← सूक्तं ५.३ ऋग्वेदः - मण्डल ५
सूक्तं ५.४
वसुश्रुत आत्रेयः
सूक्तं ५.५ →
दे. अग्निः। त्रिष्टुप् ।


त्वामग्ने वसुपतिं वसूनामभि प्र मन्दे अध्वरेषु राजन् ।
त्वया वाजं वाजयन्तो जयेमाभि ष्याम पृत्सुतीर्मर्त्यानाम् ॥१॥
हव्यवाळग्निरजरः पिता नो विभुर्विभावा सुदृशीको अस्मे ।
सुगार्हपत्याः समिषो दिदीह्यस्मद्र्यक्सं मिमीहि श्रवांसि ॥२॥
विशां कविं विश्पतिं मानुषीणां शुचिं पावकं घृतपृष्ठमग्निम् ।
नि होतारं विश्वविदं दधिध्वे स देवेषु वनते वार्याणि ॥३॥
जुषस्वाग्न इळया सजोषा यतमानो रश्मिभिः सूर्यस्य ।
जुषस्व नः समिधं जातवेद आ च देवान्हविरद्याय वक्षि ॥४॥
जुष्टो दमूना अतिथिर्दुरोण इमं नो यज्ञमुप याहि विद्वान् ।
विश्वा अग्ने अभियुजो विहत्या शत्रूयतामा भरा भोजनानि ॥५॥
वधेन दस्युं प्र हि चातयस्व वयः कृण्वानस्तन्वे स्वायै ।
पिपर्षि यत्सहसस्पुत्र देवान्त्सो अग्ने पाहि नृतम वाजे अस्मान् ॥६॥
वयं ते अग्न उक्थैर्विधेम वयं हव्यैः पावक भद्रशोचे ।
अस्मे रयिं विश्ववारं समिन्वास्मे विश्वानि द्रविणानि धेहि ॥७॥
अस्माकमग्ने अध्वरं जुषस्व सहसः सूनो त्रिषधस्थ हव्यम् ।
वयं देवेषु सुकृतः स्याम शर्मणा नस्त्रिवरूथेन पाहि ॥८॥
विश्वानि नो दुर्गहा जातवेदः सिन्धुं न नावा दुरिताति पर्षि ।
अग्ने अत्रिवन्नमसा गृणानोऽस्माकं बोध्यविता तनूनाम् ॥९॥
यस्त्वा हृदा कीरिणा मन्यमानोऽमर्त्यं मर्त्यो जोहवीमि ।
जातवेदो यशो अस्मासु धेहि प्रजाभिरग्ने अमृतत्वमश्याम् ॥१०॥
यस्मै त्वं सुकृते जातवेद उ लोकमग्ने कृणवः स्योनम् ।
अश्विनं स पुत्रिणं वीरवन्तं गोमन्तं रयिं नशते स्वस्ति ॥११॥


सायणभाष्यम्

‘त्वामग्ने ' इत्येकादशर्चं चतुर्थं सूक्तमात्रेयस्य वसुश्रुतस्यार्षं त्रैष्टुभमाग्नेयम् । अनुक्रान्तं च ’ त्वामग्न एकादश ' इति । प्रातरनुवाकाश्विनशस्त्रयोर्विनियोगः ‘अबोध्यग्निः' इत्यत्रोक्तः ॥


त्वाम॑ग्ने॒ वसु॑पतिं॒ वसू॑नाम॒भि प्र मं॑दे अध्व॒रेषु॑ राजन् ।

त्वया॒ वाजं॑ वाज॒यंतो॑ जयेमा॒भि ष्या॑म पृत्सु॒तीर्मर्त्या॑नां ॥१

त्वाम् । अ॒ग्ने॒ । वसु॑ऽपतिम् । वसू॑नाम् । अ॒भि । प्र । म॒न्दे॒ । अ॒ध्व॒रेषु॑ । रा॒ज॒न् ।

