ऋग्वेदः सूक्तं ५.१८
← सूक्तं ५.१७ | ऋग्वेदः - मण्डल ५ सूक्तं ५.१८ द्वितो मृक्तवाहा आत्रेयः |
सूक्तं ५.१९ → |
दे. अग्निः। अनुष्टुप्, ५ पङ्क्तिः |
प्रातरग्निः पुरुप्रियो विश स्तवेतातिथिः ।
विश्वानि यो अमर्त्यो हव्या मर्तेषु रण्यति ॥१॥
द्विताय मृक्तवाहसे स्वस्य दक्षस्य मंहना ।
इन्दुं स धत्त आनुषक्स्तोता चित्ते अमर्त्य ॥२॥
तं वो दीर्घायुशोचिषं गिरा हुवे मघोनाम् ।
अरिष्टो येषां रथो व्यश्वदावन्नीयते ॥३॥
चित्रा वा येषु दीधितिरासन्नुक्था पान्ति ये ।
स्तीर्णं बर्हिः स्वर्णरे श्रवांसि दधिरे परि ॥४॥
ये मे पञ्चाशतं ददुरश्वानां सधस्तुति ।
द्युमदग्ने महि श्रवो बृहत्कृधि मघोनां नृवदमृत नृणाम् ॥५॥
सायणभाष्यम्
‘प्रातरग्निः' इति पञ्चर्चं चतुर्थं सूक्तम् । अत्रेयमनुक्रमणिका - प्रातर्मृक्तवाहा द्वितः' इति । मृक्तवाहा इति विशेषणविशिष्ट आत्रेयो द्वित ऋषिः। ‘ पङ्क्त्यन्तं हि ' इति हिशब्दादस्यापि सूक्तस्य पञ्चमी पङ्क्तिः । पङ्क्त्यन्तपरिभाषया शिष्टा अनुष्टभः । उक्तो विनियोगः प्रातरनुवाकाश्विनशस्त्रयोः ॥
प्रा॒तर॒ग्निः पु॑रुप्रि॒यो वि॒शः स्त॑वे॒ताति॑थिः ।
विश्वा॑नि॒ यो अम॑र्त्यो ह॒व्या मर्ते॑षु॒ रण्य॑ति ॥१
प्रा॒तः । अ॒ग्निः । पु॒रु॒ऽप्रि॒यः । वि॒शः । स्त॒वे॒त॒ । अति॑थिः ।
विश्वा॑नि । यः । अम॑र्त्यः । ह॒व्या । मर्ते॑षु । रण्य॑ति ॥१
प्रातः । अग्निः । पुरुऽप्रियः । विशः । स्तवेत । अतिथिः ।
विश्वानि । यः । अमर्त्यः । हव्या । मर्तेषु । रण्यति ॥१
“पुरुप्रियः बहुप्रियः “विशः यजमाने धनस्य निवेशकः "अतिथिः । यजमानानां गृहान्प्रति तिथिष्वभ्येतीत्यतिथिः । तथाह यास्कः- ‘ अतिथिरभ्यतितो गृहान्भवत्यभ्येति तिथिषु परकुलानीति वा परगृहाणीति वा ' ( निरु. ४. ५) इति । एवंविधः "अग्निः "प्रातः "स्तवेत स्तूयते । "अमर्त्यः अमरणधर्मा "यः अग्निः “मर्तेषु मनुष्येषु यजमानेषु स्थितानि “विश्वानि सर्वाणि "हव्या हव्यानि हवींषि “रण्यति कामयते ॥
द्वि॒ताय॑ मृ॒क्तवा॑हसे॒ स्वस्य॒ दक्ष॑स्य मं॒हना॑ ।
इन्दुं॒ स ध॑त्त आनु॒षक्स्तो॒ता चि॑त्ते अमर्त्य ॥२
द्वि॒ताय॑ । मृ॒क्तऽवा॑हसे । स्वस्य॑ । दक्ष॑स्य । मं॒हना॑ ।
इन्दु॑म् । सः । ध॒त्ते॒ । आ॒नु॒षक् । स्तो॒ता । चि॒त् । ते॒ । अ॒म॒र्त्य॒ ॥२
द्विताय । मृक्तऽवाहसे । स्वस्य । दक्षस्य । मंहना ।
इन्दुम् । सः । धत्ते । आनुषक् । स्तोता । चित् । ते । अमर्त्य ॥२
हे अग्ने "द्विताय द्वितपुत्राय “मृक्तवाहसे। मृक्तं शुद्धं हविर्देवेभ्यो वहति प्रापयतीति मृक्तवाहाः । तस्मै "स्वस्य आत्मीयस्य "दक्षस्य बलस्य धनस्य वा “मंहना मंहनायै दानाय भव । हे "अमर्त्य नित्याग्ने यतः कारणात् "ते तुभ्यं "सः मृक्तवाहाः "आनुषक् सर्वदानुषक्तम् "इन्दुं सोमं “धत्ते धारयति “स्तोता “चित् स्तोता च भवति ॥
