← सूक्तं ५.३४ ऋग्वेदः - मण्डल ५
सूक्तं ५.३५
प्रभूवसुराङ्गिरसः
सूक्तं ५.३६ →
दे. इन्द्रः। अनुष्टुप्,८ पङ्क्तिः।


यस्ते साधिष्ठोऽवस इन्द्र क्रतुष्टमा भर ।
अस्मभ्यं चर्षणीसहं सस्निं वाजेषु दुष्टरम् ॥१॥
यदिन्द्र ते चतस्रो यच्छूर सन्ति तिस्रः ।
यद्वा पञ्च क्षितीनामवस्तत्सु न आ भर ॥२॥
आ तेऽवो वरेण्यं वृषन्तमस्य हूमहे ।
वृषजूतिर्हि जज्ञिष आभूभिरिन्द्र तुर्वणिः ॥३॥
वृषा ह्यसि राधसे जज्ञिषे वृष्णि ते शवः ।
स्वक्षत्रं ते धृषन्मनः सत्राहमिन्द्र पौंस्यम् ॥४॥
त्वं तमिन्द्र मर्त्यममित्रयन्तमद्रिवः ।
सर्वरथा शतक्रतो नि याहि शवसस्पते ॥५॥
त्वामिद्वृत्रहन्तम जनासो वृक्तबर्हिषः ।
उग्रं पूर्वीषु पूर्व्यं हवन्ते वाजसातये ॥६॥
अस्माकमिन्द्र दुष्टरं पुरोयावानमाजिषु ।
सयावानं धनेधने वाजयन्तमवा रथम् ॥७॥
अस्माकमिन्द्रेहि नो रथमवा पुरंध्या ।
वयं शविष्ठ वार्यं दिवि श्रवो दधीमहि दिवि स्तोमं मनामहे ॥८॥


सायणभाष्यम्

यस्ते साधिष्ठः' इत्यष्टर्चं तृतीयं सूक्तम् । अङ्गिरोगोत्रः प्रभूवसुर्नाम ऋषिः । अन्त्या पङ्क्तिः । पङ्क्त्यन्तपरिभाषया शिष्टा अनुष्टुभः । इन्द्रो देवता । ' यस्तेऽष्टौ प्रभूवसुराङ्गिरसः पङ्क्त्यन्तम् ' इत्यनुक्रान्तम् । सूक्तविनियोगो लैङ्गिकः । आभिप्लविकेषूक्थ्येषु तृतीयसवने आद्यस्तृचोऽच्छावाकस्य वैकल्पिकोऽनुरूपः । सूत्रितं च -- यस्ते साधिष्ठोऽवसे पुरां भिन्दुर्युवा कविः ' ( आश्व. श्रौ. ७. ८) इति । द्वितीयतृतीययोः स्वरसाम्नोश्चाद्यौ तृचावनुरूपौ। “यस्ते साधिष्ठोऽवस इति षळनुष्टुभः ' ( आश्व. श्रौ. ८. ५) इति हि सूत्रितम् ॥


यस्ते॒ साधि॒ष्ठोऽव॑स॒ इंद्र॒ क्रतु॒ष्टमा भ॑र ।

अ॒स्मभ्यं॑ चर्षणी॒सहं॒ सस्निं॒ वाजे॑षु दु॒ष्टरं॑ ॥१

यः । ते॒ । साधि॑ष्ठः । अव॑से । इन्द्र॑ । क्रतुः॑ । तम् । आ । भ॒र॒ ।

अ॒स्मभ्य॑म् । च॒र्ष॒णि॒ऽसह॑म् । सस्नि॑म् । वाजे॑षु । दु॒स्तर॑म् ॥१

यः । ते । साधिष्ठः । अवसे । इन्द्र । क्रतुः । तम् । आ । भर ।

अस्मभ्यम् । चर्षणिऽसहम् । सस्निम् । वाजेषु । दुस्तरम् ॥१

हे “इन्द्र "ते तव "यः “साधिष्ठः अतिशयेन साधकः “क्रतुः उक्तलक्षणं कर्म प्रज्ञा वास्ति “तं क्रतुं नः “अवसे अस्मद्रक्षणाय “अस्मभ्यम् “आ “भर आहर । कीदृशं तम् । “चर्षणीसहं सर्वेषां मनुष्याणामभिभवितारं "सस्निं संस्नातं शुद्धं “वाजेषु संग्रामेषु "दुष्टरम् अन्यैरनभिभाव्यम् ॥