त्वया॑ । वाज॑म् । वा॒ज॒ऽयन्तः॑ । ज॒ये॒म॒ । अ॒भि । स्या॒म॒ । पृ॒त्सु॒तीः । मर्त्या॑नाम् ॥१

त्वाम् । अग्ने । वसुऽपतिम् । वसूनाम् । अभि । प्र । मन्दे । अध्वरेषु । राजन् ।

त्वया । वाजम् । वाजऽयन्तः । जयेम । अभि । स्याम । पृत्सुतीः । मर्त्यानाम् ॥१

हे “अग्ने “वसूनां “वसुपतिम् । वृत्त्यवृत्तिभ्यां वसूनां बाहुल्यं तत्स्वामित्वं चोक्तम् । बहूनां धनानां स्वामिनं “त्वाम् “अध्वरेषु यागेषु “अभि “प्र “मन्दे आभिमुख्येन स्तौमि हे “राजन् । किंच “त्वया अनुकूलेन वाजयन्तः अन्नमिच्छन्तो वयं “वाजं “जयेम । किंच “मर्त्यानां मरणधर्मकाणां “पृत्सुतीः सेनाः "अभि “ष्याम अभिभवेम ॥


दर्शपूर्णमासे पत्नीसंयाजे गृहपतेर्याज्यैषा । सूत्रितं च-' हव्यवाळग्निरजरः पिता न इति पत्नीसंयाजाः ' ( आश्व. श्रौ. १. १०) इति । देवसुवां हविःष्वप्यग्नेरेषैव याज्या। सूत्रितं च’ हव्यवाळग्निरजरः पिता नस्त्वं च सोम नो वशः ' ( आश्व. श्रौ. ४. ११ ) इति ॥

ह॒व्य॒वाळ॒ग्निर॒जरः॑ पि॒ता नो॑ वि॒भुर्वि॒भावा॑ सु॒दृशी॑को अ॒स्मे ।

सु॒गा॒र्ह॒प॒त्याः समिषो॑ दिदीह्यस्म॒द्र्य१॒॑क्सं मि॑मीहि॒ श्रवां॑सि ॥२

ह॒व्य॒ऽवाट् । अ॒ग्निः । अ॒जरः॑ । पि॒ता । नः॒ । वि॒ऽभुः । वि॒भाऽवा॑ । सु॒ऽदृशी॑कः । अ॒स्मे इति॑ ।

सु॒ऽगा॒र्ह॒प॒त्याः । सम् । इषः॑ । दि॒दी॒हि॒ । अ॒स्म॒द्र्य॑क् । सम् । मि॒मी॒हि॒ । श्रवां॑सि ॥२

हव्यऽवाट् । अग्निः । अजरः । पिता । नः । विऽभुः । विभाऽवा । सुऽदृशीकः । अस्मे इति ।

सुऽगार्हपत्याः । सम् । इषः । दिदीहि । अस्मद्र्यक् । सम् । मिमीहि । श्रवांसि ॥२

अयं "हव्यवाडग्निः “अजरः अजीर्णः सन् "नः “पिता भवत्विति शेषः । किंच “विभुः व्याप्तः “विभावा दीप्तिमान् “सुदृशीकः शोभनदर्शनः “अस्मे अस्माकं भवतु । अथ प्रत्यक्षवादः। “सुगार्हपत्याः शोभनगार्हपत्ययुक्तानि “इषः अन्नानि "सं “दिदीहि सम्यक् प्रकाशय ददस्व वा । “अस्मद्र्यक् अस्मदभिमुखं “श्रवांसि अन्नानि “सं “मिमीहि सम्यक् प्रयच्छ ॥


वि॒शां क॒विं वि॒श्पतिं॒ मानु॑षीणां॒ शुचिं॑ पाव॒कं घृ॒तपृ॑ष्ठम॒ग्निं ।

नि होता॑रं विश्व॒विदं॑ दधिध्वे॒ स दे॒वेषु॑ वनते॒ वार्या॑णि ॥३

वि॒शाम् । क॒विम् । वि॒श्पति॑म् । मानु॑षीणाम् । शुचि॑म् । पा॒व॒कम् । घृ॒तऽपृ॑ष्ठम् । अ॒ग्निम् ।

