनैव व्योमेशेनान्वितेन तु ।। 42 ।।
स्वनाम्ना च स्वधाऽन्तेन ततो नारायणात्मने।
तदन्ते तु नमस्कुर्यान्मन्त्रोऽयं पितृतर्पणे ।। 43 ।।
[अथाग्नौ होमविधानम्]
ततो नारायणाग्नौ तु यायादग्रं च नारद।
तमिन्धनेन शुष्केण संबोध्याज्ययुतेन च ।। 44 ।।
दक्षिणाग्रान् नय्सेत्तत्र दर्भान्भूयः स्तरोपरि।
पूर्ववत्पूजयित्वाऽग्निं पितॄन् तेन तु तत्स्थितम् ।। 45 ।।
मन्त्रमूर्तिं यजेत्पश्चाद्बिलदानेन वै पुनः।
त्र्यक्षरेण तु मन्त्रेण दद्यादन्नाहुतित्रयम् ।। 46 ।।
मद्येऽग्नि मन्त्रनाथस्य मध्याद्बाह्येऽग्निमध्यतः।
प्रदक्षिणक्रमेणैव द्वादशाप्याहुतीस्ततः ।। 47 ।।
मूर्तिमन्त्रात्तु वर्णेन एकैकेन तु नारद।
ओमादिना स्वधाऽन्तेन ततोऽस्त्रेण (1)तथा बहिः ।। 48 ।।
(1. यथा A.)
[अथ पितृभ्यः पिण्डदानविधानम्] 23-19
प्रदक्षिणे च प्रागादौ स्तरस्योपरि सोदकम्।
दत्वा बल्य(?)ष्टकं चाथ अग्नावग्रे तिलं क्षिपेत् ।। 49 ।।
हृन्मन्त्रेण पुरा विप्र पितृभ्यस्तत्र वै क्रमात्।
गायत्र्या च स्वनाम्ना वै स्वधायुक्तेन पूर्ववत् ।। 50 ।।
पाणिना त्वपसव्येन बलिदानं समाचरेत्।
तद्वीर्यं पूर्ववत्तेषां पितॄणां परिभावयेत् ।। 51 ।।
तिलोदकं ततो दद्यादाद्यन्तेन हृदा द्विज।
स्वधाप्रणवयुक्तेन नाम्ना गोत्रान्वितेन च ।। 52 ।।
राजाऽथ(?)सगुणध्यानचेतसा भावितेन वै।
अग्रतो मन्त्रमूर्तौ तु वह्नावपि ततः क्रमात् ।। 53 ।।
[अथ पितॄणामन्नसंविभजनविधानम्] 23-20
पूजयेदुपविष्टांश्च पुष्पधूपानुलेपनैः।
नैवेद्यहुतशेषं च तेषामन्नं विभज्य च ।। 54 ।।
व्यञ्जनादिफलोपेतं यत्किञ्चित्साधितं पुरा।
स्वधान्वितेन मूलेन मूर्तिना भूषितेन तु ।। 55 ।।
पात्रं पूर्णेन्दुवद्ध्यायेत्तन्मद्ये तं तु संस्मरेत्।
मन्त्रेशममृताकारं तृप्तिसंजननं महत् ।। 56 ।।
[भुञ्जानेषु पितृषु जपध्यानविधानम्] 23-21
भुञ्जानेषु तथैतेषु दश दिक्ष्वस्त्रमास्मरेत्।
जपेत् ध्यायेच्च मन्त्रेशं नारसिह्मं महामुने ।। 57 ।।
[भोजनान्ते दक्षिणादानम्] 23-22
भक्त्या संप्रीणयद्देवं दद्याच्छक्त्या च दक्षिणाम्।
नैवेद्यमपि सन्धार्यं तावदेव हि नारद ।। 58 ।।
यावद्भुजिक्रियान्तस्तु तदन्ते प्रतिपाद्य च।
[शेषान्नसंविभजनम्] 23-23
स्वं स्वमेव हि सर्वस्य अन्नस्याभ्यागतस्य च ।। 59 ।।
तेषु वा संविभज्यादौ एकं तत्रैव वर्जयेत्।
यत्पितामहनाम्ना तु हरेः पूर्वं निवेदितम् ।। 60 ।।
