प्रमुखा विकल्पसूचिः उद्घाट्यताम्
← पटलः ६ जयाख्यसंहिता
पटलः ७
[[लेखकः :|]]
पटलः ८ →
जयाख्यसंहितायाः पटलाः

पटलः - 7
अथ उपकरणमन्त्रोद्धारो नाम सप्तमः पटलः 7-1
श्रीभगवान् ---
अथाधारासनाख्यानां मन्त्राणां लक्ष्णं शृणु।
पूजनं यैर्विना विप्र मन्त्रेशस्य न जायते ।। 1 ।।
[आधारशक्तिमन्त्रः] 7-2
अशेषभूवनाधारामाधाराधेयवन्न्यसेत्।
परमात्मनि विप्रेन्द्र यायाख्यो मत ऊर्ध्वतः ।। 2 ।।
नमोऽन्तं प्रणवाद्यं च बीजमाधारशक्तिजम्।
आधेयतुल्यसामर्थ्यमस्य रूपं तथाविधम् ।। 3 ।।
[कूर्ममन्त्रः] 7-3
उद्धृत्य प्रणवं पूर्वमनन्तेशस्य पूर्वजम्।
तत्कालपावकेनैव भिन्नं कुर्याद्द्विजोभयोः ।। 4 ।।
त्रैलोक्यैश्वर्यदेनैवमूर्जेन तु तथा द्विज।
नमस्कारान्वितं बीजं कूर्मकालाग्निवाचकम् ।। 5 ।।
आधारशक्तेरुपरि विमलं दीप्तविग्रहम्।
ज्वालाशतसमाकीर्णं शङ्खचक्रगदाधरम् ।। 6 ।।
[अनन्तमन्त्रः] 7-4
अनन्तेशस्य यत्पूर्वं गोपनेन समन्वितम्।
व्योमयुक्तमनन्ताख्यं नागराजस्य कीर्त्तितम् ।। 7 ।।
प्रणवादि नमोऽन्तं च एतद्बीजवरं शुभम्।
पूर्णचन्द्राननं ध्यायेत्सहस्रफणभूषितम् ।। 8 ।।
चक्रलाङ्गलहस्तं च प्रणमन्तः परात्परम्।
[धरामन्त्रः] 7-5
अनन्ताख्यं च यद्बीजं प्रधानोपरि संस्थितम् ।। 9 ।।
सोऽप्यारूढो धरेशस्य व्योमानन्तद्वयाङ्कितम्।
प्राग्वदाद्यन्तसंरुद्धं धरायास्संप्रकीर्तितम् ।। 10 ।।
कुङ्कुमोदकसङ्काशां हेमरत्नविभूषिताम्।
बद्धाञ्जलिं शिरोदेशे संस्मरन्तीं विभोः स्मरेत् ।। 11 ।।
[क्षीरोदमन्त्रः] 7-6
अमृतं वरुणस्थं च आदिदेवेन योजितम्।
क्षीरोदमन्त्रराडेष व्योमयुक्तो द्विजोत्तम ।। 12 ।।
अस्यादौ प्रणवञ्चान्ते नमस्कारपदं न्यसेत्।
शुद्धकुन्देन्दुधवलं स्रोतोरश्मिभिरावृतम् ।। 13 ।।
कीर्णसंपूर्णचंद्राभं ध्यायेद्गम्भीरविग्रहम्।
[पद्ममन्त्रः] 7-7
पद्मस्याथ प्रवक्ष्यामि मन्त्रं सन्निधिकारणम् ।। 14 ।।
प्रणवं प्रणवान्ते च पवित्रं तदनन्तरम्।
भुवनं व्योमसंभिन्नमाधारेति पदं ततः ।। 15 ।।
पद्माय च नमश्चान्ते पदं पूर्वपदस्य च।
प्रशान्तपावकाकारमुदयादित्यसन्निभम् ।। 16 ।।
ध्यायेद्वै द्विभुजं हस्वं जठराद्यैर्विलम्बितम्।
भासितं सितदन्तं च वेष्टितं सुरषट्‌पदैः ।। 17 ।।
व्यक्ताव्यक्तपरत्वेन (1)पद्माद्यं त्रितयं स्मरेत्।
त्रितयं तदधस्थं यच्छक्यं तस्यैवमेव हि ।। 18 ।।
(1. वत्मार्द्य A.)
