← सूक्तं ५.३३ ऋग्वेदः - मण्डल ५
सूक्तं ५.३४
प्राजापत्यः संवरणः
सूक्तं ५.३५ →
दे. इन्द्रः। जगती, ९ त्रिष्टुप् ।


अजातशत्रुमजरा स्वर्वत्यनु स्वधामिता दस्ममीयते ।
सुनोतन पचत ब्रह्मवाहसे पुरुष्टुताय प्रतरं दधातन ॥१॥
आ यः सोमेन जठरमपिप्रतामन्दत मघवा मध्वो अन्धसः ।
यदीं मृगाय हन्तवे महावधः सहस्रभृष्टिमुशना वधं यमत् ॥२॥
यो अस्मै घ्रंस उत वा य ऊधनि सोमं सुनोति भवति द्युमाँ अह ।
अपाप शक्रस्ततनुष्टिमूहति तनूशुभ्रं मघवा यः कवासखः ॥३॥
यस्यावधीत्पितरं यस्य मातरं यस्य शक्रो भ्रातरं नात ईषते ।
वेतीद्वस्य प्रयता यतंकरो न किल्बिषादीषते वस्व आकरः ॥४॥
न पञ्चभिर्दशभिर्वष्ट्यारभं नासुन्वता सचते पुष्यता चन ।
जिनाति वेदमुया हन्ति वा धुनिरा देवयुं भजति गोमति व्रजे ॥५॥
वित्वक्षणः समृतौ चक्रमासजोऽसुन्वतो विषुणः सुन्वतो वृधः ।
इन्द्रो विश्वस्य दमिता विभीषणो यथावशं नयति दासमार्यः ॥६॥
समीं पणेरजति भोजनं मुषे वि दाशुषे भजति सूनरं वसु ।
दुर्गे चन ध्रियते विश्व आ पुरु जनो यो अस्य तविषीमचुक्रुधत् ॥७॥
सं यज्जनौ सुधनौ विश्वशर्धसाववेदिन्द्रो मघवा गोषु शुभ्रिषु ।
युजं ह्यन्यमकृत प्रवेपन्युदीं गव्यं सृजते सत्वभिर्धुनिः ॥८॥
सहस्रसामाग्निवेशिं गृणीषे शत्रिमग्न उपमां केतुमर्यः ।
तस्मा आपः संयतः पीपयन्त तस्मिन्क्षत्रममवत्त्वेषमस्तु ॥९॥


सायणभाष्यम्

‘ अजातशत्रुम्' इति नवर्चं द्वितीयं सूक्तं प्राजापत्यस्य संवरणस्यार्षमैन्द्रम् । नवमी त्रिष्टुप् शिष्टास्त्रिष्टुबन्तपरिभाषया जगत्यः । ‘ अजातशत्रु नव त्रिष्टुबन्तम्' इत्यनुक्रमणिका । विनियोगो लैङ्गिकः ॥


अजा॑तशत्रुम॒जरा॒ स्व॑र्व॒त्यनु॑ स्व॒धामि॑ता द॒स्ममी॑यते ।

सु॒नोत॑न॒ पच॑त॒ ब्रह्म॑वाहसे पुरुष्टु॒ताय॑ प्रत॒रं द॑धातन ॥१

अजा॑तऽशत्रुम् । अ॒जरा॑ । स्वः॑ऽवती । अनु॑ । स्व॒धा । अमि॑ता । द॒स्मम् । ई॒य॒ते॒ ।

सु॒नोत॑न । पच॑त । ब्रह्म॑ऽवाहसे । पु॒रु॒ऽस्तु॒ताय॑ । प्र॒ऽत॒रम् । द॒धा॒त॒न॒ ॥१

अजातऽशत्रुम् । अजरा । स्वःऽवती । अनु । स्वधा । अमिता । दस्मम् । ईयते ।

सुनोतन । पचत । ब्रह्मऽवाहसे । पुरुऽस्तुताय । प्रऽतरम् । दधातन ॥१

“अजातशत्रुम् । अनुत्पन्नाः शातयितारो यस्य तम् । “दस्मं शत्रूणामुपक्षपयितारम् “अजरा अक्षीणा “स्वर्वती स्वरणवती “अमिता अपरिमिता “स्वधा अन्नं हविः “अनु “ईयते अनुप्राप्नोति । तदर्थं हे ऋत्विजः "सुनोतन अभिषुणुत। “पचत पुरोडाशादिकम् । कस्मै । “ब्रह्मवाहसे ब्रह्मणः परिवृढस्य स्तोत्रस्य वाहकाय “पुरुष्टुताय बहुभिः स्तुतायेन्द्राय । “प्रतरं प्रकृष्टतरं “दधातन धारयत स्वस्वोचितकर्म ।।


