← सूक्तं ५.८० ऋग्वेदः - मण्डल ५
सूक्तं ५.८१
श्यावाश्व आत्रेयः
सूक्तं ५.८२ →
दे. सविता। जगती ।


युञ्जते मन उत युञ्जते धियो विप्रा विप्रस्य बृहतो विपश्चितः ।
वि होत्रा दधे वयुनाविदेक इन्मही देवस्य सवितुः परिष्टुतिः ॥१॥
विश्वा रूपाणि प्रति मुञ्चते कविः प्रासावीद्भद्रं द्विपदे चतुष्पदे ।
वि नाकमख्यत्सविता वरेण्योऽनु प्रयाणमुषसो वि राजति ॥२॥
यस्य प्रयाणमन्वन्य इद्ययुर्देवा देवस्य महिमानमोजसा ।
यः पार्थिवानि विममे स एतशो रजांसि देवः सविता महित्वना ॥३॥
उत यासि सवितस्त्रीणि रोचनोत सूर्यस्य रश्मिभिः समुच्यसि ।
उत रात्रीमुभयतः परीयस उत मित्रो भवसि देव धर्मभिः ॥४॥
उतेशिषे प्रसवस्य त्वमेक इदुत पूषा भवसि देव यामभिः ।
उतेदं विश्वं भुवनं वि राजसि श्यावाश्वस्ते सवित स्तोममानशे ॥५॥


सायणभाष्यम्

‘ युञ्जते मनः' इति पञ्चर्चं नवमं सूक्तम् । अत्रेयमनुक्रमणिका – ' युञ्जते पञ्च श्यावाश्वः सावित्रं तु जागतम् ' इति । श्यावाश्वो नामात्रेय ऋषिः । जगती छन्दः । सविता देवता । पृष्ठ्याभिप्लवषडहयोः प्रथमेऽहनि वैश्वदेवशस्त्रे सावित्रनिविद्धानमिदम् । सूत्रितं च --' युञ्जते मन इहेह व इति चतस्रः ' ( आश्व. श्रौ. ७. ५) इति । आद्या ग्रावस्तोत्रेऽपि । सूत्रितं च - ‘ युञ्जते मन उत युञ्जते धिय आ तू न इन्द्र क्षुमन्तम् ' ( आश्व. श्रौ. ५. १२ ) इति ॥


यु॒ञ्जते॒ मन॑ उ॒त यु॑ञ्जते॒ धियो॒ विप्रा॒ विप्र॑स्य बृह॒तो वि॑प॒श्चित॑ः ।

वि होत्रा॑ दधे वयुना॒विदेक॒ इन्म॒ही दे॒वस्य॑ सवि॒तुः परि॑ष्टुतिः ॥१

यु॒ञ्जते॑ । मनः॑ । उ॒त । यु॒ञ्ज॒ते॒ । धियः॑ । विप्राः॑ । विप्र॑स्य । बृ॒ह॒तः । वि॒पः॒ऽचितः॑ ।

वि । होत्राः॑ । द॒धे॒ । व॒यु॒न॒ऽवित् । एकः॑ । इत् । म॒ही । दे॒वस्य॑ । स॒वि॒तुः । परि॑ऽस्तुतिः ॥१

युञ्जते । मनः । उत । युञ्जते । धियः । विप्राः । विप्रस्य । बृहतः । विपःऽचितः ।

वि । होत्राः । दधे । वयुनऽवित् । एकः । इत् । मही । देवस्य । सवितुः । परिऽस्तुतिः ॥१

