जयाख्यसंहिता/पटलः १८
← पटलः १७ | जयाख्यसंहिता पटलः १८ [[लेखकः :|]] |
पटलः १९ → |
जयाख्यसंहितायाः पटलाः |
---|
पटलः - 18
अथाभिषेकाक्यानं नामाष्टादशः पटलः।
श्रीभगवान् ---
[अभिषेकेऽधिकारः] 18-1,2
अथाभिषेचयेच्छिष्यं सर्वलक्षणसंयुतम्।
सुखान्तं स्पष्टमनसं संयतं देवपूजकम् ।। 1 ।।
गुरुभक्तं जिताक्षं च पूर्वोक्तसमयस्थितम्।
एवंविधस्य सततं कर्तव्यमभिषेचनम् ।। 2 ।।
[अभिषेक्तुराचार्यस्य ब्राह्मणजातीयस्य सर्वेषामभिषेकविधानेऽधिकारः] 18-3
आचार्यस्सर्ववर्णानामाश्रमाणां तथैव च।
तथा सामयिकादीनां त्रयाणां च विशेषतः ।। 3 ।।
प्रभुत्वेनाभिषेक्तव्यमधिकारार्थमेव च।
तेनापि सर्वजन्तूनां कार्यो नित्यमनुग्रहः ।। 4 ।।
परितुष्टेन सततं दातव्यमभिषेचनम्।
ब्राह्मणः पञ्चकालज्ञः कुर्यात्सर्वेष्वनुग्रहम् ।। 5 ।।
[ब्राह्मणाद्यभावे क्षत्रियादीनां स्वस्वावरवर्णानां शिष्याणामनुग्रहाभिषेककरणेऽधिकारः] 18-4
तदभावाद्द्विजश्रेष्ठ शान्तात्मा भगवन्मयः।
भावितात्मा च सर्वज्ञः शास्त्रज्ञः सत्क्रियापरः ।। 6 ।।
सिद्धित्रयसमायुक्त आचार्यत्वेऽभिषेचितः।
क्षत्रविट्शूद्रजातीनां क्षत्रियोनुग्रहक्षमः ।। 7 ।।
क्षत्रियस्यापि च गुरोर भावादीदृशो यदि।
वैश्यःस्यात्तेन वै कार्यो द्वयोर्नित्यमनुग्रहः ।। 8 ।।
सु(स?)जातीयेन शूद्रेण तादृशेन महाधिया।
अनुग्रहाभिषेकौ च कार्यौ शूद्रस्य सर्वदा ।। 9 ।।
[उत्तमवर्णस्याविदुष उपायेन संबोधप्रापणम्] 18-5
उपायेन भयाल्लोभात्सर्वैर्मूर्खो द्विजोत्तमः।
सन्मार्गे विनियोक्तव्यः शास्त्रेण क्रियया तथा ।। 10 ।।
यावत्संबोधमाप्नोति स्वात्मना शुभलक्षणम्।
[प्राप्तसंबोधस्य तस्य विनाऽनुग्रहबुद्ध्या सकलक्रियाधानपूर्वकं कालेन कृतकृत्यतापादनम्] 18-6
पूर्वोक्तेन विधानेन इष्ट्वा यागेन चाच्युतम् ।। 11 ।।
विधिनाऽग्नौ च सन्तर्प्य स्नापयित्वा द्विजोत्तम।
विनाऽनुग्रहबुध्या वै तस्य कार्या क्रियाऽखिला ।। 12 ।।
मन्त्रेणार्चापयेद्विष्णुमर्थितो ह्युपवेशितम्।
कृतकृत्यो यदा स स्यात्क्रमात्कालान्तरेण च ।। 13 ।।
आचारेण तथा नीत्या शास्त्रेण कृपया तथा।
[सजतीयस्यापि गुरोरलाभेन स्वस्य स्वेनैवानुग्रहाभिषेकयोः कर्तव्यता] 18-7