आ यः सोमे॑न ज॒ठर॒मपि॑प्र॒तामं॑दत म॒घवा॒ मध्वो॒ अंध॑सः ।

यदीं॑ मृ॒गाय॒ हंत॑वे म॒हाव॑धः स॒हस्र॑भृष्टिमु॒शना॑ व॒धं यम॑त् ॥२

आ । यः । सोमे॑न । ज॒ठर॑म् । अपि॑प्रत । अम॑न्दत । म॒घऽवा॑ । मध्वः॑ । अन्ध॑सः ।

यत् । ई॒म् । मृ॒गाय॑ । हन्त॑वे । म॒हाऽव॑धः । स॒हस्र॑ऽभृष्टिम् । उ॒शना॑ । व॒धम् । यम॑त् ॥२

आ । यः । सोमेन । जठरम् । अपिप्रत । अमन्दत । मघऽवा । मध्वः । अन्धसः ।

यत् । ईम् । मृगाय । हन्तवे । महाऽवधः । सहस्रऽभृष्टिम् । उशना । वधम् । यमत् ॥२

“यः “मघवा “सोमेन “जठरं स्वकीयम् “आ सर्वतः “अपिप्रत अपूरयत् “मध्वः मधुररसस्य “अन्धसः सोमस्य पानेन "अमन्दत अतृप्यत्। “यत् यदा “ईम् अयं “मृगाय एतन्नामकाय असुराय “हन्तवे तं हन्तुं “महावधः महावज्रः “सहस्रभृष्टिः अपरिमिततेजाः “उशना कामयमानः शत्रुं यद्वोशनसा सह “वधं वज्रं “यमत् उदयच्छत् तदापिप्रत अमन्दत च ।।


यो अ॑स्मै घ्रं॒स उ॒त वा॒ य ऊध॑नि॒ सोमं॑ सु॒नोति॒ भव॑ति द्यु॒माँ अह॑ ।

अपा॑प श॒क्रस्त॑त॒नुष्टि॑मूहति त॒नूशु॑भ्रं म॒घवा॒ यः क॑वास॒खः ॥३

यः । अ॒स्मै॒ । घ्रं॒से । उ॒त । वा॒ । यः । ऊध॑नि । सोम॑म् । सु॒नोति॑ । भव॑ति । द्यु॒ऽमान् । अह॑ ।

अप॑ऽअप । श॒क्रः । त॒त॒नुष्टि॑म् । ऊ॒ह॒ति॒ । त॒नूऽशु॑भ्रम् । म॒घऽवा॑ । यः । क॒व॒ऽस॒खः ॥३

यः । अस्मै । घ्रंसे । उत । वा । यः । ऊधनि । सोमम् । सुनोति । भवति । द्युऽमान् । अह ।

अपऽअप । शक्रः । ततनुष्टिम् । ऊहति । तनूऽशुभ्रम् । मघऽवा । यः । कवऽसखः ॥३

“यः यजमानः “अस्मै इन्द्राय “घ्रंसे । अहर्नामैतत् । गृह्यन्तेऽस्मिन् रसा इति घ्रंसः । तस्मिन् । “उत “वा अथवा “यः यजमानः “ऊधनि । उद्धततरं भवत्युन्नद्धमिति वोधो रात्रिः । स्नेहप्रदानरसाभ्यामूधसि रात्रौ च समत्वाद्रात्रिरप्यूध उच्यते । अहनि रात्रौ च “सोमं "सुनोति सः “भवति “द्युमान् दीप्तिमान् । “अह इति विनिग्रहार्थीयः । किंच “शक्रः शक्तोऽयमिन्द्रः “ततनुष्टिम् । ततं धर्मसंततिं नुदति वष्टि कामयते कामानिति ततनुष्टिः । तं “तनूशुभ्रम् । तनूः शुभ्रा शोभनीया अलंकारादिभिः यस्य तम् । तादृशं स्वपोषकम् अयज्वानम् अप “ऊहति । अपरोऽपशब्दः पूरणः । “मघवा धनवान् “यः च "कवासखः कुत्सितपुरुषसहायस्तमपोहतीति ॥


