← सूक्तं ५.६१ ऋग्वेदः - मण्डल ५
सूक्तं ५.६२
श्रुतविदात्रेयः
सूक्तं ५.६३ →
दे. मित्रावरुणौ। त्रिष्टुप्।


ऋतेन ऋतमपिहितं ध्रुवं वां सूर्यस्य यत्र विमुचन्त्यश्वान् ।
दश शता सह तस्थुस्तदेकं देवानां श्रेष्ठं वपुषामपश्यम् ॥१॥
तत्सु वां मित्रावरुणा महित्वमीर्मा तस्थुषीरहभिर्दुदुह्रे ।
विश्वाः पिन्वथः स्वसरस्य धेना अनु वामेकः पविरा ववर्त ॥२॥
अधारयतं पृथिवीमुत द्यां मित्रराजाना वरुणा महोभिः ।
वर्धयतमोषधीः पिन्वतं गा अव वृष्टिं सृजतं जीरदानू ॥३॥
आ वामश्वासः सुयुजो वहन्तु यतरश्मय उप यन्त्वर्वाक् ।
घृतस्य निर्णिगनु वर्तते वामुप सिन्धवः प्रदिवि क्षरन्ति ॥४॥
अनु श्रुताममतिं वर्धदुर्वीं बर्हिरिव यजुषा रक्षमाणा ।
नमस्वन्ता धृतदक्षाधि गर्ते मित्रासाथे वरुणेळास्वन्तः ॥५॥
अक्रविहस्ता सुकृते परस्पा यं त्रासाथे वरुणेळास्वन्तः ।
राजाना क्षत्रमहृणीयमाना सहस्रस्थूणं बिभृथः सह द्वौ ॥६॥
हिरण्यनिर्णिगयो अस्य स्थूणा वि भ्राजते दिव्यश्वाजनीव ।
भद्रे क्षेत्रे निमिता तिल्विले वा सनेम मध्वो अधिगर्त्यस्य ॥७॥
हिरण्यरूपमुषसो व्युष्टावयस्थूणमुदिता सूर्यस्य ।
आ रोहथो वरुण मित्र गर्तमतश्चक्षाथे अदितिं दितिं च ॥८॥
यद्बंहिष्ठं नातिविधे सुदानू अच्छिद्रं शर्म भुवनस्य गोपा ।
तेन नो मित्रावरुणावविष्टं सिषासन्तो जिगीवांसः स्याम ॥९॥


सायणभाष्यम्

‘ऋतेन ऋतम् ' इति नवर्चं षष्ठं सूक्तमात्रेयस्य श्रुतविद आर्षं त्रैष्टुभं मैत्रावरुणम् । तथा चानुक्रम्यते - ऋतेन नव श्रुतविन्मैत्रावरुणं वै तत् ' इति । ‘वै तत्' इत्युभयोः प्रयोगात्तुह्यादिपरिभाषयैतदादीन्येकादश सूक्तानि मित्रावरुणदेवत्यानि । विनियोगो लैङ्गिकः ॥


ऋ॒तेन॑ ऋ॒तमपि॑हितं ध्रु॒वं वां॒ सूर्य॑स्य॒ यत्र॑ विमु॒चन्त्यश्वा॑न् ।

दश॑ श॒ता स॒ह त॑स्थु॒स्तदेकं॑ दे॒वानां॒ श्रेष्ठं॒ वपु॑षामपश्यम् ॥१

ऋ॒तेन॑ । ऋ॒तम् । अपि॑ऽहितम् । ध्रु॒वम् । वा॒म् । सूर्य॑स्य । यत्र॑ । वि॒ऽमु॒चन्ति॑ । अश्वा॑न् ।

दश॑ । श॒ता । स॒ह । त॒स्थुः॒ । तत् । एक॑म् । दे॒वाना॑म् । श्रेष्ठ॑म् । वपु॑षाम् । अ॒प॒श्य॒म् ॥१