तद्गृहाश्रमिणो दद्यात् जायायां सुतवृद्धये।
अथ पूर्णाहुतिं दद्याद्देवदेवं विसृज्य च ।। 61 ।।
उपसंहृत्य चैवाग्रे ... ... ... ... ...।
नारद :---
कव्यं श्राद्धविधानं तु इदं ज्ञातं मया विभो ।। 62 ।।
और्ध्वदेहिकसंज्ञं तु ज्ञातुमिच्छामि वै प्रभो।
श्रीभगवान् ---
संस्कृत्य वैष्णवं प्रेतं विधिदृष्टेन कर्मणा ।। 63 ।।
[प्रेतश्राद्धविधानम्] 23-24
[तत्र प्रथमेऽहनि कर्तव्यविधिः]
ततस्तस्य क्रिया कार्या स्वाश्रमे वा जलाशये।
दिक् विदिक् सिह्ममन्त्रं तु सास्त्रं न्यस्य पुरा ततः ।। 64 ।।
तदन्तरे कुटिं ध्यायेद्वर्ममन्त्रं स्वमुद्रया।
कृतन्यासं ततोऽस्त्रेण प्रोक्षयेदस्त्रवारिणा ।। 65 ।।
उत्तराभिमुखां चुल्लीं तत्रास्त्रेणानलं क्षिपेत्।
वर्मणाऽभिनवां स्थालीं क्षाळयित्वोपलिप्य च ।। 66 ।।
हृदयेनाम्भसाऽऽपूर्य तेनैव क्षाल्य तण्डुलम्।
समारोप्य च संसाध्य गायत्र्या तं चरुं द्विज ।। 67 ।।
मधउक्षीराज्यसंमिश्रं सिद्धमुत्तारयेत्ततः।
आमूलादस्त्रपर्यन्तैस्तन्मन्त्रैरभिमन्त्र्य च ।। 68 ।।
वीक्षमाणो दिशं ह्यग्नेस्ततोऽस्त्रेणोपलिप्य च।
मण्डलं भूतले रम्ये केशकण्टकवर्जिते ।। 69 ।।
कृत्वाऽर्घ्यपात्रं तदनु प्रोक्षयेत्तज्जलेन तु।
तत्रास्त्रेण तिलान् दर्भान्विकिरेन्मध्य(?)मिश्रितान् ।। 70 ।।
तत्र भद्रासनं चैवावतार्यास्त्राभिमन्त्रितम्।
तत्रोपर्यथवा भूमौ मन्त्रपीठं प्रकल्पयेत् ।। 71 ।।
निष्कलं लययागेन मन्त्रेशं पूजयेत्ततः।
अर्घ्यपुष्पादिना पूर्वं विना न्यासक्रमेण तु ।। 72 ।।
वह्निपूजावसानं च शश्वन्नातीव विस्तरम्।
हृन्मन्त्रमन्त्रिते पात्रे राजते वाऽथ ताम्रके ।। 73 ।।
चरुस्थमुद्धरेदन्नं पात्राभावे च पिण्डवत्।
संस्थाप्य भगवत्यग्रे हृन्मन्त्रेण तु नारद ।। 74 ।।
ततो नैवेद्यमध्यस्थं हृद्बीजं प्रणवान्वितम्।
प्रेतनाम्ना समायुक्तं नमस्कारपदान्वितम् ।। 75 ।।
प्रेतरूपानुकारं च ध्यात्वाऽतो देवतात्मना।
स्वधाऽन्तेन स्वनाम्ना वै पूजयेत्तदनन्तरम् ।। 76 ।।
अर्घ्यपुष्पैस्तथा दीपैर्लेपनाभ्यञ्जनाञ्जनैः।
वाससा मधुपर्केण अन्नेन त्वर्हणादिना ।। 77 ।।
तर्पणेनाथ मात्राभिः प्रणम्य परमेशवत्।
एवं कृत्वा तु मन्त्रेशो निष्कलस्तत्र यः स्थितः ।। 78 ।।
लयदेहश्च विप्रेन्द्र तं किञ्चित् खप्लुतं स्मरेत्।
ततस्तिलेन मधुना दध्नाऽन्नेनोदकेन तु ।। 79 ।।
पूरयित्वाऽञ्जलिं पात्रं राजतं वाऽर्घ्यसंयुतम्।