अयमाधारषट्‌कस्य मन्त्रमार्गः प्रकीर्तितः।
[धर्माद्यासनमन्त्राः] 7-8
अत्रोपर्यासनाख्यांश्च षण्मन्त्रानथ मे शृणु ।। 19 ।।
धर्त्ताऽजितोऽमृताधारो विबुधाख्यैश्च नारद।
व्युत्क्रमानुक्रमेणैव कृत्वैकैकस्य योजयेत् ।। 20 ।।
सम्यग्ज्वालाऽथ लिङ्गात्मा देवदत्तस्ततो द्विज।
वामनं सोममुद्दामं प्रणवस्योपरि न्यसेत् ।। 21 ।।
त्रैलोक्यैश्वर्यदं दद्यात्सर्वेषां स्याच्चतुष्टयम्।
धर्माद्यं तद्विपर्यासैर्युक्तं वेदैस्तथा युगैः ।। 22 ।।
[सितपद्नमन्त्रः] 7-9
सुसितं चामृतं पद्मं सूर्येन्द्वग्नित्रयं ततः।
एतेषां प्रणवः संज्ञा नमस्कारो भवेद्द्विज ।। 23 ।।
[धामत्रयमन्त्राः] 7-10
[भावासनमन्त्रः] 7-11
अत्रोपर्यपरं विप्र चिद्धासा खचितं शुभम्।
भावासनं विभोर्दद्यात्स्थूलशूक्ष्मद्वयात्परम् ।। 24 ।।
अप्रमेयेण सूर्येण व्योमाख्येनामृतेन च।
परमेश्वरयुक्तेन त्रितारोक्तात्मनाथ(1)वा ।। 25 ।।
(1. यथा CL.)
इत्येवं पीठपूजार्थो मन्त्रग्रामो द्विजोत्तम।
रहस्यमेतदाख्यातमिदानीमपरं शृणु ।। 26 ।।
[क्षत्रपालमन्त्रः]
क्षेत्रेशाद्यं मन्त्रचयं विग्ननिर्यथनक्षमम्।
अनन्ताख्यं च कालेन भेदयेत्सानलेन च ।। 27 ।।
त्रैलोक्यैश्वर्यदेनाथ सादिदेवेन भेदितम्।
क्षेत्रपालस्य मन्त्रोऽयमोङ्कारान्तेन भूषितः ।। 28 ।।
[क्षेत्रपालध्यानम्] 7-12
नीलजीमूतसङ्काशं दण्डहस्तं महातनुम्।
मुष्टिकृद्वामहस्तेन यागक्षेत्रावधौ स्मरेत् ।। 29 ।।
[श्र्यादीनां पद्मनिद्यन्तानां मन्त्राः] 7-13
पुण्डरीकस्ततश्चक्री पवित्रश्चाथ शाश्वतः।
वराहश्च गदध्वं(सी) सूक्ष्मश्शान्तः पवित्रकः ।। 30 ।।
क्रमणे मुनिशार्दूल एतद्वर्णगणं लिखेत्।
अशेषभूवनाधारं विश्रान्तं व्योमभूषितम् ।। 31 ।।
मायाद्यस्योपरि न्यस्य चतुर्णामथ विक्रमी।
पञ्चबिन्दुरतो द्वाभ्यां लोकेशोऽप्यपरे द्वये ।। 32 ।।
प्रणवेनाभिधानेन नमस्कारेण भूषिताः।
सर्वे मन्त्रवरा ह्येते स्वसामर्थ्यफलप्रदाः ।। 33 ।।
श्रियश्चण्डप्रचण्डाभ्यां जयस्य विजयस्य च।
गङ्गायमुनयोर्विप्र सनिध्योः सङ्खपद्मयोः ।। 34 ।।
[श्र्यादीनां पद्मनिघ्यन्तानां ध्यानम्]
पद्मकुम्भकरां लक्ष्मीं पद्मोपरिगतां स्मरेत्।
चण्डाद्या विजयान्ताश्च सर्वे ज्ञेयाश्चतुर्भुजाः ।। 35 ।।