तथा शास्त्रोक्तविधिना स्वयमिष्ट्वा जगद्गुरुण् ।। 14 ।।
हुत्वा शास्त्रोक्तविधिना अर्चयित्वाऽच्युतं प्रभुम्।
अनुग्रहाभिषेकौ च स्वयमात्मनि कल्पयेत् ।। 15 ।।
स्वजातीयगुरोर्विप्र अभावादिदमाचरेत्।
अनुकल्पं द्विजाद्यैश्च आत्मसंस्कारसिद्धये ।। 16 ।।
[सति गुरौ स्वेनैव कर्तव्यतायाः प्रतिषेधः] 18-8
गुरौ वर्णोत्त्रमे विप्त विद्यमाने श्रुतेऽपि वा।
स्वदेशतोऽपि वाऽन्यत्त्र नेदं कार्यं शुभार्थिना ।। 17 ।।
स्वदेशतोऽपि यः कुर्याद्यत्र यत्र विपर्ययम्।
तस्येह पुत्रनाशः स्यात्तस्माच्छास्त्रोक्तमाचरेत् ।। 18 ।।
[उत्तमवर्णस्य दीक्षादिविधानेऽवरवर्णस्यानधिकारः] 18-9
क्षत्रविट्शूद्रजातीयः प्रातिलोम्यान्न दीक्षयेत्।
त्रितत्वविद्द्विजातीयो दीक्षयेदनुलोमतः ।। 19 ।।
[समयज्ञाभिषेकविधानप्रकारः] 18-10
मूलमन्त्रोपजप्तेन तद्व्याप्तिविभवं विना।
समयज्ञस्य संपाद्यं गुरुणाचाभिषेचनम् ।। 20 ।।
[पुत्रकस्याभिषेकविधानप्रकारः] 18-11
मन्त्रोच्चारणमात्रेण ध्यानसंवित्तिवर्जितम्।
ध्यात्वाऽथ तत्त्वनिश्रेर्णी नवधा बीजसंस्थिताम् ।। 21 ।।
एकोनाधिष्ठितां स्रवां मूलेन सकलात्मना।
तां तु संपूज्य संस्मृत्य सृष्टिधर्मक्रमेण तु ।। 22 ।।
मनसा तु मुनिश्रेष्ठ पुष्पैर्वा विविधैः शुभैः।
ततोऽभिषेको दातव्यस्तत्त्वाख्यः पुत्रकस्य च ।। 23 ।।
[साधकाभिषेकप्रकारः] 18-12
साधकस्यापि वक्ष्यामि अभिषेकविधिं क्रमात्।
ध्यात्वाऽथ तत्त्वनिश्रेणीं संहारं सृष्टियोगतः ।। 24 ।।
नवधा त्रिविधेनैव भिन्नां सूक्ष्मादिना त्वथ।
मन्त्रश्रेणीं च नवधा क्रमान्न्यस्य पुरोदिताम् ।। 25 ।।
तत्रैव सृष्टिं योगेन सकलं निष्कलं द्विधा।
पूजयित्वा विधानेन कलशेषु पृथक् पृथक् ।। 26 ।।
प्राग्वत्संस्मृत्य संस्मृत्य साधकत्वेन पुत्रकम्।
तत्त्वाभिषेचनं दद्याच्छुभं सिद्धिकरं महत् ।। 27 ।।
तत्वमन्त्रावधिर्यावत्साधकस्याभिषेचनम्।
[आचार्याभिषेचनम्] 18-13
दत्वैवं मन्त्रसिद्धस्य गुरुत्वेन ततो द्विज ।। 28 ।।
तस्यैव यादृशं दद्यादभिषेकं हितं शृणु।
ईश्वरादचलान्ताच्च साधिभूताधिदैवताम् ।। 29 ।।
तत्त्वमालां स्मरेत्सर्वां सृष्टिन्यायेन वै पुरा।
तत्र विन्यस्य विततां मन्त्रश्रेणीं पुरोदिताम् ।। 30 ।।
