ऋग्वेदः सूक्तं ५.१०
← सूक्तं ५.९ | ऋग्वेदः - मण्डल ५ सूक्तं ५.१० गय आत्रेयः |
सूक्तं ५.११ → |
दे. अग्निः। अनुष्टुप्, ४, ७ पङ्क्तिः। |
अग्न ओजिष्ठमा भर द्युम्नमस्मभ्यमध्रिगो ।
प्र नो राया परीणसा रत्सि वाजाय पन्थाम् ॥१॥
त्वं नो अग्ने अद्भुत क्रत्वा दक्षस्य मंहना ।
त्वे असुर्यमारुहत्क्राणा मित्रो न यज्ञियः ॥२॥
त्वं नो अग्न एषां गयं पुष्टिं च वर्धय ।
ये स्तोमेभिः प्र सूरयो नरो मघान्यानशुः ॥३॥
ये अग्ने चन्द्र ते गिरः शुम्भन्त्यश्वराधसः ।
शुष्मेभिः शुष्मिणो नरो दिवश्चिद्येषां बृहत्सुकीर्तिर्बोधति त्मना ॥४॥
तव त्ये अग्ने अर्चयो भ्राजन्तो यन्ति धृष्णुया ।
परिज्मानो न विद्युतः स्वानो रथो न वाजयुः ॥५॥
नू नो अग्न ऊतये सबाधसश्च रातये ।
अस्माकासश्च सूरयो विश्वा आशास्तरीषणि ॥६॥
त्वं नो अग्ने अङ्गिर स्तुत स्तवान आ भर ।
होतर्विभ्वासहं रयिं स्तोतृभ्य स्तवसे च न उतैधि पृत्सु नो वृधे ॥७॥
सायणभाष्यम्
•अग्न ओजिष्ठम् ' इति सप्तर्चं दशमं सूक्तम् । ऋष्यादि विनियोगश्च पूर्ववत् । चतुर्थीसप्तम्यौ पङ्क्ती । ‘ अग्न ओजिष्ठमन्त्याचतुर्थ्यौ च ' इत्यनुक्रान्तम् ॥
अग्न॒ ओजि॑ष्ठ॒मा भ॑र द्यु॒म्नम॒स्मभ्य॑मध्रिगो ।
प्र नो॑ रा॒या परी॑णसा॒ रत्सि॒ वाजा॑य॒ पन्था॑म् ॥१
अग्ने॑ । ओजि॑ष्ठम् । आ । भ॒र॒ । द्यु॒म्नम् । अ॒स्मभ्य॑म् । अ॒ध्रि॒गो॒ इत्य॑ध्रिऽगो ।
प्र । नः॒ । रा॒या । परी॑णसा । रत्सि॑ । वाजा॑य । पन्था॑म् ॥१
अग्ने । ओजिष्ठम् । आ । भर । द्युम्नम् । अस्मभ्यम् । अध्रिगो इत्यध्रिऽगो ।
प्र । नः । राया । परीणसा । रत्सि । वाजाय । पन्थाम् ॥१
हे “अग्ने “ओजिष्ठं बलवत्तमं “द्युम्नम् । द्योतते कटकमुकुटादिरूपेण सर्वत्र प्रकाशते इति द्युम्नं धनम् । “अस्मभ्यम् “आ “भर आहर । हे “अध्रिगो अधृतगमन। अधृतमप्रतिहतं गमनं यस्येति अधृता अनिवारिता गावो रश्मयो यस्येति वा अधृतगुः अध्रिगुः । तस्य संबोधनम् । “नः अस्मान् “परीणसा परितो व्यापकेन “राया धनेन “प्र प्रकर्षेण योजय । “वाजाय अन्नलाभाय “पन्थां पन्थानमन्नस्य मत्समीपप्राप्तिसाधनं मार्गं “रत्सि विलिख । कुर्वित्यर्थः ॥ ओजिष्ठम् । “ उब्ज आर्जवे '। ‘ उब्जेर्बले बलोपश्च' इत्यसुन् बलोपश्च । गुणः । ओजः । तदस्यास्ति' इत्यर्थे ' अस्मायामेधा' इत्यादिना विनिः । ‘अतिशायने' इति इष्ठन्। विन्मतोर्लुक् । ‘ टेः' इति टिलोपः। नित्त्वादाद्युदात्तः । द्युम्नम् । ‘ द्युत दीप्तौ ' इत्यस्माद्धातोः ' सुम्नद्युम्ननिम्न ' इत्यादिना नक्प्रत्ययो मकारश्चान्तादेशो निपात्यते । प्रत्ययस्वरेणान्तोदात्तः । अध्रिगो । अधृतशब्दस्य अध्र्यादेशः । गोशब्दस्योपसर्जनह्रस्वत्वम् । आमन्त्रितस्य निघातः । परीणसा । ‘णस कौटिल्ये' । अत्र व्याप्त्यर्थो धातूनामनेकार्थत्वात् । अस्मात् संपदादिलक्षणो भावे क्विप् । परि प्राप्तं नस् व्यापनं यस्य तत्तथोक्तम् ।' उपसर्गादसमासेऽपि ' इति णत्वम् । अत्र प्रापणक्रियया युक्तस्य परेर्णसतिं प्रत्युपसर्गसंज्ञा नास्ति ‘यत्क्रियायुक्तास्तं प्रति गत्युपसर्गसंज्ञाः ' (पा. सू. १. ४. ६०. ३) इति न्यायात् । अतः कथं णत्वम् । एवं तर्हि ' उपसर्गाद्बहुलम् इति वचनात् णसो णत्वं भविष्यति ।' निपातस्य च ' इति पूर्वपदस्य दीर्घः । ‘ बहुव्रीहौ प्रकृत्या' इति पूर्वपदप्रकृतिस्वरत्वम् । रत्सि ।' रद विलेखने ' । भौवादिकः । 'बहुलं छन्दसि ' इति शपो लुक् । पादादित्वान्निघाताभावः । पन्थाम् । द्वितीयैकवचने ‘ इतोऽत् सर्वनामस्थाने ' इत्यत् । नकारलोपश्छान्दसः । 'पथिमथोः सर्वनामस्थाने ' इत्याद्युदात्तत्वम् ॥
त्वं नो॑ अग्ने अद्भुत॒ क्रत्वा॒ दक्ष॑स्य मं॒हना॑ ।
त्वे अ॑सु॒र्य१॒॑मारु॑हत्क्रा॒णा मि॒त्रो न य॒ज्ञिय॑ः ॥२
त्वम् । नः॒ । अ॒ग्ने॒ । अ॒द्भु॒त॒ । क्रत्वा॑ । दक्ष॑स्य । मं॒हना॑ ।
त्वे इति॑ । अ॒सु॒र्य॑म् । आ । अ॒रु॒ह॒त् । क्रा॒णा । मि॒त्रः । न । य॒ज्ञियः॑ ॥२
त्वम् । नः । अग्ने । अद्भुत । क्रत्वा । दक्षस्य । मंहना ।
त्वे इति । असुर्यम् । आ । अरुहत् । क्राणा । मित्रः । न । यज्ञियः ॥२
हे "अग्ने “अद्भुत सामर्थ्यातिशयेन सर्वेषामाश्चर्यभूत “त्वं “नः अस्माकं "क्रत्वा कर्मणा अस्मत्कृतेन यज्ञादिव्यापारेण प्रीतः सन् 'दक्षस्य बलस्य धनस्य वा “मंहना मंहनं नाम दानं कुर्विति शेषः । यतः कारणात् “त्वे त्वयि “असुर्यम् असुरघ्नं बलम् “आरुहत् आरूढं अतः “मित्रो “न सूर्य इव "यज्ञियः यज्ञार्हस्त्वं “क्राणा यज्ञधातुकराक्षसापनोदनलक्षणानि कर्माणि कुर्वाणो भव ॥ अद्भुत । आमन्त्रितस्याद्युदात्तत्वम् । क्रत्वा । ‘ डुकृञ् करणे । कृञः कतुः' इति कतुप्रत्ययः । ककारो गुणवृद्धिप्रतिषेधार्थः । यणादेशः । क्रतुः कर्म । तृतीयैकवचने ' जसादिषु वावचनम् ' इति वचनान्नाभावाभावः । दक्षस्य । ‘ दक्ष गतिहिंसनयोः '। दक्ष्यन्ते हिंस्यन्तेऽनेन शत्रव इति दक्षं बलम् । ‘ करणाधिकरणयोश्च ' इति घञ् । ञित्वात् आद्युदात्त: । मंहना। मंहतिर्दानकर्मा । ‘सुपां सुलुक् इत्याकारादेशः । त्वे । ‘सुपां सुलुक् ' इत्यादिना डेः शेआदेशः । सुबादेशत्वादनुदात्तः । त्वशब्दः प्रत्ययस्वरेणान्तोदात्तः । ‘ एकादेश उदात्तेनोदात्त: ' इत्येकादेशस्योदात्तत्वम् । आरुहत् । रुहेर्धातोर्लुङि ‘ कृमृदृरुहिभ्यश्छन्दसि ' इति च्लेरङादेशः । ङित्त्वाद्गुणाभावः । क्राणा । डुकृञ् करणे ' । शानच् । ‘ बहुलं छन्दसि ' इति विकरणस्य लुक् । यणादेशः । ‘ सुपां सुलुक्° ' इत्यात्वम् । चितः ' इत्यन्तोदात्तः । यज्ञियः । यज्ञमर्हतीत्यस्मिन्नर्थे • यज्ञर्त्विग्भ्यां घखञौ ' इति घः । प्रत्ययस्वरेणान्तोदात्तः ॥
त्वं नो॑ अग्न एषां॒ गयं॑ पु॒ष्टिं च॑ वर्धय ।
ये स्तोमे॑भि॒ः प्र सू॒रयो॒ नरो॑ म॒घान्या॑न॒शुः ॥३
त्वम् । नः॒ । अ॒ग्ने॒ । ए॒षा॒म् । गय॑म् । पु॒ष्टिम् । च॒ । व॒र्ध॒य॒ ।
ये । स्तोमे॑भिः । प्र । सू॒रयः॑ । नरः॑ । म॒घानि॑ । आ॒न॒शुः ॥३
त्वम् । नः । अग्ने । एषाम् । गयम् । पुष्टिम् । च । वर्धय ।
ये । स्तोमेभिः । प्र । सूरयः । नरः । मघानि । आनशुः ॥३
हे “अग्ने “त्वम् “एषां यज्ञर्त्विग्भ्यां नः त्वत्स्तावकानामस्माकं “गयम् । गम्यते निवासायेति गयं गृहं गीयते स्तूयत इति वा गयं धनम् । “पुष्टिं “च गवादिविषयां पुष्टिं च “वर्धय वृद्धिं प्रापय । "ये लोके प्रसिद्धाः “सूरयः लब्धवर्णाः “नरः स्तोतारो मनुष्याः “स्तोमेभिः स्तोमैः स्तोत्रैः “मघानि मंहनीयानि गवादिधनानि यथा “प्र “आनशुः प्राप्नुवन् तद्वद्वयमपीत्यर्थः ॥ गयम् । गृहपक्षे गमेः ' अघ्न्यादयश्च ' इति यत्प्रत्ययान्तो मकारलोपश्च निपात्यते । धनपक्षे ‘ गा स्तुतौ '। अस्माद्यत्प्रत्ययः । ह्रस्वत्वम् ।' यतोऽनावः' इत्याद्युदात्तत्वम् । पुष्टिम् । ‘ पुष पुष्टौ ' । स्त्रियां क्तिन् । छान्दसत्वादन्तोदात्तत्वम् । स्तोमेभिः । 'ष्टुञ् स्तुतौ '। ' अर्तिस्तुसुहु° । इत्यादिना मन् । गुणः । नित्त्वादाद्युदात्तः । आनशुः । अशू व्याप्तौ । लिट् । द्विर्वचनम् । हलादिशेषः । अत आदेः' इत्यात्वम् । ‘अश्नोतेश्च ' इति नुडागमः । निघातः ॥