“विप्राः मेधाविन ऋत्विग्यजमानाः “मनः स्वीयं सर्वेषु कर्मसु "युञ्जते योजयन्ति । सवित्रनुग्रहाय संकल्पं कुर्वन्तीत्यर्थः । "उत अपि च "धियः कर्माण्यपि "युञ्जते प्राप्नुवन्ति । कस्यानुज्ञयेत्युच्यते । “विप्रस्य मेधाविनः "बृहतः महतः "विपश्चितः स्तुत्यस्य ज्ञानवतो वा सवितुः अनुज्ञयेति ।' सविता वै प्रसवानामीशे' (ऐ. ब्रा. ७. १६ ) इति हि श्रुतिः । स एव सविता "होत्राः सप्तहोत्रकाणामुचिताः क्रियाः “वयुनावित् । वयुनमिति प्रज्ञानाम । तत्तदनुष्ठानविषयप्रज्ञावेत्ता "एक "इत् एक एव “वि “दधे करोति । पृथक्पृथगवधारयति । किंच तस्य “सवितुः “देवस्य परिष्टुतिः स्तुतिः “मही महती अतिप्रभूता । स्तुत्यगोचरेत्यर्थः ॥


हविर्धानप्रवर्तने रराट्यामवनद्धायां विश्वा रूपाणि ' इत्येषानुवचनीया । सूत्रितं च ‘ विश्वा रूपाणि प्रति मुञ्चते कविरिति व्यवस्तायाम् ' ( आश्व. श्रौ. ४. ९) इति ॥

विश्वा॑ रू॒पाणि॒ प्रति॑ मुञ्चते क॒विः प्रासा॑वीद्भ॒द्रं द्वि॒पदे॒ चतु॑ष्पदे ।

वि नाक॑मख्यत्सवि॒ता वरे॒ण्योऽनु॑ प्र॒याण॑मु॒षसो॒ वि रा॑जति ॥२

विश्वा॑ । रू॒पाणि॑ । प्रति॑ । मु॒ञ्च॒ते॒ । क॒विः । प्र । अ॒सा॒वी॒त् । भ॒द्रम् । द्वि॒ऽपदे॑ । चतुः॑ऽपदे ।

वि । नाक॑म् । अ॒ख्य॒त् । स॒वि॒ता । वरे॑ण्यः । अनु॑ । प्र॒ऽयान॑म् । उ॒षसः॑ । वि । रा॒ज॒ति॒ ॥२

विश्वा । रूपाणि । प्रति । मुञ्चते । कविः । प्र । असावीत् । भद्रम् । द्विऽपदे । चतुःऽपदे ।

वि । नाकम् । अख्यत् । सविता । वरेण्यः । अनु । प्रऽयानम् । उषसः । वि । राजति ॥२

“कविः मेधावी सविता “विश्वा सर्वाणि "रूपाणि आत्मनि “प्रति “मुञ्चते बध्नाति धारयति । किंच “भद्रं कल्याणं गमनादिविषयं “प्रासावीत् अनुजानाति । कस्मै । “द्विपदे मनुष्याय “चतुष्पदे गवाश्वादिकाय । किंच “सविता सर्वस्य प्रेरको देवः “वरेण्यः वरणीयः सन् “वि “अख्यत् ख्यापयति प्रकाशयति । किम् । “नाकम् । नास्मिन्नकं दुःखमस्तीति नाकः स्वर्गः । यजमानार्थं स्वर्गं प्रकाशयतीत्यर्थः । स देवः “उषसः “प्रयाणम् उदयम् “अनु “वि “राजति प्रकाशते । सवितुरुदयात् पूर्वं ह्युषा उदेति ॥


यस्य॑ प्र॒याण॒मन्व॒न्य इद्य॒युर्दे॒वा दे॒वस्य॑ महि॒मान॒मोज॑सा ।

यः पार्थि॑वानि विम॒मे स एत॑शो॒ रजां॑सि दे॒वः स॑वि॒ता म॑हित्व॒ना ॥३

यस्य॑ । प्र॒ऽयान॑म् । अनु॑ । अ॒न्ये । इत् । य॒युः । दे॒वाः । दे॒वस्य॑ । म॒हि॒मान॑म् । ओज॑सा ।

यः । पार्थि॑वानि । वि॒ऽम॒मे । सः । एत॑शः । रजां॑सि । दे॒वः । स॒वि॒ता । म॒हि॒ऽत्व॒ना ॥३