त्रिविधेन प्रकारेण सप्तार्णाद्यावदङ्कुशम्।
प्रपूज्य विधिना पश्चात्संहाराख्यक्रमेण तु ।। 31 ।।
परिजप्यं द्विजश्रेष्ठ यावद्वाणी निवर्तते।
स्वभावस्थो गुरुः साक्षात्परेणानेकभेदिना ।। 32 ।।
ततोऽभिषेको दातव्यो मनसा विभवेन च।
परतत्वावधिं ध्यात्वा देशिकञ्चाभिषेचयेत् ।। 33 ।।
[समयज्ञादीनां चतुर्णामभिषेके भावनीयः पर्वभेदः] 18-14
सेनापतिक्रमेणैव समयज्ञस्य सर्वदा।
महामन्त्रित्वविधिना पुत्रकस्याभिषेचनम् ।। 34 ।।
युवराजविधानेन दातव्यः साधकस्य च।
राजोपचारविधिना अभिषेको गुरोः स्मृतः ।। 35 ।।
[आचार्याभिषेकप्रयोगः] 18-15
दीक्षामण्डलवेद्यां तु सितेन रजसा गुरुम्।
स्वस्तिकं मण्डलं कृत्वा तन्मध्ये मण्डलं शुभम् ।। 36 ।।
द्विहस्तं शाश्वतं पद्मं यज्ञवृक्षोद्भवं तु वा।
सुकृतं चाऽथ सुश्लक्ष्णं सर्वत्राष्टाङ्गुलोच्छ्रितम् ।। 37 ।।
मृगचर्म तु तत्पृष्ठे सितं वस्त्रं तदूर्ध्वतः।
वितानेनोर्ध्वताच्छेन (?) सपुष्पेण सितेन च ।। 38 ।।
पूर्णपात्रान्वितं तत्र दिक्षु पूर्णघटादिकम्।
दद्याद्दीपाष्टकं तत्र लाजादीन् परितः क्षिपेत् ।। 39 ।।
संस्थाप्य पीठनिकटे भ्रमद्दक्षिणतः क्रमात्।
चन्दनं सितमर्घ्यं च दूर्वा जातिफलानि च ।। 40 ।।
तांबूलव्यञ्जनं दण्डं विचित्रे चाप्युपानहौ।
शङ्खचक्रगदापद्मशुभमुद्राचतुष्टयम् ।। 41 ।।
वाससी उपवीतं च कौशेयं च पवित्रकम्।
घटिकां करणीं सूत्रमर्घ्यपात्रं कमण्डलुम् ।। 42 ।।
गैरिकं मुखवासांसि सितमृद्गोमयं तथा।
कृष्णसाररुरोश्चर्म दन्तधावनमेव च ।। 43 ।।
ततः सर्वाधिकारार्थं संहितापुस्तकादि च।
ईशदिङ्भण्डलस्याथ स्थलीं कृत्वा तथाविधाम् ।। 44 ।।
शोभितां च वितानाद्यैस्तत्र मन्त्रेश्वरस्ततः।
आदौ तु कलशे पूज्यस्ततो मण्डलमध्यगः ।। 45 ।।
वह्निमध्ये ततः पूज्यः शिष्यदेहे पुनः पुनः।
आत्मस्थं च पुरा देवं संपूज्य तदनन्तरम् ।। 46 ।।
आनीय कलशन्दिव्यान् पूर्वलक्षणलक्षितान्।
सर्वरत्नैश्च संपूर्णान्कदलीफलशोभितान् ।। 47 ।।
तीर्थोदकेन संपूर्णान् प्रागुक्तरचनान्वितान्।
प्रदक्षिणेन विन्यस्य प्रागादौ मण्डलाद्बहिः ।। 48 ।।
स्वतत्त्वसंख्ययाऽऽचार्ये
[आचार्याभिषेकात् साधकाद्यभिषेके कलशसंख्यायां भेदः]
साधके पुत्रकेऽथ च।