तं वो॑ दी॒र्घायु॑शोचिषं गि॒रा हु॑वे म॒घोना॑म् ।
अरि॑ष्टो॒ येषां॒ रथो॒ व्य॑श्वदाव॒न्नीय॑ते ॥३
तम् । वः॒ । दी॒र्घायु॑ऽशोचिषम् । गि॒रा । हु॒वे॒ । म॒घोना॑म् ।
अरि॑ष्टः । येषा॑म् । रथः॑ । वि । अ॒श्व॒ऽदा॒व॒न् । ईय॑ते ॥३
तम् । वः । दीर्घायुऽशोचिषम् । गिरा । हुवे । मघोनाम् ।
अरिष्टः । येषाम् । रथः । वि । अश्वऽदावन् । ईयते ॥३
हे अग्ने "दीर्घायुशोचिषं दीर्घगमनदीप्तिं "तं "वः । पूजायां बहुवचनम् । त्वां “मघोनां धनिनां कृते "गिरा स्तोत्रेण "हुवे आह्वयामि । हे "अश्वदावन् अश्वानां दातः "येषां धनिनां “रथः युद्धेषु “अरिष्टः शत्रुभिरहिंसितः "वि “ईयते विगच्छतु ॥
चि॒त्रा वा॒ येषु॒ दीधि॑तिरा॒सन्नु॒क्था पान्ति॒ ये ।
स्ती॒र्णं ब॒र्हिः स्व॑र्णरे॒ श्रवां॑सि दधिरे॒ परि॑ ॥४
चि॒त्रा । वा॒ । येषु॑ । दीधि॑तिः । आ॒सन् । उ॒क्था । पान्ति॑ । ये ।
स्ती॒र्णम् । ब॒र्हिः । स्वः॑ऽनरे । श्रवां॑सि । द॒धि॒रे॒ । परि॑ ॥४
चित्रा । वा । येषु । दीधितिः । आसन् । उक्था । पान्ति । ये ।
स्तीर्णम् । बर्हिः । स्वःऽनरे । श्रवांसि । दधिरे । परि ॥४
"येषु ऋत्विक्षु "चित्रा नानाविधा "दीधितिः यज्ञविषया क्रिया भवति । "ये "आसन् आस्ये “उक्था उक्थानि स्तोत्राणि "पान्ति रक्षन्ति तैर्ऋत्विग्भिः “स्तीर्णं स्तीर्णस्य "बर्हिः बर्हिषः “परि उपरि “श्रवांसि अन्नानि हवींषि "स्वर्णरे । स्वः स्वर्गं नरं यजमानं नयतीति स्वर्णरो यज्ञः । तस्मिन् “दधिरे निधीयन्ते ॥
ये मे॑ पञ्चा॒शतं॑ द॒दुरश्वा॑नां स॒धस्तु॑ति ।
द्यु॒मद॑ग्ने॒ महि॒ श्रवो॑ बृ॒हत्कृ॑धि म॒घोनां॑ नृ॒वद॑मृत नृ॒णाम् ॥५
ये । मे॒ । प॒ञ्चा॒शत॑म् । द॒दुः । अश्वा॑नाम् । स॒धऽस्तु॑ति ।
द्यु॒ऽमत् । अ॒ग्ने॒ । महि॑ । श्रवः॑ । बृ॒हत् । कृ॒धि॒ । म॒घोना॑म् । नृ॒ऽवत् । अ॒मृ॒त॒ । नृ॒णाम् ॥५
ये । मे । पञ्चाशतम् । ददुः । अश्वानाम् । सधऽस्तुति ।
द्युऽमत् । अग्ने । महि । श्रवः । बृहत् । कृधि । मघोनाम् । नृऽवत् । अमृत । नृणाम् ॥५
"ये मघवानो दातारः “मे मह्यं "सधस्तुति स्तुत्या सहितं त्वत्स्तोत्रसमनन्तरम् अश्वानां “पञ्चाशतं "ददुः हे "अमृत "अग्ने त्वं तेषां "मघोनां "नृणां “द्युमत् दीप्तिमत् "महि महत् “बृहत् परिवृढं "नृवत् परिचारकमनुष्ययुक्तं “श्रवः अन्नं "कृधि कुरु देहीत्यर्थः ॥ ॥ १० ॥
टिप्पणी
५.१८.१ प्रातरग्निः पुरुप्रियो इति
द्र. कौमुदस्य साम
मण्डल ५ | ||||
---|---|---|---|---|