ये अ॑ग्ने चन्द्र ते॒ गिर॑ः शु॒म्भन्त्यश्व॑राधसः ।
शुष्मे॑भिः शु॒ष्मिणो॒ नरो॑ दि॒वश्चि॒द्येषां॑ बृ॒हत्सु॑की॒र्तिर्बोध॑ति॒ त्मना॑ ॥४
ये । अ॒ग्ने॒ । च॒न्द्र॒ । ते॒ । गिरः॑ । शु॒म्भन्ति॑ । अश्व॑ऽराधसः ।
शुष्मे॑भिः । शु॒ष्मिणः॑ । नरः॑ । दि॒वः । चि॒त् । येषा॑म् । बृ॒हत् । सु॒ऽकी॒र्तिः । बोध॑ति । त्मना॑ ॥४
ये । अग्ने । चन्द्र । ते । गिरः । शुम्भन्ति । अश्वऽराधसः ।
शुष्मेभिः । शुष्मिणः । नरः । दिवः । चित् । येषाम् । बृहत् । सुऽकीर्तिः । बोधति । त्मना ॥४
हे “अग्ने “चन्द्र सर्वेषां प्राणिनामाह्लादकर “ये “नरः “ते “गिरः त्वत्संबन्धिस्तोत्ररूपा वाचः “शुम्भन्ति शोभनाः कुर्वन्ति ते अश्वराधसः अश्वधना भवन्ति । एतेन सर्वसमृद्धिरुपलक्ष्यते । किंच । “शुष्मिणः बलवन्तः सन्तः “शुष्मेभिः शुष्मैः स्वकीयैर्बलैः सत्त्वैः शत्रुशोषका भवन्ति । “येषां त्वत्संबन्धिनं स्तवं कुर्वतां “दिवश्चित् आकाशादपि “बृहत् महती “सुकीर्तिः भवति । सर्वदिगन्तरालवर्तिनी कीर्तिर्भवतीत्यर्थः । एवंविधं त्वां गयः “त्मना आत्मना स्वयमेव “बोधति बोधयति ॥ शुम्भन्ति । ‘शुभ शुम्भ दीप्तौ । तुदादिः । पादादित्वान्निघाताभावः । लसार्वधातुकानुदात्तत्वे प्राप्ते सति शिष्टत्वाद्विकरणस्वर एव । अश्वराधसः । ‘ अशू व्याप्तौ । “ अशुपुषि ' इत्यादिना क्वन् । अश्नुते व्याप्नोत्यध्वानमित्यश्वः । नित्त्वादाद्युदात्तः । ‘राध साध संसिद्धौ । असुन् । राध्नुवन्ति साधयन्त्यनेन धर्मदीनीति राधो धनम् । बहुव्रीहित्वात् पूर्वपदप्रकृतिस्वरत्वम् । बृहत् । बृह बृहि वृद्धौ'। शतृ । ङीपो लोपश्छान्दसः । प्रत्ययस्वरः । बोधति । 'बुध अवगमने' । ण्यन्तात् शपि कृते तस्य छन्दस्युभयथा' इति सार्वधातुकसंज्ञायां णिलोपः । ‘ यद्वृत्तान्नित्यम्' इति निघाताभावः । धातुस्वरेणाद्युदात्तः । त्मना । मन्त्रेष्वाङयादेरात्मनः' इत्याकारलोपः ॥
तव॒ त्ये अ॑ग्ने अ॒र्चयो॒ भ्राज॑न्तो यन्ति धृष्णु॒या ।
परि॑ज्मानो॒ न वि॒द्युत॑ः स्वा॒नो रथो॒ न वा॑ज॒युः ॥५