ऋतेन । ऋतम् । अपिऽहितम् । ध्रुवम् । वाम् । सूर्यस्य । यत्र । विऽमुचन्ति । अश्वान् ।

दश । शता । सह । तस्थुः । तत् । एकम् । देवानाम् । श्रेष्ठम् । वपुषाम् । अपश्यम् ॥१

"सूर्यस्य “ऋतं सत्यभूतं मण्डलम् “ऋतेन उदकेन अपिहितम् आच्छादितं “ध्रुवं शाश्वतमपश्यमिति संबन्धः । यत्र “वां युवाभ्यां स्थितिस्तत इत्यर्थः । सूर्यमण्डले मित्रावरुणयोः स्थितिः ‘चित्र देवानामुदगादनीकं चक्षुर्मित्रस्य वरुणस्याग्नेः ' ( ऋ. सं. १. ११५.१ ), उद्वां चक्षुर्वरुण सुप्रतीकं देवयोः ' ( ऋ. सं. ७. ६१. १ ) इति ‘चक्षुर्मित्रस्य वरुणस्य ' ( ऋ. सं. ७.६३. १) इत्यादिषु प्रसिद्धा । “यत्र यस्मिन् मण्डले स्थितान् “अश्वान् “विमुचन्ति विमोचयन्ति स्तोतारः । मन्देहादिभिर्निरुद्धानित्यर्थः । अथवा शीघ्रधावनाय स्तुत्या प्रेरयन्ति । यस्मिंश्च मण्डले “दश “शता शतानि सहस्रसंख्याका रश्मयः “तस्थुः तिष्ठन्ति तादृशं “देवानां “वपुषां वपुष्मतां तेजोवतामग्न्यादीनां “श्रेष्ठं प्रशस्यम् ॥ मत्वर्थलक्षणा अथवा व्यधिकरणषष्ठी ॥ देवानां वपुषां शरीराणां श्रेष्ठम् । मण्डलं हि सूर्यस्य वपुःस्थानीयम् । “तत् मण्डलम् “अपश्यम् । अथवा वां युवयोर्मध्ये सूर्यस्य मण्डलमपश्यमिति व्याख्येयं ‘मैत्रं वा अहः' ( तै. ब्रा. १. ७. १०. १ ) इति श्रुतेर्मित्रस्यैव सूर्यत्वादित्याशयेन ॥


तत्सु वां॑ मित्रावरुणा महि॒त्वमी॒र्मा त॒स्थुषी॒रह॑भिर्दुदुह्रे ।

विश्वा॑ः पिन्वथ॒ः स्वस॑रस्य॒ धेना॒ अनु॑ वा॒मेक॑ः प॒विरा व॑वर्त ॥२

तत् । सु । वा॒म् । मि॒त्रा॒व॒रु॒णा॒ । म॒हि॒ऽत्वम् । ई॒र्मा । त॒स्थुषीः॑ । अह॑ऽभिः । दु॒दु॒ह्रे॒ ।

विश्वाः॑ । पि॒न्व॒थः॒ । स्वस॑रस्य । धेनाः॑ । अनु॑ । वा॒म् । एकः॑ । प॒विः । आ । व॒व॒र्त॒ ॥२

तत् । सु । वाम् । मित्रावरुणा । महिऽत्वम् । ईर्मा । तस्थुषीः । अहऽभिः । दुदुह्रे ।