गदाचक्रधराश्चैव शङ्खहस्ता महाबलाः।
तर्जयन्तो ह्यभक्तानां दोषाणआं ध्वंसनोद्यताः ।। 36 ।।
तोयाधारं वहन्त्यौ ते कलशं वारिपूरितम्।
नवयौवनलावण्यस्त्रीरूपं च नदीद्वयम् ।। 37 ।।
निधिपौ शङ्खपद्मौ च निधिभाण्डोपरि स्थितौ।
स्थूलदन्तौ च पिङ्गाक्षौ द्विभुजौ भगवन्मयौ ।। 38 ।।
[गणेशादिपित्रन्तानां मन्त्राः]
पित्रन्तं च गणेशाद्यमथ मन्त्रगणं शृणु।
[गणेशमन्त्रः] 7-14
गदाधरं समुद्धृत्य प्रज्ञाधारेण भेदयेत् ।। 39 ।।
अंकारयोजितं मूर्ध्नि गणाधिपतये पदम्।
नमस्कारान्वितं पूर्वं प्रणवञ्चास्य योजयेत् ।। 40 ।।
नवाक्षरो ह्ययं मन्त्रो विघ्नेशस्य च वाचकः।
एष एव गदध्वंसी षोढा कार्योऽथ भेदयेत् ।। 41 ।।
आदिदेवादिषट् दीर्घैर्विराट् ज्वालोज्झितैः क्रमात्।
पञ्चानां मस्तके व्यापी जात्यैकैकं स्वयं न्यसेत् ।। 42 ।।
नमः स्वाहा ततो वौषट् हुं वौषट्‌ फट् समन्विताः।
जातयः षट् समाख्याता हृदादीनां क्रमेण तु ।। 43 ।।
[गणेशघ्यानम्]
ध्यायेच्चम्पकवर्णाभं बद्धपद्मासनं द्विज।
कर्णिकायां त्रिपत्रेऽब्जे रक्ते षट्‌केसरे शुभे ।। 44 ।।
वरदाभयहस्तश्च (स्तं च ) दक्षिणे साक्षसूत्रकम्।
विश्रान्तं चिन्तयेद्वामं चतुर्थं परशुपरि ।। 45 ।।
[मत्स्यमुद्रा] 7-15
वरदाभयहस्ताभ्यां मत्स्यमुद्राद्वयं स्मरेत्।
तर्जन्यङ्गुष्ठसङ्घट्टाज्जायते यदयत्नतः ।। 46 ।।
स्थूलाङ्गमेकदंष्ट्रं च लम्बक्रोडं गजाननम्।
केसरेष्वङ्गषट्‌कं च पत्रत्रयगतं न्यसेत् ।। 47 ।।
[वागीश्वरीमन्त्रः] 7-16
आदाय प्रणवञ्चादौ सुपर्णं तदनन्तरम्।
तदन्तेऽथ तदाद्यं च सोमं तदनु वै द्विधा ।। 48 ।।
प्राक्बीजस्याध ऊर्ध्वे च योजयेत्कालपावकम्।
अथो दद्याद्द्वितीयस्य केवलं तच्च नारद ।। 49 ।।
शङ्खसंस्थं तृतीयस्य चतुर्थस्याक्षरस्य च।
स्रग्धरेण तु शङ्खेन तदूर्ध्वाधोयुतं न्यसेत् ।। 50 ।।
पुनरादिक्रमेणैव द्वाभ्यां मायां नियोज्य च।
द्वाभ्यां तं चादिदेवं च सर्वेषां व्योम चोपरि ।। 51 ।।
तदन्ते वर्णपूर्वान्तां क्षान्तां संयोज्य मातृकाम्।
वागीश्वर्यै नमश्चान्ते एकषष्ठ्यक्षरः( )शुभः ।। 52 ।।
वाग्विभूतिप्रदो मन्त्रो वागीश्वर्या मयोदितः।
सोमं चानलसंस्थं च गणेशाङ्गोदितैस्स्वरैः ।। 53 ।।
भिन्नमस्याङ्गषट्कं स्यात् ओङ्काराद्यं नमोऽन्तकम्।