तव॑ । त्ये । अ॒ग्ने॒ । अ॒र्चयः॑ । भ्राज॑न्तः । य॒न्ति॒ । धृ॒ष्णु॒ऽया ।
परि॑ऽज्मानः । न । वि॒ऽद्युतः॑ । स्वा॒नः । रथः॑ । न । वा॒ज॒ऽयुः ॥५
तव । त्ये । अग्ने । अर्चयः । भ्राजन्तः । यन्ति । धृष्णुऽया ।
परिऽज्मानः । न । विऽद्युतः । स्वानः । रथः । न । वाजऽयुः ॥५
हे "अग्ने “धृष्णुया धृष्णवोऽत्यन्तप्रगल्भाः “भ्राजन्तः दीप्यमानाः “त्ये ते प्रसिद्धाः “तव अर्चयः त्वदीया रश्मयः "यन्ति सर्वतो गच्छन्ति । कथमिव । “परिज्मानः परितो गन्त्र्यः सर्वतो व्याप्ताः “विद्युतः “न अचिरप्रभा इव । अनेन प्रकाशातिशय उक्तः । “स्वानः शब्दायमानः “रथो “न रथ इव । अनेनार्चिषां स्वनाधिक्यमुक्तम् । “वाजयुः न अन्नकाम इवान्नार्थं युद्धेषु शत्रुविजयाय यथा प्रवर्तते तद्वदित्यर्थः । अनेनाहुतिविषयोऽभिलाष उक्तः ॥ यन्ति । ‘ इण् गतौ ' । धृष्णुया । ञिधृषा प्रागल्भ्ये'।' त्रसिगृधिधृषि° ' इत्यादिना क्नुप्रत्ययः । ‘ आदितश्च' (पा. सू. ७. २. १६ ) इति । इट्प्रतिषेधः । बहुवचने ‘सुपां सुलुक्' इत्यादिना याजादेशः । ‘ चितः' इत्यन्तोदात्तत्वम् । परिज्मानः । ‘ अज व्रज गतौ ' । परिपूर्वाद्धातोः ‘ अन्येभ्योऽपि दृश्यन्ते ' इति मनिन् । अकारलोपः छान्दसः । नित्त्वादाद्युदात्तः । वाजयुः । वाजमात्मन इच्छति इति क्यच् । 'न छन्दस्य पुत्रस्य' इति ईत्वदीर्घयोः प्रतिषेधः । ‘क्याच्छन्दसि' इति उप्रत्ययः ॥
नू नो॑ अग्न ऊ॒तये॑ स॒बाध॑सश्च रा॒तये॑ ।
अ॒स्माका॑सश्च सू॒रयो॒ विश्वा॒ आशा॑स्तरी॒षणि॑ ॥६
नु । नः॒ । अ॒ग्ने॒ । ऊ॒तये॑ । स॒ऽबाध॑सः । च॒ । रा॒तये॑ ।
अ॒स्माका॑सः । च॒ । सू॒रयः॑ । विश्वाः॑ । आशाः॑ । त॒री॒षणि॑ ॥६
नु । नः । अग्ने । ऊतये । सऽबाधसः । च । रातये ।
अस्माकासः । च । सूरयः । विश्वाः । आशाः । तरीषणि ॥६
हे “अग्ने “नः अस्माकं “नु क्षिप्रम् “ऊतये रक्षायै भव । "सबाधसश्च दारिद्र्यनिमित्तबाधसहितस्य च "रातये धनानां दानाय भव । किंच “अस्माकासः आस्माकाः पुत्रमित्रादयः “सूरयः स्तोतारः "विश्वाः सर्वाः "आशाः दिशः “तरीषणि । तासां तरणे क्षमा भवन्तु । अथवा आशाः कामाः । अयमर्थः । स्वाभिलषितप्रशस्तसमस्तवस्तुसंपादनं कुर्वित्यर्थः ॥ सबाधसः । बाधेरसुन्। बाधसा सह वर्तत इति सबाधाः । 