नैवेद्यस्यापसव्येन परितः प्रक्षिपेद्बहिः ।। 80 ।।
नमस्कृत्य यथान्यायं क्षान्त्वा चाथावसज्य च।
मुद्रया सह मन्त्रेण पूर्वोद्दिष्टेन नारद ।। 81 ।।
पूर्णं हृदाऽम्भसा कृत्वा कलशं सतिलं द्विज।
नैवेद्यान्नसमायुक्तं ब्राह्मणस्य निवेद्य च ।। 82 ।।
गोषु वा तदभावाच्च तदभावे जले क्षिपेत्।
ततस्तिलोदकं दत्वा हृन्नाम्ना तु स्वधां सह ।। 83 ।।
प्रक्षाल्य पाणिपादं तु आचम्य तदनन्तरम्।
संहृत्य पीठन्यासं तु पूजास्यानं द्विजाम्भसा ।। 84 ।।
प्लावयित्वोपलिप्याऽथ कृतन्यासो विशेद्गृहान्।
पूर्ववत्कृतरक्षस्तु भुञ्जीयात् पावनं लघु ।। 85 ।।
तदन्ते नृहरिं ध्यायेद्यथाशक्ति तु संजपेत्।
दिनान्तेऽस्त्रेण सिद्धार्थान् क्षिप्त्वा शयनमाचरेत् ।। 86 ।।
विधानमेतदखिलमाचर्तव्यं प्रयत्नतः।
[द्वितीयदिनमारभ्य यावद्दशमदिनं कर्तव्यविधिः] 23-25
दिनानि दश मेधावी प्रेतानुग्रहकाम्यया ।। 87 ।।
आरभ्य शिरसो यावदस्त्रमन्त्रैस्तु नारद।
अथोर्ध्वमनिरुद्धादिवासुदेवावसानकम् ।। 88 ।।
दशाहमेवं निर्वर्त्त्य प्राप्ते त्वेकादशे दिने।
[एकादशेऽहनि कर्तव्यश्राद्धविधानम्] 23-26
श्राद्धकर्म तु वै कुर्यात्संपन्ने त्वाह्निके सति ।। 89 ।।
तदर्थमभ्यर्थ्य गुरुं गुरुपुत्रं तु वा द्विज।
साधकं तदभावात्तु पुत्रकं सामयं तु वा ।। 90 ।।
प्रागुक्तं यतिपूर्वं वा वैष्णवं त्वेकमेव हि।
प्रक्षाळिताङ्घ्रिं स्वाचान्तं कृत्वा तं संप्रवेश्य च ।। 91 ।।
दत्वासनं तु संस्थाप्य उत्तराभिमुखं तु तम्।
पूजयेच्च ततो देवं शक्त्यङ्गावयवान्वितम् ।। 92 ।।
आचार्यस्य ततो विप्र कुर्यान्मण्डलकं शुभम्।
तत्रासनवरं दद्यात्पूजितं व्याप्तिभावितम् ।। 93 ।।
विनिवेश्याथ वै तत्र प्रेतनाम्नाऽभिमन्त्रितम्।
पूर्वोक्तेन विधानेन न्यास आवाहनं भवेत् ।। 94 ।।
अर्घ्यपाद्ये ततो दद्यान्नामगोत्रेण नारद।
पुष्पधूपार्चितं कुर्याद्यथाशक्त्यम्बरादिभिः ।। 95 ।।
मृतोपकरणं सर्वं तस्यैव विनिवेद्य च।
अनुज्ञां पूर्ववल्लब्ध्वा पित्रर्थं (प्रेतार्थं?) यागमारभेत् ।। 96 ।।
पूर्वोक्तेन विधानेन किञ्चित्तत्रापि चोच्यते।
नैवेद्यपिण्डं गायत्र्या निवेद्यामृतगोळवत् ।। 97 ।।
ध्यात्वाह्लादकराकीर्णं स्थितं धामत्रयोपरि।
तन्मध्ये मूलमन्त्रेण स्वधाशब्दान्वितेन तु ।। 98 ।।
मूर्तिं प्रेतमयीं ध्यायेन्नारायणकलोद्भवाम्।
लक्ष्म्याद्यमखिलं तत्र लयन्यासं प्रकल्पयेत् ।। 99 ।।
