← सूक्तं ५.५५ ऋग्वेदः - मण्डल ५
सूक्तं ५.५६
श्यावाश्व आत्रेयः
सूक्तं ५.५७ →
दे. मरुतः। बृहती, ३, ७ सतोबृहती।


अग्ने शर्धन्तमा गणं पिष्टं रुक्मेभिरञ्जिभिः ।
विशो अद्य मरुतामव ह्वये दिवश्चिद्रोचनादधि ॥१॥
यथा चिन्मन्यसे हृदा तदिन्मे जग्मुराशसः ।
ये ते नेदिष्ठं हवनान्यागमन्तान्वर्ध भीमसंदृशः ॥२॥
मीळ्हुष्मतीव पृथिवी पराहता मदन्त्येत्यस्मदा ।
ऋक्षो न वो मरुतः शिमीवाँ अमो दुध्रो गौरिव भीमयुः ॥३॥
नि ये रिणन्त्योजसा वृथा गावो न दुर्धुरः ।
अश्मानं चित्स्वर्यं पर्वतं गिरिं प्र च्यावयन्ति यामभिः ॥४॥
उत्तिष्ठ नूनमेषां स्तोमैः समुक्षितानाम् ।
मरुतां पुरुतममपूर्व्यं गवां सर्गमिव ह्वये ॥५॥
युङ्ग्ध्वं ह्यरुषी रथे युङ्ग्ध्वं रथेषु रोहितः ।
युङ्ग्ध्वं हरी अजिरा धुरि वोळ्हवे वहिष्ठा धुरि वोळ्हवे ॥६॥
उत स्य वाज्यरुषस्तुविष्वणिरिह स्म धायि दर्शतः ।
मा वो यामेषु मरुतश्चिरं करत्प्र तं रथेषु चोदत ॥७॥
रथं नु मारुतं वयं श्रवस्युमा हुवामहे ।
आ यस्मिन्तस्थौ सुरणानि बिभ्रती सचा मरुत्सु रोदसी ॥८॥
तं वः शर्धं रथेशुभं त्वेषं पनस्युमा हुवे ।
यस्मिन्सुजाता सुभगा महीयते सचा मरुत्सु मीळ्हुषी ॥९॥


सायणभाष्यम्

“अग्ने शर्धन्तम् ' इति नवर्चं द्वादशं सूक्तं श्यावाश्वस्यार्षं मारुतम् । तृतीयासप्तम्यौ सतोबृहत्यौ शिष्टा बृहत्यः । ‘ अग्ने नव बार्हतं तृतीयासप्तम्यौ सतोबृहत्यौ ' इत्यनुक्रमणिका ॥


अग्ने॒ शर्ध॑न्त॒मा ग॒णं पि॒ष्टं रु॒क्मेभि॑र॒ञ्जिभि॑ः ।

विशो॑ अ॒द्य म॒रुता॒मव॑ ह्वये दि॒वश्चि॑द्रोच॒नादधि॑ ॥१

अग्ने॑ । शर्ध॑न्तम् । आ । ग॒णम् । पि॒ष्टम् । रु॒क्मेभिः॑ । अ॒ञ्जिऽभिः॑ ।

विशः॑ । अ॒द्य । म॒रुता॑म् । अव॑ । ह्व॒ये॒ । दि॒वः । चि॒त् । रो॒च॒नात् । अधि॑ ॥१

अग्ने । शर्धन्तम् । आ । गणम् । पिष्टम् । रुक्मेभिः । अञ्जिऽभिः ।

विशः । अद्य । मरुताम् । अव । ह्वये । दिवः । चित् । रोचनात् । अधि ॥१

हे अग्ने “शर्धन्तं शत्रूनभिभवन्तं यज्ञायोत्सहमानं वा "गणं मरुतां गणम् "आ ह्वयेति शेषः । कीदृशं गणम् । “रुक्मेभिः रुक्मैः रोचमानैः "अञ्जिभिः आभरणैश्च “पिष्टम् अवयवितं युक्तमित्यर्थः । “अद्य अस्मिन् यागदिने "मरुतां “विशः प्रजाः । गणानित्यर्थः । तान् “रोचनात् रोचमानात् "दिवः द्युलोकात्। “अधि इति पञ्चम्यर्थानुवादी। “चित् पूरणः। “अव अवस्तादस्मदभिमुखं "ह्वये आह्वयामि ॥