विश्वाः । पिन्वथः । स्वसरस्य । धेनाः । अनु । वाम् । एकः । पविः । आ । ववर्त ॥२

हे “मित्रावरुणा “वां युवयोः “तत् “महित्वं महत्त्वं "सु सुष्ठु अतिप्रशस्तमित्यर्थः । किं तदित्युच्यते । “ईर्मा सततगन्ता सर्वस्य प्रेरको वादित्यः “अहभिः अहोभिर्वर्षर्तुसंबन्धिभिः “तस्थुषीः स्थावरभूता अपः “दुदुह्रे दुग्धे। किंच “स्वसरस्य स्वयं सर्तुरादित्यस्य “विश्वाः सर्वाः “धेनाः लोकानां प्रीणयित्रीर्द्युतीः “पिन्वथः वर्धयथः । “वां युवयोः “एकः अप्रतियोगी “पविः । पविरिति रथस्य नेमिः ‘पवी रथनेमिर्भवति ' ( निरु ५. ५) इति यास्कवचनात् । तथाप्यत्र लक्षितलक्षणया रथे वर्तते केवलचक्रस्यावर्तनायोगात् । युवयरेको रथः “अनु “आ “ववर्त अनुक्रमेण परिभ्रमति ।।


अधा॑रयतं पृथि॒वीमु॒त द्यां मित्र॑राजाना वरुणा॒ महो॑भिः ।

व॒र्धय॑त॒मोष॑धी॒ः पिन्व॑तं॒ गा अव॑ वृ॒ष्टिं सृ॑जतं जीरदानू ॥३

अधा॑रयतम् । पृ॒थि॒वीम् । उ॒त । द्याम् । मित्र॑ऽराजाना । व॒रु॒णा॒ । महः॑ऽभिः ।

व॒र्धय॑तम् । ओष॑धीः । पिन्व॑तम् । गाः । अव॑ । वृ॒ष्टिम् । सृ॒ज॒त॒म् । जी॒र॒दा॒नू॒ इति॑ जीरऽदानू ॥३

अधारयतम् । पृथिवीम् । उत । द्याम् । मित्रऽराजाना । वरुणा । महःऽभिः ।

वर्धयतम् । ओषधीः । पिन्वतम् । गाः । अव । वृष्टिम् । सृजतम् । जीरदानू इति जीरऽदानू ॥३

हे “मित्रराजाना । मित्रभूताः स्तोतारो राजानः स्वामिन ईश्वरा भवन्ति ययोः सकाशात् तौ मित्रराजानौ। हे “वरुणा । प्रतियोग्यपेक्षया द्विवचनम् । अत्र पादादित्वादाद्यं पदं न निहन्यते । वरुणेत्येतस्य तु आमन्त्रितं पूर्वमविद्यमानवत्' इति पूर्वस्याविद्यमानवत्त्वेनास्यैव पादादित्वादनिघातत्वं युक्तम् । नैवं भवति । ‘नामन्त्रिते समानाधिकरणे सामान्यवचनम्' इति वरुणेत्येतस्यामन्त्रितसमानाधिकरणत्वादस्य च सामान्यवचनत्वादविद्यमानवत्त्वाभावेन पादादित्वाभावादुत्तरस्य निघातत्वं युक्तम् ॥ हे देवौ “महोभिः तेजोभिः स्वसामर्थ्यैः “पृथिवीमुत अपि च “द्याम् “अधारयतम् । हे देवौ युवाम् “ओषधीः “वर्धयतं वृष्टिप्रेरणेन । “गाः “पिन्वतं गवाश्वादीन् वर्धयतम् । तदर्थं “वृष्टिम् “अव “सृजतम् अवाङ्मुखं प्रेरयतं हे "जीरदानू क्षिप्रदानौ ॥


आ वा॒मश्वा॑सः सु॒युजो॑ वहन्तु य॒तर॑श्मय॒ उप॑ यन्त्व॒र्वाक् ।

घृ॒तस्य॑ नि॒र्णिगनु॑ वर्तते वा॒मुप॒ सिन्ध॑वः प्र॒दिवि॑ क्षरन्ति ॥४

आ । वा॒म् । अश्वा॑सः । सु॒ऽयुजः॑ । व॒ह॒न्तु॒ । य॒तऽर॑श्मयः । उप॑ । य॒न्तु॒ । अ॒र्वाक् ।

घृ॒तस्य॑ । निः॒ऽनिक् । अनु॑ । व॒र्त॒ते॒ । वा॒म् । उप॑ । सिन्ध॑वः । प्र॒ऽदिवि॑ । क्ष॒र॒न्ति॒ ॥४