तमर्घ्याद्यैरथो भोगैर्मूलमन्त्रेण पूजयेत्।
मुद्रां बध्वा जपित्वा च वह्निस्थे चाग्रतो हरेः ।। 100 ।।
दक्षिणाग्रेषु दर्भेषु एकमेव समाचरेत्।
तिलोदकान्तं सकलमाचार्यं भोजयेत्ततः ।। 101 ।।
भुञ्जानस्य मुने तस्य अग्रस्थो नृहरिं जपेत्।
तद्भोजनावसाने नु मन्त्रपीठस्य चाग्रतः ।। 102 ।।
अर्घ्यपात्रेण विप्रेन्द्र भूयो दद्यात्तिलोदकम्।
भुक्तशेषं तु सिद्धान्नं गृहीत्वाऽर्घ्योदकान्वितम् ।। 103 ।।
भूतानां तर्पणार्थाय विकिरेत्पूर्ववद्बलिम्।
संतृप्तस्याग्रतश्चैव हृन्मन्त्रेणामृतेन तु ।। 104 ।।
परमेश्वरयुक्तेन नमोऽन्तेनामलादिना।
संपन्नमिति संपृष्ट्वा दद्यादाचमनं ततः ।। 105 ।।
उच्छिष्टमुपसंहृत्य अस्त्रेणाभ्युक्षयेत्क्षितिम्।
भगवत्प्रीणनं कुर्याद्गृहीत्वा दक्षिणां तु वै ।। 106 ।।
वह्निस्थस्य तु मन्त्रस्य दद्यात्पूर्णाहुतिं द्विज।
हृदयाम्बुजमध्ये तु तेजःपुञ्जप्रभं महत् ।। 107 ।।
मन्त्रेशमुपसंहृत्य पीठपिण्डाग्निमध्यगम्।
विधिनाऽनेन वै कुर्यान्मासं मासं महामने ।। 108 ।।
[अथ प्रेतत्वनिवर्तकमाब्दिकश्राद्धम्] 23-27
वत्सरे चैव निष्पन्ने मासे चैव त्रयोदशे।
प्रेतत्वस्योपशान्त्यर्थं पितृश्राद्धं समाचरेत् ।। 109 ।।
स्नानाद्यं होमपर्यन्तं कुर्यादादौ द्विजाह्निकम्।
संस्कृतेऽग्नौ तु सिद्धेऽग्नौ घृतक्षीरमधुप्लुते ।। 110 ।।
आहूय भगवद्भक्तानाचार्यांश्च क्रियापरान्।
चतुरोदङ्‌मुखान् न्यस्य पीठन्यासक्रमेण तु ।। 111 ।।
द्वावन्यौ पूर्ववक्रौ च विनिवेश्यासनद्वये।
चतुर्णामनिरुद्धाद्यैर्मन्त्रैर्न्यासं समाचरेत् ।। 112 ।।
मूलीयमङ्गषट्कं तु ह्येकैकस्याथ विन्यसेत्।
आपादान्मूर्धपर्यन्तं द्वाभ्यामस्त्रं तु देहगम् ।। 113 ।।
जातियुक्तं तदेवास्त्रं स्वसंज्ञापरिभूषितम्।
ताभ्यां षडङ्गन्यासार्थं कृत्वा देहे करे न्यसेत् ।। 114 ।।
यदर्थं क्रियते श्राद्धं संज्ञा तस्यानिरुद्धकी।
पितुः संज्ञां च विन्यस्य प्रद्युम्नस्यामितात्मनः ।। 115 ।।
सङ्कर्षणं तु मन्त्रेशं कल्पयेच्च पितामहम्।
प्रतिपामहसंज्ञं तु वासुदेवं प्रकल्पयेत् ।। 116 ।।
विधिनाथाप्ययाख्येन अर्घ्यपुष्पादिभिर्यजेत्।
प्रार्थयित्वा ततोऽनुज्ञां मन्त्रेशं प्रतिमागतम् ।। 117 ।।
विभवेनार्चयित्वा तु स्नानाद्येन महामते।
चन्दनाभरण्सरग्भिर्वस्त्रैर्धृपैस्तथाऽञ्जनैः ।। 118 ।।
दीपेन मधुपर्केण परमान्नेन मात्रया।