यथा॑ चि॒न्मन्य॑से हृ॒दा तदिन्मे॑ जग्मुरा॒शस॑ः ।

ये ते॒ नेदि॑ष्ठं॒ हव॑नान्या॒गम॒न्तान्व॑र्ध भी॒मसं॑दृशः ॥२

यथा॑ । चि॒त् । मन्य॑से । हृ॒दा । तत् । इत् । मे॒ । ज॒ग्मुः॒ । आ॒ऽशसः॑ ।

ये । ते॒ । नेदि॑ष्ठम् । हव॑नानि । आ॒ऽगम॑न् । तान् । व॒र्ध॒ । भी॒मऽस॑न्दृशः ॥२

यथा । चित् । मन्यसे । हृदा । तत् । इत् । मे । जग्मुः । आऽशसः ।

ये । ते । नेदिष्ठम् । हवनानि । आऽगमन् । तान् । वर्ध । भीमऽसन्दृशः ॥२

हे अग्ने त्वं “हृदा हृदयेन मरुतः “यथा “चिन्मन्यसे । चिदिति पूजायाम् । येन प्रकारेण अतिपूजितं जानासि । तेष्वादरं करोषीत्यर्थः । “तदित् तथैव "मे मदर्थं “जग्मुः गच्छन्तु “आशसः आशंसितार इच्छन्तः शत्रून् हिंसन्तो वा । अनन्तरं "ये मरुतः “नेदिष्ठम् अत्यन्तान्तिकं संनिधावेव “ते तव “हवनानि आह्वानानि श्रुत्वा “आगमन् आगच्छन्ति “तान् “भीमसंदृशः कालविलम्बासहनेन भयंकरदर्शनान् “वर्ध वर्धय हविष्प्रापणेन ॥


मी॒ळ्हुष्म॑तीव पृथि॒वी परा॑हता॒ मद॑न्त्येत्य॒स्मदा ।

ऋक्षो॒ न वो॑ मरुत॒ः शिमी॑वाँ॒ अमो॑ दु॒ध्रो गौरि॑व भीम॒युः ॥३

मी॒ळ्हुष्म॑तीऽइव । पृ॒थि॒वी । परा॑ऽहता । मद॑न्ती । ए॒ति॒ । अ॒स्मत् । आ ।

ऋक्षः॑ । न । वः॒ । म॒रु॒तः॒ । शिमी॑ऽवान् । अमः॑ । दु॒ध्रः । गौःऽइ॑व । भी॒म॒ऽयुः ॥३

मीळ्हुष्मतीऽइव । पृथिवी । पराऽहता । मदन्ती । एति । अस्मत् । आ ।

ऋक्षः । न । वः । मरुतः । शिमीऽवान् । अमः । दुध्रः । गौःऽइव । भीमऽयुः ॥३

“मीळ्हुष्मती प्रबलस्वामिका “पराहता अन्यैरभिभूता “पृथिवी “इव । अत्र पृथिवीशब्दः तदधिष्ठितां प्रजां लक्षयति । स यथा स्वस्वामिनमुपद्रुताभिगच्छति तद्वदिति । मरुतां साकल्येन सर्वथा प्राप्तेर्दृष्टान्तः । एवं “मदन्ती हृष्यन्ती मरुत्सेना “अस्मत् अस्मानित्यर्थः। “आ “एति आगच्छति । हे “मरुतः “वः युष्माकम् “अमः बलं गणः “ऋक्षो “न अग्निरिव “शिमीवान् कर्मवान् “दुध्रः दुर्धरः “गौरिव "भीमयुः भीमैर्वृषभैः युक्तः गौरिव । स यथा शिमीवान् कर्मवान् ॥


नि ये रि॒णन्त्योज॑सा॒ वृथा॒ गावो॒ न दु॒र्धुर॑ः ।

अश्मा॑नं चित्स्व॒र्यं१॒॑ पर्व॑तं गि॒रिं प्र च्या॑वयन्ति॒ याम॑भिः ॥४

नि । ये । रि॒णन्ति॑ । ओज॑सा । वृथा॑ । गावः॑ । न । दुः॒ऽधुरः॑ ।

अश्मा॑नम् । चि॒त् । स्व॒र्य॑म् । पर्व॑तम् । गि॒रिम् । प्र । च्य॒व॒य॒न्ति॒ । याम॑ऽभिः ॥४

