← सूक्तं ५.१४ ऋग्वेदः - मण्डल ५
सूक्तं ५.१५
धरुण आङ्गिरसः
सूक्तं ५.१६ →
दे. अग्निः। त्रिष्टुप्।


प्र वेधसे कवये वेद्याय गिरं भरे यशसे पूर्व्याय ।
घृतप्रसत्तो असुरः सुशेवो रायो धर्ता धरुणो वस्वो अग्निः ॥१॥
ऋतेन ऋतं धरुणं धारयन्त यज्ञस्य शाके परमे व्योमन् ।
दिवो धर्मन्धरुणे सेदुषो नॄञ्जातैरजाताँ अभि ये ननक्षुः ॥२॥
अङ्होयुवस्तन्वस्तन्वते वि वयो महद्दुष्टरं पूर्व्याय ।
स संवतो नवजातस्तुतुर्यात्सिङ्हं न क्रुद्धमभितः परि ष्ठुः ॥३॥
मातेव यद्भरसे पप्रथानो जनंजनं धायसे चक्षसे च ।
वयोवयो जरसे यद्दधानः परि त्मना विषुरूपो जिगासि ॥४॥
वाजो नु ते शवसस्पात्वन्तमुरुं दोघं धरुणं देव रायः ।
पदं न तायुर्गुहा दधानो महो राये चितयन्नत्रिमस्पः ॥५॥


सायणभाष्यम्

द्वितीयेऽनुवाके अष्टादश सूक्तानि । तत्र ‘प्र वेधसे' इति पञ्चर्चं प्रथमं सूक्तमाङ्गिरसस्य धरुणस्यार्षं त्रैष्टुभमाग्नेयम् । अत्रानुक्रमणिका – प्र वेधसे पञ्चाङ्गिरसो धरुणः' इति । प्रातरनुवाके आग्नेये क्रतौ त्रैष्टुभे छन्दस्याश्विनशस्त्रे चेदं सूक्तम् । सूत्रितं च --- प्र वेधसे कवये त्वं नो अग्ने वरुणस्य विद्वान् ' ( आश्व. श्रौ. ४. १३ ) इति ॥


प्र वे॒धसे॑ क॒वये॒ वेद्या॑य॒ गिरं॑ भरे य॒शसे॑ पू॒र्व्याय॑ ।

घृ॒तप्र॑सत्तो॒ असु॑रः सु॒शेवो॑ रा॒यो ध॒र्ता ध॒रुणो॒ वस्वो॑ अ॒ग्निः ॥१

प्र । वे॒धसे॑ । क॒वये॑ । वेद्या॑य । गिर॑म् । भ॒रे॒ । य॒शसे॑ । पू॒र्व्याय॑ ।

घृ॒तऽप्र॑सत्तः । असु॑रः । सु॒ऽशेवः॑ । रा॒यः । ध॒र्ता । ध॒रुणः॑ । वस्वः॑ । अ॒ग्निः ॥१

प्र । वेधसे । कवये । वेद्याय । गिरम् । भरे । यशसे । पूर्व्याय ।

घृतऽप्रसत्तः । असुरः । सुऽशेवः । रायः । धर्ता । धरुणः । वस्वः । अग्निः ॥१

यः “अग्निः “घृतप्रसत्तः हवीरूपेण घृतेन प्रसन्नः “असुरः बलवान् “सुशेवः । शोभनं शेवं सुखं यस्यासौ सुशेवः । शेवमिति सुखनामसु पाठात् । “रायः धनस्य “धर्ता पोषकः “धरुणः हविषां धारकः “वस्वः वासकः अग्निः भवति “वेधसे विधात्रे “कवये क्रान्तदृशे “वेद्याय स्तुत्याय ॥ विदिरयं मनिना समानार्थो मनिश्च स्तुतिकर्मा ॥ “यशसे यशस्विने “पूर्व्याय मुख्याय तस्मा अग्नये “गिरं स्तुतिं “प्र “भरे प्रणयानि ॥


ऋ॒तेन॑ ऋ॒तं ध॒रुणं॑ धारयन्त य॒ज्ञस्य॑ शा॒के प॑र॒मे व्यो॑मन् ।

दि॒वो धर्म॑न्ध॒रुणे॑ से॒दुषो॒ नॄञ्जा॒तैरजा॑ताँ अ॒भि ये न॑न॒क्षुः ॥२

ऋ॒तेन॑ । ऋ॒तम् । ध॒रुण॑म् । धा॒र॒य॒न्त॒ । य॒ज्ञस्य॑ । शा॒के । प॒र॒मे । विऽओ॑मन् ।