'वोपसर्जनस्थ' इति सहस्य सभावः । कृदुत्तरपदप्रकृतिस्वरत्वम् । रातये ।‘रा दाने' । क्तिन् । 'मन्त्रे वृषेषपचमनविदभूवीरा उदात्तः' इत्यन्तोदात्तः । अस्माकासः । ‘ तस्मिन्नणि च युष्माकास्माकौ ' इत्यणि कृतेऽस्माकादेशः । छान्दसत्वादणो लोपः । बहुवचने असुगागमः । षष्ठीबहुवचने मध्योदात्तत्वेन दृष्टत्वात्तथाविधमादेशमत्रापि कृतवानाचार्यः । विश्वाः । विशेः ‘अशिप्रुषि°' इत्यादिना क्वन् । नित्त्वादाद्युदात्तः । तरीषणि । ‘तॄ प्लवनतरणयोः ' । ' कॄतॄभ्यामीषन' (उ. सू. ४. ४६६) इति ईषन् । बहुलवचनान्नलोपाभावः । अन्तोदात्तश्छान्दसः ॥
त्वं नो॑ अग्ने अङ्गिरः स्तु॒तः स्तवा॑न॒ आ भ॑र ।
होत॑र्विभ्वा॒सहं॑ र॒यिं स्तो॒तृभ्य॒ः स्तव॑से च न उ॒तैधि॑ पृ॒त्सु नो॑ वृ॒धे ॥७
त्वम् । नः॒ । अ॒ग्ने॒ । अ॒ङ्गि॒रः॒ । स्तु॒तः । स्तवा॑नः । आ । भ॒र॒ ।
होतः॑ । वि॒भ्व॒ऽसह॑म् । र॒यिम् । स्तो॒तृऽभ्यः॑ । स्तव॑से । च॒ । नः॒ । उ॒त । ए॒धि॒ । पृ॒त्ऽसु । नः॒ । वृ॒धे ॥७
त्वम् । नः । अग्ने । अङ्गिरः । स्तुतः । स्तवानः । आ । भर ।
होतः । विभ्वऽसहम् । रयिम् । स्तोतृऽभ्यः । स्तवसे । च । नः । उत । एधि । पृत्ऽसु । नः । वृधे ॥७
हे “अग्ने “अङ्गिरः । कार्यकारणयोरभेदोपचारादङ्गिरसां प्रकृतिभूतोऽप्यग्निरङ्गिरा इत्युच्यते । हे अङ्गिरः पूर्वैः महर्षिभिः “स्तुतः “स्तवानः इदानींतनैश्च स्तूयमानस्त्वं “विभ्वासहं महतामप्यभिभवितारम् । अभिभवहेतुत्वादभिभवितृ धनमुच्यते । “रयिं धनं “नः अस्माकम् “आ “भर आहर । हे “होतः देवानामाह्वातः “स्तोतृभ्यः "नः अस्मभ्यं “स्तवसे स्तोतुं सामर्थ्यं च प्रयच्छ । "उत अपि च "पृत्सु युद्धेषु “नः अस्माकं “वृधे समृद्धये “एधि भव ॥ स्तवानः । ‘ ष्टुञ् स्तुतौ '। शानचि कर्मणि व्यत्ययेन शप्प्रत्यय आद्युदात्तश्च । विभ्वासहम् । संहितायां विभूनामिति षष्ठीबहुवचनस्य ‘सुपाम्' इत्यादिना आकारादेशः । “तत्पुरुषे कृति बहुलम् इति षष्ठ्या अलुक् । पदकारास्तु विपूर्वाद्भवतेः अगागमम् ‘अन्येषामपि दृश्यते' इति दीर्घत्वं च मत्वावग्रहं कुर्वन्ति । कृदुत्तरपदप्रकृतिस्वरत्वम् । स्तवसे ।' ष्टुञ् स्तुतौ '। तुमर्थेऽसेन्प्रत्ययः । नित्त्वादाद्युदात्तः ॥ ॥ २ ॥
मण्डल ५ | ||||
---|---|---|---|---|