यस्याव॑धीत्पि॒तरं॒ यस्य॑ मा॒तरं॒ यस्य॑ श॒क्रो भ्रात॑रं॒ नात॑ ईषते ।

वेतीद्व॑स्य॒ प्रय॑ता यतंक॒रो न किल्बि॑षादीषते॒ वस्व॑ आक॒रः ॥४

यस्य॑ । अव॑धीत् । पि॒तर॑म् । यस्य॑ । मा॒तर॑म् । यस्य॑ । श॒क्रः । भ्रात॑रम् । न । अतः॑ । ई॒ष॒ते॒ ।

वेति॑ । इत् । ऊं॒ इति॑ । अ॒स्य॒ । प्रऽय॑ता । य॒त॒म्ऽक॒रः । न । किल्बि॑षात् । ई॒ष॒ते॒ । वस्वः॑ । आ॒ऽक॒रः ॥४

यस्य । अवधीत् । पितरम् । यस्य । मातरम् । यस्य । शक्रः । भ्रातरम् । न । अतः । ईषते ।

वेति । इत् । ऊं इति । अस्य । प्रऽयता । यतम्ऽकरः । न । किल्बिषात् । ईषते । वस्वः । आऽकरः ॥४

“शक्रः शक्तोऽयं “यस्य अयज्वनः “पितरं "अवधीत् हतवान् । “यस्य च “मातरम् अवधीत् । “यस्य च "भ्रातरं "अतः अस्मादयज्वनः सकाशात् “न “ईषते । न बिभेति न गच्छति वा । किंतु “अस्य “प्रयता प्रदत्तानि हवींषि “वेतीद् कामयत एव । अयज्वानं शिक्षयित्वा नियोजयतीत्यर्थः । “यतंकर: यमनकर्ता “वस्वः वसुनः धनस्य "आकरः अभिमुख्यकर्ता यः “किल्बिषात् पित्रादिवधयुक्तात् “न “ईषते न चलति न बिभेति वा । इन्द्रस्य अस्तोतॄणां हतिः ‘इन्द्रो यतीन् सालावृकेभ्यः प्रयच्छत् अन्तरिक्षे पौलोमान् पृथिव्यां कालकाञ्ज्यानरुन्मुखान्यतीन् सालावृकेभ्यः प्रायच्छम्' इत्यादिश्रुतिषु प्रसिद्धा ॥


न पं॒चभि॑र्द॒शभि॑र्वष्ट्या॒रभं॒ नासु॑न्वता सचते॒ पुष्य॑ता च॒न ।

जि॒नाति॒ वेद॑मु॒या हंति॑ वा॒ धुनि॒रा दे॑व॒युं भ॑जति॒ गोम॑ति व्र॒जे ॥५

न । प॒ञ्चऽभिः॑ । द॒शऽभिः॑ । व॒ष्टि॒ । आ॒ऽरभ॑म् । न । असु॑न्वता । स॒च॒ते॒ । पुष्य॑ता । च॒न ।

जि॒नाति॑ । वा॒ । इत् । अ॒मु॒या । हन्ति॑ । वा॒ । धुनिः॑ । आ । दे॒व॒ऽयुम् । भ॒ज॒ति॒ । गोऽम॑ति । व्र॒जे ॥५

न । पञ्चऽभिः । दशऽभिः । वष्टि । आऽरभम् । न । असुन्वता । सचते । पुष्यता । चन ।

जिनाति । वा । इत् । अमुया । हन्ति । वा । धुनिः । आ । देवऽयुम् । भजति । गोऽमति । व्रजे ॥५