नि । ये । रिणन्ति । ओजसा । वृथा । गावः । न । दुःऽधुरः ।

अश्मानम् । चित् । स्वर्यम् । पर्वतम् । गिरिम् । प्र । च्यवयन्ति । यामऽभिः ॥४

"ये मरुतः “ओजसा स्वीयेन बलेन “नि “रिणन्ति हिंसन्ति शत्रून् "वृथा अनायासेन स्वसंचारमात्रेण “गावो “न “दुर्धुरः दुःखेन हिंस्या अश्वा इव । ते मरुतः “स्वर्यं शब्दयन्तम् "अश्मानं व्याप्तं "पर्वतं जगत्पूरकोदकवन्तम् । पर्ववान्पर्वतः पर्व पुनः पृणातेः प्रीणतेर्वा ' ( निरु. १. २० ) इति निरुक्तम् । तादृशं “गिरिं मेघम् । यद्वा । पर्वतमिति विशेष्यं गिरिमिति विशेषणम् निगिरत्युदकमिति गिरिः । तं "यामभिः गमनैः “प्र “च्यावयन्ति उदकनिर्गमनार्थम् ॥


उत्ति॑ष्ठ नू॒नमे॑षां॒ स्तोमै॒ः समु॑क्षितानाम् ।

म॒रुतां॑ पुरु॒तम॒मपू॑र्व्यं॒ गवां॒ सर्ग॑मिव ह्वये ॥५

उत् । ति॒ष्ठ॒ । नू॒नम् । ए॒षा॒म् । स्तोमैः॑ । सम्ऽउ॑क्षितानाम् ।

म॒रुता॑म् । पु॒रु॒ऽतम॑म् । अपू॑र्व्यम् । गवा॑म् । सर्ग॑म्ऽइव । ह्व॒ये॒ ॥५

उत् । तिष्ठ । नूनम् । एषाम् । स्तोमैः । सम्ऽउक्षितानाम् ।

मरुताम् । पुरुऽतमम् । अपूर्व्यम् । गवाम् । सर्गम्ऽइव । ह्वये ॥५

हे मरुतो यूयम् “उत्तिष्ठ उत्तिष्ठत ॥ व्यत्ययेनैकवचनम् ॥ “नूनं निश्चयम् “एषां “स्तोमैः स्तोत्रैः “समुक्षितानां वर्धितानां “मरुताम् । यद्वा । स्तोमैरुपह्वय इति संबन्धः । तादृशां मरुतां “पुरुतमं प्रभूततमम् “अपूर्व्यम् । न विद्यते पूर्वः येभ्यस्तमपूर्व्यं “सर्गं संघं “गवाम् उदकानां प्रसिद्धानां गवां वा सर्गं संघम् “इव "ह्वये आह्वये ॥ ॥ १९ ॥


यु॒ङ्ग्ध्वं ह्यरु॑षी॒ रथे॑ यु॒ङ्ग्ध्वं रथे॑षु रो॒हित॑ः ।

यु॒ङ्ग्ध्वं हरी॑ अजि॒रा धु॒रि वोळ्ह॑वे॒ वहि॑ष्ठा धु॒रि वोळ्ह॑वे ॥६

यु॒ङ्ग्ध्वम् । हि । अरु॑षीः । रथे॑ । यु॒ङ्ग्ध्वम् । रथे॑षु । रो॒हितः॑ ।

यु॒ङ्ग्ध्वम् । हरी॒ इति॑ । अ॒जि॒रा । धु॒रि । वोळ्ह॑वे । वहि॑ष्ठा । धु॒रि । वोळ्ह॑वे ॥६

युङ्ग्ध्वम् । हि । अरुषीः । रथे । युङ्ग्ध्वम् । रथेषु । रोहितः ।

युङ्ग्ध्वम् । हरी इति । अजिरा । धुरि । वोळ्हवे । वहिष्ठा । धुरि । वोळ्हवे ॥६

हे मरुतो यूयं “रथे युष्मदीये सर्वेषां साधारणभूते "अरुषीः आरोचमाना वडवाः “युङ्ग्ध्वं योजयध्वम् । तथा “रथेषु युष्मदीयेषु “रोहितः रोहितवर्णाः “युङ्ग्ध्वं । “हरी अश्वौ “अजिरा अजिरावाशुगमनौ “धुरि "वोळहवे वहनाय "युङ्ग्ध्वम् । आदरार्थं पुनर्वचनम् । “वहिष्ठा वोढ़ृतमौ अश्वौ “धुरि “वोळ्हवे ॥