नि । होता॑रम् । वि॒श्व॒ऽविद॑म् । द॒धि॒ध्वे॒ । सः । दे॒वेषु॑ । व॒न॒ते॒ । वार्या॑णि ॥३

विशाम् । कविम् । विश्पतिम् । मानुषीणाम् । शुचिम् । पावकम् । घृतऽपृष्ठम् । अग्निम् ।

नि । होतारम् । विश्वऽविदम् । दधिध्वे । सः । देवेषु । वनते । वार्याणि ॥३

“मानुषीणां “विशां विश्पतिं सर्वासां मनुष्यरूपाणां प्रजानां पालकं स्वामिनं वा “कविं मेधाविनं “शुचिं शुद्धं दीप्तं वा “पावकम् अन्येषां शोधकं “घृतपृष्ठं प्रदीप्तपृष्ठोपलक्षितशरीरम् । अथवा उपरितनभागे आज्योपेतं “होतारं होमनिष्पादकं “विश्वविदं विश्वस्य वेत्तारम् “अग्निं “नि “दधिध्वे धारयथ' हे ऋत्विजः। “सः देवः “देवेषु मध्ये “वार्याणि वरणीयानि धनानि “वनते संभजते अस्मदर्थम् । स्वयं वा वार्याणि हवींषि वनते ॥


जु॒षस्वा॑ग्न॒ इळ॑या स॒जोषा॒ यत॑मानो र॒श्मिभिः॒ सूर्य॑स्य ।

जु॒षस्व॑ नः स॒मिधं॑ जातवेद॒ आ च॑ दे॒वान्ह॑वि॒रद्या॑य वक्षि ॥४

जु॒षस्व॑ । अ॒ग्ने॒ । इळ॑या । स॒ऽजोषाः॑ । यत॑मानः । र॒श्मिऽभिः॑ । सूर्य॑स्य ।

जु॒षस्व॑ । नः॒ । स॒म्ऽइध॑म् । जा॒त॒ऽवे॒दः॒ । आ । च॒ । दे॒वान् । ह॒विः॒ऽअद्या॑य । व॒क्षि॒ ॥४

जुषस्व । अग्ने । इळया । सऽजोषाः । यतमानः । रश्मिऽभिः । सूर्यस्य ।

जुषस्व । नः । सम्ऽइधम् । जातऽवेदः । आ । च । देवान् । हविःऽअद्याय । वक्षि ॥४

हे “अग्ने “जुषस्व सेवस्व स्तुतिम् । “इळया वेदिलक्षणया भूम्या वाचा वा "सजोषाः समानप्रीतिः । तथा “सूर्यस्य “रश्मिभिः “यतमानः प्रयत्नमुषःकाले कुर्वन् । किंच हे “जातवेदः जातस्य वेदितरग्ने “नः अस्मदीयां “समिधं जुषस्व सेवस्व । “आ वह “च "देवान् हविरद्याय हविरदनाय । आवाह्य “वक्षि वहसि तद्धविः ॥


अथ पवित्रेष्ट्यां स्विष्टकृतोऽनुवाक्यैषा । सूत्रितं च – जुष्टो दमूना अग्ने शर्ध महते सौभगायेति संयाज्ये' (अश्व. श्रौ. २. १२) इति । मरुद्यःस पुरोडाशं सप्तकपालमित्यत्रापि स्विष्टकृतोऽनुवाक्या । अत्यासो न ये मरुतः स्वञ्चो जुष्टो दमूनाः '(आश्व. श्रौ. २. १८ ) इति ॥

जुष्टो॒ दमू॑ना॒ अति॑थिर्दुरो॒ण इ॒मं नो॑ य॒ज्ञमुप॑ याहि वि॒द्वान् ।

विश्वा॑ अग्ने अभि॒युजो॑ वि॒हत्या॑ शत्रूय॒तामा भ॑रा॒ भोज॑नानि ॥५

जुष्टः॑ । दमू॑नाः । अति॑थिः । दु॒रो॒णे । इ॒मम् । नः॒ । य॒ज्ञम् । उप॑ । या॒हि॒ । वि॒द्वान् ।