एकं वै समयज्ञस्य द्रवे कर्म(व्यमेकं)विनिक्षिपेत् ।। 49 ।।
एवंविधांस्तु(स्त्रीन्)कलशान्सत्याद्यैश्च प्रतिष्ठितान्।
पुरा कृत्वा विधानेन प्रागुक्तेन क्रमेण तु ।। 50 ।।
मन्त्रैः संजप्य संपूज्य संचित्य च यथाक्रमम्।
प्रागादिष्वथ सर्वेषु गन्धपुष्पादिभिः क्रमात् ।। 51 ।।
पूर्वोदितेन विधिना इष्ट्वा मन्त्रोश्वरं विभुम्।
प्रजापयेत्ततः शिष्यं स्वात्मीयेन क्रमेण तु ।। 52 ।।
चरुणा च ततःपूज्यमाधारादिक्रमेण तु।
वेदिमध्यगतं चैव अभिषेकासनं शुभम् ।। 53 ।।
मन्त्रपीठत्वमापन्नं लाजप्रकरशोभितम्।
तस्योपरि स्थितं कृत्वा शिष्यं मन्त्रशरीरिणम् ।। 54 ।।
गत्वाऽथ मण्डलाग्रं तु विज्ञाप्यः परमेश्वरः।
त्वच्छासनप्रपन्नानामधिकारं करोम्यहम् ।। 55 ।।
शिष्यमात्मसमं भक्तमहं यास्यामि ते लयम्।
लब्धानुज्ञस्ततो विप्र पूर्वदिक्संस्थितश्च यः ।। 56 ।।
कलशं पूजयित्वा तं स्वमन्त्रेण स्वमुद्रया।
सहस्रपरिजप्तेन सम्यगष्टाधिकेन च ।। 57 ।।
शतजप्तेन दशभिः सकृत्गुर्वादितः क्रमात्।
ध्वात्वा चामृतसंपूर्णं मन्त्रं रत्नोज्ज्वलं प्रभुम् ।। 58 ।।
तस्य मूर्ध्नि शुभं दत्वा कलशं मन्त्रपूजितम्।
ततः क्रमेण कलशैः सकलैरभिषेचयेत् ।। 59 ।।
पठद्भिर्माङ्गलीयानि ऋक्सामानि यजूंषि च।
मङ्गलैर्दीयमानैस्तु तन्त्रीवाद्यसमन्वितैः ।। 60 ।।
शङ्खशब्दैः सपटहैर्जयशब्दसमन्वितैः।
अनेन विधिना कुर्यादाचार्यस्याभिषेचनम् ।। 61 ।।
मन्त्रोपकरणं सर्वं तस्य संप्रतिपाद्य च।
हस्तद्वयं च वक्तव्यं प्रणम्या(त्या?)संस्थितस्य च ।। 62 ।।
सहस्रकिरणाभं तु सूर्यबीजेन चाच्युतम्।
स्मरेद्दक्षिणहस्तस्थं पद्मे चानन्तपल्लवे ।। 63 ।।
कलाद्वादशसंयुक्ते अकाराद्यैरदारुणैः (?)।
द्रव्यशुद्धिविदाहार्थं द्रव्योत्पत्तौ ततः स्मरेत् ।। 64 ।।
सितं सहस्रपत्राढ्यं कलाषोडशकेसरम्।
सोमबीजेन तन्मध्ये स्मरेन्नारायणं प्रभुम् ।। 65 ।।
स्रवन्तममृतं दिव्यं द्रव्योत्पादनकर्मणि।
भौतं तान्मात्रिकं मान्त्रं विग्रहं चास्य दर्शयेत् ।। 66 ।।
विज्ञानपदवीं सर्वां स्वानुभूतामनेकशः।
स्थावलक्षक्रमेणैव वक्त्वया विविधाश्च वै ।। 67 ।।
व्याख्याताः पुस्तके याश्च विज्ञानगतयः शुभाः।
तच्चित्तं हि क्रमात्तासामनुसन्धाय वै गुरुः ।। 68 ।।