दि॒वः । धर्म॑न् । ध॒रुणे॑ । से॒दुषः॑ । नॄन् । जा॒तैः । अजा॑तान् । अ॒भि । ये । न॒न॒क्षुः ॥२

ऋतेन । ऋतम् । धरुणम् । धारयन्त । यज्ञस्य । शाके । परमे । विऽओमन् ।

दिवः । धर्मन् । धरुणे । सेदुषः । नॄन् । जातैः । अजातान् । अभि । ये । ननक्षुः ॥२

“ये यजमानाः ”दिवः द्युलोकस्य “धरुणे धारके “धर्मन् यज्ञे “सेदुषः आसीनान् “नॄन् नेतॄन् “अजातान देवान "जातैः मनुष्यैर्ऋत्विग्भि “अभि “ननक्षुः अभिप्राप्नुवन्ति ते यजमानाः “यज्ञस्य “धरुणं धारकम् “ऋतं सत्यरूपमग्निं “शाके कर्मणि निमित्ते “परमे उत्कृष्टे “व्योमन् स्थाने उत्तरवेद्याम् “ऋतेन स्तोत्रेण “धारयन्त धारयन्ति ।।


अ॒ङ्हो॒युव॑स्त॒न्व॑स्तन्वते॒ वि वयो॑ म॒हद्दु॒ष्टरं॑ पू॒र्व्याय॑ ।

स सं॒वतो॒ नव॑जातस्तुतुर्यात्सि॒ङ्हं न क्रु॒द्धम॒भित॒ः परि॑ ष्ठुः ॥३

अं॒हः॒ऽयुवः॑ । त॒न्वः॑ । त॒न्व॒ते॒ । वि । वयः॑ । म॒हत् । दु॒स्तर॑म् । पू॒र्व्याय॑ ।

सः । स॒म्ऽवतः॑ । नव॑ऽजातः । तु॒तु॒र्या॒त् । सिं॒हम् । न । क्रु॒द्धम् । अ॒भितः॑ । परि॑ । स्थुः॒ ॥३

अंहःऽयुवः । तन्वः । तन्वते । वि । वयः । महत् । दुस्तरम् । पूर्व्याय ।

सः । सम्ऽवतः । नवऽजातः । तुतुर्यात् । सिंहम् । न । क्रुद्धम् । अभितः । परि । स्थुः ॥३

ये यजमानाः “पूर्व्याय मुख्यायास्मा अग्नये “महत् अधिकं “दुष्टरं राक्षसैर्दुष्प्रापं “वयः हवीरूपमन्नं प्रयच्छन्ति ते यजमानाः “तन्वः स्वास्तनूः “अंहोयुवः अंहसा वियोजिकाः “वि “तन्वते विस्तारयन्ति । “नवजातः “सः अग्निः “संवतः संगतान् शत्रून् “तुतुर्यात् तरतु । किंच “अभितः सर्वतो वर्तमानाः शत्रवो मां “परि वर्जयित्वा “स्थुः तिष्ठेयुः । कथमिव । मृगाः "क्रुद्धं “सिंहं “न सिंहमिव ॥


मा॒तेव॒ यद्भर॑से पप्रथा॒नो जनं॑जनं॒ धाय॑से॒ चक्ष॑से च ।

वयो॑वयो जरसे॒ यद्दधा॑न॒ः परि॒ त्मना॒ विषु॑रूपो जिगासि ॥४

मा॒ताऽइ॑व । यत् । भर॑से । प॒प्र॒था॒नः । जन॑म्ऽजनम् । धाय॑से । चक्ष॑से । च॒ ।

वयः॑ऽवयः । ज॒र॒से॒ । यत् । दधा॑नः । परि॑ । त्मना॑ । विषु॑ऽरूपः । जि॒गा॒सि॒ ॥४

माताऽइव । यत् । भरसे । पप्रथानः । जनम्ऽजनम् । धायसे । चक्षसे । च ।

वयःऽवयः । जरसे । यत् । दधानः । परि । त्मना । विषुऽरूपः । जिगासि ॥४

“पप्रथानः सर्वत्र प्रथमानः “यत् यस्त्वं “मातेव जननीव “जनंजनं सर्वं जनं “भरसे बिभर्षि । किंच “धायसे धारणाय “चक्षसे दर्शनाय “च सर्वैः प्रार्थ्यसे । “यत् यदा “दधानः धार्यमाणो भवसि तदा “वयोवयः सर्वमन्नं “जरसे जरयसि । अपि च विषुरूपः नानारूपः सन् “त्मना आत्मना “परि “जिगासि सर्वभूतानि परिगच्छसि ॥