विश्वा॑ । अ॒ग्ने॒ । अ॒भि॒ऽयुजः॑ । वि॒ऽहत्य॑ । श॒त्रु॒ऽय॒ताम् । आ । भ॒र॒ । भोज॑नानि ॥५

जुष्टः । दमूनाः । अतिथिः । दुरोणे । इमम् । नः । यज्ञम् । उप । याहि । विद्वान् ।

विश्वा । अग्ने । अभिऽयुजः । विऽहत्य । शत्रुऽयताम् । आ । भर । भोजनानि ॥५

"जुष्टः पर्याप्तः “दमूनाः दानमना दान्तमन वा “अतिथिः तद्वत् "दुरोणे गृहे पूज्यः सन् “इमं “नः अस्मदीयं “यज्ञम् “उप “याहि उपागच्छ । “विद्वान् जानन् हे “अग्ने “विश्वाः “अभियुजः सर्वानभियोक्तॄन् “विहत्य “शत्रूयतां तेषां “भोजनानि अन्नानि धनानि “आ “भर आहर । ‘ अतिथिरभ्यतितो गृहान्भवति' (निरु. ४. ५) इत्यादिनिरुक्तं द्रष्टव्यम् ॥ ॥ १८ ॥


व॒धेन॒ दस्युं॒ प्र हि चा॒तय॑स्व॒ वयः॑ कृण्वा॒नस्त॒न्वे॒३॒॑ स्वायै॑ ।

पिप॑र्षि॒ यत्स॑हसस्पुत्र दे॒वान्त्सो अ॑ग्ने पाहि नृतम॒ वाजे॑ अ॒स्मान् ॥६

वे॒धेन॑ । दस्यु॑म् । प्र । हि । चा॒तय॑स्व । वयः॑ । कृ॒ण्वा॒नः । त॒न्वे॑ । स्वायै॑ ।

पिप॑र्षि । यत् । स॒ह॒सः॒ । पु॒त्र॒ । दे॒वान् । सः । अ॒ग्ने॒ । पा॒हि॒ । नृ॒ऽत॒म॒ । वाजे॑ । अ॒स्मान् ॥६

वेधेन । दस्युम् । प्र । हि । चातयस्व । वयः । कृण्वानः । तन्वे । स्वायै ।

पिपर्षि । यत् । सहसः । पुत्र । देवान् । सः । अग्ने । पाहि । नृऽतम । वाजे । अस्मान् ॥६

हे अग्ने "वधेन आयुधेन “दस्युम् उपक्षपयितारं “प्र “हि “चातयस्व प्रणाशय । हि इति पूरणः । “वयः “कृण्वानः कुर्वाणः “तन्वे शरीराय “स्वायै स्वीयाय । अथवा स्वायै तन्वे यजमानादिरूपाय पुत्राय वयोऽन्नं कुर्वाणः । “यत् यस्मात् "सहसस्पुत्र अग्ने “देवान् “पिपर्षि तर्पयसि। हे “नृतम नेतृतम “अग्ने “सः त्वं “वाजे संग्रामे “अस्मान् "पाहि रक्ष ॥


व॒यं ते॑ अग्न उ॒क्थैर्वि॑धेम व॒यं ह॒व्यैः पा॑वक भद्रशोचे ।

अ॒स्मे र॒यिं वि॒श्ववा॑रं॒ समि॑न्वा॒स्मे विश्वा॑नि॒ द्रवि॑णानि धेहि ॥७

व॒यम् । ते॒ । अ॒ग्ने॒ । उ॒क्थैः । वि॒धे॒म॒ । व॒यम् । ह॒व्यैः । पा॒व॒क॒ । भ॒द्र॒ऽशो॒चे॒ ।