आचार्यसमयान् पश्चादूर्ध्वस्थाञ्छ्रावयेच्छुभान्।
[आचार्यपदासाधारणा विशेषसमयाः] 18-16
संसारभयभीतानां भक्तानां परमेश्वरे ।। 69 ।।
शास्त्रक्रमेण विधिवदिदं शास्त्रं प्रकाशयेत्।
गच्छंस्तिष्टन्स्वपन् जाग्रद्भगवन्तं स्मरेत्सदा ।। 70 ।।
पुण्डरीकस्य मध्यस्थं द्रव्यैर्दानसमुद्भवैः।
मान्त्रभावाद्यजेद्विष्णुं देशे तस्करसंकटे ।। 71 ।।
नाभिमानाच्च वै बाह्या क्रिया त्याज्या कदाचन।
चातुर्मास्यं च नियममवतिष्ठेदवश्यतः ।। 72 ।।
उपभुक्तं परेणैव विशेषाद्दीक्षितेन तु।
छत्रोपानहवस्त्राद्यं नोपयुञ्जीत जातु वै ।। 73 ।।
असंपत्तावथापत्सु न दोषं क्षालिते सति।
स्वगुरोर्दीक्षितानां च आचार्याणां सदैव हि ।। 74 ।।
उपभुक्तं न दोषः स्यात्स्वदत्तादाहृतात्तु वा।
भगवद्भक्तिनिष्णातास्तच्चित्तास्तत्परायणाः ।। 75 ।।
कर्मणा मनसा वाचा संमान्याश्च सदैव हि।
भर्तव्याश्चैव पूज्याश्च वाग्दानैर्मधुरैः सदा ।। 76 ।।
जातिधर्ममनुज्झित्वा तथाच स्वगुरोः क्रमम्।
स्वशास्त्रविहितं चापि ज्ञानं शिक्षेदशिक्षितम् ।। 77 ।।
एकतः समयाः सर्वे नियमाश्चैव सर्वशः।
एकतो भगवान्विष्णुर्गुरुस्तद्भाविनो नराः ।। 78 ।।
ज्ञात्वा जीर्णमसारं च इदं पुत्र कलेवरम्।
स्वाधिकारं समारोप्य योग्यस्याटनमाचरेत् ।। 79 ।।
दण्डी कषायवासाश्च नमो नारायणाय वै।
ब्रुवन्प्रणवपूर्वं च त्यक्त्वा सर्वपरिच्छदम् ।। 80 ।।
क्षेत्रायतनतीर्थानामन्ते ब्रह्मणि योजयेत्।
आत्मतत्वं शरीरं च अग्नौ वा खेचरादिषु ।। 81 ।।
तत्त्वसन्यासयोगेन येन स्याच्छान्तिराच्युति।
इत्युक्त्वा दक्षिणे हस्ते स्वयं सञ्चिन्त्य वै गुरुः ।। 82 ।।
मन्त्रात्मानं परं विष्णुं परं सकलनिष्कलम्।
संपूज्य गन्धपुष्पाद्यैर्दद्यात्तस्य च मस्तके ।। 83 ।।
[शिष्येण गुरोः पादोदकप्राशनकर्तव्यता] 18-17
न्यस्यासनं ततः शिष्यः पादयोर्निक्षिपेच्छिरः।
प्रक्षाल्य सलिलेनाथ गुरोश्चरणपङ्कजम् ।। 84 ।।
तेनात्मानं तु संसिच्य पिपेदञ्जलिना ततः।
पूर्ववत्पूजयेद्भक्त्या आत्मनाऽथ धनेन च ।। 85 ।।
अनेन विधिना कुर्यादाचार्यस्याभिषेचनम्।
[साधकाभिषेकातिदेशः]
एवमेव विधानेन साधकं चाभिषेचयेत् ।। 86 ।।
समालम्भनपूर्वं यद्द