[वागीश्वर्या द्यानम्] 7-17
सूर्येन्दुमण्डलाभ्यां च मद्ये पद्मं स्मरेत् स्थितम् ।। 54 ।।
तन्मध्ये संस्थितां देवीं वह्निवेश्मप्रभाञ्चिताम्।
सर्वोपाधिविनिर्मुक्तां सर्वाकारसमन्विताम् ।। 55 ।।
इत्यस्या वैश्वरूप्यं स्याद्ध्यानमप्यधुना शृणु।
सितकुन्देन्दुधवळां शङ्खपद्मकरोद्यताम् ।। 56 ।।
वरदाभयहस्तां च विलिखन्तीं च पुस्तकम्।
द्विनेत्रामेकवक्त्रां च हेमकुण्डलभूषिताम् ।। 57 ।।
ध्याता भगवती ह्येषा शक्तिः शब्दात्मिका विभोः।
समभ्यस्ता ददात्याशु साधकानामभीप्सितम् ।। 58 ।।
[गुरूणां मन्त्राः] 7-18
प्रणवद्वितयं व्यापी तदधस्थोदयस्तु गः।
गुरवे सनमस्चान्ते मन्त्रोऽयं पूजने गुरोः ।। 59 ।।
प्रणवत्रितयान्ते तु सव्योमा पश्चिमाननः।
ततः परमशब्दस्तु गुरवे सनमस्ततः ।। 60 ।।
गुरोर्गुरोरयं मन्त्रस्तदुरोरवधारय।
मन्त्राद्यस्य चतुष्कं तु पद्मनाभमतः परम् ।। 61 ।।
न्यसेत्तस्यानन्दयुतं व्योमोर्ध्वे परमेष्ठिने।
सनमस्कं पदं दद्यात् पितृभ्यां [तॄणां] चाथ मे श्रृणु ।। 62 ।।
[पितॄणां मन्त्राः] 7-19
तारपञ्चकमाह्लादं व्योमप्राणोपरि न्यसेत्।
कालानलौ तु तदधस्सर्वलोकेश्वरोपरि ।। 63 ।।
यथाक्रमोदितैर्वर्णैः पिण्डं कृत्वा ततः पदम्।
स्वधा पितृभ्यःसनमः पितृसङ्घस्य मन्त्रराट् ।। 64 ।।
[पूर्वसिद्धमन्त्रः] 7-20
कथितो द्विजशार्दूल पूर्वसिद्धेष्वथोच्यते।
अन्ते प्रणवषट्‌कस्य आनन्दं व्योमभूषितम् ।। 65 ।।
पद तथादिसिद्धेभ्यस्सनमस्कं नियोजयेत्।
प्रागिमं मन्त्रनिचयं पूजयित्वा ततोऽर्चयेत् ।। 66 ।।
प्रधानमन्त्रपूर्वा ये यस्मिंन्यस्मिंस्तु कर्मणि।
[लोकेशमन्त्राः]
अथ लोकेशमन्त्राणां शास्त्राणां लक्षणं शृणु ।। 67 ।।
व्योमानन्दं ततः प्राणं धरेशोपरि संस्थितम्।
एतदेकीकृतं वर्णं(1) सृष्टिन्यायेन नारद ।। 68 ।।
(1. र्ण A.)
ऐन्द्रो मन्त्रस्समुद्दिष्ट इतरेषां निबोध मे।
प्राणद्वयं द्विजोध्दृत्य क्रमादनलकालगम् ।। 69 ।।
द्वितीयस्वरसंयुक्तं व्योममस्तकभूषितम्।
शिखिनस्चान्तकस्यैव द्वे बीजे परिकीर्तिते ।। 70 ।।
व्यापी (2)नरश्च लिङ्गात्मा प्राग्वत्संयोज्य पिण्डवत्।
(3)यात्वीशस्य तु बीजेन अन्येषामवधारय ।। 71 ।।
(2. नारं च C L तारं च A.)