अयमिन्द्रः “पञ्चभिर्दशभिः वा सहायैः “आरभम् आरम्भं शत्रुहननायालम्बनं “न “वष्टि साहाय्यं नापेक्षत इत्यर्थः । यद्वा । अमुमिन्द्रं पञ्चभिर्दशभिर्वा यज्ञादन्यैरुपायैः आरभम् आरब्धुमुद्योगं कर्तुं न वष्टि न कामयते । “असुन्वता अभिषवमकुर्वता सह “पुष्यता “चन बन्ध्वादीनपोषयतापि “न “सचते न संगच्छते । असुन्वन्तम् अभिषवमकुर्वाणम् अयष्टारम् अपुष्णन्तं च न प्राप्नोतीत्यर्थः । न केवलमप्राप्तिमात्रं किंतु “जिनाति “वा । वाशब्दश्चार्थे । जिनाति च । बाधते । “इत् इति पूरणः । “हन्ति “वा “अमुया अमुमयष्टारं “धुनिः कम्पकः शत्रूणाम् । “देवयुं देवमिन्द्रं कामयमानं यजमानं “गोमति “व्रजे “आ “भजति योजयतीत्यर्थः ॥ ॥ ३ ॥


वि॒त्वक्ष॑णः॒ समृ॑तौ चक्रमास॒जोऽसु॑न्वतो॒ विषु॑णः सुन्व॒तो वृ॒धः ।

इंद्रो॒ विश्व॑स्य दमि॒ता वि॒भीष॑णो यथाव॒शं न॑यति॒ दास॒मार्यः॑ ॥६

वि॒ऽत्वक्ष॑णः । सम्ऽऋ॑तौ । च॒क्र॒म्ऽआ॒स॒जः । असु॑न्वतः । विषु॑णः । सु॒न्व॒तः । वृ॒धः ।

इन्द्रः॑ । विश्व॑स्य । द॒मि॒ता । वि॒ऽभीष॑णः । य॒था॒ऽव॒शम् । न॒य॒ति॒ । दास॑म् । आर्यः॑ ॥६

विऽत्वक्षणः । सम्ऽऋतौ । चक्रम्ऽआसजः । असुन्वतः । विषुणः । सुन्वतः । वृधः ।

इन्द्रः । विश्वस्य । दमिता । विऽभीषणः । यथाऽवशम् । नयति । दासम् । आर्यः ॥६

"समृतौ संग्रामे “वित्वक्षणः विशेषेण तनूकर्ता शत्रूणां तदर्थं “चक्रमासजः रथचक्रस्यासंजयिता “असुन्वतः अयजमानस्य “विषुणः पराङ्मुखः “सुन्वतः यजमानस्य “वृधः वर्धयिता “इन्द्रः “विश्वस्य “दमिता शिक्षयिता विभीषणः भयजनकः “आर्यः स्वामी “यथावशं यथेच्छं “दासं दासकर्माणं जनं “नयति स्ववशम् ॥


समीं॑ प॒णेर॑जति॒ भोज॑नं मु॒षे वि दा॒शुषे॑ भजति सू॒नरं॒ वसु॑ ।

दु॒र्गे च॒न ध्रि॑यते॒ विश्व॒ आ पु॒रु जनो॒ यो अ॑स्य॒ तवि॑षी॒मचु॑क्रुधत् ॥७

सम् । ई॒म् । प॒णेः । अ॒ज॒ति॒ । भोज॑नम् । मु॒षे । वि । दा॒शुषे॑ । भ॒ज॒ति॒ । सू॒नर॑म् । वसु॑ ।

दुः॒ऽगे । च॒न । ध्रि॒य॒ते॒ । विश्वः॑ । आ । पु॒रु । जनः॑ । यः । अ॒स्य॒ । तवि॑षीम् । अचु॑क्रुधत् ॥७

सम् । ईम् । पणेः । अजति । भोजनम् । मुषे । वि । दाशुषे । भजति । सूनरम् । वसु ।

दुःऽगे । चन । ध्रियते । विश्वः । आ । पुरु । जनः । यः । अस्य । तविषीम् । अचुक्रुधत् ॥७