आ । वाम् । अश्वासः । सुऽयुजः । वहन्तु । यतऽरश्मयः । उप । यन्तु । अर्वाक् ।

घृतस्य । निःऽनिक् । अनु । वर्तते । वाम् । उप । सिन्धवः । प्रऽदिवि । क्षरन्ति ॥४

हे मित्रावरुणौ “वां युवाम् “अश्वासः अश्वाः “सुयुजः सुष्ठु रथे युक्ताः सन्तः “आ “वहन्तु । “यतरश्मयः सारथिनियतप्रग्रहास्ते “अर्वाक् “उप “यन्तु । “घृतस्य उदकस्य “निर्णिक् रूपं "वाम् “अनु “वर्तते अनुगच्छति । किंच “प्रदिवि । पुराणनामैतत् । पुराणाः “सिन्धवः “उप “क्षरन्ति उपगच्छन्ति युवयोरनुग्रहात् ॥


अनु॑ श्रु॒ताम॒मतिं॒ वर्ध॑दु॒र्वीं ब॒र्हिरि॑व॒ यजु॑षा॒ रक्ष॑माणा ।

नम॑स्वन्ता धृतद॒क्षाधि॒ गर्ते॒ मित्रासा॑थे वरु॒णेळा॑स्व॒न्तः ॥५

अनु॑ । श्रु॒ताम् । अ॒मति॑म् । वर्ध॑त् । उ॒र्वीम् । ब॒र्हिःऽइ॑व । यजु॑षा । रक्ष॑माणा ।

नम॑स्वन्ता । धृ॒त॒ऽद॒क्षा॒ । अधि॑ । गर्ते॑ । मित्र॑ । आसा॑थे॒ इति॑ । व॒रु॒ण॒ । इळा॑सु । अ॒न्तरिति॑ ॥५

अनु । श्रुताम् । अमतिम् । वर्धत् । उर्वीम् । बर्हिःऽइव । यजुषा । रक्षमाणा ।

नमस्वन्ता । धृतऽदक्षा । अधि । गर्ते । मित्र । आसाथे इति । वरुण । इळासु । अन्तरिति ॥५

“श्रुतां विश्रुताम् “अमतिम् । रूपनामैतत् । शरीरदीप्तिमित्यर्थः । ताम् “अनु “वर्धत् अनुवर्धयन्तौ । “बर्हिः यज्ञः । सः “इव स यथा “यजुषा मन्त्रेण रक्ष्यते तद्वत् "उर्वीं “रक्षमाणा पालयन्तौ “नमस्वन्ता अन्नवन्तौ हे “धृतदक्षा आत्तबलौ हे “मित्र हे “वरुण हे मित्रावरुणौ युवामुक्तलक्षणौ सन्तौ “इळासु यागभूमिषु “अन्तः मध्ये “गर्ते “अधि रथे “आसाथे उपविशथः । ‘ रथोऽपि गर्त उच्यते ' ( निरु. ३. ५ ) इति यास्कः । ‘ आ रोहथो वरुण मित्र गर्तम् ' ( ऋ. सं. ५, ६२. ८ ) इति ॥ ॥ ३० ॥


अक्र॑विहस्ता सु॒कृते॑ पर॒स्पा यं त्रासा॑थे वरु॒णेळा॑स्व॒न्तः ।

राजा॑ना क्ष॒त्रमहृ॑णीयमाना स॒हस्र॑स्थूणं बिभृथः स॒ह द्वौ ॥६

अक्र॑विऽहस्ता । सु॒ऽकृते॑ । प॒रः॒ऽपा । यम् । त्रासा॑थे इति॑ । व॒रु॒णा॒ । इळा॑सु । अ॒न्तरिति॑ ।