वाजो॒ नु ते॒ शव॑सस्पा॒त्वन्त॑मु॒रुं दोघं॑ ध॒रुणं॑ देव रा॒यः ।

प॒दं न ता॒युर्गुहा॒ दधा॑नो म॒हो रा॒ये चि॒तय॒न्नत्रि॑मस्पः ॥५

वाजः॑ । नु । ते॒ । शव॑सः । पा॒तु॒ । अन्त॑म् । उ॒रुम् । दोघ॑म् । ध॒रुण॑म् । दे॒व॒ । रा॒यः ।

प॒दम् । न । ता॒युः । गुहा॑ । दधा॑नः । म॒हः । रा॒ये । चि॒तय॑न् । अत्रि॑म् । अ॒स्प॒रित्य॑स्पः ॥५

वाजः । नु । ते । शवसः । पातु । अन्तम् । उरुम् । दोघम् । धरुणम् । देव । रायः ।

पदम् । न । तायुः । गुहा । दधानः । महः । राये । चितयन् । अत्रिम् । अस्परित्यस्पः ॥५

हे देव द्योतमानाग्ने “उरुं पृथुं “दोघं कामानां दोग्धारं "रायः धनस्य “धरुणं धारकं “वाजः हविर्लक्षणमन्नं “ते त्वदीयस्य “शवसः बलस्य “अन्तं समाप्तिं संपूर्तिं “नु अद्य “पातु रक्षतु । “तायुः “न तस्करो यथा “गुहा गुहायां “पदं द्रव्यं “दधानः धारयन् रक्षति तद्वत् "महः महते “राये धनाय धनलाभार्थं “चितयन् सन्मार्गं प्रकाशयन् “अत्रिमस्पः । अत्रिमृषिमप्रीणयः । यद्वा तमापद्योन्ऽपारयः४॥ ‘ स्पृ प्रीणनपारणयोः' इति धातुः ॥ ॥ ७ ॥

मण्डल ५

सूक्तं ५.१

सूक्तं ५.२

सूक्तं ५.३

सूक्तं ५.४

सूक्तं ५.५

सूक्तं ५.६

सूक्तं ५.७

सूक्तं ५.८

सूक्तं ५.९

सूक्तं ५.१०

सूक्तं ५.११

सूक्तं ५.१२

सूक्तं ५.१३

सूक्तं ५.१४

सूक्तं ५.१५

सूक्तं ५.१६

सूक्तं ५.१७

सूक्तं ५.१८

सूक्तं ५.१९

सूक्तं ५.२०

सूक्तं ५.२१

सूक्तं ५.२२

सूक्तं ५.२३

सूक्तं ५.२४

सूक्तं ५.२५

सूक्तं ५.२६

सूक्तं ५.२७

सूक्तं ५.२८

सूक्तं ५.२९

सूक्तं ५.३०

सूक्तं ५.३१

सूक्तं ५.३२

सूक्तं ५.३३

सूक्तं ५.३४

सूक्तं ५.३५

सूक्तं ५.३६

सूक्तं ५.३७

सूक्तं ५.३८

सूक्तं ५.३९

सूक्तं ५.४०

सूक्तं ५.४१

सूक्तं ५.४२

सूक्तं ५.४३

सूक्तं ५.४४

सूक्तं ५.४५

सूक्तं ५.४६

सूक्तं ५.४७

सूक्तं ५.४८

सूक्तं ५.४९

सूक्तं ५.५०

सूक्तं ५.५१

सूक्तं ५.५२

सूक्तं ५.५३

सूक्तं ५.५४

सूक्तं ५.५५

सूक्तं ५.५६

सूक्तं ५.५७

सूक्तं ५.५८

सूक्तं ५.५९

सूक्तं ५.६०

सूक्तं ५.६१

सूक्तं ५.६२

सूक्तं ५.६३

सूक्तं ५.६४

सूक्तं ५.६५

सूक्तं ५.६६

सूक्तं ५.६७

सूक्तं ५.६८

सूक्तं ५.६९

सूक्तं ५.७०

सूक्तं ५.७१

सूक्तं ५.७२

सूक्तं ५.७३

सूक्तं ५.७४

सूक्तं ५.७५

सूक्तं ५.७६

सूक्तं ५.७७

सूक्तं ५.७८

सूक्तं ५.७९

सूक्तं ५.८०

सूक्तं ५.८१

सूक्तं ५.८२

सूक्तं ५.८३

सूक्तं ५.८४

सूक्तं ५.८५

सूक्तं ५.८६

सूक्तं ५.८७

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_५.१५&oldid=199238" इत्यस्माद् प्रतिप्राप्तम्