उ॒त स्य वा॒ज्य॑रु॒षस्तु॑वि॒ष्वणि॑रि॒ह स्म॑ धायि दर्श॒तः ।

मा वो॒ यामे॑षु मरुतश्चि॒रं क॑र॒त्प्र तं रथे॑षु चोदत ॥७

उ॒त । स्यः । वा॒जी । अ॒रु॒षः । तु॒वि॒ऽस्वनिः॑ । इ॒ह । स्म॒ । धा॒यि॒ । द॒र्श॒तः ।

मा । वः॒ । यामे॑षु । म॒रु॒तः॒ । चि॒रम् । क॒र॒त् । प्र । तम् । रथे॑षु । चो॒द॒त॒ ॥७

उत । स्यः । वाजी । अरुषः । तुविऽस्वनिः । इह । स्म । धायि । दर्शतः ।

मा । वः । यामेषु । मरुतः । चिरम् । करत् । प्र । तम् । रथेषु । चोदत ॥७

“उत अपि च “स्यः सः “वाजी वेजनवान् “अरुषः आरोचमानः “तुविष्वणिः प्रभूतध्वनिरश्वः । अरुष इत्यनेन रोहित इत्युक्तं भवति । ‘ प्रष्टिर्वहति रोहितः ' ( ऋ. सं. १. ३९. ६ ) इति ह्युक्तम् । “इह इदानीं “दर्शतः दर्शनीयः सन् “धायि रथे नियोजितः । “स्म इति पूरणः । हे “मरुतः “वो “यामेषु गमनेषु सोऽश्वः "चिरं विलम्बं “मा “करत् मा करोतु । “तं “रथेषु । रथे युक्तमिति शेषः । “प्र “चोदत प्रेरयत । यथा विलम्बं न कुर्यात्तथा प्रेरयत ॥


रथं॒ नु मारु॑तं व॒यं श्र॑व॒स्युमा हु॑वामहे ।

आ यस्मि॑न्त॒स्थौ सु॒रणा॑नि॒ बिभ्र॑ती॒ सचा॑ म॒रुत्सु॑ रोद॒सी ॥८

रथ॑म् । नु । मारु॑तम् । व॒यम् । श्र॒व॒स्युम् । आ । हु॒वा॒म॒हे॒ ।

आ । यस्मि॑न् । त॒स्थौ । सु॒रणा॑नि । बिभ्र॑ती । सचा॑ । म॒रुत्ऽसु॑ । रो॒द॒सी ॥८

रथम् । नु । मारुतम् । वयम् । श्रवस्युम् । आ । हुवामहे ।

आ । यस्मिन् । तस्थौ । सुरणानि । बिभ्रती । सचा । मरुत्ऽसु । रोदसी ॥८

“वयम् आत्रेयाः “रथं रंहणस्वभावं “मारुतं मरुतां संबन्धिनं रथं “श्रवस्युम् अन्नेच्छुं “नु अद्य “आ “हुवामहे आह्वयामः । “यस्मिन् रथे “सुरणानि जलानि "बिभ्रती धारयन्ती “रोदसी रुद्रस्य पत्नी मरुतां माता । यद्वा रुद्रो वायुः । तत्पत्नी माध्यमिका देवी “मरुत्सु “सचा सहिता “आ “तस्थौ आस्थितवती तं रथमाहुवे ।।