यस्य । प्रऽयानम् । अनु । अन्ये । इत् । ययुः । देवाः । देवस्य । महिमानम् । ओजसा ।

यः । पार्थिवानि । विऽममे । सः । एतशः । रजांसि । देवः । सविता । महिऽत्वना ॥३

“अन्य “इत् "देवाः अन्येऽप्यग्न्यादयः “यस्य “देवस्य द्योतमानस्य सवितुः “प्रयाणमनु “ययुः गच्छन्ति प्राप्नुवन्ति । किम् । “महिमानं महत्त्वम् । सवितुरुदयाभाचे अग्निहोत्राद्यनिष्पत्तेस्तेषां हविःस्तुत्याद्यभावात् । “ओजसा बलेन च युक्ता भवन्ति । "यः “सविता “पार्थिवानि “रजासि पृथिव्यादिलोकान् "महित्वना स्वमहत्त्वेन "विममे परिच्छिनत्ति "सः “देवः "एतशः एतवर्णः शुभ्रः शोभमानः सन् । राजते इति शेषः । ‘ युवशा ताकृणोतन' ( ऋ. सं. १. १६१. ७ ) इत्यादिवत् एतश इत्यादिशकारोपजनश्छान्दसः ।।


उ॒त या॑सि सवित॒स्त्रीणि॑ रोच॒नोत सूर्य॑स्य र॒श्मिभि॒ः समु॑च्यसि ।

उ॒त रात्री॑मुभ॒यत॒ः परी॑यस उ॒त मि॒त्रो भ॑वसि देव॒ धर्म॑भिः ॥४

उ॒त । या॒सि॒ । स॒वि॒त॒रिति॑ । त्रीणि॑ । रो॒च॒ना । उ॒त । सूर्य॑स्य । र॒श्मिऽभिः॑ । सम् । उ॒च्य॒सि॒ ।

उ॒त । रात्री॑म् । उ॒भ॒यतः॑ । परि॑ । ई॒य॒से॒ । उ॒त । मि॒त्रः । भ॒व॒सि॒ । दे॒व॒ । धर्म॑ऽभिः ॥४

उत । यासि । सवितरिति । त्रीणि । रोचना । उत । सूर्यस्य । रश्मिऽभिः । सम् । उच्यसि ।

उत । रात्रीम् । उभयतः । परि । ईयसे । उत । मित्रः । भवसि । देव । धर्मऽभिः ॥४

हे "सवितः देव "उत अपि च "त्रीणि “रोचना रोचमानान् द्युलोकान् "यासि गच्छसि । ‘ तिस्रो दिवः पृथिवीः ' (ऋ. सं. ४, ५३. ५) इत्युक्तम् । "उत अपि च "सूर्यस्य "रश्मिभिः “समुच्यसि संगच्छसि ॥ ‘उच समवाये' इत्यस्येदं रूपम् ॥ उदयात् पूर्वभावी सविता उदयास्तमयवर्ती सूर्य इति । "उत अपि च "रात्रीमुभयतः उभयपार्श्वे "परीयसे परिगच्छसि । “उत अपि च हे "देव सवितस्त्वं “धर्मभिः जगद्धारकैः कर्मभिः “मित्रो "भवसि मित्राख्यो देवो भवसि । अथवा प्रकाशादिप्रदानेन सखा भवसि सर्वजगताम् ॥


उ॒तेशि॑षे प्रस॒वस्य॒ त्वमेक॒ इदु॒त पू॒षा भ॑वसि देव॒ याम॑भिः ।

उ॒तेदं विश्वं॒ भुव॑नं॒ वि रा॑जसि श्या॒वाश्व॑स्ते सवित॒ः स्तोम॑मानशे ॥५

उ॒त । ई॒शि॒षे॒ । प्र॒ऽस॒वस्य॑ । त्वम् । एकः॑ । इत् । उ॒त । पू॒षा । भ॒व॒सि॒ । दे॒व॒ । याम॑ऽभिः ।

उ॒त । इ॒दम् । विश्व॑म् । भुव॑नम् । वि । रा॒ज॒सि॒ । श्या॒वऽअ॑श्वः । ते॒ । स॒वि॒त॒रिति॑ । स्तोम॑म् । आ॒न॒शे॒ ॥५