(3. यं बीजस्य तु बीजेशं A.)
परमात्मानमुज्धृत्य द्विधा द्वाभ्यामथो न्यसेत्।
वराहसूक्ष्मसंज्ञौ तु व्योमानन्दावथोपरि ।। 72 ।।
अनुक्रमेण विज्ञेयौ बीजौ वरुणवायुजौ।
घर्मांशोरूर्ध्वगं न्यस्य वर्णं वाराहसंज्ञकम्र ।। 73 ।।
प्राग्वत्स्वरद्वयोपेतं बीजं चोडुपतेः(1) स्मृतम्।
सूर्यमूर्जोपरिस्थं(2) च व्यापकेन तथाङ्कितम् ।। 74 ।।
(1. दे C L.)
(2. स्थाप्य A.)
ईशानाख्यं स्मृतं बीजं विश्वाप्यायकरान्वितम्।
आदिदेवान्वितं व्योम प्राणाख्यस्योपरि न्यसेत् ।। 75 ।।
वैकुण्ठस्तदधो योज्यो बीजं नागेश्वरस्य च।
प्राग्वत्स्वरान्विते सूर्ये वेदात्मानमथो(3) न्यसेत् ।। 76 ।।
(3. धो C L.)
ब्रह्मणो बीजमाख्यातं परं(4) व्योमेश्वरस्य च।
सर्वेषां प्रणवं पूर्वं स्वसंज्ञान्ते नमोयुताः ।। 77 ।।
(4. र C L.)
[वज्राद्यायुधमन्त्रः] 7-21
अथायुधानां क्रमशो ये मन्त्राः शुभलक्षणाः।
स्थितान् शृणु समासेन यतायोगानुवाचकान् ।। 78 ।।
अजितं च द्विधोद्धृत्य प्रधानोपरिसंस्थितम्।
अशेषभुवनाधारमूर्ध्वेऽधश्चानयोर्न्यसेत् ।। 79 ।।
लोकेशोर्ध्वोदितं पूर्वं द्वितीयं पञ्चबिन्दुना।
विसर्गयुक्तें द्वे चैते बीजे कुलिशशक्तिजे ।। 80 ।।
अखण्डविक्रमश्वान्द्री द्वावेतौ मर्दनस्थितौ।
लोकेश्वरविसर्गाढ्यौ विज्ञेयौ दण्डखङ्गयोः ।। 81 ।।
आह्लादाजितसंज्ञौ द्वौ (5)शताख्यवरुणस्थितौ।
विसर्गानन्दसंयुक्तौ ज्ञेयौ पाशध्वजाभिधौ ।। 82 ।।
(5. मयाख्य. A.)
परमात्मानमुद्धत्य अनलाख्यमतःपरम्।
तयोरुपरि तौ कुर्यात्क्रमादनलशाश्वतौ ।। 83 ।।
सोद्दामेन विसर्गेण एकैकमथ योजयेत्।
प्रोक्तौ मुद्गरशूलौ द्वौ सोमेशाभ्यां द्विजायुधे ।। 84 ।।
परप्रकृतिसंज्ञं यद्विन्यसेदनलोपरि।
ओदनं सविसर्गं च ततस्तस्यैव योजयेत् ।। 85 ।।
सीराख्यं बीजमेतद्धि वारिजस्याधुनोच्यते।
वरुणञ्च द्विजोद्धृत्य नराख्यस्योपरि स्थितम् ।। 86 ।।
विसर्गेणादिदेवेन युक्तं पाद्ममिहोदितम्।