राजा॑ना । क्ष॒त्रम् । अहृ॑णीयमाना । स॒हस्र॑ऽस्थूणम् । बि॒भृ॒थः॒ । स॒ह । द्वौ ॥६

अक्रविऽहस्ता । सुऽकृते । परःऽपा । यम् । त्रासाथे इति । वरुणा । इळासु । अन्तरिति ।

राजाना । क्षत्रम् । अहृणीयमाना । सहस्रऽस्थूणम् । बिभृथः । सह । द्वौ ॥६

“अक्रविहस्ता अकृपणहस्तौ । दानशूरावित्यर्थः । कस्मै । "सुकृते शोभनस्तुतिकर्त्रे “परस्पा परस्तात् पातारौ रक्षितारौ हे “वरुणा मित्रावरुणौ युवां “यं यजमानम् “इळासु यागभूमिषु “अन्तः मध्ये “त्रासाथे रक्षथः तस्मै सुकृते अक्रविहस्ता परस्पा च भवथ इति संबन्धः । किंच युवां “राजाना राजमानौ "अहृणीयमाना अक्रुध्यन्तौ द्वौ परस्परं "सह साहित्येन “क्षत्रं धनं सहस्रस्थूणम् अनेकावष्टम्भकस्तम्भोपेतं सौधादिरूपं गृहं च “बिभृथः धारयथः सुकृते यजमानाय । अथवा । क्षत्रं बलमपरिमिताभिः स्थूणाभिरुपेतं रथं चागमनार्थं सह धारयथः ॥


हिर॑ण्यनिर्णि॒गयो॑ अस्य॒ स्थूणा॒ वि भ्रा॑जते दि॒व्य१॒॑श्वाज॑नीव ।

भ॒द्रे क्षेत्रे॒ निमि॑ता॒ तिल्वि॑ले वा स॒नेम॒ मध्वो॒ अधि॑गर्त्यस्य ॥७

हिर॑ण्यऽनिर्निक् । अयः॑ । अ॒स्य॒ । स्थूणा॑ । वि । भ्रा॒ज॒ते॒ । दि॒वि । अ॒श्वाज॑नीऽइव ।

भ॒द्रे । क्षेत्रे॑ । निऽमि॑ता । तिल्वि॑ले । वा॒ । स॒नेम॑ । मध्वः॑ । अधि॑ऽगर्त्यस्य ॥७

हिरण्यऽनिर्निक् । अयः । अस्य । स्थूणा । वि । भ्राजते । दिवि । अश्वाजनीऽइव ।

भद्रे । क्षेत्रे । निऽमिता । तिल्विले । वा । सनेम । मध्वः । अधिऽगर्त्यस्य ॥७

अनयो रथः “हिरण्यनिर्णिक् हिरण्यरूपः । निर्णिगिति रूपनाम । “अस्य रथस्य “स्थूणा कीलकादयः “अयः । हिरण्यनामैतत् । अयोविकारा इत्यर्थः । अयोमया वा । तादृशो रथः “दिवि अन्तरिक्षे “वि “भ्राजते । किमिव । “अश्वाजनीव । अश्वा व्यापनशीला मेघाः । तानजति गच्छतीत्यश्वाजनी विद्युत् । सेव दिवि भ्राजते । किंच “भद्रे कल्याणे स्तुत्ये वा “क्षेत्रे देवयजने “तिल्विले “वा ॥ ‘ तिल स्नेहने '। तिलुः स्निग्धा इला भूमिर्यस्य तत् क्षेत्रं तिल्विलं देवयजनम् । घृतसोमादिना स्निग्धे भद्रे च क्षेत्रे “निमिता स्थूणा यूपयष्टिरवस्थितः । “मध्वः मधुपूर्णं गर्तस्य गर्तं रथं “सनेम संभजेम ॥ कर्मणि षष्ठ्यौ । अधीति पूरणः ॥ अथवा गर्तस्याधि रथस्योपरि मध्वो मधु सोमरसं सनेम स्थापयेमेत्यर्थः ॥