उत । ईशिषे । प्रऽसवस्य । त्वम् । एकः । इत् । उत । पूषा । भवसि । देव । यामऽभिः ।

उत । इदम् । विश्वम् । भुवनम् । वि । राजसि । श्यावऽअश्वः । ते । सवितरिति । स्तोमम् । आनशे ॥५

हे सवितः “त्वमेक "इत् एक एव "प्रसवस्य सर्वकर्मानुज्ञाकरणस्य “ईशिषे समर्थो भवसि । ये लौकिकं गमनादिरूपं वैदिकमग्निहोत्रादिरूपं कर्मानुतिष्ठन्ते तेषां सर्वेषामनुज्ञातुमेक एव प्रभवसि । "उत अपि च "पूषा पोषकः "भवसि हे "देव "यामभिः गमनैः । "उत अपि च "इदं "विश्वं “भुवनं भूतजातं "वि "राजसि ईशिषे धारयितुम् । यस्मादेवं महानुभावस्तस्मात् हे "सवितः "ते तुभ्यं “श्यावाश्वः ऋषिः "स्तोमं स्तोत्रम् "आनशे व्याप्नोति करोति । इत्येवमात्मानं परोक्षतया निर्दिशन्नाह ॥ ॥ २४ ॥

मण्डल ५

सूक्तं ५.१

सूक्तं ५.२

सूक्तं ५.३

सूक्तं ५.४

सूक्तं ५.५

सूक्तं ५.६

सूक्तं ५.७

सूक्तं ५.८

सूक्तं ५.९

सूक्तं ५.१०

सूक्तं ५.११

सूक्तं ५.१२

सूक्तं ५.१३

सूक्तं ५.१४

सूक्तं ५.१५

सूक्तं ५.१६

सूक्तं ५.१७

सूक्तं ५.१८

सूक्तं ५.१९

सूक्तं ५.२०

सूक्तं ५.२१

सूक्तं ५.२२

सूक्तं ५.२३

सूक्तं ५.२४

सूक्तं ५.२५

सूक्तं ५.२६

सूक्तं ५.२७

सूक्तं ५.२८

सूक्तं ५.२९

सूक्तं ५.३०

सूक्तं ५.३१

सूक्तं ५.३२

सूक्तं ५.३३

सूक्तं ५.३४

सूक्तं ५.३५

सूक्तं ५.३६

सूक्तं ५.३७

सूक्तं ५.३८

सूक्तं ५.३९

सूक्तं ५.४०

सूक्तं ५.४१

सूक्तं ५.४२

सूक्तं ५.४३

सूक्तं ५.४४

सूक्तं ५.४५

सूक्तं ५.४६

सूक्तं ५.४७

सूक्तं ५.४८

सूक्तं ५.४९

सूक्तं ५.५०

सूक्तं ५.५१

सूक्तं ५.५२

सूक्तं ५.५३

सूक्तं ५.५४

सूक्तं ५.५५

सूक्तं ५.५६

सूक्तं ५.५७

सूक्तं ५.५८

सूक्तं ५.५९

सूक्तं ५.६०

सूक्तं ५.६१

सूक्तं ५.६२

सूक्तं ५.६३

सूक्तं ५.६४

सूक्तं ५.६५

सूक्तं ५.६६

सूक्तं ५.६७

सूक्तं ५.६८

सूक्तं ५.६९

सूक्तं ५.७०

सूक्तं ५.७१

सूक्तं ५.७२

सूक्तं ५.७३

सूक्तं ५.७४

सूक्तं ५.७५

सूक्तं ५.७६

सूक्तं ५.७७

सूक्तं ५.७८

सूक्तं ५.७९

सूक्तं ५.८०

सूक्तं ५.८१

सूक्तं ५.८२

सूक्तं ५.८३

सूक्तं ५.८४

सूक्तं ५.८५

सूक्तं ५.८६

सूक्तं ५.८७

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_५.८१&oldid=222986" इत्यस्माद् प्रतिप्राप्तम्