स्तोत्रमन्त्रनमस्कारैः सुमनोभिरनन्तरम् ।। 119 ।।
तमेवानलमध्ये तु सन्निधीकृत्य पूजयेत्।
ततोऽस्त्रमन्त्रजप्तेषु पात्रेषूद्धृत्य भक्तितः ।। 120 ।।
पितृसन्धानसिद्ध्यर्थं नैवेद्यान्नचतुष्टयम्।
व्यञ्जनादिसमायुक्तं मध्वाज्यतिलभावितम् ।। 121 ।।
संप्रोक्ष्य चानिरुद्धाद्यैर्मूलमन्त्रेण वै विभोः।
संहारक्रमयोगेन एकैकं विनिवेद्य च ।। 122 ।।
ततोऽन्नपात्रमेकैकमानयेत्संस्कृतं पुरा।
तथारूपं तु तं ध्यायेच्चतुर्धा भेदभावितम् ।। 123 ।।
बहुभिन्नाऽन्नशक्तिभ्य उत्तरोत्तरतां गताः।
अनिरुद्धादिभेदेन वासुदेवावसानतः ।। 124 ।।
रसशक्तिश्च या चासौ साऽनिरुद्धो महामते।
प्रद्युम्नो वीर्यशक्तिः स्यात् धृतिशक्तिस्ततोऽच्युतः ।। 125 ।।
आनन्दशक्तिर्याऽन्नोत्था वासुदेवस्तु स स्मृतः।
एवं स्मृत्वा ततो ध्यात्वा मन्त्रैः स्वैः स्वैः पृथक् पृथक् ।। 126 ।।
न्यासमन्नशरीराणां देवानां विद्धि पूर्ववत्।
हृदाद्यस्त्रावसानं च एवं मूर्तिमयं द्विज ।। 127 ।।
तन्नैवेद्यचतुष्कं तु लोलीभूतं गतं त्वपि।
मन्त्रमित्यन्नभेदेन अर्घ्यपात्रादिना यजेत् ।। 128 ।।
नामगोत्रादिना प्राग्वद्देवेशं प्रीणयेत्ततः।
ततोऽग्निस्थाच्युतस्याग्रे तृप्तस्याज्यादिना पुरा ।। 129 ।।
एवमेव चतुर्धा वै कृत्वा चान्नमयीं क्रियाम्।
तत्रापि प्रीणनं कृत्वा पितृनाथस्य वै प्रभोः ।। 130 ।।
त्वदग्रे प्रीतये पीत्वा पितृयागमिदं मया।
कृतं मन्त्रात्मने हित्वां...स्वधा ओं नमोनमः(?) ।। 131 ।।
हृन्मन्त्रेण ततो दद्यादेकैकस्य तिलोदकम्।
अग्रतोऽन्नशरीरस्य मन्त्रमूर्त्यात्मनः पितॄन् ।। 132 ।।
अथाप्ययेन विधिना अन्नवीर्यमयान्पितॄन्।
देवतामन्त्रचैतन्ये शान्तभावं गतान्स्मरेत् ।। 133 ।।
कर्मवाङ्‌मनसाभ्यां च यथा तदवधारय।
किञ्चिच्च पूर्वं नैवेद्यादादायान्नं तु पाणिना ।। 134 ।।
तदूर्ध्वस्थेऽन्नकबले पूर्वमुच्चार्य मेलयेत्।
नामगोत्रावसानं च पितृमन्त्रं पुरोदितम् ।। 135 ।।
अधीशमन्त्रं तदनु स्वधाम्नि व्रज वै पदम्।
नमस्कारान्वितेनैवमुक्त्वैवं भावयेत्ततः ।। 136 ।।
प्रद्युम्नात्मनि संलीनमन्नवीर्यं(र्ये ?) शशिप्रभम्(भे ?)।
पितरं(?) तारकाकारमनिरुद्धं ज्वलत्प्रभम् ।। 137 ।।
चिद्धर्मविभवोपेतमेवं कृत्वा ततो द्विज।
मेळयेद्विधिनाऽनेन अन्नं प्रद्युम्नभावितम् ।। 138 ।।
सङ्कर्षणे महाधाम्नि वासुदेवे च तं पुनः।
वासुदेवोऽपि भगवान् परस्मिन्नव्यये पदे ।। 139 ।।