यदिं॑द्र ते॒ चत॑स्रो॒ यच्छू॑र॒ संति॑ ति॒स्रः ।

यद्वा॒ पंच॑ क्षिती॒नामव॒स्तत्सु न॒ आ भ॑र ॥२

यत् । इ॒न्द्र॒ । ते॒ । चत॑स्रः । यत् । शू॒र॒ । सन्ति॑ । ति॒स्रः ।

यत् । वा॒ । पञ्च॑ । क्षि॒ती॒नाम् । अवः॑ । तत् । सु । नः॒ । आ । भ॒र॒ ॥२

यत् । इन्द्र । ते । चतस्रः । यत् । शूर । सन्ति । तिस्रः ।

यत् । वा । पञ्च । क्षितीनाम् । अवः । तत् । सु । नः । आ । भर ॥२

हे “इन्द्र "ते तव “यत् या ऊतयः “चतस्रः चतुर्षु वर्णेषु संश्रिताः “सन्ति “यत् याश्च हे “शूर “तिस्रः त्रिषु लोकेषु वर्तमानाः “यद्वा । वाशब्दश्चार्थे । यत् याश्च “पञ्च क्षितीनां पञ्चजनसंबन्धिन्य ऊतयः सन्ति “तत् सर्वम् “अवः रक्षणं "सु सुष्ठु “नः अस्मभ्यम् "आ “भर आहरेति ॥


आ तेऽवो॒ वरे॑ण्यं॒ वृषं॑तमस्य हूमहे ।

वृष॑जूति॒र्हि ज॑ज्ञि॒ष आ॒भूभि॑रिंद्र तु॒र्वणिः॑ ॥३

आ । ते॒ । अवः॑ । वरे॑ण्यम् । वृष॑न्ऽतमस्य । हू॒म॒हे॒ ।

वृष॑ऽजूतिः । हि । ज॒ज्ञि॒षे । आ॒ऽभूभिः॑ । इ॒न्द्र॒ । तु॒र्वणिः॑ ॥३

आ । ते । अवः । वरेण्यम् । वृषन्ऽतमस्य । हूमहे ।

वृषऽजूतिः । हि । जज्ञिषे । आऽभूभिः । इन्द्र । तुर्वणिः ॥३

हे "इन्द्र “वृषन्तमस्य फलानां वर्षकतमस्य "ते तव "अवः रक्षणं गमनं वा “वरेण्यं वरणीयम् “आ “हूमहे आह्वयामः । हे इन्द्र "वृषजूतिः वर्षणगमनः "तुर्वणिः तूर्णवनिर्हिंसको वा त्वम् “आभूभिः सर्वतो भवद्भिर्व्याप्तैर्मरुद्भिः सह अवः “हि “जज्ञिषे उत्पादयसि खलु । तेऽव आह्वयाम इति । यद्वा । वृषगमनः सन् यस्माद्यज्ञमागत्य फलं जज्ञिषे तस्मात्तेऽवो हूमह इति ।।


वृषा॒ ह्यसि॒ राध॑से जज्ञि॒षे वृष्णि॑ ते॒ शवः॑ ।

स्वक्ष॑त्रं ते धृ॒षन्मनः॑ सत्रा॒हमिं॑द्र॒ पौंस्यं॑ ॥४

वृषा॑ । हि । असि॑ । राध॑से । ज॒ज्ञि॒षे । वृष्णि॑ । ते॒ । शवः॑ ।

स्वऽक्ष॑त्रम् । ते॒ । धृ॒षत् । मनः॑ । स॒त्रा॒ऽहम् । इ॒न्द्र॒ । पौंस्य॑म् ॥४

वृषा । हि । असि । राधसे । जज्ञिषे । वृष्णि । ते । शवः ।

स्वऽक्षत्रम् । ते । धृषत् । मनः । सत्राऽहम् । इन्द्र । पौंस्यम् ॥४

हे “इन्द्र “राधसे यजमानानां समृद्धये “वृषा “ह्यसि फलस्य वर्षकोऽसि खलु । यद्वा । वृषा खल्वसि । राधसे धनार्थं “जज्ञिषे उत्पद्यसे । “ते “शवः बलं “वृष्णि[] वर्षितृ । “ते “मनः “स्वक्षत्रं स्वायत्तबलं “धृषत् धर्षकं विरोधिनाम् । हे इन्द्र ते “पौंस्यं पुंस्त्वं “सत्राहं संघहन्तृ ॥