हिर॑ण्यरूपमु॒षसो॒ व्यु॑ष्टा॒वय॑ःस्थूण॒मुदि॑ता॒ सूर्य॑स्य ।

आ रो॑हथो वरुण मित्र॒ गर्त॒मत॑श्चक्षाथे॒ अदि॑तिं॒ दितिं॑ च ॥८

हिर॑ण्यऽरूपम् । उ॒षसः॑ । विऽउ॑ष्टौ । अयः॑ऽस्थूणम् । उत्ऽइ॑ता । सूर्य॑स्य ।

आ । रो॒ह॒थः॒ । व॒रु॒ण॒ । मि॒त्र॒ । गर्त॑म् । अतः॑ । च॒क्षा॒थे॒ इति॑ । अदि॑तिम् । दिति॑म् । च॒ ॥८

हिरण्यऽरूपम् । उषसः । विऽउष्टौ । अयःऽस्थूणम् । उत्ऽइता । सूर्यस्य ।

आ । रोहथः । वरुण । मित्र । गर्तम् । अतः । चक्षाथे इति । अदितिम् । दितिम् । च ॥८

“उषसो “व्युष्टौ । प्रातःकाल इत्यर्थः । “सूर्यस्य “उदिता उदितावुदये । स एव कालः प्रकारान्तरेणोक्तः । तस्मिन् काले “हिरण्यरूपम् “अय:स्थूणम् अयोमयशङ्कुं “गर्तं रथं हे “वरुण हे “मित्र युवां गर्तम् “आ “रोहथः यज्ञं प्राप्तुम् । “अतः अस्माद्धेतोः “अदितिम् अखण्डनीयां भूमिं “दितिं खण्डितां प्रजादिकां “च “चक्षाथे पश्यथः ॥


दाक्षायणयज्ञे ' यद्वंहिष्ठम्' इति नवमी द्वितीयस्याममावास्यायां मैत्रावरुणस्य हविषो याज्या । सूत्रितं च-- ‘ आ नो मित्रावरुणा यद्वंहिष्ठं नातिविधे सुदानू ' ( आश्व. श्रौ. २. १४ ) इति । मैत्रावरुणे पशौ हविष एषैव याज्या । सूत्रितं च यद्वंहिष्ठं नातिविधे सुदानू हिरण्यगर्भः समवर्तताग्रे' (आश्व. श्रौ. ३. ८) इति ॥

यद्बंहि॑ष्ठं॒ नाति॒विधे॑ सुदानू॒ अच्छि॑द्रं॒ शर्म॑ भुवनस्य गोपा ।

तेन॑ नो मित्रावरुणावविष्टं॒ सिषा॑सन्तो जिगी॒वांस॑ः स्याम ॥९

यत् । बंहि॑ष्ठम् । न । अ॒ति॒ऽविधे॑ । सु॒दा॒नू॒ इति॑ सुऽदानू । अच्छि॑द्रम् । शर्म॑ । भु॒व॒न॒स्य॒ । गो॒पा॒ ।

तेन॑ । नः॒ । मि॒त्रा॒व॒रु॒णौ॒ । अ॒वि॒ष्ट॒म् । सिसा॑सन्तः । जि॒गी॒वांसः॑ । स्या॒म॒ ॥९

यत् । बंहिष्ठम् । न । अतिऽविधे । सुदानू इति सुऽदानू । अच्छिद्रम् । शर्म । भुवनस्य । गोपा ।