अ॒स्मे इति॑ । र॒यिम् । वि॒श्वऽवा॑रम् । सम् । इ॒न्व॒ । अ॒स्मे इति॑ । विश्वा॑नि । द्रवि॑णानि । धे॒हि॒ ॥७

वयम् । ते । अग्ने । उक्थैः । विधेम । वयम् । हव्यैः । पावक । भद्रऽशोचे ।

अस्मे इति । रयिम् । विश्वऽवारम् । सम् । इन्व । अस्मे इति । विश्वानि । द्रविणानि । धेहि ॥७

हे “अग्ने “ते त्वां “वयम् “उक्थैः शस्त्रैः “विधेम परिचरेम । "वयं “हव्यैः हविर्भिर्विधेम । “पावक शोधक हे “भद्रशोचे कल्याणदीप्ते “अस्मे अस्मभ्यं “विश्ववारं विश्वैर्वरणीयं “रयिं धनं “समिन्व प्रापय। “अस्मे अस्मभ्यं “विश्वानि “द्रविणानि “धेहि स्थापय ॥


अ॒स्माक॑मग्ने अध्व॒रं जु॑षस्व॒ सह॑सः सूनो त्रिषधस्थ ह॒व्यं ।

व॒यं दे॒वेषु॑ सु॒कृतः॑ स्याम॒ शर्म॑णा नस्त्रि॒वरू॑थेन पाहि ॥८

अ॒स्माक॑म् । अ॒ग्ने॒ । अ॒ध्व॒रम् । जु॒ष॒स्व॒ । सह॑सः । सू॒नो॒ इति॑ । त्रि॒ऽस॒ध॒स्थ॒ । ह॒व्यम् ।

व॒यम् । दे॒वेषु॑ । सु॒ऽकृतः॑ । स्या॒म॒ । शर्म॑णा । नः॒ । त्रि॒ऽवरू॑थेन । पा॒हि॒ ॥८

अस्माकम् । अग्ने । अध्वरम् । जुषस्व । सहसः । सूनो इति । त्रिऽसधस्थ । हव्यम् ।

वयम् । देवेषु । सुऽकृतः । स्याम । शर्मणा । नः । त्रिऽवरूथेन । पाहि ॥८

हे “अग्ने “अस्माकम् “अध्वरं “जुषस्व सेवस्व । हे “सहसः “सूनो हे बलस्य पुत्र “त्रिषधस्थ त्रिषु क्षित्यादिषु स्थानेषु स्थित “हव्यं हविः जुषस्व । यद्वा । अध्वरं हविरिति योज्यम् । अहिंसितं हविरित्यर्थः। “वयं यजमानाः “देवेषु मध्ये “सुकृतः शोभनापूर्वकर्तारः “स्याम भवेम । “त्रिवरूथेन वाचिकादिभेदेन त्रिधा वरणीयेन “शर्मणा सुखेन त्रिच्छदिष्केण गृहेण वा “नः “पाहि रक्ष ॥


विश्वा॑नि नो दु॒र्गहा॑ जातवेदः॒ सिंधुं॒ न ना॒वा दु॑रि॒ताति॑ पर्षि ।

अग्ने॑ अत्रि॒वन्नम॑सा गृणा॒नो॒३॒॑ऽस्माकं॑ बोध्यवि॒ता त॒नूनां॑ ॥९

विश्वा॑नि । नः॒ । दुः॒ऽगहा॑ । जा॒त॒ऽवे॒दः॒ । सिन्धु॑म् । न । ना॒वा । दुः॒ऽइ॒ता । अति॑ । प॒र्षि॒ ।

अग्ने॑ । अ॒त्रि॒ऽवत् । नम॑सा । गृ॒णा॒नः । अ॒स्माक॑म् । बो॒धि॒ । अ॒वि॒ता । त॒नूना॑म् ॥९

विश्वानि । नः । दुःऽगहा । जातऽवेदः । सिन्धुम् । न । नावा । दुःऽइता । अति । पर्षि ।