शान्तेऽनन्ते तु पूर्वोक्ते यत्रस्थो न भवेत्पुनः।
कृत्वैवं पितृसन्धानं हरेरग्रेऽग्निसन्निधौ ।। 140 ।।
भोजनं च ततो दद्यात्पूजितानां पुरा द्विज।
यथाक्रमं ततः पृच्छेत्तृप्तिमन्नपरां तु तान् ।। 141 ।।
स्वाचान्तानन्ततो दद्याद्विष्णोरग्रे तु दक्षिणाम्।
हृन्मन्त्रेण तु तैर्वाच्या प्रीतिर्नारायणी परा ।। 142 ।।
ततः पूर्णाहुतिं दद्यात् क्षन्तव्यो द्विज मन्त्रराट्।
[पैतामहान्नशेषस्य जायायै प्रदानम्] 23-28
प्राग्वन्ममेति(?)नैवेद्यं मूलमन्त्राभिमन्त्रितम् ।। 143 ।।
प्रयतायां तु जायायां दद्यात् क्षीराज्यभावितम्।
सुतत्वेन तु संसिद्धिं तत्कुक्षौ चोपयान्ति च ।। 144 ।।
(1)अथ तेनोदकेनैव लक्ष्मीसौभाग्यभाजनम्।
[शेषान्नसंविभजनम्] 23-29
ज्ञानधर्मक्रियासक्तस्सत्यव्रतपरायणः ।। 145 ।।
(1. अथेत्यादेः श्लोकार्धस्य नियोजनादि वै कुर्यादित्यस्यानन्तरं पाठो युक्तः प्रतिभाति।)
नियोजनादि वै कुर्यान्नैवेद्यस्यैव पूर्ववत्।
[पितॄणां विसर्जवप्रकारः] 23-30
पादा(द्या ?)र्घ्यपात्रमुत्पाद्य हृन्मन्त्रेण तु वै पुरा ।। 146 ।।
स्वमन्त्रेण पितॄन्सर्वांस्तत्रस्थान् खगतान् स्मरेत्।
[नेत्रावमार्जनम्] 23-31
अथ तेनोदकेनैव नेत्रमन्त्रेण लोचने ।। 147 ।।
अवमार्ज्योदकं तद्वै स्थाने निक्षिप्य पावने।
इति मन्त्रमयश्राद्धं कुरुते सुगतिप्रदम् ।। 148 ।।
[गुर्वादिश्राद्धस्य समयज्ञादिभिः कर्तव्यता] 23-32
समयज्ञादिकैः कार्यं गुरूणामात्मसिद्धये।
पित्रादीनां च स्वसुतैर्गुरुभिश्चानुकम्पया ।। 149 ।।
समयव्रतपूर्वाणां शिष्याणां भावितात्मनाम्।
यद्यप्यनुप्रयोज्यं स्याच्छ्राद्धं सद्दीक्षितस्य च ।। 150 ।।
क्रियासंज्ञेन तत्रापि कार्यमात्महिताप्तये।
दीक्षासममिदं श्राद्धं कुगतेः सुगतिप्रदम् ।। 151 ।।
सदैव दीक्षितानां च यागे यज्ञे च वैष्णवे।
तस्मात्सर्वप्रयत्नेन यथालब्धेन केनचित् ।। 152 ।।
वस्तुनाऽपि पवित्रेण इदं श्राद्धं समापयेत्।
[श्राद्धानुष्ठानस्य प्रशंसा] 23-33
कदन्नेन कुदेशे च अपात्रे चापि नारद ।। 153 ।।
ध्यानविज्ञानमन्त्राद्यैः संपाद्यं विद्धि शाश्वतम्।
देशकाले तथा पात्रे श्रद्धापूतं तु किं पुनः ।। 154 ।।
वैष्णवः परमं पात्रं देश आयतनं हरेः।
द्वादशी सर्वकालानामुत्तमा परिकीर्तिता ।। 155 ।।
इतिश्रीपाञ्चरात्रे जयाख्यसंहितायां श्राद्धविधानं नाम त्रयोविंशः पटलः।
* * * * *