तेन । नः । मित्रावरुणौ । अविष्टम् । सिसासन्तः । जिगीवांसः । स्याम ॥९

हे “सुदानू शोभनदानौ हे “भुवनस्य “गोपा युवां “बंहिष्ठं बहुतमं “यत् “अच्छिद्रम् अनवच्छिन्नं “शर्म सुखं गृहं वा “नातिविधे अतिवेद्धुमशक्यं शर्मेति शर्मविशेषणम् ॥ ‘ व्यध ताडने ' इत्यस्मादस्युपपदे कृत्यार्थे केन् संप्रसारणं च ॥ तादृशं शर्म धारयथः “तेन शर्मणा “नः अस्मान् "अविष्टं रक्षतम् । हे “मित्रावरुणौ “सिषासन्तः धनानि संभक्तुमिच्छन्तो वयं “जिगीवांसः शत्रूणां धनानि जेतुमिच्छन्तः “स्याम भवेम ॥ ॥ ३१ ॥


वेदार्थस्य प्रकाशेन तमो हार्दं निवारयन् ।

पुमर्थांश्चतुरो देयाद्विद्यातीर्थमहेश्वरः ॥

इति श्रीमद्राजाधिराजपरमेश्वरवैदिकमार्गप्रवर्तकश्रीवीरबुक्कभूपालसाम्राज्यधुरंधरेण सायणामात्येन विरचिते माधवीये वेदार्थप्रकाशे ऋक्संहिताभाष्ये चतुर्थाष्टके तृतीयोऽध्यायः समाप्तः ॥


टिप्पणी

५.६२.८ हिरण्यरूपमुषसो इति

द्र. शतपथब्राह्मणम् ५.४.१.१५


मण्डल ५

सूक्तं ५.१

सूक्तं ५.२

सूक्तं ५.३

सूक्तं ५.४

सूक्तं ५.५

सूक्तं ५.६

सूक्तं ५.७

सूक्तं ५.८

सूक्तं ५.९

सूक्तं ५.१०

सूक्तं ५.११

सूक्तं ५.१२

सूक्तं ५.१३

सूक्तं ५.१४

सूक्तं ५.१५

सूक्तं ५.१६

सूक्तं ५.१७

सूक्तं ५.१८

सूक्तं ५.१९

सूक्तं ५.२०

सूक्तं ५.२१

सूक्तं ५.२२

सूक्तं ५.२३

सूक्तं ५.२४

सूक्तं ५.२५

सूक्तं ५.२६

सूक्तं ५.२७

सूक्तं ५.२८

सूक्तं ५.२९

सूक्तं ५.३०

सूक्तं ५.३१

सूक्तं ५.३२

सूक्तं ५.३३

सूक्तं ५.३४

सूक्तं ५.३५

सूक्तं ५.३६

सूक्तं ५.३७

सूक्तं ५.३८

सूक्तं ५.३९

सूक्तं ५.४०

सूक्तं ५.४१

सूक्तं ५.४२

सूक्तं ५.४३

सूक्तं ५.४४

सूक्तं ५.४५

सूक्तं ५.४६

सूक्तं ५.४७

सूक्तं ५.४८

सूक्तं ५.४९

सूक्तं ५.५०

सूक्तं ५.५१

सूक्तं ५.५२

सूक्तं ५.५३

सूक्तं ५.५४

सूक्तं ५.५५

सूक्तं ५.५६

सूक्तं ५.५७

सूक्तं ५.५८

सूक्तं ५.५९

सूक्तं ५.६०

सूक्तं ५.६१

सूक्तं ५.६२

सूक्तं ५.६३

सूक्तं ५.६४

सूक्तं ५.६५

सूक्तं ५.६६

सूक्तं ५.६७

सूक्तं ५.६८

सूक्तं ५.६९

सूक्तं ५.७०

सूक्तं ५.७१

सूक्तं ५.७२

सूक्तं ५.७३

सूक्तं ५.७४

सूक्तं ५.७५

सूक्तं ५.७६

सूक्तं ५.७७

सूक्तं ५.७८

सूक्तं ५.७९

सूक्तं ५.८०

सूक्तं ५.८१

सूक्तं ५.८२

सूक्तं ५.८३

सूक्तं ५.८४

सूक्तं ५.८५

सूक्तं ५.८६

सूक्तं ५.८७

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_५.६२&oldid=403279" इत्यस्माद् प्रतिप्राप्तम्