अग्ने । अत्रिऽवत् । नमसा । गृणानः । अस्माकम् । बोधि । अविता । तनूनाम् ॥९

हे "जातवेदः “नः अस्माकं “दुर्गहा दुःखेन गाह्यानि दुःखेन भोग्यानि “विश्वानि “दुरितानि “अति “पर्षि अतिपारय । “सिन्धुं “न “नावा नदीं नाविको यथा तद्वत् । हे “अग्ने “अत्रिवत् अत्रेर्यथा तथा अस्माकं “नमसा स्तोत्रेण “गृणानः स्तूयमानः सन् “अस्माकं “तनूनाम् “अविता रक्षकः "बोधि बुध्यस्व ॥


पुत्रकामेष्टयां ‘यस्त्वा' इत्येषा प्रधानस्य याज्या । सूत्रितं च –यस्त्वा हृदा कीरिणा मन्यमानोऽग्निस्तुविश्रवस्तमम् ' ( आश्व. श्रौ. २. १० ) इति ॥

यस्त्वा॑ हृ॒दा की॒रिणा॒ मन्य॑मा॒नोऽम॑र्त्यं॒ मर्त्यो॒ जोह॑वीमि ।

जात॑वेदो॒ यशो॑ अ॒स्मासु॑ धेहि प्र॒जाभि॑रग्ने अमृत॒त्वम॑श्यां ॥१०

यः । त्वा॒ । हृ॒दा । की॒रिणा॑ । मन्य॑मानः । अम॑र्त्यम् । मर्त्यः॑ । जोह॑वीमि ।

जात॑ऽवेदः । यशः॑ । अ॒स्मासु॑ । धे॒हि॒ । प्र॒ऽजाभिः॑ । अ॒ग्ने॒ । अ॒मृ॒त॒ऽत्वम् । अ॒श्या॒म् ॥१०

यः । त्वा । हृदा । कीरिणा । मन्यमानः । अमर्त्यम् । मर्त्यः । जोहवीमि ।

जातऽवेदः । यशः । अस्मासु । धेहि । प्रऽजाभिः । अग्ने । अमृतऽत्वम् । अश्याम् ॥१०

"यः “मर्त्यः मरणधर्माहम् “अमर्त्यम् अविनाशं “त्वा त्वां “कीरिणा स्तुत्यादिषु विक्षिप्तेन "हृदा हृदयेन युक्तः “मन्यमानः स्तुवन् “जोहवीमि अत्यर्थमाह्वयामि । यद्वा । स्तोतृवाचकेन कीरिणाशब्देन स्तुतिरुपलक्ष्यते । स्तुतियुक्तेन मनसा त्वां मन्यमानो जोहवीमि । हे “जातवेदः “यशः धनं प्रजां वा “अस्मासु “धेहि । "प्रजाभिः त्वद्दत्ताभिर्हे “अग्ने अहम् “अमृतत्वं संतत्यविच्छेदलक्षणम् “अश्यां प्राप्नुयाम् । प्रजामनु प्रजायसे तदु ते मर्त्यामृतम्' (तै. ब्रा. १. ५. ५. ६ ) इति हि श्रुतिः ॥


तस्यामेव पुत्रकामेष्टयां ' यस्मै त्वम्' इत्येषाग्नेः पुत्रवतोऽनुवाक्या। ‘यस्मै त्वं सुकृते जातवेदो यस्त्वा हृदा कीरिणा मन्यमानः ' ( आश्व. श्रौ. २. १० ) इति हि सूत्रितम् ॥

यस्मै॒ त्वं सु॒कृते॑ जातवेद उ लो॒कम॑ग्ने कृ॒णवः॑ स्यो॒नं ।

अ॒श्विनं॒ स पु॒त्रिणं॑ वी॒रवं॑तं॒ गोमं॑तं र॒यिं न॑शते स्व॒स्ति ॥११

यस्मै॑ । त्वम् । सु॒ऽकृते॑ । जा॒त॒ऽवे॒दः॒ । ऊं॒ इति॑ । लो॒कम् । अ॒ग्ने॒ । कृ॒णवः॑ । स्यो॒नम् ।