[विष्वक्सेनमन्त्रः] 7-22
आक्रान्तमनेलेनैव प्राणाख्यं बीजनायकम् ।। 87 ।।
त्रैलोक्यैश्वर्यदोपेतमूर्जोपरि गतं तु तत्।
ततो वाराहमादाय भूधरव्योमभूषितम् ।। 88 ।।
विष्वक्सेनाय तदनु सनमस्कं पदं न्यसेत्।
प्रणवाद्यो ह्ययं मन्त्रो विष्वक्सेनस्य कीर्तितः ।। 89 ।।
पूर्वबीजं हि यच्चास्य ऊकारस्वरवर्जितम्।
गणेशवच्च षट्‌दीर्घैर्भिन्नमङ्गगणं भवेत् ।। 90 ।।
प्रणवेन स्वनाम्ना च जातिभिः पड्भिरन्वितम्।
[औपचारिकमन्त्रपञ्चकम्] 723
औपचारिकमन्त्राणां पञ्चकं चाधुनोच्यते ।। 91 ।।
मूलमन्त्रादिसर्वेषां सामान्यं यन्महामते।
येन विज्ञातमात्रेण जपध्यानादिकं विना ।। 92 ।।
यथाकालं प्रयुक्तत्वात्संपूर्णं जायतेऽर्चनम्।
[आवाहने विनियोक्तव्यो मन्त्रः]
प्रणवद्वितयोपेतं परमं त्र्यक्षरं पदम् ।। 93 ।।
धामावस्थितपञ्चार्णं द्वितीयं प्रोद्धरेत्ततः।
(1)तदनुग्रहकाम्यं यो अष्टार्णं परमं पदम् ।। 94 ।।
(1. मट्‌ C.L.)
दकारं च यकारस्थं तदन्ते योजयेद्द्विज।
आदिदेवान्वितं पश्चात्ताललक्ष्माणमुद्दरेत् ।। 95 ।।
ततो वरुणसंज्ञं च केवलस्रग्धरं ततः।
अशेषभुवनाधारं जगद्योनियुतं ततः ।। 96 ।।
परमात्मानमन्ते च गोपनेन समन्वितम्।
रामोपेतं ध्रुवं दद्यात्ततः कालं च केवलम् ।। 97 ।।
वैराजं केवलं चाथ सिद्धिदं त्र्यक्षरं पदम्।
मन्त्रेति द्व्यक्षरं दद्याच्छङ्करं केवलं ततः ।। 98 ।।
अशेषभुवनाधारं मायायुक्तं ततो न्यसेत्।
विक्रमव्योमसंभिन्नमनलं(2)चोद्धरेत्ततः ।। 99 ।।
(2. न्त A.)
नमो नमः पदं पश्चादष्टत्रिंशाक्षरः परः।
प्रणवेनाधिको विप्र द्वितीयेन महाप्रभः ।। 100 ।।
मन्त्र आवाहने विप्र योक्तव्यस्तु परं शृणु।
[पाद्याद्येषूपचारेषु विनियोज्यो मन्त्रः]
औपचारिकहृत्संज्ञं क्रियते येन पूजनम् ।। 101 ।।
प्रणवान्ते त्रिधा(1) योज्य प्राणं(2) व्योमविभूषितम्।
इदमिदमिदं पश्चात्पदं दद्यात्षडक्षरम् ।। 102 ।।
(1. क्रिया A.)
(2. ण C. L.)