त्वं तमिं॑द्र॒ मर्त्य॑ममित्र॒यंत॑मद्रिवः ।

स॒र्व॒र॒था श॑तक्रतो॒ नि या॑हि शवसस्पते ॥५

त्वम् । तम् । इ॒न्द्र॒ । मर्त्य॑म् । अ॒मि॒त्र॒ऽयन्त॑म् । अ॒द्रि॒ऽवः॒ ।

स॒र्व॒ऽर॒था । श॒त॒क्र॒तो॒ इति॑ शतऽक्रतो । नि । या॒हि॒ । श॒व॒सः॒ । प॒ते॒ ॥५

त्वम् । तम् । इन्द्र । मर्त्यम् । अमित्रऽयन्तम् । अद्रिऽवः ।

सर्वऽरथा । शतक्रतो इति शतऽक्रतो । नि । याहि । शवसः । पते ॥५

हे “इन्द्र “त्वं “तम् "अमित्रयन्तं शत्रुत्वमाचरन्तं शत्रुं वेच्छन्तं “मर्त्यं हे “अद्रिवः वज्रवन्निन्द्र “सर्वरथा सर्वत्र व्याप्तेन रथेन ॥ ‘सुपां सुलुक् ' इत्याकारः ॥ हे “शतक्रतो हे “शवसस्पते बलस्य पालक “नि “याहि नितरां गच्छाभिभवितुम् ॥ ॥ ५ ॥


त्वामिद्वृ॑त्रहंतम॒ जना॑सो वृ॒क्तब॑र्हिषः ।

उ॒ग्रं पू॒र्वीषु॑ पू॒र्व्यं हवं॑ते॒ वाज॑सातये ॥६

त्वाम् । इत् । वृ॒त्र॒ह॒न्ऽत॒म॒ । जना॑सः । वृ॒क्तऽब॑र्हिषः ।

उ॒ग्रम् । पू॒र्वीषु॑ । पू॒र्व्यम् । हव॑न्ते । वाज॑ऽसातये ॥६

त्वाम् । इत् । वृत्रहन्ऽतम । जनासः । वृक्तऽबर्हिषः ।

उग्रम् । पूर्वीषु । पूर्व्यम् । हवन्ते । वाजऽसातये ॥६

हे “वृत्रहन्तम अतिशयेन शत्रूणां हन्तरिन्द्र “त्वामित् त्वामेव “जनासः जनाः “वृक्तबर्हिषः आच्छादितदर्भाः । प्रवृत्तयज्ञा इत्यर्थः । “उग्रम् उद्गूर्णबलं “पूर्वीषु बह्वीषु प्रजासु मध्ये “पूर्व्यं पुरातनं सन्तं “वाजसातये संग्रामाय “हवन्ते आह्वयन्ते ॥


अ॒स्माक॑मिंद्र दु॒ष्टरं॑ पुरो॒यावा॑नमा॒जिषु॑ ।

स॒यावा॑नं॒ धने॑धने वाज॒यंत॑मवा॒ रथं॑ ॥७

अ॒स्माक॑म् । इ॒न्द्र॒ । दु॒स्तर॑म् । पु॒रः॒ऽयावा॑नम् । आ॒जिषु॑ ।

स॒ऽयावा॑नम् । धने॑ऽधने । वा॒ज॒ऽयन्त॑म् । अ॒व॒ । रथ॑म् ॥७

अस्माकम् । इन्द्र । दुस्तरम् । पुरःऽयावानम् । आजिषु ।

सऽयावानम् । धनेऽधने । वाजऽयन्तम् । अव । रथम् ॥७

हे “इन्द्र “अस्माकं “रथं रंहणस्वभावं वा पुत्रम् “अव रक्ष । कीदृशं रथम् । “दुष्टरं दुःखेन तरणीयम् "आजिषु संग्रामेषु “पुरोयावानं पुरतो मिश्रयितारं “सयावानम् अनुचरैः सह गन्तारं “धनेधने सर्वेषु धनेषु "वाजयन्तं संग्रामं धनं वेच्छन्तम् ॥