अ॒श्विन॑म् । सः । पु॒त्रिण॑म् । वी॒रऽव॑न्तम् । गोऽम॑न्तम् । र॒यिम् । न॒श॒ते॒ । स्व॒स्ति ॥११

यस्मै । त्वम् । सुऽकृते । जातऽवेदः । ऊं इति । लोकम् । अग्ने । कृणवः । स्योनम् ।

अश्विनम् । सः । पुत्रिणम् । वीरऽवन्तम् । गोऽमन्तम् । रयिम् । नशते । स्वस्ति ॥११

हे “जातवेदः “अग्ने “त्वं “यस्मै “सुकृते सुकर्मणे यजमानाय । “उ इति पूरणः । "लोकं “स्योनं सुखकरं “कृणवः अकरोः । यद्वा । लोकमालोकेन स्योनं कृणवः अनुग्रहेण कुर्वित्यर्थः । “सः यजमान: “अश्विनं बह्वश्वोपेतं “पुत्रिणं बहुपुत्रोपेतं “वीरवन्तं वीरैर्वीर्येण वा उपेतं "गोमन्तं गोभिर्युक्तं “रयिं धनं “नशते प्राप्नोति । “स्वस्ति अविनश्वरम् ॥ ॥ १९ ॥

मण्डल ५

सूक्तं ५.१

सूक्तं ५.२

सूक्तं ५.३

सूक्तं ५.४

सूक्तं ५.५

सूक्तं ५.६

सूक्तं ५.७

सूक्तं ५.८

सूक्तं ५.९

सूक्तं ५.१०

सूक्तं ५.११

सूक्तं ५.१२

सूक्तं ५.१३

सूक्तं ५.१४

सूक्तं ५.१५

सूक्तं ५.१६

सूक्तं ५.१७

सूक्तं ५.१८

सूक्तं ५.१९

सूक्तं ५.२०

सूक्तं ५.२१

सूक्तं ५.२२

सूक्तं ५.२३

सूक्तं ५.२४

सूक्तं ५.२५

सूक्तं ५.२६

सूक्तं ५.२७

सूक्तं ५.२८

सूक्तं ५.२९

सूक्तं ५.३०

सूक्तं ५.३१

सूक्तं ५.३२

सूक्तं ५.३३

सूक्तं ५.३४

सूक्तं ५.३५

सूक्तं ५.३६

सूक्तं ५.३७

सूक्तं ५.३८

सूक्तं ५.३९

सूक्तं ५.४०

सूक्तं ५.४१

सूक्तं ५.४२

सूक्तं ५.४३

सूक्तं ५.४४

सूक्तं ५.४५

सूक्तं ५.४६

सूक्तं ५.४७

सूक्तं ५.४८

सूक्तं ५.४९

सूक्तं ५.५०

सूक्तं ५.५१

सूक्तं ५.५२

सूक्तं ५.५३

सूक्तं ५.५४

सूक्तं ५.५५

सूक्तं ५.५६

सूक्तं ५.५७

सूक्तं ५.५८

सूक्तं ५.५९

सूक्तं ५.६०

सूक्तं ५.६१

सूक्तं ५.६२

सूक्तं ५.६३

सूक्तं ५.६४

सूक्तं ५.६५

सूक्तं ५.६६

सूक्तं ५.६७

सूक्तं ५.६८

सूक्तं ५.६९

सूक्तं ५.७०

सूक्तं ५.७१

सूक्तं ५.७२

सूक्तं ५.७३

सूक्तं ५.७४

सूक्तं ५.७५

सूक्तं ५.७६

सूक्तं ५.७७

सूक्तं ५.७८

सूक्तं ५.७९

सूक्तं ५.८०

सूक्तं ५.८१

सूक्तं ५.८२

सूक्तं ५.८३

सूक्तं ५.८४

सूक्तं ५.८५

सूक्तं ५.८६

सूक्तं ५.८७

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_५.४&oldid=324070" इत्यस्माद् प्रतिप्राप्तम्