“ईम् अयमिन्द्रः "पणेः वणिज इव लुब्धकस्यादातुः “भोजनं धनमन्नं वा "मुषे चोरयितुं “सम् "अजति सम्यक् गच्छति । गत्वा चादाय “दाशुषे हविर्दात्रे यजमानाय "वि “भजति “सूनरं शोभनमनुष्यं “वसु धनम् । अयष्टुर्धनमाकृष्य यष्ट्रे प्रयच्छतीत्यर्थः । न केवलं वणिग्धनप्रदानमात्रं किंतु “पुरु पुरुणि "दुर्गे "चन दुःखेन गन्तव्ये आपद्यपि “विश्वः सर्वोऽपि दातृजनः “आ “ध्रियते आस्थाप्यते । “यः “जनः “अस्य इन्द्रस्य “तविषीं बलम् “अचुक्रुधत् विहिताकरणादिना तस्य पणेरजतीति पूर्वशेषः । यद्वा । योऽस्य तविषीमचुक्रुधत् स सर्वोऽपि जनो दुर्गे चनाध्रियत इन्द्रेण ॥ चनेत्येकपदमध्येतृसंप्रदायप्राप्तम् ॥


सं यज्जनौ॑ सु॒धनौ॑ वि॒श्वश॑र्धसा॒ववे॒दिंद्रो॑ म॒घवा॒ गोषु॑ शु॒भ्रिषु॑ ।

युजं॒ ह्य१॒॑न्यमकृ॑त प्रवेप॒न्युदीं॒ गव्यं॑ सृजते॒ सत्व॑भि॒र्धुनिः॑ ॥८

सम् । यत् । जनौ॑ । सु॒ऽधनौ॑ । वि॒श्वऽश॑र्धसौ । अवे॑त् । इन्द्रः॑ । म॒घऽवा॑ । गोषु॑ । शु॒भ्रिषु॑ ।

युज॑म् । हि । अ॒न्यम् । अकृ॑त । प्र॒ऽवे॒प॒नी । उत् । ई॒म् । गव्य॑म् । सृ॒ज॒ते॒ । सत्व॑ऽभिः । धुनिः॑ ॥८

सम् । यत् । जनौ । सुऽधनौ । विश्वऽशर्धसौ । अवेत् । इन्द्रः । मघऽवा । गोषु । शुभ्रिषु ।

युजम् । हि । अन्यम् । अकृत । प्रऽवेपनी । उत् । ईम् । गव्यम् । सृजते । सत्वऽभिः । धुनिः ॥८

“सम् अवेत् संजानाति “यत् यदा “जनौ परस्परप्रतिद्वन्द्विनौ "सुधनौ शोभनधनौ “विश्वशर्धसौ व्याप्तबलौ बहूत्साहौ वा “मघवा धनवान् “इन्द्रः "गोषु “शुभ्रिषु शोभनासु गोषु निमित्तभूतासु “अन्यं यष्टारं "युजं सहायम् “अकृत कृतवान् "प्रवेपनी शत्रूणां प्रवेपनवान् । “ईम् अस्मै “गव्यं गोसमूहम् “उत् “सृजते "सत्वभिः मरुद्भिः सह “धुनिः मेघानां कम्पयिता । इन्द्रो यजमानम् अयजमानं वा यं जानाति गोनिमित्तं ज्ञात्वा यज्वने गोसमूहं प्रयच्छतीत्यर्थः ॥


स॒ह॒स्र॒सामाग्नि॑वेशिं गृणीषे॒ शत्रि॑मग्न उप॒मां के॒तुम॒र्यः ।

तस्मा॒ आपः॑ सं॒यतः॑ पीपयंत॒ तस्मि॑न्क्ष॒त्रमम॑वत्त्वे॒षम॑स्तु ॥९

स॒ह॒स्र॒ऽसाम् । आग्नि॑ऽवेशिम् । गृ॒णी॒षे॒ । शत्रि॑म् । अ॒ग्ने॒ । उ॒प॒ऽमाम् । के॒तुम् । अ॒र्यः ।

तस्मै॑ । आपः॑ । स॒म्ऽयतः॑ । पी॒प॒य॒न्त॒ । तस्मि॑न् । क्ष॒त्रम् । अम॑ऽवत् । त्वे॒षम् । अ॒स्तु॒ ॥९