गृहाण च ततः स्वाहा मन्त्रः पञ्चदशाक्षरः।
योग्यस्सर्वोपचारेषु पाद्याद्येषु सदैव हि ।। 103 ।।
[न्यूनाधिकपरिहाराय विनियोज्या विष्णुगायत्री]
प्रणवं विश्वरुपाय विद्महे विन्यसेत्ततः।
विश्वातीताय तदनु धीमेहे तदनन्तरम् ।। 104 ।।
पदद्वयान्ते तदनु तन्नो विष्णुः प्रचोदयात्।
सर्वेषां कर्मणामन्ते पूरणार्थं प्रयोजयेत् ।। 105 ।।
न्यूनाधिकनिमित्तार्थं गायत्री वैष्णवी परा।
चतुर्विंशाक्षरो ह्येष नमःप्रणवसंयुतः ।। 106 ।।
[प्रसादने विनियोज्यो मन्त्रः]
उद्धरेत्प्रणवं पूर्वं विष्णुं व्योमान्वितं ततः।
ह्रींकारं च ततो दद्याद्भूयो विष्णुं तथाविधम् ।। 107 ।।
ततो व्योमान्वितं प्राणं सोमं तदनु केवलम्।
परवर्णं द्वयं दद्यात्परमेशपदं ततः ।। 108 ।।
प्रसीद ओं नमस्यान्तो मन्त्रो ह्यष्टादशाक्षरः।
मन्त्रप्रसादने योज्यो मुद्राबन्धावसानतः ।। 109 ।।
[विसर्जने विनियोक्तव्यो मन्त्रः] 7-24
ओं भगवन्मन्त्रमूर्त्ते दद्यादष्टाक्षरं पदम्।
तदन्ते वरुणारूढममृताख्यं नियोज्य च ।। 110 ।।
पदमासादयपदं ततो दद्यात् षडक्षरम्।
क्षमस्व त्र्यक्षरं भूयः प्रणवान्तं च विन्यसेत् ।। 111 ।।
नमोनमःपदं दद्यात्षड्विंशार्णं तु मन्त्रराट्।
विसर्जने नियोक्तव्यो मन्त्रग्रामस्य सर्वदा ।। 112 ।।
(3)ज्ञप्तिसंज्ञं तु यद्वर्णं वराहोपरि संस्थितम्।
व्योमेशं विष्णुना युक्तं नमःप्रणवमध्यगम् ।। 113 ।।
(3. तृ A.)
सौरभीयो ह्ययं मन्त्रः स्वसंज्ञासंयुतो द्विज।
संपूरणार्थं भोगान्ते तेषामाप्यायनार्थतः ।। 114 ।।
[मन्त्राणां गोपनीयता] 7-25
इत्येष कथितो विप्र मन्त्रकोशो यथा स्थितः।
सर्वपापक्षयकरस्सर्वदुःखोपशान्तिदः ।। 115 ।।
गोपनीयो ह्यभक्तानां शठानां च विशेषतः।
[मन्त्राणामपात्रे विनियोगस्यानर्थावहता] 7-26
नास्तिकानामसाधूनां धूर्तानां छद्मचारिणाम् ।। 116 ।।
नास्तिकानां च भक्तानां श्रद्धासंयमसेविनाम्।
गुरुशास्त्ररतानां च नयमार्गानुवर्तिनाम् ।। 117 ।।
तत्त्वतश्चोपपन्नानां दृढश्रद्धावलम्बिनाम्।
(1)तन्मयानामिदं वाच्यमितरेषु च योऽन्यथा ।। 118 ।।
(1. भ A.)
वक्ति चैतेषु यो मोहाद्भक्तिश्रद्धोज्झितेषु च।
लोभेनान्यायतः कामात्स याति नरकेऽधमः ।। 119 ।।
सिद्धोऽपि विप्रशार्धूल असिद्धस्य तु का कथा।
तस्मादालक्ष्य वै पूर्वं न्यायधर्मो यथार्थतः ।। 120 ।।
वक्तव्यमुपसन्नस्य न्यायतः श्रणुयाद्यदि।
यो वक्ति न्यायरहितं विना न्यायं शृणोति यः ।। 121 ।।
तावुभौ नरकं घोरं व्रजतः कालमक्षयम्।
ज्ञात्वैवं मुनिशार्दूल रहस्यमिदमुत्तमम् ।। 122 ।।
साधनं भोगमोक्षाभ्यां वक्तव्यं नापरीक्षिते।
यद्यत्किञ्चिज्जगत्यस्मिंस्तत्तत्सर्वं विनश्वरम्र् ।। 123 ।।
स्वप्नवत्क्षणमात्रस्य सुखदायि धनादिकम्।
समाचारक्रियाश्शास्त्रे मान्त्रं ज्ञानमनश्वरम् ।। 124 ।।
अनन्तनित्यसुखदं वृद्धिं याति क्षणात्क्षणम्।
इतिश्रीपाञ्चरात्रे जयाख्यसंहितायां उपकरणमन्त्रोद्धारो नाम सप्तमः पटलः।
* * * * *

"https://sa.wikisource.org/w/index.php?title=जयाख्यसंहिता/पटलः_७&oldid=206736" इत्यस्माद् पुनः प्राप्तिः