तं व॒ः शर्धं॑ रथे॒शुभं॑ त्वे॒षं प॑न॒स्युमा हु॑वे ।

यस्मि॒न्सुजा॑ता सु॒भगा॑ मही॒यते॒ सचा॑ म॒रुत्सु॑ मीळ्हु॒षी ॥९

तम् । वः॒ । शर्ध॑म् । र॒थे॒ऽशुभ॑म् । त्वे॒षम् । प॒न॒स्युम् । आ । हु॒वे॒ ।

यस्मि॑न् । सुऽजा॑ता । सु॒ऽभगा॑ । म॒ही॒यते॑ । सचा॑ । म॒रुत्ऽसु॑ । मी॒ळ्हु॒षी ॥९

तम् । वः । शर्धम् । रथेऽशुभम् । त्वेषम् । पनस्युम् । आ । हुवे ।

यस्मिन् । सुऽजाता । सुऽभगा । महीयते । सचा । मरुत्ऽसु । मीळ्हुषी ॥९

हे मरुतः “वः “शर्धं युष्मदीयं बलं गणं “रथेशुभं रथे शोभनं “त्वेषं दीप्तं “पनस्युं स्तुत्यम् “आ “हुवे आह्वये। “यस्मिन् शर्धे "सुजाता सुष्ठु प्रवृद्धा "सुभगा शोभनभाग्यातिमहती “मीळ्हुषी । ‘ मीळ्हुष्टम शिवतम' इत्यादौ दर्शनात् मीढ्वान् रुद्रः। तत्पत्नी मीळ्हुषी । “मरुत्सु "सचा सह “महीयते पूज्यते "तं शर्धमा हुवे । आपस्तम्बोऽपि रुद्रपत्नीं मीळ्हुषीसंज्ञया व्यवजहार - उत्तरया दक्षिणस्यामीशानमावाहयति लौकिक्या वाचोत्तरस्यां मीळ्हुषीं मध्ये जयन्तम् ' ( आप. गृ. २०. १-३ ) इति ॥ ॥ २० ॥ ॥ ४ ॥

मण्डल ५

सूक्तं ५.१

सूक्तं ५.२

सूक्तं ५.३

सूक्तं ५.४

सूक्तं ५.५

सूक्तं ५.६

सूक्तं ५.७

सूक्तं ५.८

सूक्तं ५.९

सूक्तं ५.१०

सूक्तं ५.११

सूक्तं ५.१२

सूक्तं ५.१३

सूक्तं ५.१४

सूक्तं ५.१५

सूक्तं ५.१६

सूक्तं ५.१७

सूक्तं ५.१८

सूक्तं ५.१९

सूक्तं ५.२०

सूक्तं ५.२१

सूक्तं ५.२२

सूक्तं ५.२३

सूक्तं ५.२४

सूक्तं ५.२५

सूक्तं ५.२६

सूक्तं ५.२७

सूक्तं ५.२८

सूक्तं ५.२९

सूक्तं ५.३०

सूक्तं ५.३१

सूक्तं ५.३२

सूक्तं ५.३३

सूक्तं ५.३४

सूक्तं ५.३५

सूक्तं ५.३६

सूक्तं ५.३७

सूक्तं ५.३८

सूक्तं ५.३९

सूक्तं ५.४०

सूक्तं ५.४१

सूक्तं ५.४२

सूक्तं ५.४३

सूक्तं ५.४४

सूक्तं ५.४५

सूक्तं ५.४६

सूक्तं ५.४७

सूक्तं ५.४८

सूक्तं ५.४९

सूक्तं ५.५०

सूक्तं ५.५१

सूक्तं ५.५२

सूक्तं ५.५३

सूक्तं ५.५४

सूक्तं ५.५५

सूक्तं ५.५६

सूक्तं ५.५७

सूक्तं ५.५८

सूक्तं ५.५९

सूक्तं ५.६०

सूक्तं ५.६१

सूक्तं ५.६२

सूक्तं ५.६३

सूक्तं ५.६४

सूक्तं ५.६५

सूक्तं ५.६६

सूक्तं ५.६७

सूक्तं ५.६८

सूक्तं ५.६९

सूक्तं ५.७०

सूक्तं ५.७१

सूक्तं ५.७२

सूक्तं ५.७३

सूक्तं ५.७४

सूक्तं ५.७५

सूक्तं ५.७६

सूक्तं ५.७७

सूक्तं ५.७८

सूक्तं ५.७९

सूक्तं ५.८०

सूक्तं ५.८१

सूक्तं ५.८२

सूक्तं ५.८३

सूक्तं ५.८४

सूक्तं ५.८५

सूक्तं ५.८६

सूक्तं ५.८७

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_५.५६&oldid=199645" इत्यस्माद् प्रतिप्राप्तम्