अ॒स्माक॑मिं॒द्रेहि॑ नो॒ रथ॑मवा॒ पुरं॑ध्या ।

व॒यं श॑विष्ठ॒ वार्यं॑ दि॒वि श्रवो॑ दधीमहि दि॒वि स्तोमं॑ मनामहे ॥८

अ॒स्माक॑म् । इ॒न्द्र॒ । आ । इ॒हि॒ । नः॒ । रथ॑म् । अ॒व॒ । पुर॑म्ऽध्या ।

व॒यम् । श॒वि॒ष्ठ॒ । वार्य॑म् । दि॒वि । श्रवः॑ । द॒धी॒म॒हि॒ । दि॒वि । स्तोम॑म् । म॒ना॒म॒हे॒ ॥८

अस्माकम् । इन्द्र । आ । इहि । नः । रथम् । अव । पुरम्ऽध्या ।

वयम् । शविष्ठ । वार्यम् । दिवि । श्रवः । दधीमहि । दिवि । स्तोमम् । मनामहे ॥८

हे “इन्द्र “अस्माकम् अस्मदीय एव सन् “एहि आगच्छ । आगत्य च “पुरंध्या शोभनबुद्ध्या “नः अस्माकं “रथम् “अव रक्ष । “वयं च हे “शविष्ठ अतिशयेन बलवन् त्वदनुग्रहात् "वार्यं वरणीयं “श्रवः अन्नं कीर्तिं वा “दिवि द्योतमाने त्वयि “दधीमहि स्थापयामः । तथा “दिवि त्वयि “स्तोमं स्तोत्रं “मनामहे करवामहे इत्यर्थः ॥ ॥ ६ ॥


मण्डल ५

सूक्तं ५.१

सूक्तं ५.२

सूक्तं ५.३

सूक्तं ५.४

सूक्तं ५.५

सूक्तं ५.६

सूक्तं ५.७

सूक्तं ५.८

सूक्तं ५.९

सूक्तं ५.१०

सूक्तं ५.११

सूक्तं ५.१२

सूक्तं ५.१३

सूक्तं ५.१४

सूक्तं ५.१५

सूक्तं ५.१६

सूक्तं ५.१७

सूक्तं ५.१८

सूक्तं ५.१९

सूक्तं ५.२०

सूक्तं ५.२१

सूक्तं ५.२२

सूक्तं ५.२३

सूक्तं ५.२४

सूक्तं ५.२५

सूक्तं ५.२६

सूक्तं ५.२७

सूक्तं ५.२८

सूक्तं ५.२९

सूक्तं ५.३०

सूक्तं ५.३१

सूक्तं ५.३२

सूक्तं ५.३३

सूक्तं ५.३४

सूक्तं ५.३५

सूक्तं ५.३६

सूक्तं ५.३७

सूक्तं ५.३८

सूक्तं ५.३९

सूक्तं ५.४०

सूक्तं ५.४१

सूक्तं ५.४२

सूक्तं ५.४३

सूक्तं ५.४४

सूक्तं ५.४५

सूक्तं ५.४६

सूक्तं ५.४७

सूक्तं ५.४८

सूक्तं ५.४९

सूक्तं ५.५०

सूक्तं ५.५१

सूक्तं ५.५२

सूक्तं ५.५३

सूक्तं ५.५४

सूक्तं ५.५५

सूक्तं ५.५६

सूक्तं ५.५७

सूक्तं ५.५८

सूक्तं ५.५९

सूक्तं ५.६०

सूक्तं ५.६१

सूक्तं ५.६२

सूक्तं ५.६३

सूक्तं ५.६४

सूक्तं ५.६५

सूक्तं ५.६६

सूक्तं ५.६७

सूक्तं ५.६८

सूक्तं ५.६९

सूक्तं ५.७०

सूक्तं ५.७१

सूक्तं ५.७२

सूक्तं ५.७३

सूक्तं ५.७४

सूक्तं ५.७५

सूक्तं ५.७६

सूक्तं ५.७७

सूक्तं ५.७८

सूक्तं ५.७९

सूक्तं ५.८०

सूक्तं ५.८१

सूक्तं ५.८२

सूक्तं ५.८३

सूक्तं ५.८४

सूक्तं ५.८५

सूक्तं ५.८६

सूक्तं ५.८७

  1. वृष्णि उपरि टिप्पणी
"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_५.३५&oldid=330238" इत्यस्माद् प्रतिप्राप्तम्