सहस्रऽसाम् । आग्निऽवेशिम् । गृणीषे । शत्रिम् । अग्ने । उपऽमाम् । केतुम् । अर्यः ।

तस्मै । आपः । सम्ऽयतः । पीपयन्त । तस्मिन् । क्षत्रम् । अमऽवत् । त्वेषम् । अस्तु ॥९

अग्निवेशिसुतं शत्रिमसंख्यातधनप्रदम् । आशास्त ऋषिरन्त्यर्चा प्रजापतिसुतः सुधीः ॥ “अर्यः अहं “सहस्रसाम् अपरिमितधनप्रदम् "आग्निवेशिम् अग्निवेशिसुतं “शत्रिम् एतन्नामकं राजर्षिं “गृणीषे गृणे स्तौमि । हे “अग्ने अङ्गनादिगुणविशिष्टेन्द्र । कीदृशं तम् । “उपमाम् उपमानभूतं "केतुं प्रज्ञापकं प्रख्यातमित्यर्थः । “तस्मा “आपः “संयतः सम्यक् गच्छन्त्यः “पीपयन्त प्यायन्ताम् । “तस्मिन् राज्ञि “क्षत्रं धनम् “अमवत् बलसहितं “त्वेषं दीप्तम् “अस्तु इति ॥ ॥ ४ ॥


मण्डल ५

सूक्तं ५.१

सूक्तं ५.२

सूक्तं ५.३

सूक्तं ५.४

सूक्तं ५.५

सूक्तं ५.६

सूक्तं ५.७

सूक्तं ५.८

सूक्तं ५.९

सूक्तं ५.१०

सूक्तं ५.११

सूक्तं ५.१२

सूक्तं ५.१३

सूक्तं ५.१४

सूक्तं ५.१५

सूक्तं ५.१६

सूक्तं ५.१७

सूक्तं ५.१८

सूक्तं ५.१९

सूक्तं ५.२०

सूक्तं ५.२१

सूक्तं ५.२२

सूक्तं ५.२३

सूक्तं ५.२४

सूक्तं ५.२५

सूक्तं ५.२६

सूक्तं ५.२७

सूक्तं ५.२८

सूक्तं ५.२९

सूक्तं ५.३०

सूक्तं ५.३१

सूक्तं ५.३२

सूक्तं ५.३३

सूक्तं ५.३४

सूक्तं ५.३५

सूक्तं ५.३६

सूक्तं ५.३७

सूक्तं ५.३८

सूक्तं ५.३९

सूक्तं ५.४०

सूक्तं ५.४१

सूक्तं ५.४२

सूक्तं ५.४३

सूक्तं ५.४४

सूक्तं ५.४५

सूक्तं ५.४६

सूक्तं ५.४७

सूक्तं ५.४८

सूक्तं ५.४९

सूक्तं ५.५०

सूक्तं ५.५१

सूक्तं ५.५२

सूक्तं ५.५३

सूक्तं ५.५४

सूक्तं ५.५५

सूक्तं ५.५६

सूक्तं ५.५७

सूक्तं ५.५८

सूक्तं ५.५९

सूक्तं ५.६०

सूक्तं ५.६१

सूक्तं ५.६२

सूक्तं ५.६३

सूक्तं ५.६४

सूक्तं ५.६५

सूक्तं ५.६६

सूक्तं ५.६७

सूक्तं ५.६८

सूक्तं ५.६९

सूक्तं ५.७०

सूक्तं ५.७१

सूक्तं ५.७२

सूक्तं ५.७३

सूक्तं ५.७४

सूक्तं ५.७५

सूक्तं ५.७६

सूक्तं ५.७७

सूक्तं ५.७८

सूक्तं ५.७९

सूक्तं ५.८०

सूक्तं ५.८१

सूक्तं ५.८२

सूक्तं ५.८३

सूक्तं ५.८४

सूक्तं ५.८५

सूक्तं ५.८६

सूक्तं ५.८७

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_५.३४&oldid=185440" इत्यस्माद् प्रतिप्राप्तम्